स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ उद्यानवासिन्याः पद्मावत्याः समीपे नारदागमनम् ।।
।। धरण्युवाच ।। ।।
उक्तं भगवता तस्य वियत्पुत्रस्य नाम च ।।
अयोनिजायास्तत्पुत्र्याः किं नाम च तदाऽकरोत्।।१।।
।। श्रीसूत उवाच ।। ।।
इति पृष्टः पुनः प्राह श्रीवराहो जगत्पतिः ।। २ ।।
।। श्रीवराह उवाच ।। ।।
आकाशराजो मतिमांस्तां दृष्ट्वा कमलेशयाम् ।। ३ ।।
पद्मिनीति च नाम्ना वै चकार वसुधासुताम् ।।
तां तु यौवनसम्पन्नां सखीभिः परिवारिताम् ।। ४ ।।
आरामे विहरंतीं च शुककोकिलनादिते ।।
यदृच्छयाऽऽगतस्तत्र नारदो मुनिसत्तमः ।। ५ ।।
वनलक्ष्मीमिवालोक्य विस्मयादिदमब्रवीत् ।। ६ ।।
।। नारद उवाच ।। ।।
कासि कस्य सुता भीरु हस्तं दर्शय मे तव ।।
इत्युक्ता सा सुचार्वंगी स्वात्मानं मुनयेऽब्रवीत्।। ७ ।।
वियद्राजसुता ब्रह्मँल्लक्षणानि वदस्व मे ।।
इत्युक्तः स तदा प्राह नारदो मुनिसत्तमः ।। ८ ।।
।। अथ नारदोदीरित पद्मावतीशरीरलक्षणानि ।।
।। नारदउवाच ।।
शृणु त्वं चारुवदने लक्षणानि वदामि ते ।।
पादौ प्रतिष्ठितौ सुभ्रु रक्तपद्मदलान्वितौ ।। ९ ।।
पादांगुल्यः समा रक्ता रक्ततुंगनखान्विताः ।।
गुल्फौ गूढौ समावेतौ जंघे चारोमशे शुभे ।। 2.1.4.१० ।।
जानुनी समसुस्निग्धे समावूरू क्रमादुरू ।।
नितंबौ पृथुलौ पीनौ जघनं चिंत्यमेव हि ।। ११ ।।
नाभिर्मंडलवान्निम्नः पार्श्वौ ते मेदुरावुभौ ।।
त्रिवलीललितं मध्यं रोमराजिविराजितम् ।। १२ ।।
स्तनौ पीनौ घनौ स्निग्धाबुन्नतौ मग्नचूचुकौ ।।
करौ ते रक्तपद्माभौ पद्मरेखासमन्वितौ ।।
सुसूक्ष्मौ रक्तसत्पर्व निरन्तरसमांगुली ।। १३ ।।
शुकतुंडसमाकारनखपंक्तिविराजितौ ।।
दीर्घौ च कोमलौ भद्रे भुजौ ते पुष्पदंडवत् ।। १४ ।।
पृष्ठं ते वेदिवद्भाति विलग्नमृजु मध्यमम् ।।
कंठस्तु रक्तो दीर्घश्च स्कन्धौ चावनतौ शुभे ।। १५ ।।
मुखं प्रसन्नं सततमकलंकशशिप्रभम् ।।
कपोलौ कनकादर्शसदृशौ कुंडलोज्ज्वलौ ।। १६ ।।
तिलपुष्पसमाकारा नासिका ते शुभानने ।।
अकलंकाष्टमीचंद्रसदृशोऽतिमनोहरः ।। १७।।
दृश्यतेऽयं ललाटस्ते नीलालकसुशोभितः ।।
मूर्धा ते समवृत्तश्च स्निग्धायतकचान्वितः ।। १८ ।।
स्मितसंशोभिदशनं बिंबाधरसमन्वितम् ।।
मुखं ते विष्णुयोग्यं स्यादिति मे निश्चिता मतिः ।।१९।।
नाभिस्ते दक्षिणावर्त आवर्त इव गांगजः ।।
त्वं हि क्षीराब्धिसम्भूता लक्ष्मीरिव हि दृश्यसे ।। 2.1.4.२० ।।
।। श्रीवराह उवाच ।।
इत्युक्त्वा पूजितस्ताभिर्नारदोऽन्तर्दधे तदा ।।
एतच्छ्रुत्वाऽथ तत्सख्यस्तामूचुः पद्मिनीं सखीम् ।।२१।।
अथ पद्मावत्याः स्वसखीभिः साकं पुष्पाटवी गमनम् ।। ।।
वनं गच्छाम पुष्पार्थं वसन्तः समुपागतः ।।
कर्णिकाराश्च चूताश्च चंपकाः पारिभद्रकाः ।।२२।।
पलाशाः पाटलाः कुन्दा रक्ताशोकाश्च पुष्पिताः।।
पद्मिन्यः सिन्धुवाराश्च मालत्यो यूथिकालताः।।२३।।
कह्लारकरवीराश्च संघर्षादिव पुष्पिताः ।।
पुष्पावचयनं कुर्मो वनेऽस्मिन्सुमनोहरे ।।२४।।
इत्युक्त्वा ता वनं जग्मुराकाशतनयायुताः ।।
पुष्पाण्याहरमाणास्तु विचरन्त्यस्ततस्ततः ।। २५ ।।
कंचिद्गजेंद्रं ददृशुः शुभ्रदन्तद्वयोज्ज्वलम् ।।
गण्डभित्तितलोद्भूतमदधाराद्वयोज्ज्वलम्।।२६।।
उन्नतं करिणीयूथैः समुपेतं रजोज्ज्वलम् ।।
फूत्कारिपुष्करप्रोद्यच्छीकरापूरिताननम्।। २७ ।।
दृष्ट्वा चोद्विग्नहृदया वनस्पतिमुपाश्रिताः ।।
एतस्मिन्नंतरे चाशु ददृशुर्हयमुत्तमम्।।२८।।
अथ मृगयार्थं पुष्पाटवीं प्रति श्रीनिवासागमनम्।।
अकलंकेन्दुधवलं जाम्बूनदपरिष्कृतम् ।।
स्फुरद्विद्युल्लतायुक्तशरन्मेघमिवोन्नतम् ।। २९ ।।
तस्मिंस्तु पुरुषं कृष्णं मदनाकारवर्चसम्।।
पुंडरीकदलाकारकर्णान्तायतलोचनम् ।। 2.1.4.३० ।।
सुसूक्ष्मक्षौमसंवीतनीलचूलिकयोज्ज्वलम् ।।
पद्मरागमणिद्योतिस्फुरत्कुंडलमण्डितम् ।। ३१ ।।
सुवर्णरत्नखचितशार्ङ्गदिव्यधनुर्धरम् ।।
अपरेण करेणैव वहन्तं काञ्चनं शरम् ।।३२।।
पीतकक्षोमसंवीतकटिदेशं सुमध्यमम् ।।
रत्नकंकणकेयूरकटिसूत्रविराजितम।।३३।।
विशालवक्षः संशोभिदक्षिणावर्तसंयुतम् ।।
स्वर्णयज्ञोपवीतेन स्फुरत्स्कन्धं मनोहरम्।।३४।।
ईहामृगं समुद्दिश्य महावेगादनुद्रुतम् ।।
तं दृष्ट्वा विस्मिता नार्यः सस्मितास्तस्थुरत्र वै ।।३५।।
तं दृष्ट्वा हयमारूढं गजेन्द्रो नम्रमस्तकः ।।
तुण्डमुद्धृत्य गर्जन्वै विनिर्वृत्य ययौ वनम् ।।३६।।
तस्मिन्गते गजे तत्र हयारूढः समाययौ ।।
ईहामृगं विचिन्वानः पुष्पलावीसमीपतः।।३७।।
।। अथ भगवतः कन्यकानां चान्योन्यसंवादः।। ।।
ताः समेत्य स चोवाच तुरगोपरि संस्थितः।।
अत्रागतो मृगः कश्चिदीहामृग इतीरितः ।।३८।।
दृष्टो वा भवतीभिः स ब्रूत मे कन्यका इति ।।३९।
।। श्रीवराह उवाच ।। ।।
प्रत्यूचुस्तास्तु तं कन्या दृष्टोस्माभिर्न कश्चन ।।2.1.4.४०।।
किमर्थमागतोस्माकं वनं वरधनुर्धरः ।।
अत्रावध्या मृगाः सर्वे वर्तमाना निषादप ।।४१।।
आशु गच्छ वनादस्मादाकाशनृपपालितात् ।।
इति तासां वचः श्रुत्वा हयादवरुरोह सः ।। ४२ ।।
कास्तु यूयमियं चापि कन्यकांबुजसन्निभा ।।
सुभगा चारुसर्वांगी पीनोन्नतपयोधरा ।।
ब्रूत मेऽहं गमिष्यामि श्रुत्वा स्वस्यालयं गिरिम् ।। ४३ ।।
इति तस्या वचः श्रुत्वा धरण्यात्मजयेरिता ।।
सखी पद्मावती प्राह निषादं पर्वतालयम् ।। ४४ ।।
आकाशराजतनया वसुधातलसंभवा ।।
अस्माकं नायिका शूर पद्मिनीनाम नामतः ।। ४५ ।।
ब्रूहि त्वं सुभगाकार किन्नामा कस्य वा सुतः ।।
जातिः का कुत्र ते वासः किमर्थं त्वमिहागतः ।।
इति पृष्टः स ताः प्राह मन्दस्मितमुखांबुजः ।। ४६ ।।
दिवाकरकुलं प्राहुरस्माकं तु पुराविदः ।।
यस्य नामान्यनंतानि पावनानि मनीषिणाम् ।। ४७ ।।
वर्णतो नामतश्चापि कृष्णं प्राहुस्तपस्विनः ।।
ब्रह्मद्विषां सुरारीणां यस्य चक्रं भयावहम् ।। ४८ ।।
यस्य शंखध्वनिं श्रुत्वा मोहमीयुर्हि वैरिणः ।।
यस्य वै धनुषस्तुल्यं धनुर्नैवामरेष्वपि ।। ४९ ।।
तं मां वीरपतिं प्राहुर्वेंकटाद्रिनिवासिनम् ।।
तस्मादद्रितटात्सोऽहं निषादैरनुगैर्वृतः ।। 2.1.4.५० ।।
मृगयार्थं हयारूढो युष्माकं वनमागतः ।।
मयाप्यनुद्रुतः कश्चिन्मृगो वायुगतिर्ययौ ।। ५१ ।।
तमदृष्ट्वा वनं पश्यन्दृष्टवान्सुभगामिमाम् ।।
कामादिहागतोऽहं वो मया किं लभ्यते न्वियम् ।। ५२ ।।
इति कृष्णवचः श्रुत्वा कुद्धास्ताः पुनरब्रुवन् ।।
आकाशराजो दृष्ट्वा त्वां कृत्वा निगडबन्धनम् ।।
यावन्नयति तावत्त्वं गच्छ शीघ्रं स्वमालयम् ।।५३।।
तर्जितस्ताभिरेवं स हयमारुह्य शीघ्रगम् ।।
युक्तः स्वानुचरैः सर्वैर्ययौ द्रुततरं गिरिम् ।। ५४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवाद उद्यानवासिन्याः पद्मावत्यास्समीपे नारदागमन श्रीनिवासमृगयादिवर्णनंनाम चतुर्थोऽध्यायः ।। ४ ।।