स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ०५

विकिस्रोतः तः

।। ब्रह्मोवाच ।। ।।
अरण्याद्गौतमं शांतमुटजद्वार आगतम् ।।
प्रत्याधातुं प्रववृते शिवभक्तिर्जगन्मयी ।।१।।
आलुलोके समायातं गौतमं शिष्यसेवितम् ।।
लंबमानशिरःश्मश्रुसम्पूर्णमुखमण्डलम् ।।२।।
जटाभिरतिताम्राभिस्तीर्थस्नानविशुद्धिभिः ।।
न्यस्तरुद्राक्षमणिभिर्ज्वालाभिरिव पावकम् ।।।। ३ ।।
भस्मत्रिपुण्ड्रकोपेतविशालनिटिलोज्वलम् ।।
शुक्लयज्ञोपवीतेन पूर्णं रुद्राक्षदामभिः ।। ४ ।।
दधानं वल्कले रक्ते तपः कृशितविग्रहम् ।।
जपंतं वैदिकान्मंत्रान्रुद्रप्रीतिकरान्बहून् ।। ५ ।।
शम्भुनावसितोदात्तसारूप्यमिव भाषितम् ।।
तेजोनिधिं दयापूर्णं प्रत्यक्षमिव भास्करम् ।। ६ ।।
आलोक्य तं महात्मानं वृद्धं शंभुपदाश्रयम् ।।
कृतांजलिपुटा गौरी प्रणन्तुमुपचक्रमे ।। ७ ।।
कृतांजलिं मुनिर्वीक्ष्य समस्तजगदम्बिकाम् ।।
किमेतदिति साश्चर्यं वारयन्प्रणनाम सः ।। ८ ।।
स्वागतं गौरि सुभगे लोकमातर्दयानिधे ।।
व्याजेन भक्तसंरक्षां कर्तुमत्रागतास्यहो ।। ९ ।।
अहो मान्ये मान्यमर्थं विज्ञायैव पुरा वयम् ।।
पृथग्भावमिवालंब्य शिष्यादिभिः समागताः ।। 1.3.1.5.१० ।।
यद्देवि ते न चेत्किंचिन्मायाविलसितन्निजम् ।।
ततः प्रपंचसंसिद्धिः कथमेव भविष्यति ।। ११ ।।
तिष्ठत्वशेषं मे वक्तुं मायाविलसितं तव ।।
न शक्यते यन्निर्णेतुं त्वदीयैश्च कदाचन ।। ।। १२ ।।
आस्यतां पावने शुद्धं आसने कुशनिर्मिते ।।
गृह्यतां पाद्यमर्घं च दत्तं च विधिवन्मया ।। १३ ।।
इति शिष्यैः समानीते दर्भांके परमासने।।
आसीनामंबिकां वृद्धो मुनिरानर्च भक्तिमान् ।।१४।।
निवेद्य सकलां पूजां भक्तिभावसमन्वितः ।।
गौर्या समभ्यनुज्ञातः स्वयमप्यासने स्थितः।।१५।।
उवाच दशनज्योत्स्नापरिधौतदिशामुखः ।।
पुलकांचितसर्वांगः सानंदाश्रु सगद्गदम् ।। १६ ।।
अहो देवस्य माहात्म्यं शम्भोरमिततेजसः ।।
सद्भक्त रक्षणाय त्वामादिशद्भक्तवत्सलः ।। १७ ।।
असिद्धमन्यल्लब्धव्यं किं वान्यत्तव विद्यते ।।
अम्बैतद्भक्तिमाहात्म्यं संदर्शयितुमीश्वरः ।। १८ ।।
कैलासशैलवृत्तांतः कंपातटतपःस्थितः ।।
अरुणाद्रिसमादेशः सर्वं ज्ञातमिदं मया ।। १९ ।।
आगतासि महाभागे भक्ताश्रममिमं स्वयम् ।।
स्नेहेन करुणामूर्ते कर्त्तव्यमुपदिश्यताम् ।। 1.3.1.5.२० ।।
इति तस्य वचः श्रुत्वा महर्षेः सर्ववेदिनः ।।
अंबिका प्राह कुतुकात्स्तुवन्ती तं महामुनिम् ।। २१ ।।
महावैभवमेतत्ते देवदेवः स्वयं शिवः ।।
मध्ये तपस्विनां त्वं तु द्रष्टव्य इति चादिशत् ।। २२ ।।
आगमानां शिवोक्तानां वेदानामपि पारगः ।।
तपसा शंभुभक्तानां त्वमेव शिवसंमतः ।। २३ ।।
अरुणाचल नाम्नाहं तिष्ठामीत्यब्रवीच्छिवः ।।।
अस्याचलस्य माहात्म्यं श्रोतव्यं च भवन्मुखात् ।। २४ ।।
प्राप्तास्म्यहं तपः कर्तुमरुणाचलसन्निधौ ।।
भवतां दर्शनादेव स्वयमीशः प्रसीदति ।। २५ ।।
शिवभक्तेन संभाषा शिवसंकीर्त्तनश्रवः ।।
शिवलिंगार्चनं लोके वपुर्ग्रहफलोदयः ।। २६ ।।
तस्मान्ममैतन्माहात्म्यं श्रोतव्यं भवतो मुखात् ।।
सुव्यक्तमुपदेशेन ज्ञानतोऽसि पिता मम ।। २७ ।।
इति तस्या वचः श्रुत्वा गौतमस्तपसां निधिः ।।
आचख्यौ गिरिशं ध्यायन्नरुणाचलवैभवम् ।। २८ ।।
अज्ञातमिव यत्किंचित्पृच्छ्यते च पुनस्त्वया ।।
अवैमि सर्वविद्यानां माया शैवी त्वमेव सा ।। २९ ।।
अथवा भक्तवक्त्रेण शिववैभवसंश्रवः ।।
शिक्षणं शांभवं तेषां तव तुष्टेश्च कारणम् ।। 1.3.1.5.३० ।।
पठितानां च वेदानां यदावृत्तफलावहम् ।।
वदतां शृण्वतां लोके शिवसंकीर्त्तनं तथा ।। ३१ ।।
 सफलान्यद्य सर्वाणि तपांसि चरितानि मे ।।
यदहं शंभुनादिष्टं माहात्म्यं कीर्त्तये श्रुतम् ।। ३२ ।।
शिवाशिवप्रसादेन माहात्म्यमिदमद्भुतम् ।। ३३ ।।
अरुणाचलमाहात्म्यं दुरितक्षयकारणम् ।।
श्रूयतामनवद्यांगि पुरावृत्तमिदं महत् ।। ३४ ।।
अरुणाद्रिमयं लिंगमाविर्भूतं यथा पुरा ।।
न शक्यते पुनर्वक्तुमशेषं वक्त्रकोटिभिः ।। ३५ ।।
अरुणाचलमाहात्म्यं ब्रह्मणामपि कोटिभिः।।
ब्रह्मणा विष्णुना पूर्वं सोमभास्करवह्निभिः ।। ३६ ।।
इन्द्रादिभिश्च दिक्पालैः पूजितश्चाष्टसिद्धये ।।
सिद्धचारणगंधर्व यक्षविद्याधरोरगैः ।। ३७ ।।
खगैश्च मुनिभिर्दिव्यैः सिद्धयोगिभिरर्चितः ।।
तत्तत्पापनिवृत्त्यर्थं तत्तदीप्सितसिद्धये ।। ३८ ।।
आराधितोऽयं भगवानरुणाद्रिपतिः शिवः ।।
दृष्टो हरति पापानि सेवितो वांछितप्रदः ।। ३९ ।।
कीर्तितोपि जनैर्दूरैः शोणाद्रिरिति मुक्तिदः ।।
तेजःस्तंभमयं रूपमरुणाद्रिरिति श्रुतम् ।। 1.3.1.5.४० ।।
ध्यायन्तो योगिनश्चित्ते शिवसायुज्यमाप्नुयुः ।।
दत्तं हुतं च यत्किंचिज्जप्तं चान्यत्तपः कृतम् ।। ४१ ।।
अक्षय्यं भवति प्राप्तमरुणाचलसंनिधौ ।।
पुरा ब्रह्मा च विष्णुश्च शिवतेजोंशसंभवौ ।।४२।।
साहंकारौ युयुधतुः परस्परजिगीषया ।।
तथा तयोर्गर्वशांत्यै योगिध्येयः सदाशिवः ।। ४३।।
अग्नितेजोमयं रूपमादिमध्यांतवर्जितम् ।।
संप्राप्य तस्थौ तन्मध्ये दिशो दश विभासयन् ।। ४४ ।।
तेजःस्तंभस्य तस्याथ द्रष्टुमाद्यंतभागयोः ।।
हंसक्रोडतनू कृत्वा जग्मतुर्द्यां रसातलम् ।। ४५ ।।
तौ विषण्णमुखौ दृष्ट्वा भगवान्करुणानिधिः ।।
आविर्बभूव च तयोर्वरं प्रादादभीप्सितम् ।।४६।।
तत्प्रार्थितश्च देवेशो यातः स्थावरलिंगताम् ।।
अरुणाद्रिरिति ख्यातः प्रशांतः संप्रकाशते ।।४७।।
दिव्यदुन्दुभिनिर्घोषैरप्सरोगीतनर्त्तनैः।।
पूज्यते तैजसं लिंगं पुष्पवृष्टिशतैः सदा ।। ४८ ।।
ब्रह्मणामप्यतीतानां पुरा षण्णवतेः प्रभुः ।।
विष्णुनाभिसमुद्भूतो ब्रह्मा लोकान्ससर्ज हि ।। ४९ ।।
स कदाचित्तपोविघ्नं कर्तुकामेन योगिनाम् ।।
इंद्रेण प्रार्थितो ब्रह्मा ससर्ज ललितां स्त्रियम् ।। 1.3.1.5.५० ।।
लावण्यगुणसंपूर्णामालोक्य कमलेक्षणाम् ।।
मुमोह कंदर्पशरैः स विद्धहृदयो विधिः ।। ५१ ।।
स्प्रष्टुकामं तमालोक्य ब्रह्माणं कमलासनम् ।।
नत्वा प्रदक्षिणव्याजाद्गंतुमैच्छद्वराप्सराः ।। ५२ ।।
अस्यां प्रदक्षिणां भक्त्या कुर्वाणायां प्रजापतेः ।।
चतसृभ्योऽपि दिग्भ्योऽस्य मुखान्युदभवन्क्षणात् ।। ५३ ।।
सा बाला पक्षिणी भूत्वा गगनं समगाहत ।।
पुनश्च खगरूपेण समायांतं समीक्ष्य सा ।। ५४ ।।
शरणं याचमाना सा शोणाद्रिमिममाश्रयत् ।।
ब्रह्मणा विष्णुना च त्वमदृष्टपदशेखरः ।। ५५ ।।
रक्ष मामरुणाद्रीश शरण्य शरणागताम् ।।
इति तस्यां भयार्त्तायां क्रोशंत्यामरुणाचलात् ।। ५६ ।।
उदभूत्स्थावराल्लिंगाद्व्याधः कश्चिद्धनुर्द्धरः ।।
संधाय सायकं चापे समेघगगनद्युतिः ।। ५७ ।।
निषादे पुरतो दृष्टे मोहस्तस्य ननाश हि ।।
ततः प्रसन्नहृदयोतिनम्रः कमलोद्भवः।। ५८ ।।
नमश्चक्रे शरण्याय शोणाद्रिपतये तदा ।।
सर्वपापक्षयकृते नमस्तुभ्यं पिनाकिने ।। ५९ ।।
अरुणाचलरूपाय भक्ववश्याय शंभवे ।।
अजानतां स्वभक्तानामकर्मविनिवर्त्तने ।। 1.3.1.5.६० ।।
त्वदन्यः कः प्रभुः कर्तुमशक्यं चापि देहिनाम् ।।
उपसंहर मे देहं तेजसा पापनिश्चयम् ।। ६१ ।।
अन्यं वा सृज विश्वात्मन्ब्रह्माणं लोकसृष्टये ।।
अथ तस्य वचः श्रुत्वा शिवो दीनस्य वेधसः ।। ६२ ।।
उवाच करुणामूर्तिर्भूत्वा चंद्रार्द्धशेखरः ।।
दत्तः कालस्तव मया पुरैव न निवर्त्यते ।। ६३ ।।
कं वा रागादयो दोषा न बाधेरन्प्रभुस्थितम् ।।
 तस्माद्दूरस्थितोऽप्येतदरुणाचलसंज्ञितम्।।६४।।
भजस्व तैजसं लिंगं सर्वदोषनिवृत्तये ।।
वाचिकं मानसं पापं कायिकं वा च यद्भवेत् ।।६५।।
विनश्यति क्षणात्सर्वमरुणाचलदर्शनात् ।।
प्रदक्षिणा नमस्कारैः स्मरणैरर्चनैः स्तवैः ।।६६।।
अरुणाद्रिरयं नृणां सर्वकल्मषनाशनः ।।
कैलासे मेरुशृंगे वा स्वस्थानेषु कलाद्रिषु ।।६७।।
संदृश्यः कश्चिदेवाहमरुणाद्रिरयं स्वयम् ।।
यच्छृंगदर्शनान्नॄणां चक्षुर्लाभेन केवलम् ।। ६८ ।।
भवेत्सर्वाघनाशश्च लाभश्च ज्ञानचक्षुषः ।।
मदंशसंभवो ब्रह्मा स्वनाम्ना ब्रह्मपुष्करे ।। ६९ ।।
अत्र स्नातः पुरा ब्रह्मन्मोहोऽगाज्जगतीपतेः ।।
स्नात्वा त्वं ब्रह्मतीर्थे मां समभ्यर्च्य कृतांजलिः ।। 1.3.1.5.७० ।।
मौनी प्रदक्षिणं कृत्वा विश्वात्मन्भव विज्वरः ।।७१।।
इति वचनमुदीर्य विश्वनाथं स्थितमरुणाचलरूपतो महेशम् ।।
अथ सरसि निमज्य पद्मजन्मा दुरितहरं समपूजयत्क्रमेण।।७२।।
इममरुणगिरीशमेष वेधा यमनियमादिविशुद्धचित्तयोगः ।।
स्फुटतरमभिपूज्य सोपचारं गतदुरितोऽथ जगाम चाधिपत्यम् ।।७३।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मपुष्करमाहात्म्यवर्णनंनाम पञ्चमोऽध्यायः।।५।। ।।