स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ०७

विकिस्रोतः तः

।। पार्वत्युवाच ।। ।।
कथमग्निमयं लिंगमभिगम्यमभूद्भुवि ।।
प्राणिनामपि सर्वेषामुपशांतिं कथं गतः ।। १ ।।
तीर्थानामुद्भवः पुण्यात्कथं चारुणपर्वतात् ।।
उपसंहृतसर्वांगः कथं वा वद मेऽचलः ।।२।।
।। गौतम उवाच।। ।।
कृते त्वग्निमयः शैलस्त्रेतायां मणिपर्वतः ।।
द्वापरं हाटकगिरिः कलौ मरकताचलः ।। ३ ।।
बहुयोजनपर्यंतं कृते वह्निमये स्थिते ।।
बहिः प्रदक्षिणं चक्रुः प्रशाम्यति महर्षयः ।।४।।
शनैः शांतोरुणाद्रीशः श्रीमानभ्यर्थितः सुरैः ।।
लोकगुप्त्यर्थमत्यर्थमुपशांतोऽरुणाचलः ।।५।।
अथ गौरी मुनिं प्राह कथं शांतोऽरुणाचलः ।।
कथं वा प्रार्थयामासुर्देवेशं त्रिदशा इमम्।।६।।
इति तस्या वचः श्रुत्वा गौतमस्त्वभ्यभाषत ।।
प्रशस्य भक्तिमतुलां तस्यास्तत्त्वार्थवेदिनीम् ।।७ ।।
।। गौतम उवाच ।। ।।
अग्निरूपं पुरा शैलमासादयितुमक्षमाः ।।
पुरा सुराः स्तुतिं चक्रुरभ्यर्च्य क्रतुसंभवैः ।। ८ ।।
भगवन्नरुणाद्रीश सर्वलोकहितावह ।।
अग्निरूपोऽपि संशांतः प्रकाशस्य महीतले ।। ९ ।।
असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।।
इति त्वां सकला वेदाः स्तुवंति शिवविग्रहम् ।। 1.3.1.7.१० ।।
नमस्ताम्रायारुणाय शिवाय परमात्मने ।।
वेदवेद्य स्वरूपाय सोमाय सुखरूपिणे ।। ११ ।।
त्वद्रूपमखिलं देव जगदेतच्चराचरम् ।।
निधानमिव ते रूपं देवानामिदमीक्ष्यते ।।१२।।
वर्षतां च पयोदानां निर्झराणां च भूयसाम् ।।
सलिलोपायसंहारो युक्तस्ते युगसंक्षये ।।१३।।
अग्नेरापः समुद्भूतास्त्वत्तो हि परमात्मनः ।।
विश्वसृष्टिं वितन्वति विचित्रगुण वैभवात् ।। १४ ।।
शीतो भव महादेव शोणाचल कृपानिधे ।।
सर्वेषामपि जीवानामभिगम्यो भव प्रभो ।। १५ ।।
इति स्तुतः सुरैः सर्वेरानतैर्भक्तवत्सलः ।।
सद्यः शीतलतां गच्छन्नभिम्योऽभवत्प्रभुः ।। १६ ।।
प्रावर्त्तत पुनर्नद्यो निर्झराश्च बहूदकाः ।।
वर्षतामपि मेघानां न जग्राह जलं बहु ।। ।। १७ ।।
तथापि तरुणार्कोद्यत्कालाग्निशतकोटिभिः ।।
समानदीप्तिरभजज्जीवानामभिगम्यताम् ।।१८।।
विसृज्य विश्वसलिलं नदीश्च रसविक्षरैः ।।
संपूर्यः सकलैर्देवः सर्वदा संप्रकाशते ।। १९ ।।
तीर्थानि तानि तान्यासन्परितः प्रार्थनावशात् ।।
दिक्पालानां सुराणां च महर्षीणां महात्मनाम् ।।।। 1.3.1.7.२० ।।
।। ब्रह्मोवाच ।। ।।
इति तस्य वचः श्रुत्वा गौरी कुतुकसंयुता ।।
तीर्थानामुद्भवं सर्व श्रोतुं समुपचक्रमे ।। २१ ।।
।। पार्वत्युवाच ।। ।।
कानि तीर्थानि जातानि शोणाद्रेर्लोकगुप्तये ।।
भगवन्ब्रूहि सकलं तीर्थानामुद्भवं मम ।। २२ ।
इति तस्या वचः शृण्वन्गिरीशात्संश्रुतं पुरा ।।
तीर्थानामुद्भवं सर्वं व्याख्यातुमुपचक्रमे ।। २३ ।।
।। गौतम उवाच ।। ।।
ऐन्द्रं नाम महातीर्थमिंद्रभागे समुत्थितम् ।।
तत्र स्नात्वा पुरा शक्रो ब्रह्महत्यां व्यपोहयत् ।। २४ ।।
ब्रह्मतीर्थं पुनर्दिव्यं वह्निःकोणे समुत्थितम् ।।
परस्त्रीसंगमात्पापं वह्निः स्नात्वात्र चात्यजत् ।। २५ ।।
याम्यं नाम महातीर्थं यमभागे विजृंभते ।।
अत्र स्नात्वा यमोऽत्याक्षीद्भयं ब्रह्मास्त्रसंभवम् ।। २६ ।।
नैर्ऋतं तु महातीर्थं नैर्ऋत्यां दिशि शोभते ।।
भूतवेतालविजयं तत्र स्नात्वर्षयो गताः ।। २७ ।।
पश्चिमे वारुणं तीर्थं दिग्भागे च प्रकाशते ।।
शल्यकोशं पुरा लेभे स्नात्वात्र वरुणो निजम् ।। २८ ।।
वायवे वायवीयं च तीर्थमत्र प्रकाशते ।।
तत्र स्नात्वा ययौ वायुर्जगत्प्राणत्ववैभवम् ।। २९ ।।
उत्तरे चात्र दिग्भागे सोमतीर्थमिति स्मृतम् ।।
तत्र स्नात्वा पुरा सोमो यक्ष्मरोगादमुंचत ।। 1.3.1.7.३० ।।
ऐशाने चात्र दिग्भागे विष्णुतीर्थमिति स्मृतम् ।।
तत्र स्नात्वा पुरा विष्णुः श्रिया च सह संगतः ।। ३१ ।।
 मार्कण्डेयः पुरा देवि प्रार्थयामास शंकरम् ।।
सदाशिव महादेव देवदेव जगत्पते ।। ३२ ।।
बहूनामिह तीर्थानामेकत्र स्यात्समागमः ।।
केनोपायेन भगवन्कृपया वद शंकर ।। ३३ ।।
इति तस्य वचः श्रुत्वा देवदेव उमापतिः ।।
उपायं दर्शयामास मुनये प्रीतमानसः।। ३४ ।।
।। महेश्वर उवाच ।। ।।
सदोपहारवेलायां सर्वतीर्थसमुच्चयः ।।
सन्निधिं मम संप्राप्तः सेवते गूढरूपतः ।। ३५ ।।
नान्यदन्वेषणीयं ते तीर्थमत्र महामुने ।।
ममोपहारवेलायां दृश्यते तीर्थसंचयः ।। ३६ ।।
तस्माद्भक्तियुतैर्नित्यं सर्वतीर्थसमागमः ।।
मुनिभिश्च सुरैः सर्वैर्नैवेद्यांते विलोक्यताम् ।। ३७ ।।
इति देवि पुरा देवो मार्कडेयाय शंकरः ।।
उपादिशदमेयात्मा तीर्थसंदर्शनक्रमम् ।। ३८ ।।
।। गौतम उवाच ।। ।।
सर्वाण्यपि च पुण्यानि तीर्थानि शिवसन्निधौ ।।
सदोपहारवेलायां दृश्यानि किल मानवैः ।। ३९ ।।
व्रतं तीर्थं तपो वेदा यज्ञाश्च नियमादयः ।।
योगाश्च शोणशैलेशदर्शनाद्दृष्टसंचराः ।। 1.3.1.7.४० ।।
निशम्य वाक्यं मुनिपुंगवस्य प्रसेदुषी पर्वतराजपुत्री ।।
अवोचदत्यद्भुतमेतदत्र त्वयोपदिष्टं भुवि तीर्थजालम् ।। ४१ ।।
अहं कृतार्था तपतां वरिष्ठ त्वत्संगमात्संप्रति तीर्थजालम् ।।
प्राप्ता नमस्तेऽस्तु तपोविशेष शिवोपि मेऽत्रादिशदेव कर्तुम् ।। ४२ ।।
कथं गिरीशः पुनरत्र देवः स्फुरन्महावह्निवपुर्धरोऽपि ।।
प्रशांतरूपः परमेश्वरोऽयमभ्यर्चनीयो भुवि मर्त्यवर्गैः ।। ४३ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे ऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थवर्णनंनाम सप्तमोऽध्यायः ।। ७ ।।