सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः १८

विकिस्रोतः तः


।। श्रीशिव उवाच ।। ।।
देवमष्टादशं विद्धि ख्यातं कलकलेश्वरम् ।।
यस्य दर्शनमात्रेण कलहो नैव जायते ।। १ ।।
सर्वदुःखोपशमनं सर्वपाप प्रमोचनम्।।
व्याधिसर्पाग्निचौराणां शमनं वांछितप्रदम् ।। २ ।।
मम देवि त्वया सार्द्धं कलहः समपद्यत ।।
पुरा विस्तरतो वच्मि शृण्वेकाग्रमनाः शुभे ।। ३ ।।
यदा त्वं हिमशैलस्य दुहिता वरवर्णिनि ।।
तदा विवाहितं कांते यथोक्तविधिना मया ।। ४ ।।
विनिवृत्ते विवाहे च त्वया सार्द्धं वरानने ।।
महाकालीति नाम्ना वै वर्णेनापि च तादृशी ।। ५ ।।
नीलोत्पलनिभप्रख्या नीलकुंचितमूर्द्धजा ।।
अप्येकस्मिंस्तदा त्वं हि मातॄणां मंडपे शुभे ।।
मध्ये समुपविष्टासि कृष्णांजनसमप्रभा।। ६ ।।
कालि सुंदरि मत्पार्श्वे वल्लभे त्वमुपाविश ।।
शरीरे मम तन्वंगि सिते भास्यसितद्युतिः।।७।।
भुजंगीवासिता शुभ्रे संश्लिष्टा चंदने तरौ ।।
रजनीवासिते पक्षे दृष्टिदोषहरासि मे ।। ८ ।।
इत्युक्तासि मया देवि गिरिजे चारुहासिनि ।।
तदा प्रोक्तं त्वया वाक्यं मामुद्दिश्य सगद्गदम् ।। ९ ।।
यदा त्वया मदर्थे हि प्रेरिता वेदपारगाः ।।
सप्तर्षयो महाभागाः किंकृते न तदात्थ माम् ।। 5.2.१० ।।
तदा त्वया मदर्थेऽपि प्रार्थितो जनको मम ।।
हिमाद्रिराजो यत्नेन किं काली न तदात्थ माम् ।। ११ ।।
यदाप्युक्तं त्वया दैन्यान्मदर्थे गच्छ नारद ।।
प्रार्थ्यतां पार्वती शीघ्रं किं काली न तदात्थ माम् ।। १२ ।।
सत्येयं लौकिकी गाथा न वृथा परिजायते ।।
स्वकृतेन जनः सर्वो जाड्येन परि भूयते ।। १३ ।।
अवश्यमर्थी प्राप्नोति खंडनां तुंडमुंडनाम्।।
तपोतिदीर्घचारैर्तयत्त्वां प्रार्थितवत्यहम् ।। १४ ।।
तस्या मे नियतस्त्वेष ह्यवमानः पदेपदे ।।
नैवास्मि कुटिला रौद्रा विषमा न च धूर्जटे ।। १५ ।।
नाकुलीना वृथाचारा न दुष्टा न समत्सरा ।।
सविषस्त्वं यतः ख्यातो व्यक्तं दोषा कराश्रयः ।।१६।।
अकुलीनो वृथाचारो मात्सर्येणाश्रितः सदा ।।
नाहं मुष्णामि नयने तत्र हंता त्वमेव च ।।१७।।
आदित्यस्त्वां विजानातु भगवान्द्वादशात्मकः ।।
मया नोत्पाटिता दंताः कस्यापि निरपत्रप ।।१८।।
पूषादेवो विजानाति द्वादशात्मा दिवाकरः ।।
मूर्ध्नि शूलं तव यतः स्वैदोषैर्मामधिक्षिपः ।।१९।।
यत्तु मामाह कृष्णेति महाकालेति विश्रुतः।।
इत्यथापि प्रवादोऽयं प्रवरः ख्यामि ते हर ।।5.2.२०।।
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षंतुमर्हसि।।
विरूपो यावदादर्शे नात्मनः पश्यते मुखम्।।२१।।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तमम् ।।
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते।।२२।।
तदेतरं विजानाति ह्यात्मानं नेतरं जनम्।।
सत्यधर्मच्युतात्पुंसः क्षुद्रादाशीविषादिव ।। २३ ।।
स नास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ।।
इत्युक्तोऽहं त्वया देवि मया कोलाहलः कृतः ।। २४ ।।
अनात्मज्ञासि गिरिजे मृडे पंडितमानिनि ।।
सत्यं सर्वैरवयवैः स्तुतोऽपि सदृशः पितुः ।।२५।।
काठिन्यं कष्टमभ्येति धातुभ्यो बहुघातिता ।।
कुटिलत्वं च सर्वेभ्योऽसेव्यत्वं च हिमादिव ।।२६।।
इत्युक्ताऽसि मया देवि पुनः प्रोक्तं त्वया वचः ।।
तथापि दुष्टसंसर्गात्संक्रांतं सर्वमेव हि ।।२७।।
व्यालेभ्योऽनेकजिह्वत्वं भस्मतः स्नेहवर्जनम् ।।
हृत्कालुष्यं शशांकाद्वै दुर्बोधत्वं वृषादपि।।२८।।
श्मशानवासाद्भीरुत्वं नग्नत्वं च न लज्जया ।।
निर्घृणत्वं कपालाच्च दया ते विगता चिरम् ।। २९ ।।
एवं तदाभवद्रौद्रः कलहो भयकृच्छुभे ।।
एवं प्रवृत्ते तु तदा कंपितं भुवनत्रयम् ।। 5.2.३० ।।
भीताश्च देवगंधर्वा यक्षगंधर्वराक्षसाः ।।
तस्मात्कोलाहलो भूमिं भित्त्वा लिंगमभूत्तदा ।। ३१ ।।
लिंगमध्यात्समुत्पन्ना वाणी सुखकरी शुभा ।।
आश्वासयंती देवान्वै त्रैलोक्यं सचराचरम् ।। ३२ ।।
नामास्य चक्रुर्देवेशास्तदा कलकलेश्वरम् ।।
स्वरनामासौ ततोऽभूच्छङ्करो भुवि विश्रुतः ।। ३३ ।।
यस्तमर्चयते भक्त्या देवं कलकलेश्वरम्।।
न राक्षसाः पिशाचाश्च न भूता न विनायकाः ।।
विप्रं कुर्युर्वरारोहे कलहो न भवेद्गृहे ।। ३४ ।।
सुशीला गृहिणी तस्य सुरूपा सुभगा प्रिये ।।
बहुपुत्रा बहुधना जायते दर्शनात्तथा ।। ३५ ।।
ये पश्यंति चतुर्द्दश्यां देवं कलकलेश्वरम् ।।
न दुःखं न जराव्याधिर्नाकालमरणं तथा ।। ३६ ।।
 न च शत्रुभयं तेषां जायते गिरिपुत्रके ।।
लोकोऽक्षयो भवेद्देवि यावदिंद्राश्चतुर्द्दश ।। ३७।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
यस्य श्रवणमात्रेण क्षेममत्र परत्र च ।। ३८ ।।
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कलकलेश्वरमाहात्म्यवर्णनंनामाष्टादशोऽध्यायः ।। १८ ।।।छ।।।