स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः ३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।। राजोवाच ।। ।।
किं दृष्टं भवता ब्रह्मन्नाश्चर्यं पथि कुत्र वा ।।
तन्ममाख्याहि येनाहं कृतकृत्यत्वमाप्नुयाम्।। १ ।।
।। गौतम उवाच ।। ।।
गोकर्णादहमागच्छन्क्वापि देशे विशांपते ।।
जाते मध्याह्नसमये लब्ध वान्विमलं सरः ।। २ ।।
तत्रोपस्पृश्य सलिलं विनीय च पथिश्रमम् ।।
सुस्निग्धशीतलच्छायं न्यग्रोधं समुपाश्रयम् ।। ३ ।।
अथाविदूरे चांडालीं वृद्धामंधां कृशाकृतिम् ।।
शुष्यन्मुखीं निराहारां बहुरोगनिपीडिताम् ।। ४ ।।
कुष्ठव्रणपरीतांगीमुद्यत्कृमिकुलाकुलाम् ।।
पूयशोणितसंसक्तजरत्पटल सत्कटीम्।। ५ ।।
महायक्ष्मगलस्थेन कंठसंरोधविह्वलाम् ।।
विनष्टदंतामव्यक्तां विलुठंतीं मुहुर्मुहुः ।। ६ ।।
चंडार्ककिरणस्पृष्टखरोष्णरजसाप्लुताम्।।
विण्मूत्रपूयदिग्धांगीमसृग्गंधदुरासदाम् ।। ७ ।।
कफरोगबहुश्वासश्लथन्नाडीबहुव्यथाम् ।।
विध्वस्तकेशावयवामपश्यं मरणोन्मुखीम् ।। ८ ।।
तादृग्व्यथां च तां वीक्ष्य कृपयाहं परिप्लुतः ।।
प्रतीक्षन्मरणं तस्याः क्षणं तत्रैव संस्थितः ।। ९ ।।
अथांतरिक्षपदवीं सिंचंतमिव रश्मिभिः ।।
दिव्यं विमानमानीतमद्राक्षं शिवकिंकरैः ।। ३.३.३.१० ।।
तस्मिन्रवींदुवह्नीनां तेजसामिव पंजरे ।।
विमाने सूर्यसंकाशानपश्यं शिवकिंकरान् ।। ११ ।।
ते वै त्रिशूलखट्वांगटंकचर्मासिपाणयः ।।
चंद्रार्धभूषणाः सांद्रचंद्रकुंदोरुवर्चसः ।। १२ ।।
किरीटकुंडलभ्राजन्महाहिवलयोज्ज्वलाः ।।
शिवानुगा मया दृष्टा श्चत्वारः शुभलक्षणाः ।। १३ ।।
तानापतत आलोक्य विमानस्थान्सुविस्मितः ।।
उपसृत्यांतिके वेगादपृच्छं गगने स्थितान् ।। १४ ।।
नमोनमो वस्त्रिदशोत्तमेभ्यस्त्रिलोचनश्रीचरणानुगेभ्यः ।।
त्रिलोकरक्षाविधिमावहद्भ्यस्त्रिशूलचर्मासिगदाधरेभ्यः ।। १५ ।।
विदिता हि मया यूयं महेश्वरपदा नुगाः ।।
इयं वो लोकरक्षार्था गतिराहो विनोदजा ।। ।६ ।।
उत सर्वजनाघौघविजयाय कृतोद्यमाः ।।
ब्रूत कारुण्यतो मह्यं यस्माद्यूयमिहागताः ।। १७ ।।
।। शिवदूता ऊचुः ।। ।।
एषाग्रे दृश्यते वृद्धा चांडाली मरणोन्मुखी ।।
एतामानेतुमायाताः संदिष्टा प्रभुणा वयम् ।। १८ ।।
इत्युक्ते शिवदूतैस्तैरपृच्छं पुनरप्यहम् ।।
विस्मयाविष्टचित्तस्तान्कृतांजलिरवस्थितः ।। १९ ।।
अहो पापीयसी घोरा चांडाली कथमर्हति ।।
दिव्यं विमानमारोढुं शुनीवाध्वरमंडलम् ।। ३.३.३.२० ।।
आजन्मतोऽशुचिप्राया पापां पापा नुगामिनीम् ।।
कथमेनां दुराचारां शिवलोकं निनीषथ ।। २१ ।।
अस्या नास्ति शिवज्ञानं नास्ति घोरतरं तपः ।।
सत्यं नास्ति दया नास्ति कथमेनां निनीषथ ।। २२ ।।
पशुमांसकृताहारा वारुणीपूरितोदराम् ।।
जीवहिंसारतां नित्यं कथमेनां निनीषथ ।। २३ ।।
न च पंचाक्षरी जप्ता न कृतं शिवपूजनम्।।
न ध्यातो भगवाञ्छंभुः कथमेनां निनीषथ ।। २४ ।।
नोपोषिता शिवतिथिर्न कृतं शिवपूजनम् ।।
भूतसौहृदं न जानाति न च बिल्वशिवार्पणम्।।
नेष्टापूर्तादिकं वापि कथमेनां निनीषथ ।। २५ ।।
न च स्नातानि तीर्थानि न दानानि कृतानि च ।।
न च व्रतानि चीर्णानि कथमेनां निनीषथ ।। २६ ।।
ईक्षणे परिहर्त्तव्या किमु संभाषणादिषु ।।
सत्संगरहितां चंडां कथमेनां निनीषथ ।। २७ ।।
जन्मांतरार्जितं किंचिदस्याः सुकृतमस्ति वा ।।
तत्कथं कुष्ठरोगण कृमिभिः परिभूयते ।। २८ ।।
अहो ईश्वरचर्येयं दुर्विभाव्या शरीरिणाम् ।।
पापात्मानोऽपि नीयंते कारुण्यात्परमं पदम् ।। २९ ।।
इत्युक्तास्ते मया दूता देवदेवस्य शूलिनः ।।
प्रत्यूचुर्मामथ प्रीत्या सर्वसंशयभेदिनः ।। ३.३.३.३० ।।
।। शिवदूता ऊचुः ।। ।।
ब्रह्मन्सुमहदाश्चर्यं शृणु कौतूहलं यदि ।।
इमामुद्दिश्य चांडालीं यदुक्तं भवताधुना ।। ३१ ।।
आसीदियं पूर्वभवे काचिद्ब्राह्मणकन्यका ।।
सुमित्रानाम संपूर्णसोमबिम्बसमानना ।। ३२ ।।
उत्फुल्लमल्लिकादामसुकुमारांगलक्षणा ।।
कैकेयद्विजमुख्यस्य कस्यचित्तनया सती ।। ३३ ।।
तां सर्वलक्षणोपेतां रतेर्मूर्तिमिवापराम्।।
वर्द्धमानां पितुर्गेहे वीक्ष्यासन्विस्मिता जनाः ।। ३४ ।।
दिनेदिने वर्धमाना बंधुभिर्लालिता भृशम् ।।
सा शनैर्यौवनं भेजे स्मरस्येव महाधनुः ।। ३५ ।।
अथ सा बंधुवर्गैश्च समेतेन कुमारिका ।।
पित्रा प्रदत्ता कस्मैचिद्विधिना द्विजसूनवे।। ३६ ।।
सा भर्त्तारमनुप्राप्य नवयौवनशालिनी ।।
कंचित्कालं शुभाचारा रेमे बंधुभिरावृता ।। ३७ ।।
अथ कालवशात्तस्याः पतिस्तीव्र रुजार्दितः ।।
रूपयौवनकांतोपि पंचत्वमगमन्मुने ।। ३८ ।।
मृते भर्त्तरि दुःखेन विदग्धहदया सती ।।
उवास कतिचिन्मासान्सुशीला विजितें द्रिया ।। ३९ ।।
अथ यौवनभारेण जृंभमाणेन नित्यशः ।।
बभूव हृदयं तस्याः कंदपर्परिकंपितम् ।। ३.३.३.४० ।।
सा गुप्ता बन्धुवर्गेण शासितापि महोत्तमैः ।।
न शशाक मनो रोद्धं मदनाकृष्टमंगना ।। ४१ ।।
सा तीव्रमन्मथाविष्टा रूपयौवनशालिनी ।।
विधवापि विशेषेण जारमार्गरताभवत् ।। ४२ ।।
न ज्ञाता केनचिदपि जारिणीति विचक्षणा ।।
जुगूहात्मदुराचारं कंचित्कालमसत्तमा ।। ४३ ।।
तां दोहदसमाक्रांतां घननीलमुखस्तनीम् ।।
कालेन बंधुवर्गोपि बुबोध विटदूषिताम् ।। ४४ ।।
इति भीतो महाक्लेशाच्चिंता लेभे दुरत्ययाम् ।।
स्त्रियः कामेन नश्यंति ब्राह्मणा हीनसेवया।।।४५।।
राजानो ब्रह्मदंडेन यतयो भोगसंग्रहात्।।
लीढं शुना तथैवान्नं सुरया वार्पितं पयः।।४६।।
रूपं कुष्ठरुजाविष्टं कुलं नश्यति कुस्त्रिया।।
इति सर्वे समालोच्य समेताः पतिसोदराः ॥ ४७॥
तत्यजुर्गोत्रतो दूरं गृहीत्वा सकचग्रहम् ॥
सघटोत्सर्गमुत्सृष्टा सा नारी सर्वबन्धुभिः॥ ४८
विचरंती च शूद्रेण रममाणा रतिप्रिया ॥
सा ययौ स्त्री बहिर्यामा दृष्टा शूद्रेण केनचित् ॥ ४९ ॥
स तां दृष्ट्वा वरारोहाँ पीनोन्नतपयोधराम् ॥
गृहं निनाय साम्ना च विधवां शूद्रनायकः ॥
सा नारी तस्य महिषी भूत्वा तेन दिवानिशम् ॥ ३.३.३.५०॥
रममाणा क्वचिद्देशे न्यवसद्गृहवल्लभा ॥
तत्र सा पिशिताहारा नित्यमापीतवारुणी।।५१।।
लेभे सुतं च शूद्रेण रममाणा रतिप्रिया ॥
कदाचिद्भर्त्तरि क्वापि याते पीतसुरा तु सा।।५२।।
इयेष पिशिताहारं मदिरामदविह्वला ॥
अथ मेषेषु बद्धेषु गोभिः सह बहिर्व्रजे ॥ ५३ ॥
ययौ कृपाणमादाय सा तमींधे निशामुखे ॥
अविमृश्य मदावेशान्मेषबुद्ध्यामिषप्रिया ॥ ५४ ॥
एकं जघानं गोवत्सं क्रोशंतं निशि दुर्भगा ॥
निहतं गृहमानीय ज्ञात्वा गोवत्समंगना ॥ ५५ ॥
भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा ॥
सा मुहूर्तमिति ध्यात्वा पिशितासवलालसा ॥ ५६ ॥
छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम् ॥
गोवत्सार्धशरीरेण कृताहाराथ सा पुनः ॥ ५७ ॥
तदर्धदेहं निक्षिप्य बहिश्चुक्रोश कैतवात् ॥
अहो व्याघ्रेण भग्नोऽयं जग्धो गोवत्सको व्रजे ॥ ५८॥
इति तस्याः समाक्रंदः सर्वगेहेषु शुश्रुवे ।
अथ सर्वे शूद्रजनाः समागम्यांतिके स्थिताः ॥ ५९॥
हतं गोवत्समालोक्य व्याघ्रेणेति शुचं ययुः ॥
गतेषु तेषु सर्वेषु व्युष्टायां च ततो निशि ॥ ३.३.३.६० ॥
तद्भर्ता गृहमागत्य दृष्टवान्गृहविड्वरम् ।
एवं बहुतिथे काले गते सा शूद्ववल्लभा ॥ ६१ ।
कालस्य वशमापन्ना जगाम यममंदिरम् ।
यमोपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ॥ ६२ ॥
निर्वत्र्य निरयावासाञ्चक्रे चंडालजातिकाम् ॥
सापि भ्रष्टा यमपुराच्चांडालीगर्भमाश्रिता ॥ ६३ ॥
ततो बभूव जात्यंधा प्रशांतांगारमेचका ॥
तत्पिता कोपि चांडालो देशे कुत्रचिदास्थितः ॥ ६४ ॥
तां तादृशीमपि सुतां कृपया पर्यपोषयत् ॥
अभोज्येन कदन्नेन शुना लीढेन पूतिना ॥ ६५ ॥
अपेयैश्च रसैर्मात्रा पोषिता सा दिनेदिने ॥
जात्यंधा सापि कालेन बाल्ये कुष्ठरुजार्दिता ॥ ६६ ॥
ऊढा न केनचिद्वापि चांडालेनातिदुर्भगा ॥
अतीतबाल्ये सा काले विध्वस्तपितृमातृका ॥ ६७ ॥
दुर्भगेति परित्यक्ता बंधुभिश्च सहोदरैः ॥
ततः क्षुधार्दिता दीना शोचन्ती विगतेक्षणा ॥ ६८ ॥
गृहीतयष्टिः कृच्छ्रेण संचचाल सलोष्टिका ॥
पत्तनेष्वपि सर्वेषु याचमाना दिनेदिने ॥ ६९ ॥
चांडालोच्छिष्टपिंडेन जठराग्निमतर्पयत्॥
एवं कृच्छ्रेण महता नीत्वा सुबहुलं वयः ॥ ३.३.३.७० ॥
जरया ग्रस्तसर्वांगी दुःखमाप दुरत्ययम् ॥
निरन्नपानवसना सा कदाचिन्महाजनान्।। ७१ ।।
आयास्यंत्यां शिवतिथौ गच्छतो बुबुधेऽध्वगान्।।
तस्यां तु देवयात्रायां देशदेशांतयायिनाम् ।। ७२ ।।
विप्राणां साग्निहोत्राणां सस्त्रीकाणां महात्मनाम्।।
राज्ञां च सावरोधानां सहस्तिरथवाजिनाम् ।। ७३ ।।
सपरीवारघोषाणां यानच्छत्रादिशोभिनाम् ।।
तथान्येषां च विट्शूद्रसंकीर्णानां सहस्रशः ।। ७४ ।।
हसतां गायतां क्वापि नृत्यतामथ धावताम् ।।
जिघ्रतां पिबतां कामाद्गच्छतां प्रतिगर्जताम् ।। ७५ ।।।
संप्रयाणे मनुष्याणां संभ्रमः सुमहानभूत् ।।
इति सर्वेषु गच्छत्सु गोकर्णं शिवमंदिरम् ।। ७६ ।।
पश्यंति दिविजाः सर्वे विमानस्थाः सकौतुकाः ।।
अथेयमपि चांडाली वसनाशनतृष्णया ।। ७७ ।।
महाजनान्याचयितुं चचाल च शनैःशनैः ।।
करावलंबेनान्यस्याः प्राग्जन्मार्जितकर्मणा ।।
दिनैः कतिपयैर्याती गोकर्णं क्षेत्रमाययौ ।। ७८ ।।
ततो विदूरे मार्गस्य निषण्णा विवृतांजलिः ।।
याचमाना मुहुः पांथान्बभाषे कृपणं वचः ।। ७९ ।।
प्राग्जन्मार्जितपापौघैः पीडितायाश्चिरं मम ।।
आहारमात्रदानेन दयां कुरुत भो जनाः ।। ३.३.३.८० ।।
त्रातारः परमार्तानां दातारः परमाशिषाम् ।।
कर्तारो बहुपुण्यानां दयां कुरुत भो जनाः ।। र१ ।।
वसनाशनहीनायां स्वपितायां महीतले ।।
महापांसुनिमग्नायां दयां कुरुत भो जनाः ।। ८२ ।।
महाशीतातपार्त्तायां पीडितायां महारुजा ।।
अन्धायां मयि वृद्धायां दयां कुरुत भो जनाः ।। ८३ ।।
चिरोपवासदीप्तायां जठराग्निविवर्धनैः ।।
संदह्यमानसर्वांग्यां दयां कुरुत भो जनाः ।। ८४ ।।
अनुपार्जितपुण्यायां जन्मांतरशतेष्वपि ।।
पापायां मंदभाग्यायां दयां कुरुत भो जनाः ।।८५।।
एवमभ्यर्थयंत्यास्तु चांडाल्याः प्रसृतेंऽजलौ ।।
एकः पुण्यतमः पांथः प्राक्षिपद्बिल्वमंजरीम् ।। ८६ ।।
तामंचलौ निपतितां सा विमृश्य पुनः पुनः ।।
अभक्ष्येत्येव मत्वाथ दूरे प्राक्षिपदातुरा ।। ८७ ।।
तस्याः करेण निर्मुक्ता रात्रौ सा बिल्वमंजरी ।।
पपात कस्यचिद्दिष्ट्या शिवलिंगस्य मस्तके ।। ८८ ।।
सैवं शिवचतुर्दश्यां रात्रौ पांथजनान्मुहुः ।।
याचमानापि यत्किंचिन्न लेभे दैवयोगतः ।। ८९ ।।
तत्रोषितानया रात्रिर्भद्रकाल्यास्तु पृष्ठतः ।।
किंचिदुत्तरतः स्थानं तदर्धेनातिदूरतः ।। ३.३.३.९० ।।
ततः प्रभाते भ्रष्टाशा शोकेन महताप्लुता ।।
शनैर्निववृते दीना स्वदेशायैव केवला ।। ९१ ।।
श्रांता चिरोपवासेन निपतन्ती पदेपदे ।।
क्रंदंती वहुरोगार्ता वेपमाना भृशातुरा ।। ९२ ।।
दह्यमानार्कतापेन नग्नदेहा सयष्टिका।।
अतीत्यैतावतीं भूमिं निपपात विचेतना।।९३।।
अथ विश्वेश्वरः शंभुः करुणामृतवारिधिः।।
एनामानयतेत्त्यस्मान्युयुजे सविमानकान्।।९४।।
एषा प्रवृत्तिश्चांडाल्यास्तवेह परिकीर्त्तिता।।
तथा संदर्शिता शंभोः कृपणेषु कृपालुता।।
कर्मणः परिपाकोत्थां गतिं पश्य महामते ।।
अधमापि परं स्थानमारोहति निरामयम् ।। ९६ ।।
यदेतया पूर्वभवे नान्नदानादिकं कृतम् ।।
क्षुत्पिपासादिभिः क्लेशैस्तस्मादिह निपीड्यते ।। ९७ ।।
यदेषा मदवेगांधा चक्रे पापं महोल्बणम्।।
कर्मणा तेन जात्यंधा बभूवात्रैव जन्मनि ।। ९८ ।।
अपि विज्ञाय गोवत्सं यदेषाऽभक्षयत्पुरा ।।
कर्मणा तेन चांडाली बभूवेह विगर्हिता ।। ९९ ।।
यदेषार्यपथं हित्वा जारमार्गरता पुरा ।।
तेन पापेन केनापि दुर्वृत्ता दुर्भगापि वा ।। ।। ३.३.३.१०० ।।
यदाश्लिष्य मदाविष्टा जारेण विधवा पुरा ।।
तेन पापेन महता बहुकुष्ठव्रणान्विता ।। १०१ ।।
कामार्त्ता यदियं स्वैरं शूद्रेण रमिता पुरा ।।
महासृक्पूयकृमिभिः पीड्यते तेन पाप्मना ।। २ ।।
सुव्रतानि न चीर्णानि नेष्टापूतार्दिकं कृतम् ।।
सर्वभोगविहीनेयं दूयते तेन पाप्मना ।। ।। ३ ।।
यदेतया पूर्वभवे सुरा पीता विमूढया ।।
महायक्ष्मार्तिहृच्छूलैः पीड्यते तेन पाप्मना ।। ४ ।।
अत्रैव सर्वमर्त्येषु पापचिह्नानि कृत्स्नशः ।।
लक्ष्यते मुनिशार्दूल सविवेकैर्महात्मभिः ।। ५ ।।
अत्र ये बहुरोगार्त्ता ये पुत्रधनवर्जिताः ।। ६ ।।
ये च दुर्लक्षणक्लिष्टा याचका विगतह्रियः ।।
वासोन्नपानशयनभूषणाभ्यंजनादिभिः ।। ७ ।।
हीना विरूपा निर्विद्या विकलांगाः कुभोजनाः ।।
ये दुर्भाग्या निंदिताश्च ये चान्ये परसेवकाः ।। ।। ८ ।।
एते पूर्वभवे सर्वे सुमहत्पापकारिणः ।।
एवं विमृश्य यत्नेन दृष्ट्वा लोकजनस्थितिम् ।। ९ ।।
बुधो न कुरुते पापं यदि कुर्यात्स आत्महा ।।
देहोऽयं मानुषो जंतोर्बहुकर्मैकभाजनम् ।। ३.३.३.११० ।।
सदा सत्कर्म सेवेत दुष्कर्म सततं त्यजेत् ।।
पुण्यं सुखार्थी कुर्वीत दुःखार्थी पापमाचरेत् ।। ।। ११ ।।
द्वयोरेकतरे लोके गृहीते कुशलो जनः ।।
इमं मानुषमाश्रित्य देहं परमदुर्लभम् ।। १२ ।।
य आत्महितवान्कश्चिद्देवमेकं समाश्रयेत् ।।
अथ पापानि सर्वाणि कुर्वन्नपि सदा नरः ।। १३ ।।
शिवमेकमतिर्ध्यायेत्स संतरति पातकम् ।।
मृता पूर्वभवे त्वेषा यदा प्राप्ता यमालये ।। १४ ।।
तदा वितर्कः सुमहानासीद्यमसभासदाम् ।।
यद्यपि ब्राह्मणी त्वेषा सत्कुलाचारदूषिता ।। १५ ।।
अतोऽस्माभिरिहानीता निरयं यातु वा न वा ।।
अनया साधितो बाल्ये पुण्यलेशोऽस्ति वा न वा ।। १६ ।।
अथापि सुविमृश्यैवं धार्यो दंडोऽत्र नान्यथा ।।
बहुजन्मसहस्रेषु कृतपुण्यविपाकतः।। ।। १७ ।।
नृणां ब्रह्मकुले जन्म लभ्यते हि कथंचन ।।
अतोस्याः पूर्वपूर्वेषु कृताघं नास्ति जन्मसु।।१८।।
अन्यथा सत्कुले जन्म कथमेषा प्रपद्यते।।
अत्रैव जन्मन्यनया कृतमंहो दुरत्ययम् ।। १९ ।।
अथापि नरकावासं प्रायशो नेयमर्हति ।।
किंतु गोवत्सकं हत्वा विमृश्यागतसाध्वसा ।। ३.३.३.१२० ।।
एषा शिवशिवेत्याह प्राग्जन्मार्जितकर्मणा ।।
यदेषा पापविच्छित्त्यै सकृदप्युरुमंगलम् ।। २१ ।।
शिवनाम वदेद्भक्त्या तर्हि गच्छेत्परं पदम् ।।
एकजन्मकृतस्यास्य दारुणस्यापि यत्फलम् ।। २२ ।।
क्रमेणानुभवत्वेषा भूत्वा चांडालजातिका ।।
अस्मादन्यतमः को वा नरकोऽस्ति नृणा मिह ।। २३ ।।
अनेकक्लेशसंघातैर्यन्मुहुः परिपीडनम् ।।
दुष्कुले जन्म दारिद्र्यं महाव्याधिर्विमूढता ।। २४ ।।
एकैक एव नरकः सर्वे वा चाथ किं पुनः ।।
प्राग्जन्मपुण्यभारेण यन्नाम विवशाऽब्रवीत् ।। २५ ।।
तेनैषान्यभवे भूरि पुण्यमंते करिष्यति ।।
तेन पुण्येन महता निस्तीर्याघौघया तनाः ।। २६ ।।
नीता तत्पुरुषैरंते प्रयास्यति परं पदम् ।।
एतादृशानां मर्त्यानां शास्तारो न वयं क्वचित् ।।
विचार्य स्वयमेवेशो यद्युक्तं तत्करोतु सः ।। २७ ।।
एवं वैवस्वतपुरे सर्वैर्यमपुरोगमैः ।।
विमृश्य चित्रगुप्ताद्यैरियं मुक्ताऽपतद्भुवि ।। २८ ।।
आदौ यदेषा शिवनाम नारी प्रमादतो वाप्य सती जगाद ।।
तेनेह भूयः सुकृतेन शंभोर्बिल्वांकुराराधनपुण्यमाप ।। २९ ।।
श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ।।
कृत्वा जागरणं ह्येषा चक्रे बिल्वार्पणं निशि ।। ३.३.३.१३० ।।
अकामतः कृतस्यास्य पुण्यस्यैव च यत्फलम् ।।
अद्यैव भोक्ष्यते सेयं पश्यतस्तव नो मृषा ।। ३१ ।। ।।
।। गौतम उवाच ।। ।।
इत्युक्त्वा शिवदूतास्ते तस्याश्चांडालयोनितः ।।
जीवलेशं समाकृष्य युयुजुर्दिव्यतेजसा ।। ३२ ।।
तां दिव्यदेहसंक्रांतां तेजोराशिसमुज्ज्वलाम्।।
विमाने स्थापयामासुः प्रीतास्ते शिवकिंकराः ।। ३३ ।।
अथ सा परमोदाररूपलावण्यशालिनी ।।
दिव्यभूषणदीप्तांगी दिव्यांबरविधारिणी ।। ३४ ।।
देहेन दिव्यगंधेन दिव्यतेजोविकाशिना ।।
दिव्यमाल्यावतंसेन विरराज विमानगा ।। ३५ ।।
रत्नच्छत्रपताकाद्यैर्गीतवादित्रनिस्वनैः ।।
मध्ये सा शिवदूतानां मोदमाना वरानना ।। ३६ ।।
अनुभूतानि जन्मानि स्मृत्वास्मृत्वा पुनःपुनः ।।
भीता त्रस्ता दृढा श्चर्यं दृष्ट्वा स्वप्नमिवोत्थिता ।। ३७ ।।
काहं केऽमी महासिद्धाः कोयं लोको मनोरमः ।।
क्व गतं मे वपुः कष्टं चंडचांडालगोत्रजम् ।। ३८ ।।
अहो सुमहदाश्चर्यं दृष्टं मायाविलासजम् ।।
यन्मे भवसहस्रेषु भ्रातंभ्रांतं पुनःपुनः ।। ३९ ।।
अहो ईश्वरपूजाया माहात्म्यं विस्मयावहम् ।।
पत्रमात्रेण संतुष्टो यो ददाति निजं पदम् ।। ३.३.३.१४० ।।
इति तां जातनिर्वेदां स्मरन्तीं भगवत्पदम् ।।
दिव्यं विमानमारोप्य ते महेश्वरकिंकराः ।। ।। ४१ ।।
आलोकयत्सु सर्वेषु लोकेशेषु सविस्मयम् ।।
आमंत्र्य तामथानिन्युः परमेश्वरसन्निधिम् ।। ४२ ।।
राजन्सुमहदाश्चर्यमाख्यातं गिरिजा पतेः ।।
माहात्म्यं भक्तिलेशस्य सर्वाघौघविनाशनम् ।। ४३ ।।
।। राजोवाच ।। ।।
भगवन्परमेशस्य कीदृशो लोक उत्तमः ।।
तस्य मे लक्षणं ब्रूहि यद्यस्ति मयि ते दया ।। ४४ ।।
।। गौतम उवाच ।। ।।
ब्रह्मादिसुरनाथानां लोकेष्वपि सुदुर्लभः ।।
य आनंदः सदा यत्र स लोकः पारमेश्वरः ।। ४५ ।।
सर्वातिगमनं यत्र ज्योतिर्यत्र प्रतिष्ठितम् ।।
क्वापि नास्ति तमोयोगः स लोकः पारमेश्वरः ।। ४६ ।।
गुणवृत्ति विनिस्तीर्य संप्राप्ता यत्र योगिनः ।।
न पतेयुः पुनः सर्वे स लोकः पारमेश्वरः ।। ४७ ।।
यत्र वासं न कुर्वंति क्रोधलोभमदादयः ।।
यत्रावस्था न जन्माद्याः स लोकः पारमेश्वरः ।। ४८ ।।
सर्वेषां निगमानां च यदेकं क्षेत्रमुच्यते ।।
यस्मान्नास्ति परं वित्तं तत्पदं पारमेश्वरम् ।। ४९ ।।
प्रत्याहारासन ध्यानप्राणसंयमनादिभिः ।।
यत्र योगपथैः प्राप्तुं यतते योगिनः सदा ।। ३.३.३.१५० ।।
यत्र देवः सदानंदनिर्मलज्ञानरूपया ।।
अस्ति देव्या सह क्रीडञ्स लोकः पारमेश्वरः ।। ५१ ।।
जन्मानेकसहस्रेषु संभृतैः पुण्यराशिभिः ।।
आरूढाः पुरुषा नार्यः क्रीडन्ते यत्र संगताः ।। ५२ ।।
तेजो राशौ समालीना दुर्विभाव्ये मनोरमे ।।
अहोरात्रादिसंस्थानं न विंदंति कदाचन ।। ५३ ।।
स लोकः परमेशस्य दुर्लभो हि कुयोगिनः ।।
एतद्भक्ति सुपूर्णा ये तैरेव प्रतिपद्यते ।। ५४ ।।
ये तत्कथाश्रवणकीर्तनजातहर्षा ये सर्वभूतसुहृदः प्रशमैकनिष्ठाः ।।
संसारचक्रमतिवाह्य निरस्तमोहास्ते शांकरं पदमवाप्य सुखं रमन्ते ।। ५५ ।।
तथा त्वमपि राजेंद्र गोकर्णं गिरिशालयम् ।।
गत्वा प्रशमिताघौघः कृतकृत्यत्वमाप्नुहि ।। ५६ ।।
तत्र सर्वेषु कालेषु स्नात्वाभ्यर्च्य महाबलम् ।।
कृत्वा शिवचतुर्दश्यामुपवासं समाहितः ।। ५७ ।।
कृत्वा जागरणं रात्रौ बिल्वैरभ्यर्च्य शंकरम् ।।
सर्वपापविनिर्मुक्तः शिवलोकमवाप्स्यसि ।। ५८ ।।
एष ते विमलो राजन्नुपदेशो मया कृतः ।।
स्वस्ति तेऽस्तु गमिष्यामि मिथिलाधिपतेः पुरीम् ।। ५९ ।।
इत्यामन्त्र्य मुनिः प्रीत्या गौतमो मिथिलां ययौ ।।
सोऽपि हृष्टमना राजा गोकर्णं प्रत्यपद्यत ।। ३.३.३.१६० ।।
तत्र दृष्ट्वा महादेवं स्नात्वाभ्यर्च्य महाबलम् ।।
निर्धूताशेषपापौघो लेभे शम्भोः परं पदम् ।। ६१ ।।
य इमां शृणुयान्नित्यं कथां शैवीं मनोहराम् ।।
श्रावयेद्वा जनो भक्त्या स याति परमां गतिम् ।। ६२ ।।
श्रद्दधानः सकृद्वापि य इमां शृणुयात्कथाम् ।।
त्रिःसप्तकुलजैः सार्धं शिवलोकमवाप्नुयात् ।। ६३ ।।
इति कथितमशेषं श्रेयसामादिबीजं भवशतदुरितघ्नं ध्वस्तमोहांधकारम् ।।
चरितममरगेयं मन्मथारेरुदारं सततमपि निषेव्यं स्वस्तिमद्भिश्च लोकैः ।। ।।१६४।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे शिवचतुर्दशीगोकर्णमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ।। ।। ३ ।।