स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०४१

विकिस्रोतः तः


अध्याय ४१

श्रीमार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम् ।
यत्र सिद्धो महायक्षः कुण्डधारो नृपोत्तम ॥ ४१.१ ॥
तपः कृत्वा सुविपुलं सुरासुरभयंकरम् ।
पौलस्त्यमन्दिरे चैव चिक्रीड नृपसत्तम ॥ ४१.२ ॥

युधिष्ठिर उवाच -
कस्मिन्युगे समुत्पन्नः कस्य पुत्रो महामतिः ।
तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः ॥ ४१.३ ॥
एतद्विस्तरतस्तात कथयस्व ममानघ ।
शृण्वतश्च न तृप्तिर्मे कथामृतमनुत्तमम् ॥ ४१.४ ॥

श्रीमार्कण्डेय उवाच -
त्रेतायुगे ब्रह्मसमः पौलस्त्योनाम विश्रवाः ।
तपः कृत्वा सुविपुलं भरद्वाजसुतोद्भवः ॥ ४१.५ ॥
पुत्रं पौत्रगणैर्युक्तं पत्न्या भक्त्या सुतोषितः ।
धनदं जनयामास सर्वलक्षणलक्षितम् ॥ ४१.६ ॥
जातमात्रं तु तं ज्ञात्वा ब्रह्मा लोकपितामहः ।
चकार नाम सुप्रीत ऋषिदेवसमन्वितः ॥ ४१.७ ॥
यस्माद्विश्रवसो जातो मम पौत्रत्वमागतः ।
तस्माद्वैश्रवणो नाम तव दत्तं मयानघ ॥ ४१.८ ॥
तथा त्वं सर्वदेवानां धनगोप्ता भविष्यसि ।
चतुर्थो लोकपालानामक्षयश्चाव्ययो भुवि ॥ ४१.९ ॥
तस्य भार्या महाराज ईश्वरीति च विश्रुता ।
यक्षो यक्षाधिपः श्रेष्ठस्तस्य कुण्डोऽभवत्सुतः ॥ ४१.१० ॥
स च रूपं परं प्राप्य मातापित्रोरनुज्ञया ।
तपश्चचार विपुलं नर्मदातटमाश्रितः ॥ ४१.११ ॥
ग्रीष्मे पञ्चाग्निसंतप्तो वर्षासु स्थण्डिलेशयः ।
हेमन्ते जलमध्यस्थो वायुभक्षः शतं समाः ॥ ४१.१२ ॥
एवं वर्षशते पूर्णे एकाङ्गुष्ठेऽभवन्नृप ।
अस्थिभूतः परं तात ऊर्ध्वबाहुस्ततः परम् ॥ ४१.१३ ॥
अतपच्च घृतश्वासः कुण्डलो भरतर्षभ ।
चतुर्थे वर्षशतके तुतोष वृषवाहनः ॥ ४१.१४ ॥
वरं वृणीष्व भो वत्स यत्ते मनसि रोचते ।
ददामि ते न सन्देहस्तपसा तोषितो ह्यहम् ॥ ४१.१५ ॥

कुण्डल उवाच -
यक्षाधिपप्रसादेन तस्यैवानुचरः पुरे ।
विचरामि यथाकाममवध्यः सर्वशत्रुषु ॥ ४१.१६ ॥
तथेत्युक्त्वा महादेवः सर्वलोकनमस्कृतः ।
जगामाकाशमाविश्य कैलासं धरणीधरम् ॥ ४१.१७ ॥
गते चादर्शनं देवे सोऽपि यक्षो मुदान्वितः ।
स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम् ॥ ४१.१८ ॥
अलंकृत्वा जगन्नाथं पुष्पधूपानुलेपनैः ।
विमानैश्चामरैश्छत्रैस्तथा वै लिङ्गपूरणैः ॥ ४१.१९ ॥
तर्पयित्वा द्विजान्सम्यगन्नपानादिभूषणैः ।
प्रीणयित्वा महादेवं ततः स्वभवनं ययौ ॥ ४१.२० ॥
तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
उत्तमं परमं पुण्यं कुण्डलेश्वरनामतः ॥ ४१.२१ ॥
तत्र तीर्थे तु यः कश्चिदुपवासपरायणः ।
अर्चयेद्देवमीशानं सर्वपापैः प्रमुच्यते ॥ ४१.२२ ॥
सुवर्णं रजतं वापि मणिं मौक्तिकमेव च ।
दद्याद्भोज्यं ब्राह्मणेभ्यः स सुखी मोदते दिवि ॥ ४१.२३ ॥
तत्र तीर्थे तु यः स्नात्वा ऋग्यजुःसामगोऽपि वा ।
ऋचमेकां जपित्वा तु सकलं फलमश्नुते ॥ ४१.२४ ॥
गां प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव ।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥ ४१.२५ ॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
स्वर्गे वासो भवेत्तस्य पुत्रपौत्रैः समन्वितः ॥ ४१.२६ ॥
तावन्ति वर्षाणि महानुभावः स्वर्गे वसेत्पुत्रपौत्रैश्च सार्द्धम् ।
तत्रान्नदो याति महेशलोकमसंख्यवर्षाणि न संशयोऽत्र ॥ ४१.२७ ॥
स वै सुखी मोदते स्वर्गलोके गन्धर्वसिद्धाप्सरःसम्प्रगीते ।
एवं तु ते धर्मसुत प्रभावस्तीर्थस्य सर्वः कथितश्च पार्थ ॥ ४१.२८ ॥
श्रुत्वा स्तुवन्मुच्यते सर्वपापैः पुनस्त्रिलोकीमिह तत्प्रभावात् ॥ ४१.२९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कुण्डलेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः ॥