स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०२६

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
यत्पूर्वापरसीमान्तं तन्मया संप्रकीर्तितम् ॥
दक्षिणोत्तरसंभूतं तद्वो वक्ष्यामि सांप्रतम् ॥ १ ॥
अस्ति भूभितले ख्याता मधुराख्या महापुरी ॥
नानाविप्रसमाकीर्णा यमुनातटसंश्रया ॥ २ ॥
तस्यामासीद्द्विजश्रेष्ठो गोकर्ण इति विश्रुतः ॥
वेदाध्ययनसंपन्नः सर्वशास्त्रविचक्षणः ॥ ३ ॥
अथापरोऽस्ति तन्नामा तत्र विप्रो वयोऽन्वितः ॥
सोऽपि च ब्राह्मणः श्रेष्ठः सर्वविद्यासु पारगः ॥ ४ ॥
कस्यचित्त्वथकालस्य यमः प्राह स्वकिंकरम् ॥
ऊर्ध्वकेशं सुरक्ताक्षं कृष्णदन्तं भयानकम् ॥ ५ ॥
अद्य गच्छ द्रुतं दूत मथुराख्यां महापुरीम् ॥
आनयस्व द्विजश्रेष्ठं तस्यां गोकर्णसंज्ञकम् ॥ ६ ॥
तस्यायुषः क्षयो जातो मध्याह्नेऽद्यतने दिने ॥
त्याज्योऽन्योऽस्ति च तत्रैव चिरायुस्तादृशो द्विजः ॥ .७ ॥
॥ सूत उवाच ॥ ॥
अथ दूतो द्रुतं गत्वा तां पुरीं यमशासनात् ॥
विभ्रमादानयामास गोकर्णं च चिरायुषम्॥ ८ ॥
ततः कोपपरीतात्मा यमः प्रोवाच किंकरम् ॥
दीर्घायुरेष आनीतो धिक्पाप किमिदं कृतम् ॥९॥
तस्मात्प्रापय तत्रैव यावदस्य च बन्धुभिः ॥
नो गात्रं दह्यते शोकात्सुसमिद्धेन वह्निना ॥ ६.२६.१० ॥
॥ ॥ ब्राह्मण उवाच ॥ ॥
नाहं तत्र गमिष्यामि दिष्ट्या प्राप्तोस्मि तेंऽतिकम्॥
वांछमानः सदा मृत्युं दारिद्र्येण कदर्थितः ॥ ११ ॥
॥ यम उवाच ॥ ॥
निमिषेणापि नो मर्त्यमानयामि महीतलात् ॥
आयुःशेषेण विप्रेन्द्र पूर्णेनाथ त्यजामि न॥ १२ ॥
तत एव हि मे नाम धर्मराज इति स्मृतम्॥
समत्वात्सर्वजंतूनां पक्षपातविवर्जनात् ॥ १३ ॥
तस्माद्गच्छ गृहं विप्र यावद्गात्रं न दह्यते ॥
बंधुभिस्तव शोकार्तैर्नाधुना तत्र ते स्थितिः ॥ १४ ॥
प्रार्थयस्व मनोऽभीष्टं वरं ब्राह्मणसत्तम ॥
न वृथा दर्शनं मे स्यात्कथंचिदपि देहिनाम् ॥ १५ ॥
॥ ब्राह्मण उवाच ॥ ॥
अवश्यं यदि गंतव्यं मया देव गृहं पुनः ॥
तन्ममाचक्ष्व पृच्छामि वरश्चैष भवेन्मम ॥ १६ ॥
एते ये नरका रौद्राः सेविताः पापकर्मभिः ॥
दृश्यंते वद कः केन कर्मणा सेव्यते जनैः ॥ १७ ॥
॥ यम उवाच ॥ ॥
असंख्या नरका विप्र यथा प्राणिगणाः क्षितौ ॥
कृत्स्नशः कथितुं शक्या नैववर्षशतैरपि ॥ १८ ॥
कीर्तयिष्यामि तेषां ते प्राधान्येन द्विजोत्तम ॥
एकविंशतिसंख्या ये पापिलोककृते कृताः ॥ १९ ॥
आद्योऽयं रौरवो नाम नरको द्विजसत्तम ॥
प्रतप्ततैलकुंभेषु पच्यंते यत्र जंतवः ॥ ६.२६.२० ॥
हा मातस्तात पुत्रेति प्रकुर्वंति सुदारुणम्॥
परपाकरताः क्षुद्राः परद्रव्या पहारकाः ॥ २१ ॥
द्वितीय एष विप्रेंद्र महारौरवसंज्ञितः ॥
कृतघ्नैः सेव्यते नित्यं तथा च गुरुतल्पगैः॥२२ ॥
रोरूयमाणैर्दाहार्तैः पच्यमानै र्हविर्भुजा ॥
खंडशः क्रियमाणैश्च तीक्ष्णशस्त्रैरनेकधा ॥ २३ ॥
तृतीयोंऽधतमोनाम नरकः सुभयावहः ॥
अत्र ये पुरुषा यांति तांश्च वक्ष्यामि सुद्विज ॥ २४ ॥
दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः ॥
सुलोहास्याः खगास्तेषां हरंत्यत्र विलोचने ॥ २९ ॥
चतुर्थोऽयं प्रतप्ताख्यो नरकः संप्रकीर्तितः ॥
अत्र ते यातनां भुक्त्वा तथा शुद्धा भवंति च ॥ २६ ॥
यैः कृता सततं निंदा गुरुदेवतपस्वि नाम्॥
तेषामुत्पाट्यते जिह्वा जाताजाताऽत्र भूरिशः ॥ २७ ॥
एषोऽन्यः पंचमो नाम सुप्रसिद्धो विदारकः ॥
मित्रद्रोहरताश्चात्र च्छिद्यंते करपत्रकैः ॥ २८ ॥
प्रतप्तवालुकापूर्णो ध्मायते यश्च वह्निना ॥
निकुम्भ इति विख्यातः षष्ठो लोकभयावहः ॥ २९ ॥
प्राणांतिकं पुरा दत्तं यैर्दुःखं प्राणिनां नरैः ॥
अपराधं विना तेऽत्र पच्यंते वालुकोत्करैः ॥ ६.२६.३० ॥
बीभत्सुरिति विख्यातः सप्तमो नरकाधमः ॥
मूत्रामेध्य समाकीर्णः समंतादतिगर्हितः ॥ ३१ ॥
राजगामि च पैशुन्यं यैः कृतं सुदुरात्मभिः ॥
अमेध्यपूर्णवक्त्रास्ते धार्यंतेऽत्र नराधमाः ॥ ३२ ॥
कुत्सितोनाम विख्यातो द्विजायं चाष्टमोऽधमः ॥
श्लेष्ममूत्राभिसंपूर्णैस्तथा गन्धैश्च कुत्सितैः ॥ ३३ ॥
गुरुदेवातिथिभ्यश्च स्वभृत्येभ्यो विशेषतः ॥
अदत्त्वा भोजनं यैस्तु कृतं तेऽत्र व्यवस्थिताः ॥ ३४ ॥
एष दुर्गमनामा च नवमो द्विजसत्तम ॥
तीक्ष्णकंटकसंकीर्णः सर्पवृश्चिकसंकुलः ॥ ॥ ३५ ॥
एकसार्थप्रयाताय क्षुत्क्षामायावसीदते ॥
अदत्त्वा भोजनं यैश्च कृतं तेऽत्र व्यवस्थिताः ॥ ३६ ॥
दशमोऽयं सुविख्यातो नरको नामदुः सहः ॥
तप्तलोहमयैः स्तंभैः समंतात्परिवारितः ॥ ३७ ॥
ये पापाः परदारेषु रक्ता मिष्टामिषेषु वा ॥
तप्तलोहमयान्स्तंभांस्तेऽत्रालिंगंति मानवाः ॥ ॥ ३८ ॥
एकादशोऽपरश्चायमाकर्षाख्यः प्रकीर्तितः ॥
नरको विप्रशार्दूल तप्तसंदंशसंकुलः ॥ ३९ ॥
स्त्रीविप्रगुरुदेवानां वित्तं चाश्नंति ये नराः ॥
संदंशैरपि कृष्यंते तत्र तप्तैः समंततः ॥ ६.२६.४० ॥
संदंशो द्वादशश्चायं तथाऽभक्ष्यप्रभक्षकाः ॥
लोहदंतमुखैर्गृधैर्भक्ष्यंतेऽत्र नराधमाः ॥ ४१ ॥
एष त्रयोदशोनाम सुविख्यातो नियंत्रकः ॥
समंतात्कृमिभिर्व्याप्तस्तथा च दृढबन्धनैः ॥ ४२ ॥
न्यासापहारकाः पापास्तत्र बद्धाश्च बंधनैः ॥
कृमिवृश्चिक कीटाद्यैर्भक्ष्यते द्विजसत्तम ॥ ४३ ॥
तथा चतुर्दशोनाम नरकोऽधोमुखः स्थितः ॥
नरकाणां समस्तानामेष रौद्रतमाकृतिः ॥ ४४ ॥
अत्र चाधोमुखा बद्धा वृक्षशाखावलंबिताः ॥
पच्यंते वह्निनाऽधस्ताद्ब्रह्मघ्ना ये च मानवाः ॥ ४५ ॥
यूकामत्कुणदंशाद्यैः संकीर्णोऽयं द्विजोत्तम ॥
नरको भीषणो नाम ख्यातः पञ्चदशो महान् ॥ ४६ ॥
कूटसाक्ष्यरतानां च तथैवानृतवादिनाम् ॥
अत्राश्रयो मया दत्तस्तथान्येषां कुकर्मिणाम् ॥ ४७ ॥
एष षोडश उद्दिष्टो नरको नाम क्षुद्रदः ॥
युधार्तैर्मानवैर्व्याप्तः समंताद्द्विजसत्तम ॥४९॥
मृष्टमांसानि यैः पापैर्भक्षितानि द्विजन्मभिः ॥
क्षुधार्तास्ते निजं कायं भक्षयंत्यत्र संस्थिताः ॥ ४९ ॥
तथा सप्तदशश्चायं क्षाराख्यो नरकः स्मृतः ॥
सुक्षारेण समाकीर्णः सर्वप्राणिभयावहः ॥ ६.२६.५० ॥
व्रतभंगकरा ये च ये च पाषण्डिनो नराः ॥
तेऽत्रागत्य शितैः शस्त्रैः पिष्यंते पापकृत्तमाः ॥ ५१ ॥
एष चाष्टादशो नाम कथितश्च निदाघकः ॥
ज्वलितांगारसंकीर्णो दुःसेव्यः सर्वदेहिनाम् ॥ ५२ ॥
दूषयंति च ये शास्त्रं काव्यं विप्रं च कन्यकाम् ॥
अंगारांतः स्थितातेऽत्र ध्रियंते मानवा द्विज ॥ ॥ ५३ ॥
एकोनविंशतिश्चायं प्रख्यातः कूटशाल्मलिः ॥
सुतीक्ष्णकंटकाकीर्णः समंताद्द्विजसत्तम ।ा ५४ ॥
नास्तिका भिन्नमर्यादा ये च विप्रस्य घातकाः ॥
ते सर्वेऽत्र नरा नित्यमारुहंति पतंति च ॥९५॥
एष विंशतिमो नाम नरको द्विजसत्तम ॥
असिपत्रवनाख्यश्च कष्टसेव्यो दुरात्मभिः ॥ ॥ ५६ ॥
अत्र यांति नरा विप्र पररंध्रनिरीक्षकाः ॥
कूटकर्मरता ये च शास्त्रविक्रयकारकाः ॥ ५७ ॥
एकविंशतिमा चैषा नाम्ना वैतरणी नदी ॥
सर्वैरेव नरैर्गम्या धर्मपापानुयायिभिः ॥ ५८ ॥
मृत्युकाले समुत्पन्ने धेनुं यच्छंति ये नराः ॥
तस्या लांगूलमाश्रित्य तारयंति सुखेन च ॥ ५९ ॥
अदत्त्वा गां च ये मर्त्या म्रियंते द्विजसत्तम ॥
तीर्त्वा हस्तादिभिर्दुर्गा त इमां संतरंति च ॥ ६.२६.६०॥।
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तम ॥
विस्तरेण तव प्रीत्या स्वरूपं नरकोद्भवम्॥६१॥।
तस्माद्गच्छ गृहं शीघ्रं यावद्गात्रं न दह्यते॥
बन्धुभिस्तव शोकार्तैर्गृहीत्वा वांछितं धनम् ॥ ६२ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
यदि देव मया सम्यग्गंतव्यं निजमंदिरम् ॥
तद्ब्रूहि कर्मणा येन नरकं याति नो नरः ॥ ६३ ॥
॥ यम उवाच ॥ ॥ ॥
तीर्थयात्रापरो नित्यं देवतातिथिपूजकः ॥
ब्रह्मण्यश्च शरण्यश्च न याति नरकं नरः ॥ ६४ ॥
परोपकारसंयुक्तो नित्यं जपपरायणः ॥
स्वाध्यायनिरतश्चैव न याति नरकं द्विज ॥ ६५ ॥
वापीकूपतडागानि देवतायतनानि च ॥
यः करोति नरो नित्यं नरकं न स पश्यति ॥ ६६ ॥
हेमंते वह्निदो यः स्यात्तथा ग्रीष्मे जलप्रदः ॥
वर्षास्वाश्रयदो यश्च नरकं न स पश्यति ॥ ६७ ॥
व्रतोपवाससंयुक्तः शांतात्मा विजितेंद्रियः ॥
ब्रह्मचारी सदा ध्यानी नरकं याति नो नरः ॥ ६८ ॥
अन्नप्रदो नरो यः स्याद्विशेषेण तिलप्रदः ॥
अहिंसानिरतश्चैव नरकं न स पश्यति ॥६९॥
वेदाध्ययनसंपन्नः शास्त्रासक्तः सुमृष्टवाक् ॥
धर्माख्यानपरो नित्यं नरकं न स पश्यति ॥ ६.२६.७० ॥
॥ ब्राह्मण उवाच ॥ ॥
एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान् ॥
न याति नरकं स्वर्गे तथा पापक्रियारतः ॥ ७१ ॥
तस्मादशुभकर्मापि कर्मणा येन पातकम् ॥
स्वल्पेनापि निहन्त्याशु याति स्वर्गं नरस्ततः ॥ ७२ ॥
तन्मेब्रूहि सुरश्रेष्ठ व्रतं नियममेव वा ॥
तीर्थं वा जपहोमं वा सर्वलोकसुखावहम् ॥ ७३ ॥
॥ यम उवाच ॥ ॥
अत्र ते सुमहद्गुह्यं कीर्तयिष्ये द्विजोत्तध ॥
गोपनीयं प्रयत्नेन वचनान्मम सर्वदा ॥७४॥
महापातकयुक्तोऽपि पुरुषो येन कर्मणा ॥
अनुष्ठितेन नो याति नरकं क्लेशकारकम्॥ ७५ ॥
आनर्तविषये रम्यं सर्वतीर्थमयं शुभम् ॥
हाटकेश्वरजं क्षेत्रं महापातकनाशनम्॥७६॥
तत्रैकमपि मासार्धं यो भक्त्या पूजयेद्धरम्॥
स सर्वपापयुक्तोऽपि शिवलोके महीयते ॥ ७७ ॥
तस्मात्तत्र द्रुतं गत्वा त्वमाराधय शंकरम् ॥
येन गच्छसि निर्वाणं दशभिः पुरुषैः सह॥ ७८ ॥
॥सूत उवाच॥ ॥
उपदेशं समाकर्ण्य स यदा प्रस्थितो गृहम्॥
धर्मराजस्य संहष्टो मधुरां नगरीं प्रति ॥७९॥
तावद्द्वितीयं गो कर्णं दूत आदाय संगतः ॥
दर्शयामास धृत्वाग्रे धर्मराजस्य सत्वरम् ॥ ६.२६.८० ॥
ततः प्रोवाच तं दूतं धर्मराजः प्रहर्षितः ॥
गोकर्णं पुरतो दृष्ट्वा द्वितीयं प्रस्थितं गृहम् ॥८१॥।
यस्मात्कालात्ययं कृत्वाऽऽनीतोऽयं ब्राह्मणस्त्वया ॥
तस्मादेनमपि क्षिप्रं द्वितीयेन समं त्यज ॥८२॥
ततस्तौ तत्क्षणान्मुक्तौ गोकर्णौ ब्राह्मणौ समम् ॥
स्वंस्वं कलेवरं प्राप्य सहसाथ समन्वितौ ॥ ८३ ॥
ततः स कथयामास गोकर्णः प्रथमो द्विजः ॥
यमोपदेशसंजुष्टो द्वितीयाय सविस्तरम् ॥ ८४ ॥
ततो गृहं परित्यज्य गोकर्णौ द्वावपि स्थितौ ॥
देवतायतनैर्व्याप्तं क्षेत्रं दृष्ट्वाऽखिलं ततः ॥ ८५ ॥
लिंगे संस्थापिते ताभ्यां सीमांते दक्षिणोत्तरे ॥
हाटकेश्वरजं क्षेत्रं संप्राप्य तपसि द्रुतम् ।। ८६ ॥
ततः शिवं समाराध्य तपः कृत्वा यथोचितम् ॥
सशरीरौ दिवं प्राप्तौ तत्प्रभावाद्विजोत्तमाः ॥ ८७ ॥
ताभ्यां मार्गचतुर्दश्यां कृष्णायां जागरः कृतः ॥
यः करोति नरो भक्त्या स गच्छति शिवालयम् ॥ ८८ ॥
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥
निष्कामस्तु पुनर्मोक्षं नरो याति न संशयः ॥ ८९ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं सीमांतं द्विजसत्तमाः ॥
क्षेत्रस्यास्य प्रमाणं च विस्तरेण चतुर्दिशम् ॥ ६.२६.९० ॥
अत्रांतरे नरा ये च निवसंति द्विजोत्तमाः ॥
कृषिकर्मोद्यताश्चापि यांति ते परमां गतिम् ॥
किं पुनर्नियतात्मानः शांता दांता जितेंद्रियाः ॥ ९१ ॥
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः ॥
तस्मिन्क्षेत्रे मृता यांति स्वर्गलोकं न संशयः ॥ ९२ ॥
किं पुनर्ये नरास्तत्र कृत्वा प्रायोपवेशनम् ॥
संन्यस्ताः श्रद्धयोपेता हृदयस्थे जनार्दने ॥ ९३ ॥
तस्मात्सर्व प्रयत्नेन तत्क्षेत्रं सेव्यमेव हि ॥
विशेषेण कलौ प्राप्ते युगे पापसमावृते ॥ ९४ ॥
पुनंति स्नानदानाभ्यां सर्वतीर्थान्यसंशयम् ॥
हाटकेश्वरजं क्षेत्रं पुनर्वासात्पुनाति च ॥ ९५ ॥
वापीकूपतडागेषु यत्रयत्र जलं द्विजाः ॥
तत्रतत्र नरः स्नातः सर्वपापैः प्रमुच्यते ॥ ९६ ॥
किं य्रज्ञैः किं वृथा दानैः क व्रतैः किं जपैरपि ॥
वरं तत्र कृतो वासः क्षेत्रे स्वर्गमभीप्सुभिः ॥ ९७ ॥
एतत्पवित्रमायुष्यं मांगल्यं पापनाशनम् ॥
हाटकेश्वरजक्षेत्रमाहात्म्यं शृण्वतां सदा ॥ ९८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गोकर्णतीर्थमाहात्म्य वर्णनंनाम षड्विंशोऽध्यायः ॥ २६ ॥ ॥ छ ॥