स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०३१

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति नागतीर्थमनुत्तमम्॥
यत्र स्नातस्य सर्पाणां न भयं जायते क्वचित्॥ १ ॥
तत्र श्रावणपञ्चम्यां यो नरः स्नानमाचरेत् ॥
कृष्णायां न भयं तस्य कुलेऽपि स्यादहेः क्वचित् ॥ २ ॥
तत्र पूर्वं तपस्तप्तं मातुः शापप्रपीडितैः ॥
शेष प्रभृतिनागैस्तु मुक्तिहेतोर्हुताशनात् ॥ ३ ॥
कम्बलाश्वतरौ नागौ तथा ख्यातौ धरातले ॥
तत्र तप्त्वा तपस्तीव्रं संसिद्धिं परमां गतौ ॥ ४ ॥
अनंतो वासुकिश्चैव तक्षकश्च महावलः ॥
कर्कोटश्चैव नागेन्द्रो मणिकण्ठस्तथापरः ॥५॥
ऐरावतस्तथा शंखः पुण्डरीको महाविषः ॥
शेषपूर्वाः स्मृता नागा एतेऽत्र नव नायकाः ॥ ६ ॥
एतेषां पुत्रपौत्राश्च तेषामपि विभूतिभिः ॥
असंख्याभिरिदं व्याप्तं समस्तं धरणीतलम्॥ ७ ॥
अथ ते कुटिला दुष्टा भक्षयंति सदा जनान् ॥
बहुत्वादपि संस्पर्शादपराधं विनापि च ॥ ८ ॥
ततः प्रजा इमाः सर्वा ब्रह्माणं शरणं गताः ॥
पीडिताः स्म सुरश्रेष्ठ सर्पेभ्यो रक्ष सत्वरम् ॥ ९ ॥
यावन्न शून्यतां याति सकलं वसुधातलम् ॥
व्याप्तं सर्वैस्ततः सर्पैर्विषाढ्यैरतिभीषणैः ॥ ६.३१.१० ॥
अथ तानब्रवीद्ब्रह्मा शेषाद्यान्नवनायकान्॥
स्वसंततेः प्ररक्षध्वं भक्ष्यमाणा इमाः प्रजाः ॥ ११ ॥
ते तथेति प्रतिज्ञाय जग्मुः सर्वे भुजंगमाः ॥।२॥
अथ तेषां बहुत्वाच्च नैव रक्षा प्रजायते ॥
वारिता अपि ते यस्मात्प्रकुर्वंति प्रजाक्षयम् ॥ १३ ॥
ततः कोपपरीतात्मा तानाहूय कुलाधिपान्॥
तानुवाच स्वयं ब्रह्मा सर्वदेवसमागमे ॥ १४ ॥
भक्षयंति यतः सर्पा अपराधं विना प्रजाः ॥
वारिता अपि ते तस्मात्तान्निगृह्णामि सांप्रतम् ॥ १५ ॥
भविष्यति महीपालो भूतले जनमेजयः॥
चित्रभानुर्मखे तस्य सर्पान्संभक्षयिष्यति ॥।६॥
मातुः शापाद्विशेषेण मंत्राकृष्टा द्विजोत्तमैः ॥
स्वयमेव पतिष्यंति सुसमिद्धे हुताशने ॥।७॥
तच्छ्रुत्वा वेपमानास्ते सर्पाणां नवनायकाः ॥
प्रोचुः प्रांजलयः सद्यः प्रणिपत्य पितामहम्॥ १८ ॥
भगवन्कुटिला ज्ञातिरस्माकं भवता कृता ॥
तत्कस्मात्कुरुषे कोपं जातिधर्मानुवर्तिनाम्॥।९॥
ब्रह्मोवाच॥
यदि नाम मया सृष्टा यूयं दिष्ट्या विषोल्बणाः ०।
अपराधं विना कस्माद्भक्षयध्व इमाः प्रजाः ॥ ६.३१.२० ॥
॥ नागा ऊचुः ॥ ॥
मर्यादां कुरु देवेश अस्माकं मानवैः सह ॥
अथवा संप्रयच्छस्व स्थानं मानुषवर्जितम् ॥ ॥ २१ ॥
पारिक्षितमखे तस्मिन्सर्पाणां चित्रभानुना ॥
समंताद्दह्यमानानां रक्षोपायं प्रचिंतय ॥ २२ ॥
यथा न संततिच्छेदो जायते प्रपितामह ॥
अस्माकं सर्वलोकेषु तथा त्वं कर्तुमर्हसि ॥ २३ ॥
॥ ब्रह्मोवाच॥ ॥
जरत्कारुरिति ख्यातो भविष्यति क्वचिद्द्विजः ॥
स संतानकृते भार्यां भूमावन्वेषयिष्यति ॥ २४ ॥
भाविनी च भवद्वंशे जरत्कन्या सुशोभना ॥
सा देया चादरात्तस्मै पुत्रार्थं वरवर्णिनी ॥ २५ ॥
ताभ्यां यो भविता पुत्रः स शेषान्रक्षयिष्यति ॥
सर्पाञ्छुद्धसमाचारान्मर्यादासु व्यवस्थितान् ॥ २६ ॥
सुतलं नितलं चैव तथैव वितलं च यत् ॥
तस्याधस्ताच्चतुर्थे च वसतिर्वो धरातले ॥ २७ ॥
मया दत्तेऽतिरम्ये च सर्वभोगसमन्विते ॥
तस्माद्व्रजत तत्रैव परित्यज्य महीतलम् ॥ २८ ॥
तत्र भुंजथ सद्भोगा न्गत्वाऽऽशु मम शासनात् ॥
पुत्रपौत्रसमोपेतांस्त्रिदशैरपि दुर्लभान् ॥ २९ ॥
॥ नागा ऊचुः ॥ ॥
भोगानपि प्रभुंजाना न वयं तत्र पद्मज ॥
शक्नुमो वस्तुमुर्व्यां नस्तस्मात्स्थानं प्रदर्शय ॥
मर्यादया वर्तयामो यत्रस्था मानवैः समम् ॥ ६.३१.३० ॥
॥ ब्रह्मोवाच ॥ ॥
एषा तिथिर्मया दत्ता युष्माकं धरणीतले ॥
पंचमी शेषकालस्तु नेयस्तत्रं रसातले ॥ ३१ ॥
तत्रागतैर्न हंतव्या मानवा दोषवर्जिताः ॥
मंत्रसंरक्षितांगाश्च तथौषधिकृतादराः ॥ ३२ ॥
चमत्कारपुरे क्षेत्रे मया दत्ता स्थितिः सदा ॥
पृथिव्यां कुलमुख्यानां नागानां नागसत्तमाः ॥ ३३ ॥
॥ सूत उवाच ॥ ॥
एवमुक्ताश्च ते नागा ब्रह्मणा सत्वरं ययुः ॥
पातालं कुलमुख्याश्च तस्मिन्क्षेत्रे व्यवस्थिताः ॥ ३४ ॥
तत्र श्रावणपंचम्यां यस्तान्पूजयते नरः ॥
स प्राप्नोति नरोऽभीष्टं तेषामेव प्रसादतः ॥ ३५ ॥
तस्य वंशेऽपि सर्पाणां न भयं स्यान्न किल्बिषम् ॥
न रोगो नोपसर्गश्च न च भूतभयं क्वचित् ॥ ३६ ॥
अपुत्रस्तत्र यः श्राद्धं करोति सुतवांछया ॥
पुत्रं विशिष्टमासाद्य पितॄणामनृणो हि सः ॥ ३७ ॥
तथा वंध्या च या नारी पंचम्यां भास्करोदये ॥
श्रावणे कुरुते स्नानं कृष्णपक्षे विशेषतः ॥
सा सद्यो लभते पुत्रं स्ववंशोद्धरणक्षमम् ॥ ३८ ॥
सर्वरोगविनिर्मुक्तं सुरूपं विनयान्वितम् ॥
भ्रष्टराज्यो नरो यो वा तत्र स्नानं समाचरेत् ॥ ३९ ॥
ततः पूजयते नागाञ्छ्रावणे पंचमीदिने ॥
स हत्वाऽरिगणा न्सर्वान्भूयोराज्यमवाप्नुयात् ॥ ६.३१.४० ॥
येषां मृत्युर्मनुष्याणां जायते सर्पभक्षणात् ॥
न तेषां जायते मुक्तिः प्रेतभावात्कथंचन ॥ ४१ ॥
यावन्न क्रियते श्राद्धं तस्मिंस्तीर्थे द्विजोत्तमाः ॥
तस्मात्सर्वप्रयत्नेन मृतस्याहिप्रदंक्षणात् ॥
श्राद्धं कार्यं प्रयत्नेन तस्मिंस्तीर्थेऽहिसंभवे ॥ ४२ ॥
अत्र वः कीर्तयिष्यामि पुरावृत्तां कथां शुभाम् ॥
इन्द्रसेनस्य राजर्षेः सर्वपातकनाशिनीम् ॥ ४३ ॥
इन्द्रसेनो महीपालः पुरासीद्रिपुदर्पहा ॥
अश्वमेधसहस्रेण इष्टं तेन महात्मना ॥ ४४ ॥
ततः स दैवयोगेन प्रसुप्तः शयने शुभे ॥
दष्टः सर्पेण मुक्तश्च इन्द्रसेनो महीपतिः ॥
वियुक्तश्चैव सहसा जीवितव्येन तत्क्षणात् ॥ ४५ ॥
ततस्तस्य सुतोऽभीष्टस्तस्योद्देशेन कृत्स्नशः ॥
चकार प्रेतकार्याणि स्मृत्युक्तानि च भक्तितः ॥ ॥ ४६ ॥
गंगायामस्थिपातं च कृत्वा श्राद्धानि षोडश ॥
गयां गत्वा ततश्चक्रे श्राद्धं श्रद्धासमन्वितः ॥ ४७ ॥
अथ स्वप्नांतरे प्राप्तः पिता तस्य स भूपतिः ॥
प्रोवाच दुःखितः पुत्रं बाष्पव्याकुललोचनम् ॥ ४८ ॥
सर्पमृत्योः सकाशान्मे प्रेतत्वं पुत्र संस्थितम् ॥
तेन मे भवता दत्तं न किञ्चिदुपतिष्ठते ॥ ४९ ॥
चमत्कारपुरं क्षेत्रं तस्मात्त्वं गच्छ सत्वरम् ॥
तत्र तीर्थे कुरु श्राद्धं सर्पाणां मत्कृते सुत ॥ ६.३१.५० ॥
येन संजायते मोक्षः प्रेतत्वा द्दारुणान्मम ॥
स ततः प्रातरुत्थाय तत्स्मृत्वा नृपतेर्वचः ॥ ५१ ॥
प्रेतरूपस्य दुःखार्तस्तत्तीर्थं सत्वरं गतः ॥
चकार च ततः श्राद्धं श्रावणे पंच मीदिने ॥ ५२ ॥
स्नात्वा श्रद्धासमोपेतः संनिवेश्य पुरोधसम् ॥
ततः स दर्शनं प्राप्तो भूयोऽपि च यथा पुरा ॥ ५३ ॥ प्रे
तरूपेण दुःखार्तो वाक्यमेतदुवाच ह ॥
न मयाऽऽसादितं किञ्चिद्यत्त्वया मत्कृते कृतम् ॥ ५४ ॥
फलं श्राद्धस्य चात्र त्वं कारणं शृणु पुत्रक ॥
श्राद्धार्हा ब्राह्मणाश्चात्र चमत्कारपुरोद्भवाः ॥ ५५ ॥
क्षेत्रेऽपि गर्हिताः श्राद्धे येऽन्यत्र व्यंगकादयः ॥
अत्र यत्क्रियते किञ्चिद्दानं वा व्रतमेव च ॥ ५६ ॥
तथान्यदपि विप्रार्हं कर्म यज्ञसमुद्भवम्॥
तत्तेषां वचनात्सर्वं पूर्णं स्यादपि खंडितम् ॥
परोक्षे वापि संपूर्णं वृथा संजायते स्फुटम् ॥ ५७ ॥
तस्मादस्मात्पुराद्विप्रान्समानीय ततः परम् ॥
मम नाम्ना कुरु श्राद्धं येन मुक्तिः प्रजायते ॥ ५८ ॥
अथासौ प्रातरुत्थाय स्मरमाणः पितुर्वचः ॥
दुःखेन महताविष्टः प्रविवेश पुरोत्तमे ॥ ५९ ॥
ततश्चान्वेषयामास श्राद्धार्हान्ब्राह्मणान्नृपः ॥
यत्नतोऽपि न लेभे स धनाढ्या ब्राह्मणा यतः ॥ ६.३१.६० ॥
न तत्र दुःखितः कश्चिद्दरिद्रोऽपि न दुःखितः ॥
नाकर्मनिरतो वापि पाखण्डनिरतोऽथवा ॥ ६१ ॥
स्थानेस्थाने महानादा उत्सवाश्च गृहेगृहे ॥
वेदविद्याविनोदाश्च स्मृति वादास्तथैव च ॥ ६२ ॥
श्रूयंते याज्ञिकानां च यज्ञकर्मसमुद्भवाः॥
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम्. ॥
न मृत्युः कस्यचित्तत्र पुरे ब्राह्मण सेविते ॥ ६३ ॥
यथर्तुवर्षी पर्जन्यः सस्यानि गुणवन्ति च ॥
भूरिक्षीरस्रवा गावः क्षीराण्याजाविकानि च ॥ ६४ ॥
यंयं प्रार्थयते विप्रं स श्राद्धार्थं महीपतिः ॥
स स तं भर्त्सयामास दुरुक्तैः कोपसंयुतः ॥ ६५ ॥
धिग्धिक्पापसमाचार क्षत्रियापसदात्मक ॥
किं कश्चिद्ब्राह्मणोऽश्नाति प्रेतश्राद्धे विशेषतः ॥ ६६ ॥
तस्माद्गच्छ द्रुतं यावन्न कश्चिच्छपते द्विजः ॥
निहन्ति वा प्रकोपेन स्वर्गमार्गनिरोधकम् ॥ ६७ ॥
॥ सूत उवाच ॥ ॥
ततः स दुःखितो राजा निश्चक्राम भयार्दितः ॥
चमत्कारपुरात्तस्माद्वैलक्ष्यं परमं गतः ॥ ६८ ॥
चिन्तयामास राजेंद्र स्मृत्वावस्थां पितुश्च ताम् ॥
किं करोमि क्व गच्छामि कथं मे स्यात्पितुर्गतिः ॥ ६९ ॥
ततः स सचिवान्सर्वान्प्रेषयित्वा गृहं प्रति ॥
एकाकी भिक्षुरूपेण स्थितस्तत्रैव सत्पुरे ॥६.३१.७०॥।
स ज्ञात्वा नगरे तत्र ब्राह्मणं शंसितव्रतम् ॥
सर्वेषां ब्राह्मणेंद्राणां मध्ये दाक्षिण्यभाजनम् ॥ ७१ ॥
देवशर्माभिधानं तु शरणागतवत्सलम् ॥
आहिताग्निं चतुर्वेदं स्मृतिमार्गानुयायिनम् ॥ ७२ ॥
ततस्तु प्रातरुत्थाय कृत्वांत्यजमयं वपुः ॥
शोधयामास कृच्छ्रेण मलोत्सर्गनिकेतनम् ॥ ७३ ॥ ।
अथ यः कुरुते कर्म तत्र विष्ठाप्रशोधनम् ॥
सोऽभ्येत्य तमुवाचेदं कोपसंरक्तलोचनः ॥ ७४ ॥
कुतस्त्वमिह संप्राप्तो मद्वृत्तेरुपघातकृत् ॥
तस्माद्गच्छ द्रुतं नो चेन्नयिष्ये यमसादनम् ॥ ७५ ॥
तस्यैवं वदतोऽप्याशु बलात्स पृथिवीपतिः ॥
शोधयामास तत्स्थानं देवशर्मसमुद्भवम् ॥ ७६ ॥
ततः संवत्सरस्यांते चंडालेन द्विजोत्तमाः ॥
स प्रोक्त उचिते काले प्रणिपत्य च दूरतः ॥ ७७ ॥
स्वामिंस्तव कुलेप्येवं गूथाशोधनकर्मकृत् ॥
तदस्माकं न चान्यस्य तत्किमन्यः प्रवेशितः ॥ ७८ ॥
अथ श्रुत्वा च तद्वाक्यं स प्राह द्विजसत्तमः ॥
न मया कश्चिदन्योऽत्र निर्दिष्टो गोप्यकर्मणि॥
अधिकारस्त्वयात्मीयस्तथा कार्यो यथा पुरा ॥ ७९ ॥
तदान्यदिवसे प्राप्ते सोंऽत्यजः कोपसंयुतः ॥
शस्त्रमादाय संप्राप्तो वधार्थं तस्य भूपतेः ॥६.३१.८०॥
शस्त्रोद्यतकरं दृष्ट्वा प्रहारेकृतनिश्चयम् ॥
ततस्तं लीलया भूयो मुष्टिना मूर्ध्न्यताडयत् ॥ ८१ ॥
ततस्तस्य विनिष्क्रांते लोचने तत्क्षणाद्द्विजाः ॥
सुस्राव रुधिरं पश्चात्पपात गतजीवितः ॥ ८२ ॥
तं श्रुत्वा निहतं तेन चंडालं निजकिंकरम् ॥
देवशर्मातिकोपेन तद्वधार्थमुपागतः ॥ ८३ ॥
ततः पुत्रैश्च पौत्रैश्च सहितोऽन्यैश्च बन्धुभिः ॥
लोष्टैस्तं ताडयामास भर्त्समानो मुहुर्मुहुः ॥ ८४ ॥
सोऽपि संताड्यमानस्तु प्रहारैर्जर्जरीकृतः ॥
वेदोच्चारं ततश्चक्रे दर्शयित्वोपवीतकम् ॥ ८५ ॥
अथ ते विस्मिताः सर्वे देवशर्मपुरःसराः ॥
ब्राह्मणास्तं समुद्वीक्ष्य वेदोच्चारपरायणम् ॥ ८६ ॥
पृष्टश्च किमिदं कर्म तवांत्यजजनोचितम् ॥
एषा वेदात्मिका वाणी स्पष्टाक्षरकलस्वना ॥
तत्किं शापपरिभ्रष्टस्त्वं कश्चिद्ब्राह्मणोत्तमः ॥ ८७ ॥
येनैवं कुरुषे कर्म गर्हितं चांत्यजैरपि ॥
ततः स प्रहसन्नाह क्षत्रियोऽहं महीपतिः ॥
विष्णुसेन इति ख्यातो हैहयान्वयसंभवः ॥ ८८ ॥
सोहमाराधनार्थाय त्वस्मिन्स्थान उपागतः॥
अद्य संवत्सरो जातः कर्मण्यस्मिन्रतस्य च॥८९॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा स विप्रः कृपयान्वितः ॥
कृतांजलिपुटो भूत्वा तमुवाच महीपतिम्॥६.३१.९०॥
किं तत्कृत्यं समुद्दिश्य त्वयैतत्कर्म गर्हितम् ॥
कृतं कीर्तय येनाशु तवाभीष्टं करोम्यहम् ॥९॥।
नास्ति मे किञ्चिदप्राप्तं तथाऽसाध्यं महीपते ॥
तस्मात्तव करिष्यामि कृत्यं यद्यपि दुर्लभम् ॥ ९२ ॥
॥ राजोवाच ॥ ॥
पिता ममाहिना दष्टः प्रेतत्वं समुपागतः ॥
सोऽत्र नागह्रदे श्राद्धे कृते मुक्तिमवाप्नुयात् ॥ ९३ ॥
तस्मात्तत्तारणार्थाय विप्रकृत्यं समाचर ॥
एतदर्थं मयैतत्ते कृतं कर्म विगर्हितम् ॥ ९४ ॥ ॥
॥ देवशर्मोवाच ॥ ॥
एवं कुरु नृपश्रेष्ठ श्राद्धेऽहं ते पितुः स्वयम् ॥
ब्राह्मणः संभविष्यामि तस्माच्छ्राद्धं समाचर ॥ ९५ ॥
॥ सूत उवाच ॥ ॥
अथ ते सुहृदस्तस्य पुत्राः पौत्राश्च बांधवाः ॥
प्रोचुर्नैतत्प्रयुक्तं ते श्राद्धं भोक्तुं विगर्हितम् ॥ ९६ ॥
तस्माद्यदि भवानस्य श्राद्धे भोक्ता ततः स्वयम् ॥
सर्वे भवन्तं त्यक्षामस्तथान्येऽपि द्विजोत्तमाः ॥ ९७ ॥
॥ देवशर्मोवाच ॥ ॥
कामं त्यजत मां सर्वे यूयमन्येऽपि ये द्विजाः ॥
मयैवास्य प्रतिज्ञातं भोक्तुं श्राद्धे महीपतेः ॥ ९८ ॥
एवमुक्त्वा स विप्रेंद्रस्तेनैव सहितस्तदा ॥
नागह्रदं समासाद्य श्राद्धे वै भुक्तवानथ ॥ ९९ ॥
भुक्तमात्रे ततस्तस्मिन्वागुवाचाशरीरिणी ॥
नादयंती जगत्सर्वं हर्षयंती महीपतिम् ॥ ६.३१.१०० ॥
प्रेतभावाद्विनिर्मुक्तः पुत्राहं त्वत्प्रभावतः ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम् ॥ १०१ ॥
तत्कृत्वा नृपतिर्हृष्टस्तं प्रणम्य द्विजोत्तमम् ॥
प्रोवाच कुरु मे वाक्यं यद्ब्रवीमि द्विजोत्तम ॥ १०२ ॥
अस्ति माहिष्मतीनाम नगरी नर्मदातटे ॥
सा चास्माकं राजधानी पितृपर्यागता विभो ॥ १०३ ॥
अहं यच्छामि ते ब्रह्मन्समस्तविषयान्विताम्॥
मया भृत्येन तत्रस्थः कुरु राज्यमकंटकम् ॥ १०४ ॥
॥ देवशर्मोवाच ॥ ॥
न चैतद्युज्यते वक्तुं न विप्रो राज्यमर्हति ॥
तस्माद्गच्छ निजं राज्यं परिपालय पार्थिव ॥॥५॥
॥ सूत उवाच ॥ ॥
एवं विसर्जितस्तेन जगाम स महापतिः ॥
स्वं देशं हर्षसंयुक्तः कृतकृत्यो द्विजोत्तमाः ॥ ॥ १०६ ॥
सोऽपि सर्वैः परित्यक्तो ब्राह्मणैः पुरवासिभिः ॥
देवशर्मा समुद्दिश्य दोषं श्राद्धसमुद्भवम् ॥ १०७ ॥
ततो नागह्रदे तस्मिन्स कृत्वा निजमन्दिरम् ॥
निवासमकरोत्तत्र स्वाध्यायनिरतः शुचिः ॥ १०८ ॥
तत्रस्थस्य निरस्तस्य ये पुत्राः स्युर्द्विजोत्तमाः ॥
तेषां संततयो ऽद्यापि ते प्रोक्ता बाह्यवासिनः ॥ १०९ ॥
एतद्वः सर्वमाख्यातं नागतीर्थसमुद्भवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ६.३१.११० ॥
यश्चैतत्पठते भक्त्या संप्राप्ते पंचमीदिने ॥
शृणुयाद्वा न वंशेऽपि तस्य स्यात्सार्पजं भयम् ॥ १११ ॥
तथा विमुच्यते पापाद्भक्षजातान्न संशयः ॥
कृतादज्ञानतो विप्राः सत्यमेतन्मयोदितम् ॥ ११२ ॥
तस्मात्सर्वप्रयत्नेन नागतीर्थमनुत्तमम् ॥
माहात्म्यं पठनीयं वा श्रोतव्यं वा समाहितैः ॥ ११३ ॥
श्राद्धकाले तु संप्राप्ते यश्चैतत्पठते द्विजः ॥
स प्राप्नोति फलं कृत्स्नं गयाश्राद्धसमुद्भवम् ॥ ११४ ॥
तथा ये कीर्तिता दोषाः श्राद्धे द्रव्यसमुद्भवाः ॥
व्रतवैक्लव्यजाश्चापि तथा ब्राह्मणसंभवाः ॥ ११५ ॥
ते सर्वे नाशमायांति कीर्त्यमाने समाहितैः ॥
नागह्रदस्य माहात्म्ये श्राद्धकाल उपस्थिते ॥ ११६ ॥
तथा विनिहता गोभिर्ब्राह्मणैः श्वापदैरपि ॥
एतस्मिन्पठिते श्राद्धे गच्छंति परमां गतिम् ॥ ११७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागह्रदमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥ ॥ छ ॥ ॥