स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ५९

विकिस्रोतः तः

।। श्रीमहादेव उवाच ।। ।।
एकोनषष्टिकं विद्धि देवं सिद्धेश्वरं प्रिये ।।
यस्य दर्शनमात्रेण सिद्धिः पुंसां प्रजायते ।। १ ।।
आसीदश्वशिरानाम राजा परमधार्मिकः ।।
सोऽश्वमेधेन यज्ञेन इष्ट्वा सबहुदक्षिणम् ।। २ ।।
स्नातश्चावभृथे हृष्टो ब्राह्मणैः परिवारितः ।।
यावदास्ते स राजर्षिस्तावत्सिद्धोऽतिदीप्तिमान् ।। ३ ।।
नानौषधिप्रभावज्ञो मंत्रतंत्र विशारदः ।।
आययौ कपिलः श्रीमान्जैगीषव्यश्च सिद्धराट् ।। ४ ।।
तयोस्त्वरितमुत्थाय स राजाभ्यागतक्रियाम् ।।
चकार परया युक्तो मुदा वै पृथि वीपतिः ।। ५ ।।
तावर्चितावासनस्थौ क्षमाशीलौ शुचिव्रतौ ।।
महौजसौ महाभागौ मुमुक्षू मुनिपुंगवौ ।। ।।
विद्याविनयसंपन्नौ ब्रह्मचर्यपरायणौ ।।
अनेकसृष्टिसंहारस्थितिकार्यपरायणौ ।। ७ ।।
उदयादित्यसंकाशौ विभावसुसमद्युती।।
तेजोराशिसमायुक्तौ दुर्निरीक्ष्यौ पृथग्जनैः ।।८।।
विनयेनोपसंगम्य प्रणिपत्याभिवाद्य च ।।
स राजा प्रांजलिर्भूत्वा प्रश्नमेनमपृच्छत ।। ९ ।।
।। अश्वशिरा उवाच ।। ।।
श्रुतं मया मुनिश्रेष्ठौ नान्यो देवो जनार्द्दनात् ।।
ध्यातोथ पूजितो नॄणां मुक्तिदो भवबंधनात् ।। 5.2.59.१० ।।
संस्मृते तु हृषीकेशे नराणां कोटिजन्मजम् ।।
अशुभं क्षयमाप्नोति कथं न प्रणमेद्धरिम् ।। ११ ।।
समाराध्य जगन्नाथं शक्राद्यास्त्रिदिवौकसः ।।
वसंति मुदिताः स्वर्गे दिव्यद्युतिसमन्विताः ।। १२ ।।
जन्ममृत्युजरा रोगैर्दुःखानि विविधानि च ।।
प्रयांति विलयं सद्यः प्रसन्ने गरुडध्वजे ।। १३ ।।
इति पृष्टस्तदा तेन प्रार्थितेन यशस्विना ।।
ऊचतुस्तं नृपं सिद्धौ सिद्धिविज्ञानकोविदौ ।। १४ ।।
क एष प्रोच्यते राजंस्त्वया नारायणोऽधुना ।।
आवां नारायणौ द्वौ तु त्वत्प्रत्यक्षं गतौ नृप ।। १५ ।।
।। अश्वशिरा उवाच ।। ।।
भवंतौ ब्राह्मणौ सिद्धौ तपसा दग्धकिल्विषौ ।।
युवां नारायणौ कस्मादिति वाक्यमुवाच सः ।। १६ ।।
शंखचक्रगदापाणिः पीतवासा जनार्द्दनः ।।
गरुडस्थो हृषीकेशः कस्तस्य सदृशो भुवि ।। १७ ।।
तस्य राज्ञो वचः श्रुत्वा संसिद्धौ योगकोविदौ ।।
दर्शयामासतुस्तौ हि कृत्वा नारायणं वपुः ।। १८ ।।
कपिलो मंत्रमाहात्म्यात्स्वयं विष्णुर्बभूव ह ।।
शंखचक्रगदापाणिः पीतवासाश्च तत्क्षणात् ।। १९ ।।
जैगीषव्यश्च गरुडस्तत्क्षणात्समजायत ।।
ततः समभवत्तत्र राजवेश्मनि कौतुकम् ।। 5.2.59.२० ।।
दृष्ट्वा नारायणं देवं गरुडस्थं सनातनम् ।।
आश्चर्यं तादृशं दृष्ट्वा स राजा विस्मयान्वितः ।।
उवाच क्षाम्यतां सिद्धौ नायं विष्णुरथेदृशः ।। २१ ।।
तस्य ब्रह्मा समुत्पन्नो नाभिपंकजमध्यतः ।।
तस्मात्तु ब्रह्मणो रुद्रः स विष्णुः परमेश्वरः ।। २ ।।
इति राज्ञो वचः श्रुत्वा तदा तौ सिद्धसत्तमौ ।।
चक्रतुः परमां मायां योगाचार्यौ सुमांत्रिकौ ।। २३ ।।
कपिलः पद्मनाभस्तु पद्ममध्ये प्रजापतिः ।।
बभूव स्वयमेवात्र सहसा योगतस्तदा ।। २४ ।।
जैगीषव्योऽथ रुद्रस्तु तस्यैवांके व्यवस्थितः ।।
ददर्श महदाश्चर्यं स राजा योगमोहितः ।। २५ ।।
कौतुकात्प्रत्युवाचेदं भीतः कंपितकन्धरः ।।
नेत्थं भवति विश्वेशो माया योगिनां तदा ।।
सर्वरूपी हरिः श्रीमान्सर्वगः सर्वदः स्मृतः ।। २६ ।।
ततो वाक्यावसाने तु तस्य राज्ञश्च संसदि ।।
मशका मत्कुणा यूका भ्रमराः पक्षिणो मृगाः ।। २७ ।।
अश्वा गावो हयाः सिंहा व्याघ्रा गोमहिषास्तथा ।।
अन्येपि पशवः कीटा ग्राम्यारण्याश्च सर्वशः ।। २८ ।।
दृश्यंते राजभवने कोटिशः पर्वतात्मजे ।।
तं दृष्ट्वा भूतसंघातं राजा विस्मितमानसः ।। २९ ।।
यावच्चिंतयते किं स्यात्तावज्ज्ञातं नृपेण हि ।।
जैगीषव्यस्य माहात्म्यं कपिलस्य महात्मनः ।। 5.2.59.३० ।।
कृतांजलिपुटो भूत्वा स राजाऽश्वशिरास्तदा ।।
पप्रच्छ च द्विजौ भक्त्या किमिदं सिद्धसत्तमौ ।। ३१ ।।
सामर्थ्यमीदृशं लब्धं कस्माद्वै तपसो बलात् ।।
अद्य मे सफलोत्पत्तिरद्य मे सफलं श्रुतम् ।। ३२ ।।
सफला मे मनोवृत्तिर्युवयोर्दर्शनेन वै ।।
तस्य तद्वचनं श्रुत्वा कपिलो वाक्यमब्रवीत् ।। ३३ ।।
महाकालवने राजन्विद्यते लिंगमुत्तमम् ।।
ख्यातं सिद्धेश्वरं नाम्ना सिद्धैरभ्यर्चितं सदा ।। ३४ ।।
सौभाग्येश्वरपूर्वे तु सौभाग्यारोग्यदायकम् ।।
प्रभावात्तस्य लिंगस्य प्राप्ता सिद्धिरनुत्तमा ।। ३५ ।।
जैगीषव्येन सिद्धेन मया वैं नृपसत्तम ।।
तस्माद्व्रज महाबाहो महाकालवनं शुभम् ।। ३६ ।।
तत्र द्रक्ष्यसि सर्वेशं शंखचक्रगदाधरम ।।
लिंगमूर्त्तौ स्थितं विष्णुं यस्ते सिद्धिं प्रदास्यति ।। ३७ ।।
संसिद्धा बहवस्तत्र सनकाद्या नरेश्वर ।।
तस्य तद्वचनं श्रुत्वा कपिलस्य महात्मनः ।। ३८ ।।
जगाम सहसा तत्र स राजाश्वशिरास्तदा ।।
ददर्श चैव तौ सिद्धौ सिद्धेश्वरसमीपतः ।। ३९ ।।
अन्ये च बहवः सिद्धाः सिद्धनाथास्तथा परे ।।
ज्ञात्वा सिद्धेश्वरं देवं सिद्धसंघैः समर्चितम् ।। 5.2.59.४० ।।
लिंगमध्ये स्थित विष्णुं ज्ञात्वा स नृपसत्तमः ।।
पूजयामास भावेन परमेण समाधिना ।। ४१ ।।
ततस्तुष्टोऽब्रवीद्देवो वरं वरय सुव्रत ।।
यत्तेभिलषितं सर्वमहं दास्यामि भूपते ।। ४२ ।।
लिंगस्य वचनं श्रुत्वा नृपेणोक्तं च तच्छृणु ।।
यदि मेऽस्ति दया देव प्रसन्नोऽसि हि चेत्प्रभो ।। ४३ ।।
यत्ते रूपं परं नाथ तद्दर्शय ममाच्युत ।।
एतदेव हि मे देव सदाभिलषितं हृदि ।। ४४ ।।
आजन्मनो जगन्नाथ कदा द्रक्ष्ये जनार्द्दनम् ।।
एतदिच्छाम्यहं देव वराणां प्रवरं वरम् ।।
दीयमानं त्वयाभीष्टं ख्यातं सिद्धेश्वरं क्षितौ ।। ४५ ।।
नृपस्य वचनं श्रुत्वा लिंगेनोक्तं वरानने ।।
न मे विदुर्देवगणा नासुरा न महर्षयः ।। ४६ ।।
परं रूपं नृपश्रेष्ठ कृष्णोऽहं लिंगतां गतः ।।
ममलोकं तु ये प्राप्ता मुनयो मंत्रभूषिताः ।। ४७ ।।
न चैते मां विजानंति परमार्थेन पार्थिव ।।
यदेतद्दृश्यते तेजो लिंगरूपेण मामकम् ।। ४८ ।।
एतदेव हि ब्रह्माद्या ध्यायन्ति त्रिदशास्त्वमी ।।
अतो न मे परं रूपं द्रष्टुं कश्चित्क्षमो भवेत् ।। ४९ ।।
अनेकजन्मसंशुद्धा योगिनो मदनुग्रहात् ।।
प्रविशंति तनौ मह्यं मुक्ताः संसारबंधनैः ।।5.2.59.५०।।
एवं हि बुवतस्तस्य सिद्धिः प्राप्ता नृपेण हि।।
विष्णुरूपं समास्थाय तस्मिँल्लिंगे लयं गतः ।।५१।।
अतो देवि सुविख्यातं लिंगं सिद्धेश्वरं परम् ।।
ये पश्यंति नरा भक्त्या तेषां सिद्धिश्च शाश्वती ।। ५२ ।।
अंजनं पादलेपं च पादुकासिद्धिरेव च ।।
गुटिका खड्गसिद्धिश्च महासिद्धिः सुदुर्लभा ।। ५३ ।।
दिव्यौषधैश्च या सिद्धिर्मंत्रस्पर्शोद्भवा च या ।।
एतास्तु सिद्धयः प्रोक्ता अपरा लघिमादयः ।। ५४ ।।
धर्मार्थकाम सिद्धिश्च मोक्षसिद्धिरनुत्तमा ।।
जायते नात्र सन्देहः श्रीसिद्धेश्वरदर्शनात् ।। ५५ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
सिद्धेश्वरस्य देवस्य मतंगेशमथो शृणु ।। ५६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीति लिङ्गमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकोनषष्टितमोऽध्यायः ।। ५९ ।।