स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः २७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।। ।। सूत उवाच ।। ।।
तत्र तस्य समीपस्थं मार्कंडेनोपलक्षितम् ।।
तीर्थं गोवत्ससंज्ञं तु सर्वत्र भुवि संश्रुतम् ।। १ ।।
तत्रावतीर्य गोवत्सस्वरूपेणांबिकापतिः ।।
स्वयंभूलिंगरूपेण संस्थितो जगतां पतिः ।। २ ।।
आसीद्बलाहकोनाम रुद्रभक्तो महाबलः ।।
आखेटकसमायुक्तो नृपः परपुरंजयः ।। ३ ।।
मृगयूथे स्थितं दृष्ट्वा गोवत्सं तत्पदातिना ।।
उक्तो राजा मया दृष्टं कौतुकं नृपसत्तम ।। ४ ।।
गोवत्सो मृगयूथस्य दृष्टो मध्यस्थितो मया ।।
तेषामेवानुरक्तोऽसौ जनन्या रहितस्तथा ।। ५ ।।
द्रष्टुं तु कौतुकं राजा तं पदातिं पुरः स्थितम् ।।
उवाच दर्शयस्वेति गोवत्सं च समाविशत् ।। ६ ।।
गत्वाटवीं तदा राज्ञो दर्शितः स पदातिना ।।
पदातिभिर्मृगानीकं दुद्राव त्रासितं यदा ।। ७ ।।
पीलुगुल्मं प्रति गतं गोवत्सः प्रस्थितस्तदा ।।
राजा तद्धरणाकांक्षो प्राविशद्गुल्ममादरात् ।। ८ ।।
तत्र स्थितं स गोवत्समपश्यन्नृपतिः स्वयम् ।।
यावद्गृह्णाति तं तावल्लिंगं जातं समुज्वलम् ।। ९ ।।
तं दृष्ट्वा विस्मितो राजा किमेतदित्यचिंतयत् ।।
यावच्चिंतयते ह्येवं देहं त्यक्त्वा दिवं गतः ।। 3.2.27.१० ।।
अत्रांतरे गगनतले समंततः श्रूयते सुरजयकारगर्जितम् ।।
पपात पुष्पवृष्टिरंबराद्राजा गतः शिवभुवनं च तत्क्षणात् ।। ११ ।।
तावत्पश्यति तन्नाभ्यं गोवत्सं बालकं स्थितम् ।।
नूनमेष महादेवो वत्सरूपी महेश्वरः ।। १२ ।।
तमानेतुं समुद्युक्तो राजा तमुज्जहार च ।।
तदा तद्देव लिंगं तु नोत्तिष्ठति कथंचन ।।
तदा देवाः सहानेन प्रार्थयामासुरीश्वरम् ।। १३ ।।
।। देवा ऊचुः ।। ।।
भगवन्सर्वदेवेश स्थातव्यं भवता विभो।।
शुक्लेन लिंगरूपेण सर्वलोकहितैषिणा ।। १४ ।।
।। श्रीमहादेव उवाच ।।
स्थास्याम्यहं सदैवात्र लिंगरूपेण देवताः ।।
यस्माद्भाद्रपदे मासि कृष्णपक्षे कुहू दिने ।। १५ ।।
तथा तद्दिवसे तत्र स्नानं कृत्वा विधानतः ।।
लिंगं ये पूजयिष्यंति न तेषां विद्यते भयम् ।। १६ ।।
ऋते च पिंडदानेन पूर्वजाः शाश्वतीः समाः ।।
रौरवे नरके घोरे कुंभीपाके च ये गताः ।। १७ ।।
अनेकनरकस्थाश्च तिर्यग्योनिगताश्च ये ।।
सकृत्पिंडप्रदानेन स्यात्ते षामक्षया गतिः ।। १८ ।।
ततो बलाहको राजा सर्वदेवसमन्वितः ।।
स्थापयामास तल्लिंगं सर्वदेवसमीपतः ।। १९ ।।
चकार बहुदानानि लोकानां हितकाम्यया ।।
यावदर्चयते ह्येवं रुद्रोऽपि स्वयमागतः ।। 3.2.27.२० ।।
।। रुद्र उवाच ।। ।।
अस्यां रात्रौ तु मनुजाः श्रद्धाभक्तिसमन्विताः ।।
येर्चयिष्यंति देवेशं तेषां पुण्यमनंतकम् ।। २१ ।।
जागरं ये करिष्यंति गीतशास्त्रपुरःसरम् ।।
उद्धरिष्यंति ते मर्त्याः कुलमेकोत्तरं शतम् ।। २२।।
तावद्गर्ज्जंति तीर्थानि नैमिषं पुष्करं गया ।।
प्रयागं च प्रभासं च द्वारका मथुराऽर्बुदः ।। २३ ।।
यावन्न दृश्यते लिंगं गोवत्सं परमाद्भुतम्।।
यदा हि कुरुते भावं गोवत्सगमनं प्रति ।। २४ ।।
स्ववंशजास्तदा सर्वे नृत्यंति हर्षिता ध्रुवम् ।। २५ ।।
।। सूत उवाच ।। ।।
यच्चान्यदद्भुतं तत्र वृत्तांतं शृणु त द्विजा ।।
येन वै श्रुतमात्रेण सर्वपापक्षयो भवेत् ।। २६ ।।
यदा वै स्थापितं लिंगं सर्वदेवैः पुरातनम् ।।
विष्णोः प्रतिष्ठानगुणात्सर्वेषां च दिवौक साम् ।। २७ ।।
अणुमात्रप्रमाणेन प्रत्यहं समवर्द्धत ।।
ततस्ते मनुजा देवा भीतास्तं शरणं ययुः ।। २८ ।।
।। देवा ऊचुः ।। ।।
वृद्धिं संहर देवेश लोका नां स्वस्ति तद्भवेत्।।
एवमुक्ते ततो लिंगाद्वागुवाचाशरीरिणी।।२९।।
।। शिववाण्युवाच ।। ।।
हे लोका मा भयं वोऽस्तु उपायः श्रूयतामयम् ।।
कश्चिच्चंडालमानीय मत्पुरः स्थाप्यतां धुवम् ।।3.2.27.३०।।
चंडालांश्च समानीय दधुर्देवस्य ते पुरः।।
तथापि तस्य वृद्धिस्तु नैव निर्वर्तते पुनः ।।३१।।
वागुवाच ।।
कर्म्मणा यस्तु चंडालः सोऽग्रे मे स्थाप्यतां जनाः ।।
तच्छ्रुत्वा महदाश्चर्यं मतिं चकुर्विलोचने ।। ३२ ।।
मार्गमाणास्तदा ते तु ग्रामाणि च पुराणि च ।।
कञ्चित्कर्मरतं पापं ददृशुर्ब्राह्मणब्रुवम् ।।३३।।
वृषभान्भारसंयुक्तान्मध्याह्नेवाहयत्तु सः ।।
क्षुत्तृट्श्रमपरीतांश्च दुर्बलान्क्रूरमानसः ।।३४।।
अस्नात्वापि पर्युषितं भक्षयंतीह वै द्विजाः ।।
तं समादाय देवेशं जग्मुर्यत्र जगद्गुरुः ।। ३५ ।।
देवालयाग्रभूमौ तं स्थापयासुरादृताः ।।
भस्मी बभूव सहसा गोवत्साग्रे निरूपितः ।। ३६ ।।
चंडालस्थल इत्येष प्रसिद्धोसौऽभवत्क्षितौ ।।
तत्र स्थितैर्न चाद्यापि प्रासादो दश्यते हि सः ।। ।। ३७ ।।
तदाप्रभृति तल्लिंगं साम्यभावमुपागतम् ।।
धौतपाप्मा गतस्तीर्थं द्विजो लिंगनिरीक्षिणात् ।। ३८ ।।
प्रत्यहं पूजयामास गोवत्सं गत किल्बिषः ।।
विशेषात्कृष्णपक्षस्य चतुर्द्दश्यां समागतः ।। ३९ ।।
एतत्तदद्भुतं तस्य देवस्य च त्रिशूलिनः ।।
शृणुयाद्यो नरो भक्त्या सर्वपापैः प्रमुच्यते ।। 3.2.27.४० ।।
।। भूत उवाच ।। ।।
गोवत्समिति विख्यातं नराणां पुण्यदं परम् ।।
अनेकजन्मपापघ्नं मार्कंडेयेन भाषितम् ।। ४१ ।।
तत्र तीर्थे सकृत्स्नानं रुद्रलोकप्रदं नृणाम् ।।
पापदेहविशुद्धयर्थं पापेनोपहतात्मनाम् ।। ४२ ।।
कूपे तर्पणतश्चैव श्राद्धतश्चैव तृप्तता ।।
भाद्रपदे विशे षेण पक्षस्यांते भवेत्कलौ ।। ४३ ।।
एकविंशतिवारांस्तु गयायां तर्पणे कृते ।।
पितॄणां परमा तृप्तिः सकृद्वै गंगकूपके ।। ४४ ।।
तस्मिन्गोवत्ससामीप्ये तिष्ठते गंगकूपकः ।।
तस्मिंस्तिलोदकेनापि सद्गतिं यांति तर्पिताः ।। ४५ ।।
पितरो नरकाद्वापि सुपुण्येन सुमेधसा ।।
गोप्रदानं प्रशंसंति तस्मिंस्तीर्थे मुनीश्वराः ।। ४६ ।।
विप्राय स्वर्णदानं तु रुद्रलोके नयेन्नरम् ।।
सरस्वतीशिवक्षेत्रे गंगा च गंगकूपके ।। ४७ ।।
एकस्थमेतत्त्रितयं स्वर्गापवर्गकारणम् ।।
सेवितं चर्षिभिः सिद्धैस्तीर्थं सर्वत्र विश्रुतम् ।। ४८ ।।
पीलुयुग्मं स्थितं तत्र तत्तीर्थं मुनिसेवितम् ।।
स्नानात्स्वर्गप्रदं चैव पानात्पापविशुद्धिदम् ।। ४९ ।।
कीर्त्तनात्पुण्यजननं सेवनान्मुक्तिदं परम् ।।
तद्वै पश्यंति ये भक्त्या ब्रह्महा यदि मातृहा ।। ।। 3.2.27.५० ।।
बालघाती च गोघ्नश्च ये च स्त्रीशूद्रघातकाः ।।
गरदाश्चाग्निदाश्चैव गुरुद्रोहरताश्च ये ।। ५१ ।।
तपस्विनिन्दकाश्चैव कूटसाक्ष्यं करोति यः ।।
वक्ता च परदोषस्य परस्य गुणलोपकः ।। ५२ ।।
सर्वपापमयोऽप्यत्र मुच्यते लिंगदर्शनात् ।। ५३ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पातालखण्डे धर्मारण्यमाहात्म्ये बलाहकोपाख्यानवर्णनंनाम सप्तविंशोऽध्यायः ।। २७ ।।