स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १२४

विकिस्रोतः तः


अध्याय १२४

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल नर्मदेश्वरमुत्तमम् ।
तत्र तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥ १२४.१ ॥
अग्निप्रवेशश्च जलेऽथवा मृत्युरनाशके ।
अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥ १२४.२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥