स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः २१

विकिस्रोतः तः

ईश्वर उवाच।।
एकविंशतिकं विद्धि कुक्कुटेश्वरसंज्ञकम्।।
यस्य दर्शनमात्रेण तिर्यग्योनिर्न लभ्यते।।१।।
कौशिकोनाम राजाभूत्कुक्कुटो जायते सदा।।
दृश्यते वासरे भागे सर्वाभरणभूषितः।।२।।
व्याप्ता च पृथिवी तेन सशैलवनकानना ।।
पूर्वकर्मप्रभावेन प्राप्तं राज्यमकण्टकम् ।। ३ ।।
विशालानाम विख्याता भार्या तस्य महीपतेः ।।
रूपलावण्यसंयुक्ता चतुःषष्टिकलान्विता ।।४।।
तया चकार सहितः स राज्यं राजसत्तमः ।।
सा वल्लभापि नृपतेः प्राणेभ्योऽपि गरीयसी ।। ५ ।।
तया सार्द्धं कदाचिच्च सुरतं नास्ति पार्वति ।।
संतप्ता सर्वदा सा च रत्यभावाद्बभूव ह ।। ६ ।।
एवं गच्छति काले तु सह राज्ञा स्मरातुरा ।।
सर्वसत्त्वरुतज्ञा सा विशाला विपुलेक्षणा ।।
ददर्श कीटमिथुनमनंगकलहातुरम् ।। ७ ।।
प्रसादयंस्तथा कीटः स्वां प्रियां च मुहुर्मुहुः ।।
दासोऽस्मि तव कांतेऽहं रूपसौभाग्य सुन्दरि ।। ८ ।।
भजस्व मां यथाकाममनंगशरपीडितम् ।।
शिरसा प्रणतेनैव रचितस्ते मयांजलिः ।। ९ ।।
न त्वया सदृशी लोके कामिनी विद्यते क्वचित् ।।
सुवर्णवर्णसदृशी मद्भक्ता चारुहासिनी ।। 5.2.21.१० ।।
कुतो वा मयि दीने त्वं क्रुद्धेव प्रियवादिनि ।।
किमर्थं वद कल्याणि सरोषव दना स्थिता ।। ११ ।।
सा तमाह प्रकोपाच्च किमालपसि मां वृथा ।।
त्वया मोदकचूर्णं तु मां विहाय मनोरमाम् ।।
प्रदत्तं कामलुब्धेन अन्यस्य कीटकाधम ।। १२ ।।
नाहमेवं करिष्यामि कीटः प्राह पुनःपुनः ।।
स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे ।। १३ ।।
इति तद्वचनं श्रुत्वा सा प्रसन्नाभवत्तदा ।।
आत्मानमर्पयामास कामनाय पिपीलिका ।। १४ ।।
दृष्ट्वा तन्महदाश्चर्यं सा राज्ञी विललाप ह ।।
धिग्राज्यं धिक्च मे रूपं धिक्च यौवनमद्य मे ।।
न कामिताहं कांतेन मरिष्यामि न संशयः ।। १५ ।।
एवं विलप्य बहुधा विनिःश्वस्य पुनःपुनः ।।
उन्मत्तेव विशालाक्षी गालवस्याश्रमं गता ।। १६ ।।
दृष्ट्वा तमृषिमासीनं तपोयोनिं दृढव्रतम् ।।
उवाच प्रणतांगी सा शोकसंतप्तमानसा ।। १७ ।।
एकोऽयं संशयो ब्रह्मन्हृदये परिवर्त्तते।।
वश्योऽपि हि च मे भर्त्ता रूपलावण्यवानपि।।
न जाने कारणं किं तु संगमो नोपजायते।।१८।।
यो गत्वा प्रमदाराज्यं जित्वा सर्वाः पुरा रणे।।
आजहार शुभास्तासां मध्यादष्टौ वरांगनाः।।
नैव कामयते तासु किमेतदिति सुव्रत।।१९।।
वाजिनो वारणाश्चैव धनधान्यमनंतकम्।।
वर्त्तते हि जनः सर्वो ममाज्ञां पालयन्क्षितौ।।5.2.21.२०।।
केन कर्मविपाकेन ममेदं यौवनं दृढम् ।।
व्यर्थं जातं द्विजश्रेष्ठ रतिं न कुरुते नृपः।। ।। २१ ।।
दृश्यते वासरे भागे रात्रौ चैव न दृश्यते ।।
इहजन्मकृतं चैतदाहोस्वित्पारलौकिकम् ।। २२ ।।
दुष्कृतावर्जनं ब्रह्मन्ममेदं वक्तुमर्हसि ।।
तस्यास्तद्वचनं श्रुत्वा गालवो वाक्यमब्रवीत्।। २३।।
शृणु पुत्रि पुरावृत्तं बालभावेन यत्कृतम्।।
अनेन राज्ञा धर्मज्ञे रात्रौ येन न दृश्यते।।२४।।
विदूरथस्य तनयस्तव भर्ता स निश्चितम्।।
मांसाहारी दोषरतिर्विषयासक्तमानसः।।२५।।
बहवः कुक्कुटास्तेन भक्षिता राजसूनुना ।। २६ ।।
एवं भक्षयतस्तस्य बहुशो वत्सरा गताः ।।
कालेन महता राज्ञा ताम्रचूडेन मंत्रिणः।।
पृष्टाः किं कारणं नात्र समायांति हि कुक्कुटाः ।। २७ ।।
अथ केनापि कथितं कुक्कुटानां च भक्षणम् ।।
विदूरथस्य पुत्रेण कौशिकेन दुरात्मना ।।
भक्षिताः कुक्कुटाः सर्वे विना कारणतो नृप ।। २८ ।।
ताम्रचूडोऽथ संक्रुद्धो ददौ शापं दुरात्मने ।।
कौशिकाय क्षयो रोगो भविष्यति भयावहः ।। ।। २९ ।।
तदाप्रभृत्यभूत्क्षीणो राजपुत्रो दिनेदिने ।।
औषधैरधिकोऽभ्येति व्याधिना पीडितो भृशम् ।। 5.2.21.३० ।।
अथ केनापि कामेन वामदेवाश्रमं गतः ।।
क्षयरोगाभिभूतोऽसौ मरणोत्सुकमानसः ।।
पप्रच्छ वामदेवं स नमस्कृत्य पुनःपुनः ।।३१।।
भगवन्केन पापेन क्षीयतेऽहर्निशं वपुः ।।
मदीयं पोष्यमाणं हि मांसेन विविधेन च ।। ३२ ।।
वामदेवोऽथ तं प्राह कुक्कुटा भक्षितास्त्वया ।।
ताम्रचूडेन शप्तोऽसि कुक्कुटानां नृपेण हि ।। ३३ ।।
तमेव शरणं गच्छ स उपायं वदिष्यति ।।
ततः स ताम्रचूडस्याभ्यर्णमागानृपात्मजः ।। ३४ ।।
दृष्ट्वा च ताम्रचूडं तं महाभक्त्या कृतांजलिः ।।
प्रोवाच प्रणतो भूत्वा पाहि मां शरणागतम्।।३५।।
अज्ञानाद्भक्षिता देव कुक्कुटाः पुष्टिकारणात् ।।
क्षंतुमर्हसि देवेश ममागः कृपणस्य च ।।३६।।
प्रोवाच ताम्रचूडोऽथ यस्मात्प्रार्थयसे नृप ।।
तस्मात्ते वासरे प्राप्ते पुरुषत्वं भविष्यति।।३७।।
शास्ता गोप्ता च लोकानां राजा दंडधरः प्रभुः ।।
कुक्कुटो भविता रात्रौ सर्वभोगविवर्जितः ।।३८।।
अतो न दृश्यते पुत्रि तिर्यग्भावं समाश्रितः।।३९।।
इति तस्य वचः श्रुत्वा गालवस्य महात्मनः ।।
सा संपूज्य विशालाक्षी गालवं मुनिसत्तमम् ।।
पप्रच्छ परया भक्त्या शापांतो हि कथं भवेत् ।। 5.2.21.४० ।।
गालवः कथयामास ध्यानेनालोक्य यत्नतः ।। ४१ ।।
महाकाल वने लिंगं पक्षियोनिविमोचनम् ।।
ज्वालेश्वरस्य देवस्य पूर्वभागे व्यवस्थितम् ।।
तस्य दर्शनमात्रेण शापस्यांतो भविष्यति ।। ४२ ।।
सा प्रणम्य मुनिश्रेष्ठमाजगाम त्वरान्विता ।।
यत्रास्ते नृपशार्दूलो विध्यन्बहुविधान्मृगान् ।। ४३ ।।
प्रफुल्लनयनाभ्यां सा दृष्टा लोलेक्षणा प्रिया ।।
आह्लादिता बहुविधैः कोमलैर्वचनामृतैः ।। ४४ ।।
ततस्तेन तदा राज्ञा प्रोक्ता सा मृगलोचना ।।
इदानीं कि मया कांते कार्यं भवति कथ्यताम् ।। ४५ ।।
तया प्रोक्तं महाराज गम्यतेऽद्य मया सह ।।
महाकालवने पुण्ये सर्वदुष्कृतनाशने ।। ४६ ।।
तस्यास्तद्वचनं श्रुत्वा त्वरमाणो मुदान्वितः ।।
तया नीतोऽथ नृपतिर्लिंगस्यास्य समीपतः ।। ४७ ।।
पूजयित्वाथ तल्लिंगं पक्षियोनिविमोचनम् ।।
तत्रैव च स्थितो राजा प्रियया सह पार्वति ।। ४८ ।।
तस्यां रात्रौ न संजातः कुक्कुटो यादृशः सदा ।।
शिवप्रसादादभवद्दिव्यरूपी मनोहरः ।। ४९ ।।
रूपेण निर्जितः कामस्तेनाप्रतिमतेजसा ।।
ततो विस्मयमापन्नश्चिंतयामास पार्थिवः ।।
कोऽयं प्रभावो येनाहं शापान्मुक्तः सुदुस्तरात् ।। 5.2.21.५० ।।
प्रियां पप्रच्छ नृपतिः पूर्णेन्दुवदनां भृशम् ।।
कथं शापाद्विमुक्तोऽहं केन पुण्येन कर्मणा ।। ५१ ।।
अथ सा कथयामास वृत्तांतं विस्तरान्मुदा ।।
गालवेन हि यत्प्रोक्तं यत्किंचिच्छापमोक्षणम् ।।५२।।
राजञ्छापाद्विमुक्तोऽसि लिंगस्यास्य प्रभावतः ।।
पुनः प्रसाद्य तल्लिंगं भुक्त्वा भोगांश्चिरं भुवि ।। ५३ ।।
तया सार्द्धं ययौ राजा स्वर्गं सुरगणैः स्तुतः ।।
तदाप्रभृति तल्लिंगं कुक्कुटेश्वरसंज्ञकम् ।। ५४ ।।
विख्यातं देवि लोकेऽस्मिन्सर्वकामफलप्रदम् ।।
तच्च ये पूजयिष्यंति कुक्कुटेश्वरसंज्ञकम् ।।
तिर्यग्योनिं न यास्यंति न वियोगो भविष्यति ।। ५५ ।।
न चापि नरकावाप्तिर्न दुःखं न जरा भयम् ।।
नाकाले मरणं नॄणां न च कष्टं भवि ष्यति ।। ५६ ।।
रूपसौभाग्यसंपन्ना भविष्यंति युगेयुगे ।।
चतुर्द्दश्यां प्रपश्यति लिंगं ये कुक्कुटेश्वरम् ।।
तेषां कुले च ये केचित्पितरो निरयस्थिताः ।। ।। ५७ ।।
तिर्यग्योनिगता ये च पशुयोनिं तु ये गताः ।।
वृक्षत्वमथवा प्राप्तास्तेषां मोक्षो भविष्यति ।। ५८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कुक्कुटेश्वरमाहात्म्यवर्णनंनामैकविंशोऽध्यायः ।। २१ ।। छ ।। ।।