स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ११

विकिस्रोतः तः

।। ब्रह्मोवाच ।। ।।
स तु सिंहस्थितां गौरीं ज्वलंती विविधायुधाम् ।।
शैलवर्षेण महता कुपितः समपूरयत् ।। १ ।।
शरवर्षेण महता तन्निवार्य विदूरतः ।।
बिभेद निशितैः शस्त्रैरशेषं तस्य विग्रहम् ।। २ ।।
भिद्यमानोऽपि दैत्येंद्रः शैलसारप्रदुर्धरः ।।
विषादं नागमत्किंचिद्ववृधे युद्धदुर्मदः ।। ३ ।।
भिद्यमानः स खड्गेन चक्रैरसिभिर्ऋष्टिभिः ।।
शूलेन चायुधैश्चान्यैरंतर्धानमगाहत ।।।। ४ ।।
ततः सिंहाकृतिर्भीमः प्रचंडनिनदाननः ।।
तीक्ष्णदंष्ट्रः शितनखः परिबभ्राम केसरी ।। ५ ।।
देवीसिंहश्चपेटेन ताडयामास पाणिना ।।
दैत्यसिंहस्य च नखैस्तस्य वक्षो व्यदारयत् ।। ६ ।।
अथ व्याघ्रतया प्राप्तः स्फुटव्यात्ताननो महान् ।।
तं हंतुं च बलाद्देवी वेगेन करमक्षिपत् ।। ७ ।।
दीर्घाभिर्न्नीलरेखाभिः पूर्णः पिंगलविग्रहः ।।
यानावलिभिराकीर्णः स्वर्णाद्रिरिव संचरन् ।। ८ ।।
मृगैरिव परित्रातुं मुच्यमानोऽग्रतो बली ।।
ज्वलंतमिव रोषाग्निं जिह्वाहेतिभिरावहन्।।९।।
आगच्छंतं रयाद्देवी भल्लेन शशिवर्चसा ।।
प्रतिविव्याध तं व्याघ्रं पुरत्रयमिवेश्वरः ।।1.3.1.11.१०।।
स बाणस्तन्मुखे मग्नस्तद्रक्तेन समुक्षितः ।।
जगाहे गगनं भित्त्वा देहमस्य विनिर्गतः ।। ११ ।।
स दैत्यो वारणो भूत्वा देवीमाश्वभ्युपागमत् ।।
बलिभिः पशुभिर्भिन्नैस्तस्याः प्रीतिमिवावहन् ।। १२ ।।
तं गजेंद्रं समायांतं मदक्लिन्नमहीतलम् ।।
देवीसिंहस्तदा दृष्ट्वा ननर्द च जघान च ।। १३ ।।
अथ खड्गधरो वीरश्चर्मपाणिः समुद्गतः ।।
वक्त्रं दधानो बभ्राम दंष्ट्राभ्रुकुटिभीषणम् ।। १४ ।।
देवी च विलसत्खड्गचक्रचक्रलसत्करा ।।
युयोध तेन वीरेण भग्नशीर्षाभ्यपद्यत ।। १५ ।।
भूयः स माहिषं रूपमास्थायासुरमायया ।।
देव्या योद्धुं प्रववृते यथापूर्वमनाकुलम् ।। १६ ।।
अथ देवैमुनींद्रैश्च चोदितो गौतमो मुनिः ।।
प्रबोधयितुमारेभे स्तुतिभिर्जगदंबिकाम् ।। १७ ।।
त्वयि सर्वस्य जगतः प्राणशक्तिः परा मता ।।
ओजःशक्तिर्ज्ञानशक्तिर्बलशक्तिश्च गम्यते ।। १८।।
किमेतदद्य मोहाय युद्धमारभ्यते त्वया ।।
उपसंह्रियतामेष दैत्यो भुवनगुप्तये ।। १९ ।।
भिन्नानामस्य देहानामुपसंहरणात्तव ।।
वलयश्चोपदिश्यन्ते निगमोक्ता वरप्रदाः ।।1.3.1.11.२०।।
अन्यथा तृणकल्पस्य शत्रोरस्य निबर्हणे ।।
कालाग्निवर्चसो देवि किमर्थं संभ्रमस्त्वियान् ।। २१ ।।
स्वशक्तिमवसंस्तभ्य समाकर्षयतां रिपोः ।।
प्राणशक्तिं त्रिशूलेन गुणत्रयवपुर्धृता ।। २२ ।।
इति स्म बोधितातेन पुरा भगवती तदा ।।
महिषासुरमाक्रम्य त्रिशूलेनाभ्यधारयत्।। २३ ।।
अनेकगिरिसंकाशं देव्या विग्रहमात्मनः।।
अशक्तस्तं धारयितुं ससाद महिषासुरः ।।२४।।
निष्पिष्टो विलुठन्क्रोशन्नाक्रांतश्च परिस्फुरन् ।।
निर्गंतुमुद्गतशिरा न शशाकासुराधिपः ।।२५।।
त्रिशूलमुखभिन्नांगरक्तधारासमुद्धतः ।।
समुद्र इव संजातः संध्यारुणकलेवरः ।। ।। २६ ।।
अथ खड्गेन तीक्ष्णेन कर्तयित्वा च तच्छिरः ।।
ननर्त्त तस्य शिरसि तिष्ठन्ती महिषार्दिनी ।। २७ ।।
दुर्गां सिद्धाश्च गन्धर्वाः प्रशशंसुर्महर्षयः ।।
पुष्पवृष्टिश्च महती देवैर्मुक्ता समंततः ।।
प्रणतः प्रांजलिर्देवीं तुष्टाव विबुधाधिपः ।। २८ ।।
।। इन्द्र उवाच ।। ।।
नमस्ते जगतां मात्रे भूतानां बीजसंविदे ।। २९ ।।
भक्तिः श्रद्धा च भजतां शक्तिश्चासि त्वमंबिके ।।
कारणं परमा कीर्तिः शातिर्दांतिः कला क्षमा ।। 1.3.1.11.३० ।।
एकैव विश्वरूपा त्वं नामभेदेर्निगद्यसे ।।
तेषुतेषु पदेष्वस्मांस्तपोऽनुगुणसिद्धिषु ।। ३१ ।।
नियुज्य शत्रुं निर्भिद्य शिवा ज्ञेया प्रकाशसे ।।
हतोयं महिषो दुष्टो विनिकृत्तश्च शांभवि ।। ३२ ।।
छिन्नमेतस्य तु शिरः सजीवमिव लक्ष्यते ।।
रक्तनेत्रं तीक्ष्णशृगं ज्वलज्जिह्वं चलं शिरः ।। ३३ ।।
आक्रम्य तव तिष्ठन्त्या रूपमेव सदास्तु नः ।।
चक्रशृंगधनुर्बाणखङ्गचर्मवराभयैः ।। ३४ ।।
शूलघण्टांकुशकशाकपालकुलिशादिभिः ।।
अशेषदेवतामूर्तिरशेषैदेंवतायुधैः ।। ३५ ।।
आपूरिता त्वमेवांब सर्वशत्रून्निहंसि नः ।।
आयुधानां सहस्राणि तन्मयास्ते विभूतयः ।। ३६ ।।
त्वज्जितारातयः सर्वे विविधायुधवाहनाः ।।
रथनागहयैर्युक्ताः ससैन्या अपि भूभृतः ।। ३७ ।।
क्षणेन दग्धवीर्याः स्युस्त्वत्प्रसादविवर्जिताः ।।
अपदोऽप्यल्पवीर्योऽपि त्वत्पादांबुजसेवकः ।। ३८ ।।
त्रिलोकनाथतां प्राप्तः प्रथते कीर्तिमण्डितः ।।
तद्रूपमिदमत्युग्रं ध्यायतामर्चतां सदा ।। ३९ ।।
न शत्रुभ्यो भयं किंचिद्भवेद्विजयशालिनाम् ।।
ईदृशं सर्वलोकेषु रूपं ते देववंदितम् ।। 1.3.1.11.४० ।।
पूज्यतामिष्टसिद्ध्यर्थं देवैर्भृत्यैश्च सर्वदा ।।
मातरश्च त्वया सृष्टाः सर्वाभीष्टफलप्रदाः ।। ४१ ।।
सगणाः प्रतिपूज्यंतां सर्वस्थानेषु सर्वदा ।।
अयं च निहतो दैत्यस्त्वत्पादकृतलांछनः ।। ४२ ।।
तव भक्तैः सदा पूज्यस्त्वत्प्रमादात्त्वदग्रतः ।।
इत्थं सुरेन्द्रप्रणुता सर्वर्षिसुरसेविता ।। ४३ ।।
तथेति वरदा देवी ससर्ज च दिवं प्रति ।।
स्वयमप्यात्मनस्तत्र तद्रूपं विविधायुधम् ।।।। ४४ ।।
संस्थाप्य मातृभिः सार्धं स्थानरक्षणमातनोत् ।।
संगृह्य विमलं रूपं सखीजनसमावृता ।। ४५ ।।
महिषस्य शिरोऽपश्यद्विकृतं खङ्गधारया ।।
कथयन्ती पुनस्तस्य चित्रं लोकविभूषणम् ।। ४६ ।।
सखीभिः सह सा बाला कण्ठं तस्य व्यलोकयत् ।।
अपश्यच्च तदा लिगं कर्त्तुं तस्य च पूजनम् ।। ४७ ।।
आदत्त सहसा गौरी लिगं तस्य गले स्थितम् ।।
आलोकयच्च सुचिरं रक्तधारापरिप्लुतम् ।। ४८ ।।
आसज्जत पुनर्लिंगमस्याः पाणितलं गतम् ।।
विमोचयितुमुद्युक्ता नाशक्नोल्लग्नमंजसा ।। ४९ ।।
अचिंतयच्च सा देवी किमेतदिति विस्मयात् ।।
विषादेन च संयुक्ता महर्षीणां पुरः स्थिता ।। 1.3.1.11.५० ।।
आहतः शिवभक्तोऽयमिति शोकं समाविशत् ।।
अगर्हत भृशं मौढ्यमात्मनः स्त्रीस्वभावजम् ।। ५१ ।।
अविचार समारब्धं शिवभक्तनिबर्हणम् ।।
उपतापपरीतांगी गौतमं मुनिसत्तमम् ।। ५२ ।।
उपगम्याब्रवीद्बाला साहसं कृतमात्मना ।।
भगवन्सर्वधर्मज्ञ गौतमार्य मुनीश्वर ।। ५३ ।।
मान्यया धर्मरूपेण कोऽप्यधर्मः प्रकल्पितः ।।
देवानां रक्षणं कर्तुमभयं दातुमुद्यता ।। ५४ ।।
अज्ञानान्महिषं दैत्यं शिवभक्तिममर्दयम् ।।
रजसाक्रान्तबुद्धीनां न भवेद्धर्मसंग्रहः ।। ५५ ।।
गुरुप्रसादसुलभः स्फुरद्विघ्नशताकुलः ।।
सुदुर्धर्षा निराचारदुर्दमाः शिवसंश्रयाः ।। ५६ ।।
विशेषतो लिंगधराः शिवस्तान्बहु मन्यते ।।
पुरा पुरत्रयावासा दैतेया लिंगधारका ।। ५७ ।।
अजिताः शंभुना पूर्वं मुक्तलिंगा निषूदिताः ।।
अस्य कंठस्थितं लिंगं मम पाणिं न मुंचति ।। ५८ ।।
कथं पापं निरस्यामि शिवभक्तवधाश्रितम् ।।
अस्य कंठस्थितं लिंगं धारयंती तपोन्विता ।। ५९ ।।
तीर्थयात्रां करिष्यामि यावच्छंभुः प्रसीदति ।।
पुनः कैलासमुख्येषु शंभुस्थानेषु भूरिषु ।। 1.3.1.11.६० ।।
तीर्थेषु रचितस्नाना लप्स्ये पापविशोधनम् ।।
इति तस्याः परिश्रांतिं दुर्धर्मपरिशंकया ।। ६१ ।।
आकर्ण्य शिवधर्मज्ञो भयार्त्तां तामवोचत ।।
मा भैषीर्गिरिजे मोहाच्छिवभक्तो हतस्त्विति ।। ६२ ।।
धर्मसूक्ष्मार्थवेत्तारौ दुर्लभा गिरिकन्यके ।।
सदा शिवस्य वदनैः सद्योजातादि संश्रितैः ।। ६३ ।।
आगमाः पंचभिः प्रोक्ता अष्टाविंशतिकोटयः ।।
निर्णयाः शिवभक्तानां शिवमार्गस्य शोभनाः ।। ।। ६४ ।।
तेषुतेषु मुनींद्रैश्च नत्वैव प्रतिपद्यते ।।
कालो मुखं च कंकालं शैवं पाशुपतं तथा ।। ६५ ।।
महाव्रतं पंच चैताः शिवमार्गप्रवृत्तयः ।।
भेदाश्च बहवस्तेषामन्योन्यस्य शिवे रताः ।। ६६ ।।
साध्य एको हि बलवान्सर्वैस्तैरनिशं शिवः ।।
सर्व एव सदा पूज्याः स्वधर्मपरिनिष्ठितैः ।। ६७ ।।
अमत्सरैः शिवे भक्तैः शिवाज्ञापरिपालकैः ।।
वेदैश्च बहुभिर्यज्ञैर्भक्त्या च परया शिवः ।। ६८ ।।
आराध्यते महादेवः सर्वदा सर्वदायकः ।।
जीवहिंसा न कर्त्तव्या विशेषण तपस्विभिः ।। ६९ ।।
शिवधर्मस्य भेत्तारो निहंतव्यास्तथांजसा ।।
न वेषजुषि वीक्षेत न लिगं नैव संभवम् ।। 1.3.1.11.७० ।।
शिवधर्मस्य भेत्तारं हन्यादेवाविचारयन् ।।
बहुभिः स्फूर्तया बुद्ध्या धर्मविद्भिर्निरूपिते ।। ७१ ।।
शिवधर्मस्य विलये सद्यः शक्तिः प्रवर्तते ।।
अस्य कर्म पुनर्दिष्टं लिंगमैश्वर्यचर्चितम् ।। ७२ ।।
न जेतुं शक्यते देवि तेनासौ सर्वदैवतैः ।।
यदयं निहतो देवि त्वया शंकरमान्यया।। ७३ ।।
आक्रांतः शापदोषेण महर्षीणां शिवाश्रयात् ।।
अथ ते कुपितास्तस्य वैषम्यादवमानतः ।। ७४ ।।
शेपुर्महिषवद्दुष्टो महिषोऽयं भवत्विति ।।
ततस्तद्वचनात्सद्यो महिषोऽभूत्क्षणात्तथा ।। ७५ ।।
प्रणम्य तोषयामास ययाचे शापमोचनम् ।।
दत्त्वा प्रकामरूपत्वं ददुरस्मै प्रसादिताः ।। ७६ ।।
महिषत्वेपि संहारं स्वयं देव्या शिवाज्ञया ।।
विषादो न च कर्त्तव्यो अंगदर्शनतस्त्वया ।। ७७ ।।
सिद्धानां शिवरूपाणामवज्ञा कं न बाधते ।।
महिषत्वे समुत्पन्ने दोषेण समुपस्थिते ।। ७८ ।।
सिद्धप्रसादाल्लब्धोऽयं शापनाशस्त्वया कृतः ।।
सर्वे लोकाश्च संत्राता दुष्टोयं परिरक्षितः ।। ७९ ।।
शापदोषसमुत्पन्ने महिषत्वे विमोचिते ।।
त्वया च गिरिशप्रीत्यै तपः कुर्वाणयाद्रिजे ।। 1.3.1.11.८० ।।
द्रष्टव्यं तैजसं लिंगमरुणाचलसंज्ञितम् ।।
पूर्वजन्मनि भक्तोऽयमरुणाद्रिपतेः स्फुटम् ।। ८१ ।।
महिषत्वे मदाक्रांतः परं लिंगेन संगतः ।।
भक्त्या लिंगधरं हंतुं कः समर्थो जगत्त्रये ।। ८२ ।।
दृष्टाः पुरत्रये पूर्वं रुद्रेण पूजितास्त्रयः ।।
त्वत्खड्गपरिकृत्तेन कंठेनास्य वरानने ।।८३।।
दीक्षादिरहितं लिंगं दत्तं हंतीति चोदितम् ।।
कृतं हि महिषेणापि भक्तितो लिंगधारणम् ।। ८४ ।।
कदाचित्क्षपणोक्तानां विभाषात्प्रत्ययं गतः।।
पूर्वजन्मतपोयोगात्स्मरणो लिंगधारणात् ।।८५।।
त्वत्पादपद्मसंस्पर्शादयं मुक्तो न संशयः।।
मदुक्तनिष्कृतीनां तु पातकानां च नाशनम् ।।८६।।
दर्शनं शैलवर्यस्य प्रायश्चित्तं परं मतम् ।।
संस्थाप्य विविधाञ्छैवाञ्छिवसिद्धांतवेदिनः ।।८७।।
आवाह्य सर्वतीर्थानि सर्वदोषनिवृत्तये।।
सरः किमपि संपाद्य स्नात्वा तत्र वरानने।।८८।।
अघमर्षणसंयुक्ता सलिंगा स्नानमाचर ।।
त्रिसंध्यं चैव मासांते देवयागमहोत्सवे ।। ८९ ।।
आराधयोपचारैस्त्वमरुणाद्रिमयं शिवम् ।। 1.3.1.11.९० ।।
एवं तस्य मुनेर्निशम्य वचनं शैवार्थसंभावितं प्रीता देवनमस्कृता गिरिसुता देवी जगद्रक्षिका ।।
शैवं धर्ममिमं विधातुमुचितं शोणाचलस्याग्रतस्तीर्थागाहनबुद्धिमाशु विदधे कर्तुं त्वघक्षालनम् ।। ९१ ।।

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे महिषासुरवधोत्तरं देवीपाणौ महिषासुरशिरःसंलग्रतावृत्तांतवर्णनंनामैकादशोऽध्यायः ।। ११ ।।