स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०४७

विकिस्रोतः तः
← अध्यायः ४६ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ४७
वेदव्यासः
अध्यायः ४८ →


अध्याय ४७

श्रीमार्कण्डेय उवाच -
गीर्वाणाश्च ततः सर्वे ब्रह्माणं शरणं गताः ।
गजैर्गिरिवराकारैर्हयैश्चैव गजोपमैः ॥ ४७.१ ॥
स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः ।
कच्छपैर्महिषैश्चान्यैर्मकरैश्च तथापरे ॥ ४७.२ ॥
ब्रह्मलोकमनुप्राप्ता देवाः शक्रपुरोगमाः ।
दृष्ट्वा पद्मोद्भवं देवं साष्टाङ्गं प्रणताः सुराः ॥ ४७.३ ॥
देवा ऊचुः ।
जय देव जगद्वन्द्य जय संसृतिकारक ।
पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः ॥ ४७.४ ॥
सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम् ।
मेघगम्भीरया वाचा देवराजमुवाच ह ॥ ४७.५ ॥
किमत्रागमनं देवाः सर्वेषां वै विवर्णता ।
केनापमानिताः सर्वे शीघ्रं मे कथ्यतां स्वयम् ॥ ४७.६ ॥
देवा ऊचुः ।
अन्धकाख्यो महादैत्यो बलवान् पद्मसम्भव ।
तेन देवगणाः सर्वे धनरत्नैर्वियोजिताः ॥ ४७.७ ॥
हत्वा देवगणांस्तावदसिचक्रपरद्द्विश्वधैः ।
गृहीत्वा शक्रभार्यां स दानवोऽपि गतो बलात् ॥ ४७.८ ॥
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
चिन्तयामास राजेन्द्र वधार्थं दानवस्य ह ॥ ४७.९ ॥
अवध्यो दानवः पापः सर्वेषां वो दिवौकसाम् ।
स त्राता सर्वजगतां नान्यो विद्येत कुत्रचित् ॥ ४७.१० ॥
एवमुक्ताः सुराः सर्वे ब्रह्मणा तदनन्तरम् ।
ब्रह्माणं ते पुरस्कृत्य गता यत्र स केशवः ।
तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माद्याश्चक्रपाणिनम् ॥ ४७.११ ॥
देवा ऊचुः ।
जय त्वं देवदेवेश लक्ष्म्या वक्षःस्थलाश्रितः ।
असुरक्षय देवेश वयं ते शरणं गताः ॥ ४७.१२ ॥
स्तूयमानः सुरैः सर्वैर्ब्रह्माद्यैश्च जनार्दनः ।
सम्प्रहृष्टमना भूत्वा सुरसङ्घमुवाच ह ॥ ४७.१३ ॥

श्रीवासुदेव उवाच -
स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी ।
किं कार्यं प्रोच्यतां क्षिप्रं कस्य रुष्टा दिवौकसः ॥ ४७.१४ ॥
किं दुःखं कश्च संतापः कुतो वा भयमागतम् ।
कथयन्तु महाभागाः कारणं यन्मनोगतम् ॥ ४७.१५ ॥
पराभवः कृतो येन सोऽद्य यातु यमालयम् ।
एवमुक्तास्तु कृष्णेन कथयामासुरस्य तत् ॥ ४७.१६ ॥
दर्शयन्तः स्वकान्देहान् लज्जमाना ह्यधोमुखाः ।
हृतराज्या ह्यन्धकेन कृता निस्तेजसः प्रभो ॥ ४७.१७ ॥
पितेव पुत्रं परिरक्ष देव जहीन्द्रशत्रुं सह पुत्रपौत्रैः ।
तथेति चोक्तः कमलासनेन सुरासुरैर्वन्दितपादपद्मः ॥ ४७.१८ ॥
शङ्खं चक्रं गदां चापं संगृह्य परमेश्वरः ।
उत्थितो भोगपर्यङ्काद्देवानां पुरतस्तदा ॥ ४७.१९ ॥

श्रीवासुदेव उवाच -
पाताले यदि वा मर्त्ये नाके वा यदि तिष्ठति ।
तं हनिष्याम्यहं पापं येन संतापिताः सुराः ॥ ४७.२० ॥
स्वं स्थानं यान्तु गीर्वाणाः संतुष्टा भावितौजसः ।
विष्णोस्तद्वचनं श्रुत्वा ब्रह्माद्यास्ते सवासवाः ॥ ४७.२१ ॥
स्वयानैस्तु हरिं नत्वा हृदि तुष्टा दिवं ययुः ॥ ४७.२२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गीर्वाणस्वर्गमनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥