स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३१

विकिस्रोतः तः


अध्याय १३१

श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले नागतीर्थमनुत्तमम् ।
यत्र सिद्धा महानागा भये जाते ततो नृप ॥ १३१.१ ॥

युधिष्ठिर उवाच -
महाभयानां लोकस्य नागानां द्विजसत्तम ।
कथं जातं भयं तीव्रं येन ते तपसि स्थिताः ॥ १३१.२ ॥
भूतं भव्यं भविष्यच्च यत्सुरासुरमानवे ।
तात ते विदितं सर्वं तेन मे कौतुकं महत् ॥ १३१.३ ॥
मम संतापजं दुःखं दुर्योधनसमुद्भवम् ।
तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतम् ॥ १३१.४ ॥
श्रुत्वा तव मुखोद्गीतां कथां पापप्रणाशनीम् ।
भूयो भूयः स्मृतिर्जाता श्रवणे मम सुव्रत ॥ १३१.५ ॥
न क्लेशत्वं द्विजे युक्तं न चान्यो जानते फलम् ।
विद्यादानस्य महतः श्रावितस्य सुतस्य च ॥ १३१.६ ॥
एवं ज्ञात्वा यथान्यायं यः प्रश्नः पृच्छितो मया ।
कथा तु कथ्यतां विप्र दयां कृत्वा ममोपरि ॥ १३१.७ ॥

मार्कण्डेय उवाच -
यथा यथा त्वं नृप भाषसे च तथा तथा मे सुखमेति भारती ।
शैथिल्यभावाज्जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात ॥ १३१.८ ॥
कथयामि यथावृत्तमितिहासं पुरातनम् ।
कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत ॥ १३१.९ ॥
द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे ।
गरुत्मतो वै विनता सर्पाणां कद्रुरेव च ॥ १३१.१० ॥
अश्वसंदर्शनात्ताभ्यां कलिरूपं व्यवस्थितम् ।
प्रभातकाले राजेन्द्र भास्कराकारवर्चसम् ॥ १३१.११ ॥
तं दृष्ट्वा विनता रूपमश्वं सर्वत्र पाण्डुरम् ।
अथ तां कद्रूमवोचत्सा पश्य पश्य वरानने ॥ १३१.१२ ॥
उच्चैःश्रवसः सादृश्यं पश्य सर्वत्र पाण्डुरम् ।
धावमानमविश्रान्तं जवेन पवनोपमम् ॥ १३१.१३ ॥
तं दृष्ट्वा सहसा यान्तमीर्ष्याभावेन मोहिता ।
कृष्णं मत्वा तथाजल्पत्तया सह नृपोत्तम ॥ १३१.१४ ॥
विनते त्वं मृषा लोके नृशंसे कुलपांसनि ।
कृष्णं चैनं वद श्वेतं नरकं यास्यसे परम् ॥ १३१.१५ ॥

विनतोवाच -
सत्यानृते तु वचने पणोऽयं ते ममैव तु ।
सहस्रं वत्सरान्दासी भवेयं तव वेश्मनि ॥ १३१.१६ ॥
तथेति ते प्रतिज्ञाय रात्रौ गत्वा स्वकं गृहम् ।
परित्यज्य उभे ते तु क्रोधमूर्छितमूर्छिते ॥ १३१.१७ ॥
बन्धुगर्वस्य गत्वा तु कथयामास तं पणम् ।
कद्रूर्विनतया सार्द्धं यद्वृत्तं प्रमदालये ॥ १३१.१८ ॥
तच्छ्रुत्वा बान्धवाः सर्वे कद्रूपुत्रास्तथैव च ।
न मन्यन्ते हितं कार्यं कृतं मात्रा विगर्हितम् ॥ १३१.१९ ॥
अकृष्णः कृष्णतामम्ब कथं गच्छेद्धयोत्तमः ।
दासत्वं प्राप्स्यसे त्वं हि पणेनानेन सुव्रते ॥ १३१.२० ॥

कद्रूरुवाच -
भवेयं न यथादासी तत्कुरुध्वं हि सत्वरम् ।
विशध्वं रोमकूपेषु तस्याश्वस्य मतिर्मम ॥ १३१.२१ ॥
क्षणमात्रं कृते कार्ये सा दासी च भवेन्मम ।
ततः स्वस्थोरगाः सर्वे भविष्यथ यथासुखम् ॥ १३१.२२ ॥
सर्पा ऊचुः ।
यथा त्वं जननी देवि पन्नगानां मता भुवि ।
तथापि सा विशेषेण वञ्चितव्या न कर्हिचित् ॥ १३१.२३ ॥

कद्रूरुवाच -
मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः ।
हव्यवाहमुखं सर्वे ते यास्यन्त्यविचारिताः ॥ १३१.२४ ॥
एतच्छ्रुत्वा तु वचनं घोरं मातृमुखोद्भवम् ।
केचित्प्रविष्टा रोमाणि तथान्ये गिरिसंस्थिताः ॥ १३१.२५ ॥
केचित्प्रविष्टा जाह्नव्यामन्ये च तपसि स्थिताः ॥ १३१.२६ ॥
ततो वर्षसहस्रान्ते तुतोष परमेश्वरः ।
महादेवो जगद्धाता ह्युवाच परया गिरा ॥ १३१.२७ ॥
भो भोः सर्पा निवर्तध्वं तपसोऽस्य महत्फलम् ।
यमिच्छथ ददाम्यद्य नात्र कार्या विचारणा ॥ १३१.२८ ॥
सर्पा ऊचुः ।
कद्रूशापभयाद्भीता देवदेव महेश्वर ।
तव पार्श्वे वसिष्यामो यावदाभूतसम्प्लवम् ॥ १३१.२९ ॥

देवदेव उवाच -
एकश्चायं महाबाहुर्वासुकिर्भुजगोत्तमः ।
मम पार्श्वे वसेन्नित्यं सर्वेषां भयरक्षकः ॥ १३१.३० ॥
अन्येषां चैव सर्पाणां भयं नास्ति ममाज्ञया ।
आप्लुत्य नर्मदातोये भुजगास्ते च रक्षिताः ॥ १३१.३१ ॥
नास्ति मृत्युभयं तेषां वसध्वं यत्र चेप्सितम् ।
कद्रूशापभयं नास्ति ह्येष मे विस्तरः परः ॥ १३१.३२ ॥
एवं दत्त्वा वरं तेषां देवदेवो महेश्वरः ।
जगामाकाशमाविश्य कैलासं धरणीधरम् ॥ १३१.३३ ॥
गते चादर्शनं देवे वासुकिप्रमुखा नृप ।
स्थापयित्वा तथा जग्मुर्देवदेवं महेश्वरम् ॥ १३१.३४ ॥
तत्र तीर्थे तु यः कश्चित्पञ्चम्यामर्चयेच्छिवम् ।
तस्य नागकुलान्यष्टौ न हिंसन्ति कदाचन ॥ १३१.३५ ॥
मृतः कालेन महता तत्र तीर्थे नरेश्वर ।
शिवस्यानुचरो भूत्वा वसते कालमीप्सितम् ॥ १३१.३६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकत्रिंशदधिकशततमोऽध्यायः ॥