स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०२६

विकिस्रोतः तः
Jump to navigation Jump to search

युधिष्ठिर उवाच -
जालेश्वरेऽपि यत्प्रोक्तं त्वया पूर्वं द्विजोत्तम ।
तत्कथं तु भवेत्पुण्यमृषिसिद्धनिषेवितम् ॥ २६.१ ॥

श्रीमार्कण्डेय उवाच -
जालेश्वरात्परं तीर्थं न भूतं न भविष्यति ।
तस्योत्पत्तिं कथयतः शृणु त्वं पाण्डुनन्दन ॥ २६.२ ॥
पुरा ऋषिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः ।
तापिता असुरैः सर्वैः क्षयं नीता ह्यनेकशः ॥ २६.३ ॥
बाणासुरप्रभृतिभिर्जम्भशुम्भपुरोगमैः ।
वध्यमाना ह्यनेकैश्च ब्रह्माणं शरणं गताः ॥ २६.४ ॥
विमानैः पर्वताकारैर्हयैश्चैव गजोपमैः ।
स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः ॥ २६.५ ॥
कच्छपैर्मकरैश्चान्ये जग्मुरन्ये पदातयः ।
प्राप्य ते परमं स्थानमशक्यं यदधार्मिकैः ॥ २६.६ ॥
दृष्ट्वा पद्मोद्भवं देवं सर्वलोकस्य शङ्करम् ।
ते सर्वे तत्र गत्वा तु स्तुतिं चक्रुः समाहिताः ॥ २६.७ ॥
देवा ऊचुः ।
जयामेय जयाभेद जय सम्भूतिकारक ।
पद्मयोने सुरश्रेष्ठ त्वां वयं शरणं गताः ॥ २६.८ ॥
तच्छ्रुत्वा तु वचो देवो देवानां भावितात्मनाम् ।
मेघगम्भीरया वाचा प्रत्युवाच पितामहः ॥ २६.९ ॥
किं वो ह्यागमनं देवाः सर्वेषां च विवर्णता ।
केनावमानिताः सर्वे शीघ्रं कथयतामराः ॥ २६.१० ॥
देवा ऊचुः ।
बाणो नाम महावीर्यो दानवो बलदर्पितः ।
तेनास्माकं हृतं सर्वं धनरत्नैर्वियोजिताः ॥ २६.११ ॥
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
चिन्तयामास देवेशस्तस्य नाशाय या क्रिया ॥ २६.१२ ॥
अवध्यो दानवः पापः सर्वेषां वै दिवौकसाम् ।
मुक्त्वा तु शङ्करं देवं न मया न च विष्णुना ॥ २६.१३ ॥
तत्रैव सर्वे गच्छामो यत्र देवो महेश्वरः ।
स गतिश्चैव सर्वेषां विद्यतेऽन्यो न कश्चन ॥ २६.१४ ॥
एवमुक्त्वा सुरैः सर्वैर्ब्रह्मा वेदविदांवरः ।
ब्राह्मणैः सह विद्वद्भिरतो यत्र महेश्वरः ॥ २६.१५ ॥
स्तुतिभिश्च सुपुष्टाभिस्तुष्टाव परमेश्वरम् ॥ २६.१६ ॥
देवा ऊचुः ।
जय त्वं देवदेवेश जयोमार्धशरीरधृक् ।
वृषासन महाबाहो शशाङ्ककृतभूषण ॥ २६.१७ ॥
नमः शूलाग्रहस्ताय नमः खट्वाङ्गधारिणे ।
जय भूतपते देव दक्षयज्ञविनाशन ॥ २६.१८ ॥
पञ्चाक्षर नमो देव पञ्चभूतात्मविग्रह ।
पञ्चवक्त्रमयेशान वेदैस्त्वं तु प्रगीयसे ॥ २६.१९ ॥
सृष्टिपालनसंहारांस्त्वं सदा कुरुषे नमः ।
अष्टमूर्ते स्मरहर स्मर सत्यं यथा स्तुतः ॥ २६.२० ॥
पञ्चात्मिका तनुर्देव ब्राह्मणैस्ते प्रगीयते ।
सद्यो वामे तथाघोरे ईशो तत्पुरुषे तथा ॥ २६.२१ ॥
हेमजाले सुविस्तीर्णे हंसवत्कूजसे हर ।
एवं स्तुतो मुनिगणैर्ब्रह्माद्यैश्च सुरासुरैः ॥ २६.२२ ॥
प्रहृष्टः सुमना भूत्वा सुरसङ्घानुवाच ह ॥ २६.२३ ॥

ईश्वर उवाच -
स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी ।
किं कुर्मो वदत क्षिप्रं कोऽन्यः सेव्यः सुरासुरैः ॥ २६.२४ ॥
किं दुःखं को नु सन्तापः कुतो वो भयमागतम् ।
कथयध्वं महाभागाः कारणं यन्मनोगतम् ॥ २६.२५ ॥
एवमुक्तास्तु रुद्रेण प्रत्यवोचन्सुरर्षभाः ।
स्वान्स्वान्देहान्दर्शयन्तो लज्जमाना अधोमुखाः ॥ २६.२६ ॥
अस्ति घोरो महावीर्यो दानवो बलदर्पितः ।
बाणो नामेति विख्यातो यस्य तत्त्रिपुरं महत् ॥ २६.२७ ॥
तेन वै सुतपस्तप्तं दशवर्षशतानि हि ।
तस्य तुष्टोऽभवद्ब्रह्मा नियमेन दमेन च ॥ २६.२८ ॥
पुराणि तान्यभेद्यानि ददौ कामगमानि वै ।
आयसं राजतं चैव सौवर्णं च तथापरम् ॥ २६.२९ ॥
त्रिपुरं ब्रह्मणा सृष्टं भ्रमत्तत्कामगामि च ।
तस्यैव तु बलोत्कृष्टास्त्रिपुरे दानवाः स्थिताः ॥ २६.३० ॥
त्रैलोक्यं सकलं देव पीडयन्ति महासुराः ।
दण्डपाशासिशस्त्राणि अविकारे विकुर्वते ।
त्रिपुरं दानवैर्जुष्टं भ्रमत्तच्चक्रसंनिभम् ॥ २६.३१ ॥
क्वचिद्दृश्यमदृश्यं वा मृगतृष्णैव लक्ष्यते ॥ २६.३२ ॥
यस्मिन्पतति तद्दिव्यं दृप्तस्य त्रिपुरं महत् ।
न तत्र ब्राह्मणा देवा गावो नैव तु जन्तवः ॥ २६.३३ ॥
न तत्र दृश्यते किंचित्पतेद्यत्र पुरत्रयम् ।
नद्यो ग्रामाश्च देशाश्च बहवो भस्मसात्कृताः ॥ २६.३४ ॥
सुवर्णं रजतं चैव मणिमौक्तिकमेव च ।
स्त्रीरत्नं शोभनं यच्च तत्सर्वं कर्षते बलात् ॥ २६.३५ ॥
न शस्त्रेण न चास्त्रेण न दिवा निशि वा हर ।
शक्यते देवसङ्घैश्च निहन्तुं स कथंचन ॥ २६.३६ ॥
तद्दहस्व महादेव त्वं हि नः परमा गतिः ।
एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि ॥ २६.३७ ॥
येन देवाश्च गन्धर्वा ऋषयश्च तपोधनाः ।
परां धृतिं समायान्ति तत्प्रभो कर्तुमर्हसि ॥ २६.३८ ॥

ईश्वर उवाच -
एतत्सर्वं करिष्यामि मा विषादं गमिष्यथ ।
अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम् ॥ २६.३९ ॥
आश्वासयित्वा तान्देवान्सर्वानिन्द्रपुरोगमान् ।
चिन्तयामास देवेशस्त्रिपुरस्य वधं प्रति ॥ २६.४० ॥
कथं केन प्रकारेण हन्तव्यं त्रिपुरं मया ।
तमेकं नारदं मुक्त्वा नान्योपायो विधीयते ॥ २६.४१ ॥
एवं संस्तभ्य चात्मानं ततो ध्यातः स नारदः ।
तत्क्षणादेव सम्प्राप्तो वायुभूतो महातपाः ॥ २६.४२ ॥
कमण्डलुधरो देवस्त्रिदण्डी ज्ञानकोविदः ।
योगपट्टाक्षसूत्रेण छत्रेणैव विराजितः ॥ २६.४३ ॥
जटाजूटाबद्धशिरा ज्वलनार्कसमप्रभः ।
त्रिधा प्रदक्षिणीकृत्य दण्डवत्पतितो भुवि ॥ २६.४४ ॥
कृताञ्जलिपुटो भूत्वा नारदो भगवान्मुनिः ।
स्तोत्रेण महता शर्वः स्तुतो भक्त्या महामनाः ॥ २६.४५ ॥

नारद उवाच -
जय शम्भो विरूपाक्ष जय देव त्रिलोचन ।
जय शङ्कर ईशान रुद्रेश्वर नमोऽस्तु ते ॥ २६.४६ ॥
त्वं पतिस्त्वं जगत्कर्ता त्वमेव लयकृद्विभो ।
त्वमेव जगतां नाथो दुष्टातकनिषूदनः ॥ २६.४७ ॥
त्वं नः पाहि सुरेशान त्रयीमूर्ते सनातन ।
भवमूर्ते भवारे त्वं भजतामभयो भव ॥ २६.४८ ॥
भवभावविनाशार्थं भव त्वां शरणं भजे ।
किमर्थं चिन्तितो देव आज्ञा मे दीयतां प्रभो ॥ २६.४९ ॥
कस्य संक्षोभये चित्तं को वाद्य पततु क्षितौ ।
कमद्य कलहेनाहं योजये जयतांवर ॥ २६.५० ॥
नारदस्य वचः श्रुत्वा देवदेवो महेश्वरः ।
उत्फुल्लनयनो भूत्वा इदं वचनमब्रवीत् ॥ २६.५१ ॥
स्वागतं ते मुनिश्रेष्ठ सदैव कलहप्रिय ।
वीणावादनतत्त्वज्ञ ब्रह्मपुत्र सनातन ॥ २६.५२ ॥
गच्छ नारद शीघ्रं त्वं यत्र तत्त्रिपुरं महत् ।
बाणस्य दानवेन्द्रस्य सर्वलोकभयावहम् ॥ २६.५३ ॥
भर्तारो देवतातुल्याः स्त्रियस्तत्राप्सरःसमाः ।
तासां वै तेजसा चैव भ्रमते त्रिपुरं महत् ॥ २६.५४ ॥
न शक्यते कथं भेत्तुं सर्वोपायैर्द्विजोत्तम ।
गत्वा त्वं मोहय क्षिप्रं पृथग्धर्मैरनेकधा ॥ २६.५५ ॥

नारद उवाच -
तव वाक्येन देवेश भेदयामि पुरोत्तमम् ।
अभेद्यं बहुधोपायैर्यत्तु देवैः सवासवैः ॥ २६.५६ ॥
एवमुक्त्वा गतो भूप शतयोजनमायतम् ।
बाणस्य तत्पुरश्रेष्ठमृद्धिवृद्धिसमायुतम् ॥ २६.५७ ॥
कृतकौतुकसम्बाधं नानाधातुविचित्रितम् ।
अनेकहर्म्यसंछन्नमनेकायतनोज्ज्वलम् ॥ २६.५८ ॥
द्वारतोरणसंयुक्तं कपाटार्गलभूषितम् ।
बहुयन्त्रसमोपेतं प्राकारपरिखोज्ज्वलम् ॥ २६.५९ ॥
वापीकृपतडागैश्च देवतायतनैर्युतम् ।
हंसकारण्डवाकीर्णं पद्मिनीखण्डमण्डितम् ॥ २६.६० ॥
अनेकवनशोभाढ्यं नानाविहगमण्डितम् ।
एवं गुणगणाकीर्णं बाणस्य पुरमुत्तमम् ॥ २६.६१ ॥
तस्य मध्ये महाकायं सप्तकक्षं सुशोभितम् ।
बाणस्य भवनं दिव्यं सर्वं काञ्चनभूषितम् ॥ २६.६२ ॥
मौक्तिकादामशोभाढ्यं वज्रवैडूर्यभूषितम् ।
रुक्मपट्टतलाकीर्णं रत्नभूम्या सुशोभितम् ॥ २६.६३ ॥
मत्तमातङ्गनिःश्वासैः स्यन्दनैः संकुलीकृतम् ।
हयहेषितशब्दैश्च नारीणां नूपुरस्वनैः ॥ २६.६४ ॥
खड्गतोमरहस्तैश्च वज्राङ्कुशशरायुधैः ।
रक्षितं घोररूपैश्च दानवैर्बलदर्पितैः ॥ २६.६५ ॥
एवं गुणगणाकीर्णं बाणस्य भवनोत्तमम् ।
कैलासशिखरप्रख्यं महेन्द्रभवनोपमम् ॥ २६.६६ ॥
नारदो गगने शीघ्रमगमत्पुरसंमुखः ।
द्वारदेशं समासाद्य क्षत्तारं वाक्यमब्रवीत् ॥ २६.६७ ॥
भोभोः क्षत्तर्महाबुद्धे राजकार्यविशारद ।
शीघ्रं बाणाय चाचक्ष्व नारदो द्वारि तिष्ठति ॥ २६.६८ ॥
स वन्दयित्वा चरणौ नारदस्य त्वरान्वितः ।
सभामध्यगतं बाणं विज्ञप्तुमुपचक्रमे ॥ २६.६९ ॥
वेपमानाङ्गयष्टिस्तु करेणापिहिताननः ।
शृण्वतां सर्वयोधानामिदं वचनमब्रवीत् ॥ २६.७० ॥
वन्दितो देवगन्धर्वैर्यक्षकिन्नरदानवैः ।
कलिप्रियो दुराराध्यो नारदो द्वारि तिष्ठति ॥ २६.७१ ॥
द्वारपालस्य तद्वाक्यं श्रुत्वा बाणस्त्वरान्वितः ।
द्वाःस्थमाह महादैत्यः सविस्मयमिदं तदा ॥ २६.७२ ॥

बाण उवाच -
ब्रह्मपुत्रं सतेजस्कं दुःसहं दुरतिक्रमम् ।
प्रवेशय महाभागं किमर्थं वारितो बहिः ॥ २६.७३ ॥
श्रुत्वा प्रभोर्वचस्तस्य प्रावेशयदुदीरितम् ।
गत्वा वेगेन महता नारदं गृहमागतम् ॥ २६.७४ ॥
दृष्ट्वा देवर्षिमायान्तं नारदं सुरपूजितम् ।
साहसोत्थाय संहृष्टो ववन्दे चरणौ मुनेः ॥ २६.७५ ॥
ददौ चासनमर्घ्यं च पाद्यं पूजां यथाविधि ।
न्यवेदयच्च तद्राज्यमात्मानं बान्धवैः सह ॥ २६.७६ ॥
पप्रच्छ कुशलं चापि मुनिं बाणासुरः स्वयम् ॥ २६.७७ ॥

नारद उवाच -
साधु साधु महाबाहो दनोर्वंशविवर्द्धन ।
कोऽन्यस्त्रिभुवने श्लाघ्यस्त्वां मुक्त्वा दनुपुंगव ॥ २६.७८ ॥
पूजितोऽहं दनुश्रेष्ठ धनरत्नैः सुशोभनैः ।
राज्येन चात्मना वापि ह्येवं कः पूजयेत्परः ॥ २६.७९ ॥
न मे कार्यं हि भोगेन भुङ्क्ष्व राज्यमनामयम् ।
त्वद्दर्शनोत्सुकः प्राप्तो दृष्ट्वा देवं महेश्वरम् ॥ २६.८० ॥
भ्रमते त्रिपुरं लोके स्त्रीसतीत्वान्मया श्रुतम् ।
तान्द्रष्टुकामः सम्प्राप्तस्त्वद्दारान्दानवेश्वर ॥ २६.८१ ॥
मन्यसे यदि मे शीघ्रं दर्शयस्व च माचिरम् ।
नारदस्य वचः श्रुत्वा कञ्चुकिं समुदीक्ष्य वै ॥ २६.८२ ॥
अन्तःपुरचरं वृद्धं दण्डपाणिं गुणान्वितम् ।
उवाच राजा हृष्टात्मा शब्देनापूरयन्दिशः ॥ २६.८३ ॥
नारदाय महादेवीं दर्शयस्वेह कञ्चुकिन् ।
अन्तःपुरचरैः सर्वैः समेतामविशङ्कितः ॥ २६.८४ ॥
नाथस्याज्ञां पुरस्कृत्य गृहीत्वा नारदं करे ।
प्रविश्याकथयद्देव्यै नारदोऽयं समागतः ॥ २६.८५ ॥
दृष्ट्वा देवी मुनिश्रेष्ठं कृत्वा पादाभिवन्दनम् ।
आसनं काञ्चनं शुभ्रमर्घ्यपाद्यादिकं ददौ ॥ २६.८६ ॥
तस्यै स भगवांस्तुष्टो ह्याशीर्वादमदात्परम् ।
नान्या देवि त्रिलोकेऽपि त्वत्समा दृश्यतेऽङ्गना ॥ २६.८७ ॥
पतिव्रता शुभाचारा सत्यशौचसमन्विता ।
यस्याः प्रभावात्त्रिपुरं भ्रमते चक्रवत्सदा ॥ २६.८८ ॥
तच्छ्रुत्वा वचनं देवी नारदस्य सुदान्वितम् ।
पर्यपृच्छदृषिं भक्त्या धर्मं धर्मभृतांवरा ॥ २६.८९ ॥

राज्ञ्युवाच -
भगवन्मानुषे लोके देवास्तुष्यन्ति कैर्व्रतैः ।
कानि दानानि दीयन्ते येषां च स्यान्महत्फलम् ॥ २६.९० ॥
उपवासाश्च ये केचित्स्त्रीधर्मे कथिता बुधैः ।
यैः कृतैः स्वर्गमायान्ति सुकृतिन्यः स्त्रियो यथा ॥ २६.९१ ॥
यत्तत्सर्वं महाभाग कथयस्व यथातथम् ।
श्रोतुमिच्छाम्यहं सर्वं कथयस्वाविशङ्कितः ॥ २६.९२ ॥

नारद उवाच -
साधु साधु महाभागे प्रश्नोऽयं वेदितस्त्वया ।
यं श्रुत्वा सर्वनारीणां धर्मवृद्धिस्तु जायते ॥ २६.९३ ॥
उपवासैश्च दानैश्च पतिपुत्रौ वशानुगौ ।
बान्धवैः पूज्यते नित्यं यैः कृतैः कथयामि ते ॥ २६.९४ ॥
दुर्भगा सुभगा यैस्तु सुभगा दुर्भगा भवेत् ।
पुत्रिणी पुत्ररहिता ह्यपुत्रा पुत्रिणी तथा ॥ २६.९५ ॥
भर्तारं लभते कन्या तथान्या भर्तृवर्जिता ।
कृताकृतैश्च जायन्ते तन्निबोधस्व सुन्दरि ॥ २६.९६ ॥
तिलधेनुं सुवर्णं च रूप्यं गा वाससी तथा ।
पानीयं भूमिदानं च गन्धधूपानुलेपनम् ॥ २६.९७ ॥
पादुकोपानहौ छत्रं पुण्यानि व्यञ्जनानि च ।
पादाभ्यङ्गं शिरोऽभ्यङ्गं स्नानं शय्यासनानि च ॥ २६.९८ ॥
एतानि ये प्रयच्छन्ति नोपसर्पन्ति ते यमम् ।
मधु माषं पयः सर्पिर्लवणं गुडमौषधम् ॥ २६.९९ ॥
पानीयं भूमिदानं च शालीनिक्षुरसांस्तथा ।
आरक्तवाससी श्लक्ष्णे दम्पत्योर्ललितादिने ॥ २६.१०० ॥
सौभाग्यं जायते चैव इह लोके परत्र च ।
ब्राह्मणे वृत्तसम्पन्ने सुरूपे च गुणान्विते ॥ २६.१०१ ॥
तिथौ यस्यामिदं देयं तत्ते राज्ञि वदाम्यहम् ।
प्रतिपत्सु च या नारी पूर्वाह्णे च शुचिव्रता ॥ २६.१०२ ॥
इन्धनं ब्राह्मणे दद्यात्प्रीयतां मे हुताशनः ।
तस्या जन्मानि षट्त्रिंशदङ्गप्रत्यङ्गसन्धिषु ॥ २६.१०३ ॥
न रजो नैव सन्तापो जायते राजवल्लभे ।
द्वितीयायां तु या नारी नवनीतमुदान्विता ॥ २६.१०४ ॥
ददाति द्विजमुख्याय सुकुमारतनुर्भवेत् ।
लवणं विप्रवर्याय तृतीयायां प्रयच्छति ॥ २६.१०५ ॥
गौरी मे प्रीयतां देवी तस्याः पुण्यफलं शृणु ।
कौमारिका पतिं प्राप्य तेन सार्द्धमुमा यथा ॥ २६.१०६ ॥
क्रीडत्यविधवा चापि लभते सा महद्यशः ।
नक्तं कृत्वा चतुर्थ्यां वै दद्याद्विप्राय मोदकान् ॥ २६.१०७ ॥
प्रीयतां मम देवेशो गणनाथो विनायकः ।
तस्यास्तेन फलेनाशु सर्वकर्मसु भामिनि ॥ २६.१०८ ॥
विघ्नं न जायते क्वापि एवमाह पितामहः ।
पञ्चमीं तु ततः प्राप्य ब्राह्मणे तिलदा तु या ॥ २६.१०९ ॥
सा भवेद्रूपसम्पन्ना यथा चैव तिलोत्तमा ।
षष्ठ्यां तु या मधूकस्य फलदा तु भवेत्सदा ॥ २६.११० ॥
उद्दिश्य चाग्निजं देवं ब्राह्मणे वेदपारगे ।
तस्याः पुत्रो यथा स्कन्दो देवसङ्घेषु चोत्तमः ॥ २६.१११ ॥
उत्पद्यते महाराजः सर्वलोकेषु पूजितः ।
सप्तम्यां या द्विजश्रेष्ठं सुवर्णेन प्रपूजयेत् ॥ २६.११२ ॥
उद्दिश्य जगतो नाथं देवदेवं दिवाकरम् ।
तस्य पुण्यफलं यद्वै कथितं द्विजसत्तमैः ॥ २६.११३ ॥
तत्ते राज्ञि प्रवक्ष्यामि शृणुष्वैकमनाः सति ।
दद्रूचित्रककुष्ठानि मण्डलानि विचर्चिका ॥ २६.११४ ॥
न भवन्तीह चाङ्गेषु पूर्वकर्मार्जितान्यपि ।
कृष्णां धेनुं तथाष्टम्यां या प्रयच्छति भामिनी ॥ २६.११५ ॥
ब्राह्मणे वृत्तसम्पन्ने प्रीयतां मे महेश्वरः ।
तस्या जन्मार्जितं पापं नश्यते विभवान्विता ॥ २६.११६ ॥
जायते नात्र सन्देहो यस्माद्दानमनुत्तमम् ।
गन्धधूपं तु या नारी भक्त्या विप्राय दापयेत् ॥ २६.११७ ॥
कात्यायनीं समुद्दिश्य नवम्यां शृणु यत्फलम् ।
तस्या भ्राता पिता पुत्रः पतिर्वा रणमुत्तमम् ॥ २६.११८ ॥
प्राप्यते नैव सीदन्ति तेन दानेन रक्षिताः ।
इक्षुदण्डरसं देवि दशम्यां या प्रयच्छति ॥ २६.११९ ॥
लोकपालान्समुद्दिश्य ब्राह्मणे व्यङ्गवर्जिते ।
तेन दानेन सा नित्यं सर्वलोकस्य वल्लभा ॥ २६.१२० ॥
जायते नात्र सन्देह इत्येवं शङ्करोऽब्रवीत् ।
एकादश्यामुपोष्याथ द्वादश्यामुदकप्रदा ॥ २६.१२१ ॥
नारायणं समुद्दिश्य ब्राह्मणे विष्णुतत्परे ।
सा सदा स्पर्शसम्भाषैर्द्रावयेद्भावयेज्जनम् ॥ २६.१२२ ॥
यस्माद्दानं महर्लोके ह्यनन्तमुदके भवेत् ।
पादाभ्यङ्गं शिरोऽभ्यङ्गं काममुद्दिश्य वै द्विजे ॥ २६.१२३ ॥
ददाति च त्रयोदश्यां भक्त्या परमयाङ्गना ।
यस्यां यस्यां मृता जायेद्भूयो योन्यां तु जन्मनि ॥ २६.१२४ ॥
तस्यां तस्यां तु सा भर्तुर्न वियुज्येत कर्हिचित् ।
तथाप्येवं चतुर्दश्यां दद्यात्पात्रमुपानहौ ॥ २६.१२५ ॥
ब्रह्मणे धर्ममुद्दिश्य तस्या लोका ह्यनामयाः ।
एवं च पक्षपक्षान्ते श्राद्धे तर्पेद्द्विजोत्तमान् ॥ २६.१२६ ॥
अव्युच्छिन्ना सदा राज्ञि सन्ततिर्जायते भुवि ।
एवं ते तिथिमाहात्म्यं दानयोगेन भाषितम् ॥ २६.१२७ ॥
तथा वनस्पतीनां तु आराधनविधिं शृणु ।
जम्बूं निम्बतरुं चैव तिन्दुकं मधुकं तथा ॥ २६.१२८ ॥
आम्रं चामलकं चैव शाल्मलिं वटपिप्पलौ ।
शमीबिल्वामलीवृक्षं कदलीं पाटलीं तथा ॥ २६.१२९ ॥
अन्यान्पुण्यतमान्वृक्षानुपेत्य स्वर्गमाप्नुयात् ॥ २६.१३० ॥

नारद उवाच -
चैत्रे मासे तु या नारी कुर्याद्व्रतमनुत्तमम् ।
तस्य व्रतस्य चान्यानि कलां नार्हन्ति षोडशीम् ॥ २६.१३१ ॥
श्रुतेन येन सुभगे दुर्भगत्वं न पश्यति ।
यथा हिमं रविं प्राप्य विलयं याति भूतले ॥ २६.१३२ ॥
तथा दुःखं च दौर्भाग्यं व्रतादस्माद्विलीयते ।
मधुकाख्यां तु ललितामाराधयति येन वै ॥ २६.१३३ ॥
विधिं तं शृणु सुभगे कथ्यमानं सुखावहम् ।
चैत्रे शुक्लतृतीयायां सुस्नाता शुद्धमानसा ॥ २६.१३४ ॥
प्रतिमां मधुवृक्षस्य शाङ्करीमुमया सह ।
कारयित्वा द्विजवरैः प्रतिष्ठाप्य यथाविधि ॥ २६.१३५ ॥
सुगन्धिकुसुमैर्धूपैस्तथा कर्पूरकुङ्कुमैः ।
पूजयेद्विधिना देवं मन्त्रयुक्तेन भामिनी ॥ २६.१३६ ॥
पादौ नमः शिवायेति मेढ्रे वै मन्मथाय च ।
कालोदरायेत्युदरं नीलकंठाय कण्ठकम् ॥ २६.१३७ ॥
शिरः सर्वात्मने पूज्य उमां पश्चात्प्रपूजयेत् ।
क्षामोदरायैह्युदरं सुकण्ठायै च कण्ठकम् ॥ २६.१३८ ॥
शिरः सौभाग्यदायिन्यै पश्चादर्घ्यं प्रदापयेत् ॥ २६.१३९ ॥
नमस्ते देवदेवेश उमावर जगत्पते ।
अर्घ्येणानेन मे सर्वं दौर्भाग्यं नाशय प्रभो ।
इति अर्घ्यमन्त्रः ॥ २६.१४० ॥
अर्घ्यं दत्त्वा ततः पश्चात्करकं वारिपूरितम् ।
मधूकपात्रोपभृतं सहिरण्यं तु शक्तितः ॥ २६.१४१ ॥
करकं वारिसम्पूर्णं सौभाग्येन तु संयुतम् ।
दत्तं तु ललिते तुभ्यं सौभाग्यादिविवर्धनम् ।
इति करकदानमन्त्रः ॥ २६.१४२ ॥
मन्त्रेणानेन विप्राय दद्यात्करकमुत्तमम् ।
लवणं वर्जयेच्छुक्लां यावदन्यां तृतीयिकाम् ॥ २६.१४३ ॥
क्षमाप्य देवीं देवेशां नक्तमद्यात्स्वयं हविः ।
अनेन विधिना सार्धं मासि मासि ह्यपक्रमेत् ॥ २६.१४४ ॥
फाल्गुनस्य तृतीयायां शुक्लायां तु समाप्यते ।
वैशाखे लवणं देयं ज्येष्ठे चाज्यं प्रदीयते ॥ २६.१४५ ॥
आषाढे मासि निष्पावाः पयो देयं तु श्रावणे ।
मुद्गा देया नभस्ये तु शालिमाश्वयुजे तथा ॥ २६.१४६ ॥
कार्त्तिके शर्करापात्रं करकं रससंभृतम् ।
मार्गशीर्षे तु कार्पासं करकं घृतसंयुतम् ॥ २६.१४७ ॥
पौषे तु कुङ्कुमं देयं माघे पात्रं तिलैर्भृतम् ।
फाल्गुने मासि सम्प्राप्ते पात्रं मोदकसंभृतम् ॥ २६.१४८ ॥
पश्चात्तृतीयादेयं यत्तत्पूर्वस्यां विवर्जयेत् ।
विधानमासां सर्वासां सामान्यं मनसः प्रिये ॥ २६.१४९ ॥
प्रतिमां मधुवृक्षस्य तामेव प्रतिपूजयेत् ।
तस्मै सर्वं तु विप्राय आचार्याय प्रदीयते ॥ २६.१५० ॥
ततः संवत्सरस्यान्ते उद्यापनविधिं शृणु ।
मधुवृक्षं ततो गत्वा बहुसम्भारसंवृतः ॥ २६.१५१ ॥
निखनेत्प्रतिमां मध्ये माधूकीं मधुकस्य च ।
तत्रस्थं पूजयेत्सर्वमुमादेहार्द्धधारिणम् ॥ २६.१५२ ॥
पूजोपहारैर्विपुलैः कुङ्कुमेन पुनःपुनः ।
श्लक्ष्णाभिः पुष्पमालाभिः कौसुम्भैः केसरेण च ॥ २६.१५३ ॥
कौसुम्भे वाससी शुभ्रे अतसीपुष्पसन्निभे ।
परिधाप्य तां प्रतिमां दम्पती रविसंख्यया ॥ २६.१५४ ॥
उपानद्युगलैश्छत्रैः कण्ठसूत्रैः सकण्ठिकैः ।
कटकैरङ्गुलीयैश्च शयनीयैः शुभास्तृतैः ॥ २६.१५५ ॥
कुङ्कुमेन विलिप्ताङ्गौ बहुपुष्पैश्च पूजितौ ।
भोजयेद्विविधै रत्नैर्मधूकावासके स्थितौ ॥ २६.१५६ ॥
भुक्तोत्थितौ तु विश्राम्य शय्यासु च क्षमापयेत् ।
गुरुमूलं यतः सर्वं गुरुर्ज्ञेयो महेश्वरः ॥ २६.१५७ ॥
प्रीते गुरौ ततः सर्वं जगत्प्रीतं सुरासुरम् ।
यद्यदिष्टतमं लोके यत्किंचिद्दयितं गृहे ॥ २६.१५८ ॥
तत्सर्वं गुरवे देयमात्मनः श्रेय इच्छता ।
इदं तु धनिभिर्देयमन्यैर्देयं यथोच्यते ॥ २६.१५९ ॥
दाम्पत्यमेकं विधिवत्प्रतिपूज्य शुभव्रतैः ।
द्वितीयं गुरुदाम्पत्यं वित्तशाठ्यं विवर्जयेत् ॥ २६.१६० ॥
ततः क्षमापयेद्देवीं देवं च ब्राह्मणं गुरुम् ।
यथा त्वं देवि ललिते न वियुक्तासि शम्भुना ॥ २६.१६१ ॥
तथा मे पतिपुत्राणामवियोगः प्रदीयताम् ।
अनेन विधिना कृत्वा तृतीयां मधुसंज्ञिकाम् ॥ २६.१६२ ॥
इन्द्राणी चेन्द्रपत्नीत्वमवाप सुतमुत्तमम् ।
सौभाग्यं सर्वलोकेषु सर्वर्द्धिसुखमुत्तमम् ॥ २६.१६३ ॥
अनेन विधिना या तु कुमारी व्रतमाचरेत् ।
शोभनं पतिमाप्नोति यथेन्द्राण्या शतक्रतुः ॥ २६.१६४ ॥
दुर्भगा सुभगत्वं च सुभगा पुत्रिणी भवेत् ।
पुत्रिण्यक्षयमाप्नोति न शोकं पश्यति क्वचित् ॥ २६.१६५ ॥
अनेकजन्मजनितं दौर्भाग्यं नश्यति ध्रुवम् ।
मृता तु त्रिदिवं प्राप्य उमया सह मोदते ॥ २६.१६६ ॥
कल्पकोटिशतं साग्रं भुक्त्वा भोगान् यथेप्सितान् ।
पुनस्तु सम्भवे लोके पार्थिवं पतिमाप्नुयात् ॥ २६.१६७ ॥
सुभगा रूपसम्पन्ना पार्थिवं जनयेत्सुतम् ॥ २६.१६८ ॥
एतत्ते कथितं सर्वं व्रतानामुत्तमं व्रतम् ।
अन्यत्पृच्छस्व सुभगे वाञ्छितं यद्धृदि स्थितम् ॥ २६.१६९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मधूकतृतीयाव्रतविधानमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥