स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीराम उवाच ।। ।।
भगवन्यानि तीर्थानि सेवितानि त्वया विभो ।।
एतेषां परमं तीर्थं तन्ममाचक्ष्व मानद ।। १ ।।
मया तु सीताहरणे निहता ब्रह्मराक्षसाः ।।
तत्पापस्य विशुदयर्थं वद तीर्थोत्तमोत्तमम् ।। २ ।।
वसिष्ठ उवाच ।। ।।
गंगा च नर्मदा तापी यमुना च सरस्वती ।।
गंडकी गोमती पूर्णा एता नद्यः सुपावनाः ।। ३ ।।
एतासां नर्मदा श्रेष्ठा गंगा त्रिपथगामिनी ।।
दहते किल्बिषं सर्वं दर्शनादेव राघव ।। ४ ।।
दृष्ट्वा जन्मशतं पापं गत्वा जन्मशतत्रयम् ।।
स्नात्वा जन्मसहस्रं च हंति रेवा कलौ युगे ।। ५ ।।
नर्मदातीरमाश्रित्य शाकमूलफलैरपि ।।
एकस्मिन्भोजिते विप्रे कोटि भोजफलं लभेत ।। ६ ।।
गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि ।।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।। ७ ।।
फाल्गुनांते कुहूं प्राप्य तथा प्रौष्ठपदेऽसिते ।।
पक्षे गंगामधि प्राप्य स्नानं च पितृतर्पणम् ।। ८ ।।
कुरुते पिंडदानानि सोऽक्षयं फलमश्नुते ।।
शुचौ मासे च संप्राप्ते स्नानं वाप्यां करोति यः ।। ९ ।।
चतुरशीतिनरकान्न पश्यति नरो नृप ।।
तपत्याः स्मरणे राम महापातकिनामपि ।। 3.2.31.१० ।।
उद्धरेत्सप्तगोत्राणि कुलमेकोत्तरं शतम् ।।
यमुनायां नरः स्नात्वा सर्वपापैः प्रमुच्यते ।। ११ ।।
महापातकयुक्तोऽपि स गच्छेत्परमां गतिम् ।।
कार्त्तिक्यां कृत्तिकायोगे सरस्वत्यां निमज्जयेत् ।। १२ ।।
गच्छेत्स गरुडारूढः स्तूयमानः सुरोत्तमैः ।।
स्नात्वा यः कार्तिके मासि यत्र प्राची सरस्वती ।। १३ ।।
प्राचीं माधवमास्तूय स गच्छेत्परमां गतिम् ।।
गंडकीपुण्यतीर्थे हि स्नानं यः कुरुते नरः ।। १४ ।।
शालग्रामशिलामर्च्य न भूयः स्तनपो भवेत् ।।
गोमतीजलकल्लोलैर्मज्जयेत्कृष्णसन्निधौ ।। १५ ।।
चतुर्भुजो नरो भूत्वा वैकुण्ठे मोदते चिरम् ।।
चर्मण्वतीं नमस्कृत्य अपः स्पृशति यो नरः ।। १६ ।।
स तारयति पूर्वजान्दश पूर्वान्दशापरान् ।।
द्वयोश्च संगमं दृष्ट्वा श्रुत्वा वा सागरध्वनिम् ।। १७ ।।
ब्रह्महत्यायुतो वापि पूतो गच्छेत्परां गतिम् ।।
माघमासे प्रयागे तु मज्जनं कुरुते नरः ।। १८ ।।
इह लोके सुखं भुक्त्वा अन्ते विष्णुपदं व्रजेत् ।।
प्रभासे ये नरा राम त्रिरात्रं ब्रह्मचारिणः ।। १९ ।।
यमलोकं न पश्येयुः कुंभीपाकादिकं तथा ।।
नैमिषारण्यवासी यो नरो देवत्वमाप्नुयात् ।। 3.2.31.२० ।।
देवानामालयं यस्मात्तदेव भुवि दुर्लभम् ।।
कुरुक्षेत्रे नरो राम ग्रहणे चन्द्रसूर्ययोः ।। २१ ।।
हेमदानाच्च राजेंद्र न भूयः स्तनपो भवेत् ।।
श्रीस्थले दर्शनं कृत्वा नरः पापात्प्रमुच्यते ।। २२ ।।
सर्वदुःखविनाशे च विष्णुलोके महीयते ।।
काश्यपीं स्पर्शयेद्यो गां मानवो भुवि राघव ।। ।। २३ ।।
सर्वकामदुघावासमृषिलोकं स गच्छति ।।
उज्जयिन्यां तु वैशाखे शिप्रायां स्नानमाचरेत् ।। २४ ।।
मोचयेद्रौरवाद्घोरात्पूर्वजांश्च सहस्रशः ।।
सिंधुस्नानं नरो राम प्रकरोति दिनत्रयम् ।। २५ ।।
सर्वपापविशुद्धात्मा कैलासे मोदते नरः ।।
कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं शिवम् ।। २६ ।।
ब्रह्महत्यादिभिः पापैर्लिप्यते न च स क्वचित् ।।
अज्ञानामपि जंतूनां महाऽमेध्ये तु गच्छताम् ।। ।। २७ ।।
पादोद्भूतं पयः पीत्वा सर्वपापं प्रणश्यति ।।
वेदवत्यां नरो यस्तु स्नाति सूर्योदये शुभे ।। २८ ।।
सर्वरोगात्प्रमुच्येत परं सुखमवाप्नुयात् ।।
तीर्थानि राम सर्वत्र स्नानपानावगाहनैः ।। २९ ।।
नाशयंति मनुष्याणां सर्वपापानि लीलया ।।
तीर्थानां परमं तीर्थं धर्मारण्यं प्रचक्षते ।। 3.2.31.३० ।।
ब्रह्मविष्णुशिवाद्यैर्यदादौ संस्थापितं पुरा ।।
अरण्यानां च सर्वेषां तीर्थानां च विशेषतः ।। ३१ ।।
धर्मारण्यात्परं नास्ति भुक्तिमुक्तिप्रदायकम् ।।
स्वर्गे देवाः प्रशंसंति धर्मारण्यनिवासिनः ।। ३२ ।।
ते पुण्यास्ते पुण्यकृतो ये वसंति कलौ नराः ।।
धर्मारण्ये रामदेव सर्वकिल्बिषनाशने ।। ३३ ।।
ब्रह्महत्यादिपापानि सर्वस्तेयकृतानि च ।।
परदारप्रसंगादि अभक्ष्यभक्षणादि वै ।। ३४ ।।
अगम्यागमना यानि अस्पर्शस्पर्शनादि च ।।
भस्मीभवंति लोकानां धर्मारण्यावगाहनात् ।। ३५ ।।
ब्रह्मघ्नश्च कृतघ्नश्च बालघ्नोऽनृतभाषणः ।।
स्त्रीगोघ्नश्चैव ग्रामघ्रो धर्मारण्ये विमुच्यते ।। ३६ ।।
नातः परं पावनं हि पापिनां प्राणिनां भुवि ।।
स्वर्ग्यं यशस्यमायुष्यं वांछितार्थप्रदं शुभम् ।। ३७ ।।
कामिनां कामदं क्षेत्रं यतीनां मुक्तिदायकम् ।।
सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं युगेयुगे ।। ३८ ।।
।। ब्रह्मोवाच ।। ।।
वसिष्ठवचनं श्रुत्वा रामो धर्मभृतां वरः ।।
परं हर्षमनुप्राप्य हृदयानंदकारकम् ।। ३९ ।।
प्रोत्फुल्लहृदयो रामो रोमाचिंततनूरुहः ।।
गमनाय मतिं चक्रे धर्मारण्ये शुभव्रतः ।। ।। 3.2.31.४० ।।
यस्मिन्कीटपतंगादिमानुषाः पशवस्तथा ।।
त्रिरात्रसेवनेनैव मुच्यन्ते सर्वपातकैः ।। ४१ ।।
कुशस्थली यथा काशी शूलपाणिश्च भैरवः ।।
यथा वै मुक्तिदो राम धर्मारण्यं तथोत्तमम् ।। ४२ ।।
ततो रामो महेष्वासो मुदा परमया युतः ।।
प्रस्थितस्तीर्थयात्रायां सीतया भ्रातृभिः सह ।। ४३ ।।
अनुजग्मुस्तदा रामं हनुमांश्च कपीश्वरः ।।
कौशल्या च सुमित्रा च कैकेयी च मुदान्विता ।। ४४ ।।
लक्ष्मणो लक्षणोपेतो भरतश्च महामतिः ।।
शत्रुघ्नः सैन्यसहितोप्ययोध्यावासिनस्तथा ।। ४५ ।।
प्रकृतयो नरव्याघ्र धर्मारण्ये विनिर्ययुः ।।
अनुजग्मुस्तदा रामं मुदा परमया युताः ।। ४६ ।।
तीर्थयात्राविधिं कर्तुं गृहात्प्रचलितो नृपः ।।
वसिष्ठं स्वकुलाचार्यमिदमाह महीपते ।। ४७ ।।
।। श्रीराम उवाच ।। ।।
एतदाश्चर्यमतुलं किमादि द्वारकाभवत् ।।
कियत्कालसमुत्पन्ना वसिष्ठेदं वदस्व मे ।। ४८ ।।
।। वसिष्ठ उवाच ।। ।।
न जानामि महाराज कियत्कालादभूदिदम् ।।
लोमशो जांबवांश्चैव जानातीति च कारणम् ।। ४९ ।।
शरीरे यत्कृतं पापं नानाजन्मांतरेष्वपि ।।
प्रायश्चितं हि सर्वेषामेतत्क्षेत्र परं स्मृतम् ।। 3.2.31.५० ।।
श्रुत्वेति वचनं तस्य रामं ज्ञानवतां वरः ।।
गन्तुं कृतमतिस्तीर्थं यात्राविधिमथाचरत् ।। ५१ ।।
वसिष्ठं चाग्रतः कृत्वा महामांडलिकैर्नृपैः ।।
पुनश्चरविधिं कृत्वा प्रस्थितश्चोत्तरां दिशम् ।। ५२ ।।
वसिष्ठं चाग्रतः कृत्वा प्रतस्थे पश्चिमां दिशम् ।।
ग्रामाद्ग्राममतिक्रम्य देशाद्देशं वनाद्वनम् ।।५३।।
विमुच्य निर्ययौ रामः ससैन्यः सपरिच्छदः ।।
गजवाजिसहस्रौघै रथैर्यानैश्च कोटिभिः।। ।। ५४ ।।
शिबिकाभिश्चासंख्याभिः प्रययौ राघवस्तदा ।।
गजारूढः प्रपश्यंश्च देशान्विविधसौहृदान् ।। ५५ ।।
श्वेतातपत्रं विधृत्य चामरेण शुभेन च ।।
वीजितश्च जनौघेन रामस्तत्र समभ्यगात् ।। ५६ ।।
वादित्राणां स्वनैघोरैर्नृत्यगीतपुरःसरैः ।।
स्तूयमानोपि सूतैश्च ययौ रामो मुदान्वितः ।। ५७ ।।
दशमेऽहनि संप्राप्तं धर्मारण्यमनुत्तमम् ।।
अदूरे हि ततो रामो दृष्ट्वा मांडलिकं पुरम् ।। ५८ ।।
तत्र स्थित्वा ससैन्यस्तु उवास निशि तां पुरीम् ।।
श्रुत्वा तु निर्जनं क्षेत्रमुद्वसं च भयानकम् ।। ५९ ।।
व्याघ्रसिंहाकुलं तत्र यक्षराक्षससेवितम् ।।
श्रुत्वा जनमुखाद्रामो धर्मारण्यमरण्यकम् ।।
तच्छ्रुत्वा रामदेवस्तु न चिंता क्रियतामिति ।। 3.2.31.६० ।।
तत्रस्थान्वणिजः शूरान्दक्षान्स्वव्यवसायके ।। ६१ ।।
समर्थान्हि महाकायान्महाबलपराक्रमान् ।।
समाहूय तदा काले वाक्यमेतदथाब्रवीत् ।। ६२ ।।
शिबिकां सुसुवणां मे शीघ्रं वाहयताचिरम् ।।
यथा क्षणेन चैकेन धर्मरण्यं व्रजाम्यहम् ।। ६३ ।।
तत्र स्नात्वा च पीत्वा च सर्वपापात्प्रमुच्यते ।।
एवं ते वणिजः सर्वै रामेण प्रेरितास्तदा ।। ६४ ।।
तथेत्युक्त्वा च ते सर्वे ऊहुस्तच्छिबिकां तदा ।।
क्षेत्रमध्ये यदा रामः प्रविष्टः सहसैनिकः ।। ।। ६५ ।।
तद्यानस्य गतिर्मंदा संजाता किल भारत ।।
मंदशब्दानि वाद्यानि मातंगा मंदगामिनः ।। ६६ ।।
हयाश्च तादृशा जाता रामो विस्मय मागतः ।।
गुरुं पप्रच्छ विनयाद्वशिष्ठं मुनिपुंगवम् ।। ६७ ।।
किमेतन्मंदगतयश्चित्रं हृदि मुनीश्वर ।।
त्रिकालज्ञो मुनिः प्राह धर्मक्षेत्रमुपागतम् ।। ।। ६८ ।।
तीर्थे पुरातने राम पादचारेण गम्यते ।।
एवं कृते ततः पश्चात्सैन्यसौख्यं भविष्यति ।। ६९ ।।
पादचारी ततौ रामः सैन्येन सह संयुतः ।।
मधुवासनके ग्रामे प्राप्तः परमभावनः ।। 3.2.31.७० ।।
गुरुणा चोक्तमार्गेण मातॄणां पूजनं कृतम् ।।
नानोपहारैर्विविधैः प्रतिष्ठाविधिपूर्वकम् ।। ७३ ।।
ततो रामो हरिक्षेत्रं सुवर्णादक्षिणे तटे ।।
निरीक्ष्य यज्ञयोग्याश्च भूमीर्वै बहुशस्तथा ।। ७२ ।।
कृतकृत्यं तदात्मानं मेने रामो रघूद्वहः ।।
धर्मस्थानं निरीक्ष्याथ सुवर्णाक्षोत्तरे तटे ।। ७३ ।।
सैन्यसंघं समुत्तीर्य्य बभ्राम क्षेत्रमध्यतः ।।
तत्र तीर्थेषु सर्वेषु देवतायतनेषु च ।।७४।।
यथोक्तानि च कर्माणि रामश्चक्रे विधानतः ।।
श्राद्धानि विधिवच्चक्रे श्रद्धया परया युतः ।। ७५ ।।
स्थापयामास रामेशं तथा कामेश्वरं पुनः ।।
स्थानाद्वायुप्रदेशे तु सुवर्णो भयतस्तटे ।। ७६ ।।
कृत्वैवं कृतकृत्योऽभूद्रामो दशरथात्मजः ।।
कृत्वा सर्वविधिं चैव सभायां समुपाविशत् ।। ७७ ।।
तां निशां स नदीतीरे सुष्वाप रघुनंदनः ।।
ततोऽर्द्धरात्रे संजाते रामो राजीवलोचनः ।। ७८ ।।
जागृतस्तु तदा काल एकाकी धर्मवत्सलः ।।
अश्रौषीच्च क्षणे तस्मिन्रामो नारीविरोदनम् ।। ७९ ।।
निशायां करुणैर्वाक्यै रुदंतीं कुररीमिव ।।
चारैर्विलोकयामास रामस्तामतिसंभ्रमात् ।। 3.2.31.८० ।।
दृष्ट्वातिविह्वलां नारीं क्रंदन्तीं करुणैः स्वरैः ।।
पृष्टा सा दुःखिता नारी रामदूतैस्तदानघ ।। ८१ ।।
।। दूता ऊचुः ।। ।।
कासि त्वं सुभगे नारि देवी वा दानवी नु किम् ।।
केन वा त्रासितासि त्वं मुष्टं केन धनं तव ।।८२।।
विकला दारुणाञ्छब्दानुद्गिरंती मुहुर्मुहुः ।।
कथयस्व यथातथ्यं रामो राजाभिपृच्छति।। ।। ८३ ।।
तयोक्तं स्वामिनं दूताः प्रेषयध्वं ममांतिकम् ।।
यथाहं मानसं दुःखं शांत्यै तस्मै निवेदये ।। ८४ ।।
तथेत्युक्त्वा ततो दूता राममागत्य चाब्रुवन् ।। ८५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये दूतागमनंनामैकत्रिंशो ऽध्यायः ।। ३१ ।। छ ।।