स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०३२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


॥ सूत उवाच ॥ ॥
तथान्योऽस्ति द्विजश्रेष्ठास्तस्मिन्क्षेत्रे शुभावहे ॥
सप्तर्षीणां सुविख्यात आश्रमः सर्वकामदः ॥ १ ॥
तत्र श्रावणमासस्य पंचदश्यां समाहितः ॥
यः करोति नरः स्नानं स लभेद्वांछितं फलम् ॥ २ ॥
कन्दमूलफलैः शाकैर्यस्तत्र श्राद्धमाचरेत् ॥
स प्राप्नोति फलं कृत्स्नं राजसूयाश्वमेधयोः ॥ ३ ॥
पंचम्यां शुक्लपक्षे तु मासि भाद्रपदे द्विजाः ॥
यस्तान्पूजयते भक्त्या पुष्पधूपानुलेपनैः ॥
विधिनानेन विप्रेन्द्राः सर्वानेव यथाक्रमम् ॥ ४ ॥
ॐ अत्रये नमः ॥
ॐ वसिष्ठाय नमः ॥
ॐ कश्यपाय नमः ॥
ॐ भरद्वाजाय नमः ॥
ॐ गौतमाय नमः ॥
ॐ कौशिकाय नमः ॥
ॐ जमदग्नये नमः ॥
ॐ अरुंधत्यै नमः ॥
॥ पूजामंत्रः ॥ ॥
जह्नुकन्यापवित्रांगा गृहीतजपमालिकाः ॥
गृह्णंत्वर्घं मया दत्तमृषयः सर्वकामदाः ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
तत्र सप्तर्षिभिस्तीर्थं कस्मिन्काले व्यवस्थितम् ॥
विस्तरात्सूतज ब्रूहि परं कौतूहलं हि नः ॥ ६ ॥
॥ सूत उवाच ॥ ॥
अनावृष्टिः पुरा जाता लोके द्वादशवार्षिकी ॥
सर्वोषधिक्षयो जातस्ततो लोकाः क्षयार्दिताः ॥ ७ ॥
अस्थिशेषा निरुत्साहास्त्यक्तधर्मव्रतक्रियाः ॥
अभक्ष्यभक्षणपरास्तथैवापेयपायिनः ॥ ८ ॥
त्यजंति मातरः पुत्रान्कलत्राणि तथा नराः ॥
भृत्यान्स्वानपि वित्तेशाः का कथान्यसमुद्भवान् ॥ ९ ॥
संत्यक्तान्यग्निहोत्राणि ब्राह्मणैर्याजकैरपि ॥
व्रतानि व्रतिभिर्दांतैरपि वृद्धतमैर्द्विजाः ॥ ६.३२.१० ॥
दृश्यते चैव यत्रैव सस्यं वापि कथंचन ॥
ह्रियते लज्जया हीनैस्तत्र क्षुत्क्षामकैर्नरैः ॥ ११ ॥
एवमन्नक्षये जाते पीडिते धरणीतले ॥
सप्तर्षयः क्षुधाविष्टा बभ्रमुस्तत्रतत्र च॥ १२ ॥
अत्रिश्चैव वसिष्ठश्च कश्यपः सुमहातपाः ॥
भरद्वाजस्तथा चान्यो गौतमः संशितव्रतः॥
कौशिको जमदग्निश्च तथैवारुंधती सती ॥ १३ ॥
अथ तेषां समस्तानां चंडाभूत्परिचारिका ॥
पशुवक्त्रस्तथा भृत्यो विनयेन समवितः ॥ १४ ॥
ततस्ते विषयं प्राप्ता वृषादर्भिमहीपतेः ॥
क्षुत्क्षामा मुनयोऽत्यर्थं देशे चानर्तसंज्ञके ॥ १५ ॥
तत्र भिक्षाकृते भ्रांतास्ततश्चैव गृहाद्गृहम् ॥
न ग्रासमपि सस्यस्य प्राप्नुवंस्ते द्विजोत्तमाः ॥।६॥
ततस्तैः पतितो भूमौ दृष्टो मृतकुमारकः ॥
मंत्रयित्वा मिथः पश्चाद्गृहीतो भक्षणाय च ॥ १७ ॥
अपचन्यावदग्नौ तं क्षुधया परिपीडिताः ॥
वृषादर्भिर्नृपः प्राप्तः श्रुत्वा तेषां विचेष्टितम् ॥ १८ ॥
॥ वृषादर्भिरुवाच ॥ ॥
किमिदं गर्हितं कर्म क्रियते मुनिसत्तमाः ॥
राक्षसानामयं धर्मो महामांसस्य भक्षणम् ॥ १९ ॥
सोऽहं सस्यं प्रदास्यामि ग्रामान्व्रीहीन्यवानपि॥
मम वाक्यादसंदिग्धं त्यजर्ध्वं मृतबालकम् ॥ ६.३२.२० ॥
॥ ऋषय ऊचुः ॥ ॥
प्रायश्चित्तं समादिष्टं महामांसस्य भक्षणात् ॥
प्रतिग्रहस्य भूपाला दापत्कालेऽपि नो नृप ॥ २१ ॥
पश्चात्तपश्चरिष्यामो महामांससमुद्भवम् ॥
पातकं नाशयिष्यामो भक्षयामो वयं ततः ॥ २२ ॥
॥ वृषादर्भि रुवाच ॥ ॥
प्रतिग्रहो द्विजातीनां प्रोक्ता वृत्तिरनिंदिता ॥
ग्राह्यो मत्तस्ततः सर्वैर्नात्र कार्या विचारणा ॥ २३ ॥
॥ ऋषय ऊचुः ॥ ॥
राज प्रतिग्रहो घोरो मध्वास्वादो विषोपमः ॥
स दूराद्ब्राह्मणैस्त्याज्यो विशेषात्कृतिभिर्नृप ॥ २४ ॥
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ॥
दश ध्वजिसमा वेश्या दशवेश्यासमो नृपः ॥ २५ ॥
दशसूनासहस्रेण तुल्यो राजप्रतिग्रहः ॥
कस्तस्य प्रतिगृह्णाति लोभाढ्यो ब्राह्मणो यथा ॥ २६ ॥
रौरवादिषु सर्वेषु नरकेषु स पच्यते ॥
तस्माद्गच्छ गृहे भूप स्वस्ति तेऽस्तु सदैव हि ॥ २७ ॥
वयमन्यत्र यास्यामो ग्रहीष्यामो न ते धनम् ॥
एवमुक्त्वाथ ते सर्वे मुनयः शंसितव्रताः ॥ २८ ॥
परित्यज्य कुमारं तं मृतं तमपि भूमिपम् ॥
चमत्कारपुरं क्षेत्रं समुद्दिश्य ततो ययुः ॥ २९ ॥
सोऽपि राजा ततस्तैस्तु भर्त्सितोऽतिरुषान्वितः ॥
जिज्ञासार्थं ततस्तेषां चक्रे कर्म द्विजोत्तमाः ॥ ६.३२.३० ॥
ततः सुवर्णपूर्णानि विधायोदुम्बराणि च ॥
तेषां मार्गाग्रतो भूमौ समंतादथ चाक्षिपत् ॥ ३१ ॥
॥ सूत उवाच ॥ ॥
अथ ते मुनयो दृष्ट्वा पतितानि धरातले ॥
उदुम्बराणि संदृष्ट्वा जगृहुः क्षुधयार्दिताः ॥ ३२ ॥
अथ तानि समालक्ष्य गुरूणि मुनिसत्तमाः ॥
अत्रिरेकं परिस्फोट्य सुवर्णं वीक्ष्य चाब्रवीत्॥३३॥ ॥
॥ अत्रिरुवाच ॥ ॥
नास्माकं मुनयोऽज्ञानं नास्माकं गृहबुद्धयः ॥
हैमानिमान्विजानंतो ग्रहीष्याम उदुम्बरान् ॥ ३४ ॥
तस्मादेतानि संत्यज्य हेमगर्भाणि दूरतः ॥
उदुम्बराणि यास्यामः फलानि विगतस्पृहाः ॥ ३५ ॥
सार्वभौमो महीपाल एकोऽन्यश्च निरीहकः ॥
सुभगस्तु तयोर्नित्यं भूयाद्भूयो निरीहकः ॥ ३६ ॥
धर्मार्थमपि विप्राणां संचयोऽर्थस्य गर्हितः ॥
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम् ॥ ॥ ३७ ॥
त्यजतः संचयान्सर्वान्यांति हानिमुपद्रवाः ॥
न हि सर्वार्थवान्कश्चिद्दृश्यते निरुपद्रवः ॥ ३८ ॥
निर्धनत्वं तथा राज्यं तुलायां धारयेद्बुधः ॥
अकिंचनत्वमधिकं जायते संमतिर्मम ॥ ३९ ॥
॥ कश्यप उवाच ॥ ॥
अनर्थोऽयं मुने प्राप्तो यदर्थस्य परिग्रहः ॥
अर्थैश्वर्यविमूढात्मा श्रेयसा मुच्यते हि सः ॥ ६.३२.४० ॥
अर्थसंपद्विमोहाय विमोहो नरकाय च ॥
तस्मादर्थं प्रयत्नेन श्रेयोऽर्थी दूरतस्त्यजेत् ॥ ॥४१ ॥
योर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः ॥
यः पुनस्तपसा साध्यः स मोक्षायेति मे मतिः ॥ ४२ ॥
॥ भरद्वाज उवाच ॥ ॥
जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः ॥
चक्षुः श्रोत्रे तथा पुंसस्तृष्णैका तरुणायते ॥ ४३ ॥
सूच्या सूत्रं यथा वस्त्रं संचारयति सूचिका ॥
तद्वत्संसारसूत्रं च वांछयात्मा नयत्यसौ ॥। ४४ ॥
यथा शृंगं हि कायेन वर्द्धमानेन वर्धते।
तद्वत्तृष्णापि वित्तेन वर्द्धमानेन वर्द्धते॥४५॥
अनंतपारा दुष्पूरा तृष्णा दुःखशतावहा॥
अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्॥४६॥
गौतम उवाच॥
संतुष्टः केन चाल्योऽस्ति फलैरपि विवर्जितः॥
सर्वोपीन्द्रियलौल्येन संकटे भ्रमति द्विजाः॥४७॥
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम्॥
उपानद्गूढपादस्य ननु चर्मास्तृतेव भूः॥४८॥
संतोषामृततृप्तानां यत्सुखं शांतचेतसाम् ॥
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ४९ ॥
असंतोषः परं दुःखं संतोषः परमं सुखम् ॥
सुखार्थी पुरुषस्तस्मात्संतुष्टः सततं भवेत् ॥ ६.३२.५० ॥
॥ विश्वामित्र उवाच ॥ ॥
कामं कामयमानस्य यदि कामः स सिध्यति ॥
तथान्यो जायते पुंसस्तत्क्षणादेव कल्पितः ॥ ५१ ॥
 न जातु कामी कामानां सहस्रैरपि तुष्यति ॥
हविषा कृष्णवर्त्मेव वांछा तस्य विवर्धते ॥ ॥५२ ॥
कामानभिलषन्मोहान्न नरः सुखमाप्नुयात् ॥
श्येनालयतरुच्छायां व्रजन्निव कपिञ्जलः ॥ ५३ ॥
नित्यं सागरपर्यन्तां यो भुङ्क्ते पृथिवीमिमाम् ॥
तुल्याश्मकाश्चनश्चैव स कृतार्थो महीपतेः ॥ ५४ ॥
॥ जमदग्निरुवाच ॥ ॥
योऽर्थं प्राप्याधमो विप्रः शोचितव्येपि हृष्यति ॥
न च पश्यति मन्दात्मा नरकं चा कुतोभयः॥ ५५ ॥
प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात् ॥
य एव ददतां लोकास्त एवाप्रतिगृह्णताम्॥५६॥
अरुन्धत्युवाच॥
बिसतंतुर्यथाऽनन्तो नालमासाद्य संस्थितः॥
तृष्णा चैवमनाद्यन्ता स्थिता देहे शरीरिणाम्॥५७॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः॥
याऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥५८॥
चण्डोवाच॥ सर्पादिवद्धनाद्यस्माद्बिभ्यतीमे ममेश्वराः ॥
यतस्ततो विशेषेण कस्मात्तस्माद्भयं मम ॥५६॥ ॥
पशुमुख उवाच॥ यदाचरन्ति विद्वांसः सदा धर्मपरायणाः।.
तदेव विदुषा कार्यमात्मनो हितमिच्छता॥६.३२.६०॥
सूत उवाच॥
इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि च॥
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः ॥६॥।
चमत्कारपुरेक्षेत्रे विविशुस्ते ततः परम् ॥
ददृशुः सहसा प्राप्तं परिव्राजं शुनोमुखम् ॥ ६२ ॥
तेनैव सहितास्तत्र गत्वा किञ्चिद्वनान्तरम्॥
दृष्टवन्तस्ततो हृद्यं सरः पंकजशोभितम् ॥ ६३ ॥
ततो बुभुक्षयाविष्टा बिसान्यादाय भूरिशः ॥
तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जल क्रियाम् ॥ ६४ ॥
अथोत्तीर्यजलात्सर्वे ते समेत्य परस्परम् ॥
बिसानि तान्यपश्यन्त इदं वचनमब्रुवन् ॥ ६५ ॥
॥ऋषय ऊचुः ॥ ॥
केन क्षुधाभितप्तानामस्माकं निर्दयात्मना ॥
मृणालानि समस्तानि स्थानादस्माद्धृतानि च ॥ ६६ ॥
ते शंकमाना अन्योन्यमृषयः शंसितव्रताः ॥
प्रचक्रुः शपथान्रौद्रानात्मनः प्रविशुद्धये ॥ ६७ ॥
॥ कश्यप उवाच ॥ ॥
सर्वभक्षः सदा सोऽस्तु न्यासलोभं करोतु वा ॥
कूटसाक्षित्वमभ्ये तु बिसस्तैन्यं करोति यः ॥ ६८ ॥
धर्मं करोतु दंभेन राजानं चोपसेवताम् ॥
मधुमांसं सदाश्नातु बिसस्तैन्यं करोति यः ॥ ६९ । ॥
॥ वसिष्ठ उवाच ॥ ॥
अनृतौ मैथुनं यातु दिवा वाप्यथ पर्वणि ॥
अतिथिः स्यात्ततोऽन्योन्यं बिसस्तैन्यं करोति यः ॥ ६.३२.७० ॥ ॥
॥ भरद्वाज उवाच ॥ ॥
योधिगम्य गुरोः शास्त्रं निष्क्रयं न प्रयच्छति ॥
तस्यैनसा स युक्तोस्तु बिसस्तैन्यं करोति यः ॥ ७१ ॥
नृशंसोऽस्तु स सर्वत्र समृद्ध्या चाप्यहंकृतः ॥
मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः ॥ ७२ ॥
॥ विश्वामित्र उवाच ॥ ॥
एकाकी मृष्टम श्नातु प्रशंस्यादथ चात्मनः ॥
वेदविक्रयकर्तास्तु बिसस्तैन्यं करोति यः ॥ ७३ ॥
॥ जमदग्निरुवाच ॥ ॥
कन्यां यच्छतु वृद्धाय स भूयाद्वृषली पतिः ॥
अस्तु वार्धुषिको नित्यं बिसस्तैन्यं करोति यः ॥ ७४
॥ गौतम उवाच ॥ ॥
स गृह्णात्वविकादानं करोतु हयविक्रयम्॥
प्रकरो तु गुरोर्निंदां बिसस्तैन्यं करोति यः ॥७५ ॥
॥ अत्रिरुवाच ॥ ॥
मातरं पितरं नित्यं दुर्मतिः सोऽवमन्यताम् ॥
शूद्रं पृच्छतु धर्मार्थं बिसस्तैन्यं करोति यः ॥ ७६ ॥
प्रतिश्रुत्य न यो दद्याद्ब्राह्मणाय गवादिकम् ॥
तस्यैनसा स युज्येत बिसस्तैन्यं करोति यः ॥-७७ ॥
॥ अरुंधत्युवाच ॥ ॥
करोतु पत्युः पूर्वं सा भोजनं शयनं तथा ॥
नारी दुष्टसमाचारा बिसस्तैन्यं करोति या ॥ ७८ ॥
॥ चण्डोवाच ॥ ॥
स्वामिनः प्रतिकूलास्तु धर्मद्वेषं करोतु च॥
साधुद्वेषपरा चैव बिसस्तैन्यं करोति या ॥ ७९ ॥
पशुमुख उवाच ॥ ॥
स्वामिद्रोहरतो नित्यं स भूयात्पापकृन्नरः ॥
साधु द्वेषपरश्चैव बिसस्तैन्यं करोति यः ॥ ६.३२.८० ॥
॥ शुनोमुख उवाच ॥ ॥
वेदान्स पठतु न्यायाद्गृहस्थः स्यात्प्रियातिथिः ॥
सत्यं वदतु चाजस्रं बिसस्तैन्यं करोति यः ॥ ८१ ॥
॥ ऋषय ऊचुः ॥ ॥
इष्ट एव द्विजातीनां यस्त्वया शपथः कृतः ॥
बिसस्तैन्यं हि चास्माकं तन्नूनं भवता कृतम् ॥ ८२ ॥
॥ शुनोमुख उवाच ॥ ॥
मया हृतानि सर्वेषां बिसानीमानि वो द्विजाः ॥
धर्मान्वै श्रोतुकामेन मां जानीत पुरंदरम् ॥ ८३ ॥
युष्माकं परितुष्टोऽस्मि लोभाभावाद्द्विजोत्तमाः ॥
तस्मात्स्वर्गं मया सार्द्धं शीघ्रमागम्यतामिति ।ा ८४ ॥
॥ ऋषय ऊचुः ॥ ॥
मोक्षमार्गं समासक्ता न वयं स्वर्गलिप्सवः ॥
तस्मात्तपश्चरिष्यामः सरसीह विमुक्तये ॥ ८५ ॥
पूर्णा सागरपर्यंतां चरित्वा पृथिवी मिमाम् ॥
प्राणयात्रां प्रकुर्वाणा मृणालैर्मुनिसत्तमाः ॥
तस्माद्गच्छ तव श्रेयो भूयादस्मात्समागमात् ॥ ८६ ॥
॥ शक्र उवाच ॥ ॥
न वृथा दर्शनं मे स्यात्कदाचिदपि सुव्रताः ॥
तस्माद्गृह्णीत यच्चित्ते सदाभीष्टं व्यवस्थितम् ॥ ८७ ॥
॥ ऋषय ऊचुः ॥ ॥ ,
आश्रमोऽयं सुविख्यातो भूयाच्छक्र महीतले ॥
नाम्नास्माकं तथा नृणां सर्वपातकनाशनः ॥ ८८ ॥
वयं स्थास्यामहे नित्यमत्रैव सुरसत्तम ॥
तपोऽर्थं भावितात्मानो यावन्मोक्षगतिर्ध्रुवा ॥ ८९ ॥
॥ इन्द्र उवाच ॥ ॥
त्रैलोक्येऽपि सुविख्यात आश्रमो वो भविष्यति ॥
तथा कामप्रदश्चैव लोकानां संभविष्यति ॥ ६.३२.९० ॥
यो यं काममभिध्याय श्राद्धमत्र करिष्यति ॥
श्रावणे पौर्णमास्यां च स तं सर्वमवा प्स्यति ॥ ९१ ॥
निष्कामो वा नरो यस्तु श्राद्धं दानमथापि वा ॥
प्रकरिष्यति मोक्षं स समवाप्स्यत्यसंशयम् ॥ ९२ ॥
ये चात्र देहं त्यक्ष्यंति युष्माकं चाश्रमे शुभे ॥
अपि पापसमायुक्तास्ते यास्यंति परां गतिम् ॥ ९३ ॥
इंगुदैर्बदरैर्वापि बिल्वैर्भल्लातकैरपि ॥
पितॄनुद्दिश्य यः श्राद्धं करिष्यति समाहितः ॥ ९४ ॥
स यास्यति परां सिद्धिं दुर्लभां त्रिदशैरपि ॥
सर्वपापविनिर्मुक्तः स्तूयमानश्च किंनरैः ॥ ९५ ॥ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा सहस्राक्षस्तैः सर्वैरभिनंदितः ०।
जगामादर्शनं तेऽपि स्थितास्तत्र द्विजोत्तमाः ॥ ९६ ॥
ततः काले गते तेऽपि कृत्वा तीव्रं महत्तपः ॥
संप्राप्ताः परमं स्थानं जरामरणवर्जितम् ॥ ९७ ॥
तैस्तत्र स्थापितं लिङ्गं देवदेवस्य शूलिनः ॥
तस्य संदर्शनादेव नरः पापाद्विमुच्यते ॥ ९८ ॥
यस्तल्लिंगं पुनर्भक्त्या पुष्पधूपानुलेपनैः ॥
अर्चयेत्स ध्रुवं मुक्तिं प्राप्नोति द्विजसत्तमाः ॥ ९९ ॥
एतत्पवित्र मायुष्यं सर्वपातकनाशनम्॥
सप्तर्षोणां समाख्यातमाश्रमस्यानुकीर्तनम् ॥ ६.३२.१०० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तर्ष्याश्रममाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ ॥ छ ॥