स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search

।। ब्रह्मोवाच ।। ।।
देवदेव तवैश्वर्यं केन शक्येत वेदितुम् ।।
विना भायैक्यसुलभं भवदीयमनुग्रहम् ।। १ ।।
अकर्तृकाणि वाक्यानि ऐश्वर्यं ते निरत्ययम् ।।
न स्तोतुं शक्यते किं तु नमस्कुर्वंति दूरतः ।। २ ।।
को विष्णुः कोऽहमेते वा दिक्पाला वासवादयः ।।
त्वमेव देव कर्त्तासि जगत्सृजनरक्षयोः ।। ३ ।।
पतिस्त्वं पार्वतीनाथ पशवो वयमप्यमी ।।
बद्धं पाशेन मोक्तुं वा त्वमेवास्मान्प्रगल्भसे ।। ४ ।।
षड्विंशत्तत्त्वरूपस्त्वमभितश्चाभिवर्त्तसे ।।
कोविदः को विनिर्णेतुं तव याथात्म्यमीश्वरः ।।५।।
किरातः किल देवस्त्वं सारमेयैः किलागमैः ।।
षड्वर्गहिंस्रान्संहर्तुं करोष्याखेटकौतुकम् ।।६।।
देव दक्षाध्वरे पूर्वं वरिभद्रस्त्वदाज्ञया ।।
कांकां शिक्षामकार्षीन्न इति कापि विडम्बना ।। ७ ।।
तव कालाग्निरूपस्य सर्वब्रह्मांडदाहिनः ।।
पोषणात्पुष्पचापस्य प्रायो जिह्वेति शेमुषी ।। ८ ।।
कृतापराधः शूलेन त्वया दीर्णो जलंधरः ।।
अन्तकोंधकदैत्यश्च प्रतिवीरश्च कोऽस्ति ते ।।९।।
अधारयिष्यत्कण्ठेन कालकूटं न चेद्भवान् ।।
कथं च धारयिष्यामो वयं सर्वेऽपि जीवितम् ।। 1.3.2.16.१० ।।
देवदारुवने पूर्वं मुनीन्केवलकर्मठान् ।।
प्रक्षोभ्य धूर्तवेषस्त्वं दययान्वग्रहीस्तथा ।। ११ ।।
अंघ्रिणाक्रांतवान्नो चेदत्युग्रां त्वमपस्मृतिम् ।।
तयाक्रांतमिदं कृत्स्नमंधकारायते जगत् ।। १२ ।।
अर्धनारीश्वरं रूपं त्वया चेन्न प्रकाशितम् ।।
प्रभवामि कथं स्रष्टुं जगदेतच्चराचरम् ।। १३ ।।
भवता स्तंभितः शम्भो संरंभाज्जंभजिद्भुजः।।
कियंतं हंत कालं ते जयस्तंभ इव स्थितः।।१४।।
भिक्षोः कपालमापूर्य रुधिरेणात्मनो हरिः।।
शूलेनोत्क्षिप्य मुमुहे ह्येतत्त्वमवधारय।। १५।।
न चेदशिक्षयः सर्वशस्त्रास्त्राण्यनुकंपया ।।
निर्वापयेत्कथं वैरं क्रुद्धोपि जमदग्निभूः ।। १६ ।।
नृहरिं शरभाकारः समहार्षीन्न चेद्भवान् ।।
स एव संहरेद्विश्वं हिरण्यकशिपोरपि ।। १७ ।।
त्वमाचकृक्षः कल्पाब्धौ कैवर्त्तो मत्स्यकच्छपौ ।।
हरिं बद्ध्वाहिराट्सूत्रैर्नृसिंहमथ सूकरम् ।। १८ ।।
एकोने पद्मसाहस्रे स्वनेत्रेण कृतार्चनम् ।।
शूलिन्सुदर्शनं दत्त्वा दैत्यद्विषमतूतुपः ।। १९ ।।
।। नंदिकेश्वर उवाच ।। ।।
स्तुत्यैवमस्य विष्णोश्च प्रार्थनेन प्रसेदिवान् ।।
धूर्जटिः सृष्टिकर्तृत्वं पुनरस्याभ्यमन्यत ।। 1.3.2.16.२० ।।
समँज्यासु द्विजानां च पूजनं चानुशिष्टवान् ।।
उभावप्यब्रवीदेतौ वात्सल्याच्चद्रशेखरः।। २१ ।।
।। श्रीशिव उवाच ।। ।।
वत्सौ युवां न ज्ञात्वैवं भूयो भवतमुद्धतौ ।।
गुरुं स्मरतो मामेव जाग्रतं सृष्टिरक्षयोः ।। २२ ।।
इह प्रदेशे युवयोर्यन्मयानुग्रहः कृतः ।।
पुण्यक्षेत्रमिदं पुंसां ततो मोक्षाय कल्पताम् ।। २३ ।।
योजनत्रयमात्रेऽस्मिन्क्षेत्रे निवसतां नृणाम् ।।
दीक्षादिकं विनाप्यस्तु मत्सायुज्यं ममाज्ञया ।। २४ ।।
यद्वा तिरश्चामप्यत्र स्थावराणां च देहिनाम् ।।
अबुद्धिपूर्विका बुद्धिरपवर्गस्य जायताम् ।। २५ ।।
नृणां च दर्शनाद्दूरे कैवल्यं स्मरणेन वा ।।
अस्तु वेदांतविज्ञानं न साध्यं निष्प्रयासतः ।। २६ ।।
शुभाय तैजसी मूर्तिः स्थावरा मम शाश्वती ।।
अरुणाद्रिरिति ख्याता नित्यमेवात्र वर्त्तताम् ।। २७ ।।
युगात्ययेपि नैनं तु मज्जयेयुर्महाब्धयः ।।
न चालयेयुर्मरुतो न दहेयुश्च वह्नयः ।। २८ ।।
ज्योतिर्मयमिदं लिंगं ज्योतिःष्वपि न जातुचित्।।
क्रमंता निर्गमागत्या खेचराणि समंततः।। २९।।
यस्यानुग्रहमिच्छामि जंतो्तस्यात्र संभवः।।
देहांते कल्पतां मुक्त्यै विनौपनिषदीर्गिरः।। 1.3.2.16.३०।।
एष दूरात्प्रणामेन निकर्षाच्च प्रदक्षिणात्।।
अपि पापात्मनां पुंसामस्तु निश्रेयसप्रदः ।। ३१ ।।
अत्रैव नियतं वासाः संभवंति महात्मनाम् ।।
तस्मात्स्थलमिदं हित्वा न गंतव्यं कदाचन ।। ३२ ।।
शोणाचलमनादृत्य क्वचित्स्थित्वापि मुक्तये ।।
तस्माद्युवां विधिहरी वसतं चात्र नित्यशः ।। ३३ ।।
।। नंदिकेश्वर उवाच ।। ।।
इत्युक्तवंतं कामारिं प्रणम्य विधिमाधवौ ।।
तौ व्यज्ञापयतां देवं दूरीभवदहंक्रियौ ।। ३४ ।।
।। विधिमाधवावूचतुः ।। ।।
एवमेतज्जगदाधार जगदाधारतां गतः ।।
आस्तां गिरिरसौ किं तु तेजो ह्यस्य सुदुस्सहम् ।। ३५ ।।
अतोयमुत्तमो रुद्र तेजः सामान्यशैलवत् ।।
तिष्ठत्वभेद्यमहिमा निश्रेयसमहाखनिः ।। ३६ ।।
विवृणोति निजं ज्योतिर्विश्वस्यास्य समृद्धये ।।
प्रत्यब्दं कार्त्तिके मासि कृत्तिकासु दिनात्यये ।। ३७ ।।
शर्मदोपि नृणां देव शोणाद्रिस्तव शासनात् ।।
महत्त्वादर्चितुं शक्यो न स्याद्भक्तस्य कस्यचित्।।३८।।
एतस्योपत्यकायां तदद्यारभ्यास्मदर्थनात्।।
देवेन सन्निधातव्यमवन्यां लिंगरूपिणा।।३९।।
तच्चारुणगिरीशानमावामाराधयावहे।।
अभिषेकानुलेपाद्यैरुपचारैर्यथाविधि ।।1.3.2.16.४०।।
संत्यत्र केशराश्चूता नागपुंनागकेसराः।।
आरग्वधाः कुरबका मालूराः पाटला अपि ।। ४१ ।।
अत्रैव सन्निधातव्यं देवदेव दयानिधे ।।
यतस्त्वद्भक्तिदार्ढ्यं नौ भवतात्त्वदुपासनात्।।४२।।
नान्यथा चित्तशुद्धिर्न्नौ देवेऽप्येवं प्रसेदुषि ।।
अनाद्यविद्यावृतये यो भविष्यति नित्यशः ।। ४३ ।।
शोणाद्रेः पूर्वदिग्भागे स एष भृशमुन्नतः ।।
स एवालं निवासाय देवस्य हृदयंगमः ।।।।४४।।
सांगवेदा धर्मशास्त्रं पुराणानि शिवागमाः ।।
कृत्वा च सकलाः प्रोक्ता भवतैव भवावयोः ।।४५।।
निश्रेयसाय भक्तानां त्वयैव गुरुरूपिणा।।
अष्टाविंशतिराख्याता आगमाः शैवसंज्ञिताः ।। ४६ ।।
तेषु कस्य प्रकारेण कुर्वाणौ त्वदुपासनाम् ।।
कदाप्यज्ञानजामार्तिं नाधिगच्छाव शंकर ।। ४७ ।।
।। नंदिकेश्वर उवाच ।। ।।
इति तौ धातृगोविंदौ पादपद्मावलंबिनौ ।।
जगाद करुणामूर्त्तिर्जगतीभृत्सुतापतिः ।। ४८ ।।
।। श्रीमहादेव उवाच ।। ।।
युक्तमुक्तमिदं भद्रौ मयाप्येवं मनीषितम् ।।
कामिकोक्तेन मार्गेण मामर्चयितुमर्हथः ।। ४९ ।।
मोहतो विस्मृता मन्ये भवद्भ्यां शैवसंहिता ।।
अधुना मत्प्रसादेन पुनरुद्भासतां हृदि ।। 1.3.2.16.५० ।।
।। नन्दीश उवाच ।। ।।
इत्युक्त्वा श्रीशवागीशौ गिरिशोऽन्तरधादथ ।।
तदा प्रादुरभूत्तत्र लिंगं किमपि मंगलम् ।। ५१ ।।
तच्चावलोक्य साश्चर्य्यौ मुकुन्दकमलासनौ ।।
मुहुः प्रणम्य सानंदं प्रार्च्य तुष्टुवतुश्चिरम् ।। ५२ ।।
तावकारयतां शोणगिरिनाथस्य चालयम् ।।
नानाशिल्पाद्भुतं विश्वकर्मणा प्रचयेन च ।। ५३ ।।
खानयामासतुस्तत्र सरः किमपि पावनम् ।।
अभिषेकाय देवस्य सर्वतीर्थमयं नवम् ।। ५४ ।।
अरुणाख्यं पुरं चारात्कल्पयामासतुश्चिरम् ।।
सिद्ध्यै नोत्कंठते लब्ध्वा कैलासायापि धूर्जटिः ।।५५।।
तस्यां ब्रह्मर्षयो देवा गंधर्वा दिव्ययोषितः ।।
सिद्धविद्याधरा यक्षाः पौरत्वं समुपाययुः ।। ५६ ।।
तीर्थानि धार्य कूपत्वं गंगाद्याः सरितस्तथा ।।
नंदनादीनि च वनान्यभवन्निष्कुटत्वतः ।।५७।।
गोलोको गोगोष्ठतया नैगमत्वं किलागमाः ।।
शैलाश्च गोपुरादित्वं स्मृतयो विधितां ययुः ।।५८।।
भूताः प्रेताः पिशाचाश्च वेतालाः कटपूतनाः ।।
प्रपन्ना मानुषं देहं तस्यां किल पृथग्जनाः ।। ५९ ।।
देवोपि धूर्जटिस्तस्यां कौतुकी सिद्धरूपधृक् ।।
योगित्वं समुपास्थाय मात्राकौपीनमुण्डधृक् ।।1.3.2.16.६०।।
न केनचिदविज्ञातः सदा सर्वत्र दीप्यति ।।
तौ च केशवलोकेशौ जटिलौ भस्मगुण्ठितौ ।।६१।।
दांतौ शोणाद्रिनाथं तमर्चयामासतुश्चिरम् ।।
तत्रत्यानां च सर्वेषां वर्णानामानुगुण्यतः ।। ६२ ।।
दीक्षादिकानि चक्राते स्वयमाचार्यतां गतौ ।।
क्रमेण हृतनिर्माल्यौ सर्वागमरहोविदौ ।। ६३ ।।
प्रातः स्नात्वा समाहृत्य पुष्पपत्रादिकं फलम् ।।
मंत्रं चारुणनाथस्य तत एव रहः श्रुतम् ।। ६४ ।।
जंजल्पाकौ जजपतुः सर्वमंत्राधिकं सदा ।।
धूपप्रदीपनैवेद्यैर्गीतवादित्रनर्तनैः ।। ६५ ।।
प्रदक्षिणानमस्कारैर्मुद्राबंधैर्नवैर्नवैः ।।
आसनेन च मूर्त्त्या च मूलेन च यथाविधि ।। ६६ ।।
पंचब्रह्मषडंगाद्यैरर्चयामासतुः शिवम् ।।
एवं वर्षसहस्राणि षोडशारुणशंकरम् ।। ६७ ।।
वेधोविष्णू समाराध्य शिवज्ञानमवापतुः ।। ६८ ।।
इतीदमश्रावि मया रहस्यं पितुः शिलादस्य मुखात्पुरा यत् ।।
निवेदितं चाद्य तदेव तुभ्यं किमन्यदाकर्णयितुं मनीषा ।। ६९ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्णुकृतारुणाचलेश मंदिरवर्णनंनाम षोडशोऽध्यायः ।। १६ ।। ।। छ ।।