स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०२२

विकिस्रोतः तः
Jump to navigation Jump to search


॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तीर्थे शक्रसमुद्रवम्॥
स्वामिद्रोहकृतात्पापान्निर्मुक्तो यत्र लक्ष्मणः ॥ १ ॥
कथं तत्र पुरा शक्रः स्वामिद्रोहसमुद्भवात् ॥
पातकादेव निर्मुक्तः कस्मिन्काले च सूतज॥२॥
कस्माद्दितेर्महेन्द्रेण कृतं कृत्यं तथाविधम् ॥
येन संसूदितो गर्भः सर्वं विस्तरतो वद ॥३॥
॥ सूत उवाच ॥ ॥
ब्रह्मणो दक्षिणांगुष्ठाज्जज्ञे दक्षः प्रजापतिः ॥
स च संजनयामास पचाशत्कन्यकाः शुभाः ॥४॥
ददौ च दश धर्माय कश्यपाय त्रयोदश ॥
दिव्येन विधिना दक्षः सप्तविंशतिमिंदवे ॥ ५ ॥
अदितिश्च दितिश्चैव द्वे भार्ये मुख्यतां गते ॥
कश्यपस्य द्विजश्रेष्ठाः प्राणेभ्योऽपि प्रिये सदा ॥ ६ ॥
ततः स जनयामास देवाञ्च्छक्रपुरःसरान्॥
अदित्यां चैव दैत्यांश्च दित्यां स बलवत्तरान् ॥७॥
तेषां त्रैलोक्यराज्यार्थं मिथो जज्ञे महाहवः ॥
तत्र शक्रेण ते दैत्याः संग्रामे विनिपातिताः ॥ ८ ॥
ततः शोकपरा चक्रे दितिर्व्रतमनुत्तमम् ॥
पुत्रार्थं नियमोपेता क्षेत्रेऽत्रैव समाहिता ॥ ९ ॥
ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः ॥
उवाच परितुष्टोऽस्मि वरं प्रार्थय वांछितम् ॥ ६.२२.१० ॥
साऽब्रवीद्यदि मे तुष्टस्त्वं देव शशिशेखर ॥
तत्पुत्रं देहि देवानां सर्वेषां बलवत्तरम्॥
यज्ञभागप्रभोक्तारं देवानां दर्पनाशनम् ॥ ११ ॥
अवध्यं संगरे पूर्वैः सर्वैदेवैः सवासवैः ॥
स तथेति प्रतिज्ञाय जगामादर्शनं हरः ॥ १२ ॥
दितिश्चैवाऽदधाद्गर्भं कश्यपान्मुनिपुंगवात् ॥
ततः शक्रो भयं चक्रे ज्ञात्वा तं गर्भसंभवम्॥
वदतो मुनिमुख्यस्य नारदस्य महात्मनः ॥ १३ ॥
ततो दुष्टां मतिं कृत्वा तस्य गर्भस्य नाशने ॥
चक्रे तस्याः स शुश्रूषां दिवारात्रमतंद्रितः ॥ १४ ॥
छिद्रमन्वेषमाणस्तु सुसूक्ष्ममपि च द्विजाः ॥
न तस्या लभते क्वाऽपि गता मासा नवैव तु ॥ १५ ॥
ततश्च दशमे मासि संप्राप्ते प्रसवोद्भवे ॥
गर्भालसा निशावक्त्रे सुप्ता सा दक्षिणामुखी ॥ १६ ॥
निद्रावशं तु संप्राप्ता विसंज्ञा समपद्यत॥
शक्रहस्तावमर्दोत्थपादसौख्येन निश्चला ॥ १७ ॥
तां विसंज्ञामथो वीक्ष्य त्यक्त्वा पादौ शतक्रतुः ॥
प्रविवेशोदरं तस्यास्तीक्ष्णं शस्त्रं करे दधत् ॥
तेनाऽसौ सप्तधा चके गर्भं शस्त्रेण देवपः ॥ १८ ॥
अथाऽपश्यत्क्षणात्सप्त वालकान्पूर्णविग्रहान् ॥
ततस्तानपि सप्तैव सप्तधा कृतवान्हरिः ॥ १९ ॥
जाता एकोनपञ्चाशदथ तत्रैव बालकाः ॥
तान्दृष्ट्वा वृद्धिमापन्नांस्ततो भीतः शतक्रतुः ॥
निश्चक्रामोदरातूर्णं दित्या यावन्न लक्षितः ॥ ६.२२.२० ॥
ततः प्रभाते विमले प्रोद्गते रविमंडले ॥
दितिः संजनयामास सप्तधा सप्त बालकान्॥ २१ ॥
ततोऽभ्येत्य सहस्राक्षो दुर्गंधेन समावृतः ॥
निस्तेजा म्लानवक्त्रश्च लज्जयाऽ धोमुखः स्थितः ॥ २२ ॥
तं दृष्ट्वा तादृशं शक्रं दितिः प्रोवाच सादरम् ॥
प्रणतं संस्थितं पार्श्वे भयव्याकुलचेतसम् ॥ २३ ॥
किं त्वं शक्र निरु त्साहस्तेजोद्युतिविवर्जितः ॥
शरीरात्तव दुर्गन्धः कस्मादीदृक्प्रजायते ॥ २४ ॥
किं त्वया निहतो विप्रोगुरुर्वाबालकोऽथवा ॥
नारी वा येन ते नष्टं तेजो गात्रसमुद्भवम् ॥ २५ ॥
हतो नखांभसा वा त्वं घृष्टः शूर्पानिलेन च ॥
अजामार्जनिकोत्थैश्चरजोभिर्वा समाश्रितः ॥ २६ ॥
॥ शक्र उवाच ॥ ॥
सत्यमेतन्महाभागे यत्त्वयोक्तोऽस्मि सांप्रतम् ॥
रात्रौ प्रविष्टः सुप्ताया जठरे तव पापकृत् ॥ २७ ॥
कृन्तश्चैकोनपञ्चाशत्कृत्वो गर्भो मया शुभे ॥
तावन्मात्रास्ततो जाता बालकाः सर्व एव ते ॥ २८ ॥
ततो भीत्या विनिष्क्रान्तस्त्वया देवि न लक्षितः ॥
एतस्मात्कारणाज्जाता तेजोहानिरनिन्दिते ॥ २९ ॥
॥ दितिरुवाच ॥ ॥
यस्मात्सत्यं त्वया प्रोक्तं पुरतो मम देवप ॥
तस्मात्प्रार्थय मत्तस्त्वं वरं यन्मनसेप्सि तम् ॥ ६.२२.३० ॥
॥ शक्र उवाच ॥ ॥
एते तव सुता देवि च्छिद्यमाना मयासिना ॥
रुदन्तो वारिता मन्दं मा रुदन्तु मुहुर्मुहुः ॥ ३१ ॥
मरुतो नामविख्यातास्तस्मात्संतुजगत्रये ॥
दैत्यभावविनिर्मुक्ता मद्विधेया मम प्रियाः ॥ ३२ ॥
यज्ञभागभुजः सर्वे भविष्यंति मया सह ॥
यस्मादेतन्मया तीर्थं बालकैस्तव मंडितम् ॥ ३३ ॥
बहुभिर्यास्यति ख्यातिं बालमंडनमित्यतः ॥
या च स्त्री गर्भसंयुक्ता स्नानं भक्त्या करिष्यीत ॥
न भविष्यंति छिद्राणि तस्या गर्भे कथंचन ॥ ३४ ॥
प्राप्ते प्रसवकाले तु या जलं प्राशयिष्यति ॥
तीर्थस्यास्य सुखेनैव प्रसविष्यति सा सुतम् ॥ ३५ ॥ ॥
॥ दितिरुवाच ॥ ॥
तवोच्छेदाय देवेश याचितः प्राङ्मया हरः ॥
एकं देव सुतं देहि सर्वदेवनिबर्हणम् ॥ ३६ ॥
त्वया चैकोनपंचाशत्प्रकारः स विनिर्मितः ॥
यस्मादृतं त्वया प्रोक्तं तस्मादेतद्भविष्यति ॥ ३७ ॥
॥ सूत उवाच ॥ ॥
ततः प्रभृति ते जाता मरुतो विबुधैः समम् ॥
यज्ञभागस्य भोक्तारो दितेः शक्रस्य शासनात् ॥ ३८॥
अथ प्राह सहस्राक्षो देवाचार्यं बृहस्पतिम् ॥
मातुर्द्रोहकृतं पापं कथं यास्यति संक्ष यम्॥ ३९ ॥
॥ बृहस्पतिरुवाच ॥ ॥
अत्रैव कुरु देवेन्द्र तपः पापविशुद्धये ॥
तीर्थे यत्र कृतं पापं सर्वपातकनाशने ॥६.२२.४॥।
न यज्ञैर्न च दानेन नान्यैस्तीर्थसमाश्रयैः ॥
मातुर्द्रोहकृतं पापं नाशं याति पुरंदर ॥
एवमेतत्परित्यज्य तीर्थं मातुस्तवाऽऽश्रयम् ॥४॥।
॥ सूत उवाच ॥ ॥
ततस्तूर्णं सह साक्षः सहस्राक्षेशसंज्ञितम् ॥
लिंगं संस्थापयामास स्वयमेव द्विजोत्तमाः ॥ ४२ ॥
त्रिकालं पूजयामासपुष्पधूपानुलेपनैः ॥
तथान्यैर्बलिसत्का रैर्गीतैर्नृत्यैःपृथग्विधैः ॥ ४३ ॥
ततो वर्षसहस्रांते तुष्टस्तस्य महेश्वरः ॥
प्रोवाच वरदोऽस्मीति शक्र प्रार्थय वांछितम् ॥ ४४ ॥
॥ शक्र उवाच ॥ ॥।
मातुर्द्रोहकृतं पापं यातु मे त्रिपुरांतक ॥
तथाऽन्येषां मनुष्याणां येऽत्र त्वां श्रद्धयान्विताः ॥
पूजयिष्यंति सद्भक्त्या स्नानं कृत्वा समाहिताः ॥ ४५ ॥ ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय जगामादर्शनं हरः ॥
शक्रोऽपि रहितः पापैर्जगाम त्रिदशालयम् ॥ ४६ ॥
एवं तत्र समुत्पन्नं तीर्थं तद्बालमंडनम् ॥।
स्वामिद्रोहकृतात्पापान्मुच्यंते यत्र मानवाः ॥ ४७ ॥
एतद्वः सर्वमाख्यातं बालमंडनसंभवम् ॥
माहात्म्यं तु द्विज श्रेष्ठाः शृणुध्वमथ सादरम् ॥ ४८ ॥
आश्विनस्य सिते पक्षे दशम्यादि यथाक्रमम् ॥
यस्तत्र कुरुते श्राद्धं यावत्पंचदशी तिथिः ॥ ४९ ॥
तीर्थानां स हि सर्वेषां स्नानजं लभते फलम् ॥
श्राद्धस्य करणाद्वापि वाजिमेधफलं द्विजाः ॥ ६.२२.५० ॥
तस्मिन्काले सहस्राक्षः समागच्छति भूतले ॥
भागानां मर्त्यजातानां सेवनाय सदैव हि ॥ ५१ ॥
यावद्भूमितले शक्रस्तिष्ठत्येवं द्विजोत्तमाः ॥
तीर्थे तीर्थानि सर्वाणि तावत्तिष्ठन्ति तत्र वै॥५२॥।
तस्मात्सर्वप्रयत्नेन तस्मिन्काले विशेषतः ॥
स्नात्वा तत्र शुभे तीर्थै शक्रेश्वरमथाऽर्चयेत् ॥ ५३ ॥
अत्र श्लोकौ पुरा गीतौ नारदैन सुर षिंणा॥
शृण्वंतु मुनयः सर्वे कीर्त्यमानौ मया हि तौ ॥ ५४ ॥
बालमंडनके स्नात्वा शक्रेश्वरमथेक्षयेत् ॥
यः पुमानाश्विने मासि प्राप्ते श्रवण पञ्चके ॥
स पापैर्मुच्यते सर्वैराजन्ममरणाद्भुवि ॥ ५५ ॥
प्रभावात्तस्य तीर्थस्य सत्यमेतद्द्विजोत्तमाः ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये बालमण्डनतीर्थमाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः॥२२॥