स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०१४

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय १४

युधिष्ठिर उवाच -
ततस्त ऋषयः सर्वे महाभागास्तपोधनाः ।
गतास्तु परमं लोकं ततः किं जातमद्भुतम् ॥ १४.१ ॥

श्रीमार्कण्डेय उवाच -
ततस्तेषु प्रयातेषु नर्मदातीरवासिषु ।
बभूव रौद्रसंहारः सर्वभूतक्षयंकरः ॥ १४.२ ॥
कैलासशिखरस्थं तु महादेवं सनातनम् ।
ब्रह्माद्याः प्रास्तुवन् देवमृग्यजुःसामभिः शिवम् ॥ १४.३ ॥
संहर त्वं जगद्देव सदेवासुरमानुषम् ।
प्राप्तो युगसहस्रान्तः कालः संहरणक्षमः ॥ १४.४ ॥
मद्रूपं तु समास्थाय त्वया चैतद्विनिर्मितम् ।
वैष्णवीं मूर्तिमास्थाय त्वयैतत्परिपालितम् ॥ १४.५ ॥
एका मूर्तिस्त्रिधा जाता ब्राह्मी शैवी च वैष्णवी ।
सृष्टिसंहाररक्षार्थं भवेदेवं महेश्वर ॥ १४.६ ॥
एतच्छ्रुत्वा वचस्तथ्यं विष्णोश्च परमेष्ठिनः ।
सगणः सपरीवारः सह ताभ्यां सहोमया ॥ १४.७ ॥
समलोकान्विभिद्येमान्भगवान्नीललोहितः ।
भूराद्यब्रह्मलोकान्तं भित्त्वाण्डं परतः परम् ॥ १४.८ ॥
शैवं पदमजं दिव्यमाविशत्सह तैर्विभुः ।
न तत्र वायुर्नाकाशं नाग्निस्तत्र न भूतलम् ॥ १४.९ ॥
यत्र संतिष्ठे देव उमया सह शङ्करः ।
न सूर्यो न ग्रहास्तत्र न ऋक्षाणि दिशस्तथा ॥ १४.१० ॥
न लोकपाला न सुखं न च दुःखं नृपोत्तम ॥ १४.११ ॥
ब्राह्मं पदं यत्कवयो वदन्ति शैवं पदं यत्कवयो वदन्ति ।
क्षेत्रज्ञमीशं प्रवदन्ति चान्ये सांख्याश्च गायन्ति किलादिमोक्षम् ॥ १४.१२ ॥
यद्ब्रह्म आद्यं प्रवदन्ति केचिद्यं सर्वमीशानमजं पुराणम् ।
तमेकरूपं तमनेकरूपमरूपमाद्यं परमव्ययाख्यम् ॥ १४.१३ ॥
अवर्णमप्यर्थमनामगोत्रं तुर्यं पदं यत्कवयो वदन्ति ।
ध्यानार्थविज्ञानमयं सुसूक्ष्ममात्मस्थमीशानवरं वरेण्यम् ॥ १४.१४ ॥
ततस्त्रयस्ते भगवन्तमीशं सम्प्राप्य संक्षिप्य भवन्त्यर्थकम् ।
पृथक्स्वरूपैस्तु पुनस्त एव जगत्समस्तं परिपालयन्ति ॥ १४.१५ ॥
संहारं सर्वभूतानां रुद्रत्वे कुरुते प्रभुः ।
विष्णुत्वे पालयेल्लोकान्ब्रह्मत्वे सृष्टिकारकः ॥ १४.१६ ॥
प्रकृत्या सह संयुक्तः कालो भूत्वा महेश्वरः ।
विश्वरूपा महाभागा तस्य पार्श्वे व्यवस्थिता ॥ १४.१७ ॥
यामाहुः प्रकृतिं तज्ज्ञाः पदार्थानां विचक्षणाः ।
पुरुषत्वे प्रकृतित्वे च कारणं परमेश्वरः ॥ १४.१८ ॥
तस्मादेतज्जगत्सर्वं चराचरम् ।
तस्मिन्नेव लयं याति युगान्ते समुपस्थिते ॥ १४.१९ ॥
भगलिङ्गाङ्कितं सर्वं व्याप्तं वै परमेष्ठिना ।
भगरूपो भवेद्विष्णुर्लिङ्गरूपो महेश्वरः ॥ १४.२० ॥
भाति सर्वेषु लोकेषु गीयते भूर्भुवादिषु ।
प्रविष्टः सर्वभूतेषु तेन विष्णुर्भगः स्मृतः ॥ १४.२१ ॥
विशनाद्विष्णुरित्युक्तः सर्वदेवमयो महान् ।
भासनाद्गमनाच्चैव भगसंज्ञा प्रकीर्तिता ॥ १४.२२ ॥
ब्रह्मादिस्तम्बपर्यन्तं यस्मिन्नेति लयं जगत् ।
एकभावं समापन्नं लिङ्गं तस्माद्विदुर्बुधाः ॥ १४.२३ ॥
महादेवस्ततो देवीमाह पार्श्वे स्थितां तदा ।
संहरस्व जगत्सर्वं मा विलम्बस्व शोभने ॥ १४.२४ ॥
त्यज सौम्यमिदं रूपं सितचन्द्रांशुनिर्मलम् ।
रुद्रं रूपं समास्थाय संहरस्व चराचरम् ॥ १४.२५ ॥
रौद्रैर्भूतगणैर्घोरैर्देवि त्वं परिवारिता ।
जीवलोकमिमं सर्वं भक्षयस्वाम्बुजेक्षणे ॥ १४.२६ ॥
ततोऽहं मर्दयिष्यामि प्लावयिष्ये तथा जगत् ।
कृत्वा चैकार्णवं भूयः सुखं स्वप्स्ये त्वया सह ॥ १४.२७ ॥

श्रीदेव्युवाच -
नाहं देव जगच्चैतत्संहरामि महाद्युते ।
अम्बा भूत्वा विचेष्टं न भक्षयामि भृशातुरम् ॥ १४.२८ ॥
स्त्रीस्वभावेन कारुण्यं करोति हृदयं मम ।
कथं वै निर्दहिष्यामि जगदेतज्जगत्पते ॥ १४.२९ ॥
तस्मात्त्वं स्वयमेवेदं जगत्संहर शङ्कर ।
अथैवमुक्तस्तां देवीं धूर्जटिर्नीललोहितः ॥ १४.३० ॥
क्रुद्धो निर्भर्त्सयामास हुङ्कारेण महेश्वरीम् ।
ओं हुंफट्त्वं स इत्याह कोपाविष्टैरथेक्षणैः ॥ १४.३१ ॥
हुंकारिता विशालाक्षी पीनोरुजघनस्थला ।
तत्क्षणाच्चाभवद्रौद्रा कालरात्रीव भारत ॥ १४.३२ ॥
हुंकुर्वती महानादैर्नादयन्ती दिशो दश ।
व्यवर्धत महारौद्रा विद्युत्सौदामिनी यथा ॥ १४.३३ ॥
विद्युत्सम्पातदुष्प्रेक्ष्या विद्युत्संघातचञ्चला ।
विद्युज्ज्वालाकुला रौद्रा विद्युदग्निनिभेक्षणा ॥ १४.३४ ॥
मुक्तकेशी विशालाक्षी कृशग्रीवा कृशोदरी ।
व्याघ्रचर्माम्बरधरा व्यालयज्ञोपवीतिनी ॥ १४.३५ ॥
वृश्चिकैरग्निपुञ्जाभैर्गोनसैश्च विभूषिता ।
त्रैलोक्यं पूरयामास विस्तारेणोच्छ्रयेण च ॥ १४.३६ ॥
भासुराङ्गा तु संवृत्ता कृष्णसर्पैककुण्डला ।
चित्रदण्डोद्यतकरा व्याघ्रचर्मोपसेविता ॥ १४.३७ ॥
व्यवर्धत महारौद्रा जगत्संहारकारिणी ।
सृक्किणी लेलिहाना च क्रूरफूत्कारकारिणी ॥ १४.३८ ॥
व्यात्तास्या घुर्घुरारावा जगत्संक्षोभकारिणी ।
खेलद्भूतानुगा क्रूरा निःश्वासोच्छ्वासकारिणी ॥ १४.३९ ॥
जाताट्टअहासा दुर्नासा वह्निकुण्डसमेक्षणा ।
प्रोद्यत्किलकिलारावा ददाह सकलं जगत् ॥ १४.४० ॥
दह्यमानाः सुरास्तत्र पतन्ति धरणीतले ।
पतन्ति यक्षगन्धर्वाः सकिन्नरमहोरगाः ॥ १४.४१ ॥
पतन्ति भूतसङ्घाश्च हाहाहैहैविराविणः ।
बुम्बापातैः सनिर्घातैरुदितार्तस्वरैरपि ॥ १४.४२ ॥
व्याप्तमासीत्तदा विश्वं त्रैलोक्यं सचराचरम् ।
संपतद्भिः पतद्भिश्च ज्वलद्भूतगणैर्मही ॥ १४.४३ ॥
जातैश्चटचटाशब्दैः पतद्भिर्गिरिसानुभिः ।
तत्र रौद्रोत्सवे जाता रुद्रानन्दविवर्धिनी ॥ १४.४४ ॥
विहिंसमाना भूतानि चर्वमाणाचरानपि ।
तत्तद्गन्धमुपादाय शिवारावविराविणी ॥ १४.४५ ॥
गलच्छोणितधाराभिमुखा दिग्धकलेवरा ।
चण्डशीलाभवच्चण्डी जगत्संहारकर्मणि ॥ १४.४६ ॥
येऽपि प्राप्ता महर्लोकं भृग्वाद्याश्च महर्षयः ।
तेऽपि नश्यन्ति शतशो ब्रह्मक्षत्त्रविशादयः ॥ १४.४७ ॥
देवासुरा भयत्रस्ताः सयक्षोरगराक्षसाः ।
विशन्ति केऽपि पातालं लीयन्ते च गुहादिषु ॥ १४.४८ ॥
सा च देवी दिशः सर्वा व्याप्य मृत्युरिव स्थिता ।
युगक्षयकरे काले देवेन विनियोजिता ॥ १४.४९ ॥
एकापि नवधा जाता दशधा दशधा तथा ।
चतुःषष्टिस्वरूपा च शतरूपाट्टहासिनी ॥ १४.५० ॥
जज्ञे सहस्ररूपा च लक्षकोटितनुः शिवा ।
नानारूपायुधाकारा नानावादनचारिणी ॥ १४.५१ ॥
एवंरूपाऽभवद्देवी शिवस्यानुज्ञया नृप ।
दिक्षु सर्वासु गगने विकटायुधशीलिनः ॥ १४.५२ ॥
रुन्धन्तो नश्यमानांस्तान्गणा माहेश्वराः स्थिताः ।
विचरन्ति तया सार्द्धं शूलपट्टिशपाणयः ॥ १४.५३ ॥
ततो मातृगणाः केचिद्विनायकगणैः सह ।
व्यवर्धन्त महारौद्रा जगत्संहारकारिणः ॥ १४.५४ ॥
ततस्तस्या व्यवर्धन्त दंष्ट्राः कुन्देन्दुसन्निभाः ।
योजनानां सहस्राणि अयुतान्यर्बुदानि च ॥ १४.५५ ॥
दंष्ट्रावलिः कररुहाः क्रूरास्तीक्ष्णाश्च कर्कशाः ।
वियद्दिशो लिखन्त्येव सप्तद्वीपां वसुंधराम् ॥ १४.५६ ॥
तस्या दंष्ट्राभिसम्पातैश्चूर्णिता वनपर्वताः ।
शिलासंचयसंघाता विशीर्यते सहस्रशः ॥ १४.५७ ॥
हिमवान्हेमकूटश्च निषधो गन्धमादनः ।
माल्यवांश्चैव नीलश्च श्वेतश्चैव महागिरिः ॥ १४.५८ ॥
मेरुमध्यमिलापीठं सप्तद्वीपं च सार्णवम् ।
लोकालोकेन सहितं प्राकम्पत नृपोत्तम ॥ १४.५९ ॥
दंष्ट्राशनिविस्पृष्टाश्च विशीर्यन्ते महाद्रुमाः ।
उत्पातैश्च दिशो व्याप्ता घोररूपैः समन्ततः ॥ १४.६० ॥
तारा ग्रहगणाः सर्वे ये च वैमानिका गणाः ।
शिवासहस्रैराकीर्णा महामातृगणैस्तथा ॥ १४.६१ ॥
सा चचार जगत्कृत्स्नं युगान्ते समुपस्थिते ।
भ्रमद्भिश्च ब्रुवद्भिश्च क्रोशद्भिश्च समन्ततः ॥ १४.६२ ॥
प्रमथद्भिर्ज्वलद्भिश्च रौद्रैर्व्याप्ता दिशो दश ।
विस्तीर्णं शैलसङ्घातं विघूर्णितगिरिद्रुमम् ॥ १४.६३ ॥
प्रभिन्नगोपुरद्वारं केशशुष्कास्थिसंकुलम् ।
प्रदग्धग्रामनगरं भस्मपुंजाभिसंवृतम् ॥ १४.६४ ॥
चिताधूमाकुलं सर्वं त्रैलोक्यं सचराचरम् ।
हाहाकाराकुलं सर्वमहहस्वननिस्वनम् ॥ १४.६५ ॥
जगदेतदभूत्सर्वमशरण्यं निराश्रयम् ॥ १४.६६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कल्पानुकथने कालरात्रिकृतजगत्संहरणवर्णनं नाम चतुर्दशोऽध्यायः ॥