स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०८४

विकिस्रोतः तः
Jump to navigation Jump to search

।। स्कंद उवाच ।।
आकर्णय क्षोणिसुर यथा स्थाणुरचीकरत् ।।
गंगावरणयोः पुण्यात्संभेदात्तीर्थभूमिकाम्।। १ ।।
संगमे तत्र निष्णातः संगमेशं समर्च्य च ।।
नरो न जातु जननी गर्भसंगमवाप्नुयात् ।। २ ।।
तत्र पादोदकं तीर्थं यत्र देवेन शार्ङ्गिणा ।।
आदौ पादौ क्षलितौ तु मंदराच्चागतेन यत् ।। ३ ।।
विप्णुपादोदके तीर्थे वारिकार्यं करोति यः ।।
व्यतीपातेन नियतं भूयः सांसारिकी गतिः ।।४।।
कृतपादोदक स्नानः कृतकेशवपूजनः ।।
वीतसंसारवसतिः काश्यामासीन्नरोत्तमः ।। ५ ।।
काश्यां सा भूमिरुद्दिष्टा श्वेतद्वीप इति द्विजैः ।।
तत्र पुण्यार्जनं कृत्वा श्वेतद्वीपाधिपो भवेत् ।। ६ ।।
ततः पादोदकात्तीर्थात्तीर्थं क्षीराब्धिसंज्ञकम् ।।
तत्रार्जित महापुण्यो वसेत्क्षीराब्धिरोधसि ।। ७ ।।
क्षीरोदाद्दक्षिणेभागे तीर्थं शंखाख्यनुत्तमम् ।।
तत्र स्नातो भवेन्नूनं नाशंखादिनिधेः पतिः ।। ८ ।।
अर्वाक्च शंखतीर्थाद्वै चक्रतीर्थमनुत्तमम् ।।
संसारचक्रे न पतेत्तत्तीर्थजलमज्जनात् ।। ९।।
गदातीर्थं तदग्रे तु संसारगदनाशनम् ।।
तत्र श्राद्धादिकरणात्पश्येद्देवं गदाधरम् ।। 4.2.84.१० ।।
पद्माकृत्पद्मतीर्थं च तदग्रे पितृतृप्तिकृत् ।।
तत्र स्नानादिकरणात्प्राप्नुयादघसंक्षयम् ।। ११ ।।
ततस्तीर्थं महालक्ष्म्या महापुण्यफलप्रदम् ।।
तत्राभ्यर्च्य महालक्ष्मीं निर्वाणकमलां लभेत् ।। १२ ।।
ततो गारुत्मतं तीर्थं संसारगरनाशनम् ।।
कृतोदकक्रियस्तत्र वैकुंठे वसतिं लभेत् ।। १३ ।।
ततो नारदतीर्थं च ब्रह्मविद्यैककारणम् ।।
तत्र स्नानेन मुक्तः स्याद्दृष्ट्वा नारदकेशवम् ।। १९। ।।
प्रह्लादतीर्थं तद्याम्ये महाभक्तिफलप्रदम् ।।
तत्र वै स्नानमात्रेण विष्णोः प्रियतरो भवेत् ।। १५ ।।
अंबरीषं ततस्तीर्थं महापातकनाशनम् ।।
तत्र वै शुभकर्माणो जना नो गर्भभाजनम् ।। ।। १६ ।।
आदित्यकेशवं नाम तदग्रे तीर्थमुत्तमम् ।।
कृताभिषेकस्तत्रापि लभेत्स्वर्गाभिषेचनम् ।। १७ ।।
दत्तात्रेयस्य तत्रास्ति तीर्थं त्रैलोक्यपावनम् ।।
योगसिद्धिं लभे तत्र स्नानमात्रेण भावतः ।। १८ ।।
तदग्रे भार्गवं तीर्थं महाज्ञानसमर्पकम् ।।
तत्र स्नानविधानेन भवेद्भार्गव लोकभाक् ।। १९ ।।
ततो वामनतीर्थं च विष्णुसान्निध्यहेतुकम् ।।
तत्र श्राद्धविधानेन मुच्यते पितृजादृणात् ।। 4.2.84.२० ।।
नरनारायणाख्यं हि ततस्तीर्थं शुभप्रदम् ।।
तत्तीर्थमज्जनात्पुंसां गर्भवासः सुदुर्लभः ।। २१ ।।
यज्ञवाराहतीर्थं च ततो दक्षिणतः शुभम् ।।
यत्र स्नातस्य वै पुंसां राजसूयफलं ध्रुवम्।। २२ ।।
विदारनारसिंहाख्यं तीर्थं तत्रास्ति पावनम् ।।
यत्रैकस्नानतो नश्येदघ जन्मशतार्जितम् ।। २३ ।।
गोपीगोविंदतीर्थं च ततो वैष्णवलोकदम् ।।
यस्मिन्स्नातो नरो विद्वान्न विंद्याद्गर्भवेदनम् ।। २४ ।।
लक्ष्मीनृसिंहतीर्थं च गोपीगोविंद दक्षिणे ।।
निर्वाणलक्ष्म्या यत्रत्यो व्रियते तु नरोत्तमः ।। २५ ।।
तद्दक्षिणायां काष्ठायां शेषतीर्थमनुत्तमम्।।
महापापौघ शेषोपि न तिष्ठेद्यन्निमज्जनात् ।। ।। २६ ।।
शंखमाधवतीर्थं च तद्याम्यां दिशि चोत्तमम् ।।
तत्तीर्थसेवनान्नृणां कुतः पापभयं महत् ।। २७ ।।
ततोपि पावनतरं तीर्थं तत्क्षणसिद्धिदम् ।।
नीलग्रीवाख्यमतुलं तत्स्नायी सर्वदा शुचिः ।। २८ ।।
तत्रोद्दालकतीर्थं च सर्वाघौघ विनाशनम् ।।
ददाति महतीमृद्धिं स्नानमात्रेण तन्नृणाम् ।। २९ ।।
ततः सांख्याख्य तीर्थं च सांख्येश्वर समीपतः ।।
तत्तीर्थसेवनात्पुंसां सांख्ययोगः प्रसीदति ।। 4.2.84.३० ।।
स्वर्लोकाद्यत्र संलीनः स्वयं देव उमापतिः ।।
अतः स्वर्लीनतीर्थं च स्वर्लीनेश्वर सन्निधौ ।। ३१ ।।
तत्र स्नानेन दानेन श्रद्धया द्विजभोजनैः ।।
जपहोमार्चनैः पुंसामक्षयं सर्वमेव हि ।। ३२ ।।
महिषासुरतीर्थं च तत्समीपेति पावनम् ।।
यत्र तप्त्वा स दैत्येंद्रो विजिग्ये सकलान्सुरान् ।। ३३ ।।
तत्तीर्थसेवकोद्यापि नारिभिः परिभूयते ।।
न पातकैर्महद्भिश्च प्रार्थितं च फलं लभेत् ।। ३४ ।।
बाणतीर्थं च तस्यारात्तत्सहस्रभुजप्रदम् ।।
तत्र स्नातो नरो भक्तिं प्राप्नुयाच्छांभवीं स्थिराम् ।। ३५ ।।
गोप्रतारेश्वरं नाम तदग्रे तीर्थमुत्तमम् ।।
अपुत्रोपि तरेद्यत्र स्नातो वैतरणीं सुखम् ।। ३६ ।।
तीर्थं हिरण्यगर्भाख्यं तद्याम्ये सर्वपापहृत्।।
तत्र स्नातो हिरण्येन मुच्यते न कदाचन ।।३७।।
ततः प्रणवतीर्थं च सर्वतीर्थोत्तमोत्तमम् ।।
जीवन्मुक्तो भवेत्तत्र स्नानमात्रेण मानवः ।। ३८ ।।
ततः पिशंगिला तीर्थं दर्शनादपि पापहृत् ।।
मुने ममाधिष्ठानं वै तदगस्तेऽति सिद्धिदम् ।। ३९ ।।
स्नात्वा पिशंगिला तीर्थे दत्त्वा दानं च किंचन ।।
किं शोचति कृतात्पापादन्यत्रापि मृतो यदि ।। 4.2.84.४० ।।
यो वै पिशंगिला तीर्थे स्नात्वा मामर्चयिष्यति ।।
भविष्यति स मे मित्त्रं मित्रतेजः समप्रभम् ।। ४१ ।।
ततस्त्रैविष्टपीदृष्टि निर्मलीकृत पुष्कलम्।।
तीर्थं पिलिपिलाख्यं वै मनोमलविनाशनम् ।। ४२ ।। ।।
तत्र श्राद्धादिकरणाद्दीनानाथ प्रतर्पणात् ।।
महतीं श्रियमाप्नोति मानवोतीव निश्चलाम् ।। ४३ ।।
ततो नागेश्वरं तीर्थं महाघपरिशोधनम् ।।
तत्तीर्थमज्जनादेव भवेत्सर्वाघसंक्षयः ।। ४४ ।।
तद्दक्षिणे महापुण्यं कर्णादित्याख्यमुत्तमम् ।।
तीर्थं यत्राप्लुतो मर्त्यो भास्करीं श्रियमावहेत् ।। ४५ ।।
ततो भैरवतीर्थं च महाघौघक्षयप्रदम् ।।
चतुरर्थोदयकरं सर्वविघ्ननिवारणम् ।। ४६ ।।
भौमाष्टम्यां तत्र नरः स्नात्वा संतर्पयेत्पितॄन् ।।
दृष्ट्वा च भैरवं कालं कलिं कालं च संजयेत् ।। ४७ ।।
तीर्थं खर्वनृसिंहाख्यं तीर्थाद्भरवतः पुरः ।।
तत्र स्नातस्य वै पुंसः कुतोघजनितं भयम् ।। ४८ ।।
मृकंडस्य मुनेस्तीर्थं तद्याम्यामतिनिर्मलम ।।
तत्र स्नानेन मर्त्यानां नापायमरणं क्वचित् ।। ४९ ।।
ततः पंचनदाख्यं वै सर्वतीर्थनिषेवितम् ।।
तीर्थं यत्र नरः स्नात्वा न संसारी पुनर्भवेत् ।। 4.2.84.५० ।।
ब्रह्मांडोदरवर्तीनि यानि तीर्थानि सर्वतः ।।
ऊर्जे यत्र समायांति स्वाघौघ परिनुत्तये ।। ५१ ।।
सर्वदा यत्र सर्वाणि दशम्यादिदिनत्रयम् ।।
तिष्ठंति तीर्थवर्याणि निजनैर्मल्यहेतवे ।। ।। ५२ ।।
भूरिशः सर्वतीर्थानि मध्य काशि पदेपदे ।।
परं पांचनदः कैश्चिन्महिमानापि कुत्रचित् ।। ५३ ।।
अप्येकं कार्तिकस्याहस्तत्र वै सफलीकृतम् ।।
जपहोमार्चनादानैः कृतकृत्यास्त एव हि ।। ५४ ।।
सर्वाण्यपि च तीर्थानि युगपत्तुलितान्यपि ।।
नाधिजन्मुः पंचनद्याः कलाया अपि तुल्यताम् ।। ५५ ।।
स्नात्वा पांचनदे तीर्थे दृष्ट्वा वै बिंदुमाधवम् ।।
न जातु जायते धीमाञ्जननी जठराजिरे ।। ५६ ।।
ततो ज्ञानहदं तीर्थं जडानामपि जाड्यहृत् ।।
तत्र स्नातो नरो जातु ज्ञानभ्रंशं न चाप्नुयात् ।। ५७ ।।
तत्र ज्ञानह्रदे स्नात्वा दृष्ट्वा ज्ञानेश्वरं नरः ।।
ज्ञानं तदधिगच्छेद्वै येन नो बाध्यते पुनः ।। ५८ ।।
ततोस्ति मंगलं तीर्थं सर्वामंगलनाशनम् ।।
तत्रावगाहनं कृत्वा भवेन्मंगलभाजनम् ।। ५९ ।।
अमंगलानि नश्येयुर्भवेयुर्मंगलानि च ।।
स्नातुर्वै मंगले तीर्थे नमस्कर्तुश्च मंगलम् ।। ।। 4.2.84.६० ।।
मयूखमालिनस्तीर्थं तदग्रे मलनाशनम् ।।
तत्राप्लुतो गभस्तीशं विलोक्य विमलो भवेत् ।। ६१ ।।
मखतीर्थं तु तत्रैव मखैश्वर समीपतः ।।
मखजं पुण्यमाप्नोति तत्र स्नातो नरोत्तमः ।। ६२ ।।
तत्पार्श्वे बिंदुतीर्थं च परमज्ञानकारणम् ।।
तत्र श्राद्धादिकं कृत्वा लभेत्सुकृतमुत्तमम् ।। ६३ ।।
पिप्पलादस्य च मुनेस्तीर्थं तद्याम्यदिक्स्थितम् ।।
स्नात्वा शनेर्दिने तत्र दृष्ट्वावै पिप्पलेश्वरम् ।। ६४ ।।
पिप्पलं तत्र सेवित्वा अश्वत्थ इति मंत्रतः ।।
शनिपीडां न लभते दुःस्वप्नं चापि नाशयेत् ।। ६५ ।।
ततस्ताम्रवराहाख्यं तीर्थं चैवातिपावनम् ।।
यत्र स्नानेन दानेन न मज्जेदघसागरे ।। ६६ ।।
तदग्रे कालगंगा च कलिकल्मषनाशिनी ।।
तस्यां स्नात्वा नरो धीमांस्तत्क्षणान्निरघो भवेत् ।।६७।।
इंद्रद्युम्नं महातीर्थमिंद्रद्युम्नेश्वराग्रतः ।।
तोयकृत्यं तत्र कृत्वा लोकमैंद्रमवाप्नुयात।। ६८।।
ततस्तु रामतीर्थं च वीररामेश्वराग्रतः।।
तत्तीर्थस्नानमात्रेण वैष्णवं लोकमाप्नुयात् ।। ६९ ।।
तत ऐक्ष्वाकवं तीर्थं सर्वाघौघविनाशनम् ।।
तत्र स्नानेन पूतात्मा जायते मनुजोत्तमः ।। 4.2.84.७० ।।
मरुत्ततीर्थं तत्प्रांते मरुत्तेश्वरसन्निधो ।।
तत्र स्नात्वा तमर्च्येशं महदैश्वर्यमाप्नुयात् ।। ७१ ।।
मैत्रावरुणतीर्थं च ततः पातकनाशनम् ।।
तत्र पिंडप्रदानेन पितॄणां भवति प्रियः ।। ७२ ।।
ततोग्नितीर्थविमलमग्नीश पुरतो महत् ।।
अग्निलोकमवाप्नोति तत्तीर्थपरिमज्जनात् ।। ७३ ।।
अंगारतीर्थं तत्रैव अंगारेश्वरसन्निधौ ।।
तत्रांगार चतुर्थ्यां नु स्नात्वा निष्पापतामियात् ।। ७४ ।।
ततो वै कलितीर्थं च कलशेश्वरसन्निधौ ।।
स्नात्वा तल्लिंगमभ्यर्च्य कलिकालान्न बिभ्यति ।।७५।।
चंद्रतीर्थं च तत्रैव चंद्रेश्वरसमीपतः ।।
तत्र स्नात्वार्च्य चंद्रेशं चंद्रलोकमवाप्नुयात् ।। ७६ ।।
तदग्रे वीरतीर्थं च वीरेश्वर समीपतः ।।
यदुक्तं प्राक्तवपुरस्तीर्थानामुत्तमं परम् ।। ७७ ।।
विघ्नेशतीर्थं च ततः सर्वविघ्नविघातकृत् ।।
जातुचित्तत्र संस्नातो न विघ्नैरभिभूयते ।। ७८ ।।
हरिश्चंद्रस्य राजर्षस्ततस्तीर्थमनुत्तमम् ।।
यत्र स्नातो नरो जातु न सत्याच्चयवते कचित् ।। ७९ ।।
हरिश्चंद्रस्य तीर्थे तु यच्छ्रेयः समुपार्जितम् ।।
तदक्षयफलं वीर इह लोके परत्र च ।। 4.2.84.८० ।।
ततः पर्वततीर्थं च पर्वतेश समीपतः ।।
सर्वपर्वफलं तस्य स्नात्वा पर्वण्यपर्वणि ।।८१।।
कंबलाश्वतरं तीर्थं तत्र सर्वविषापहम् ।।
तत्र स्नातो भवेन्मर्त्यो गीतविद्याविशारदः ।। ८२ ।।
ततः सारस्वतं तीर्थं सर्वविद्योपपादकम् ।।
तिष्ठेयुः पितरस्तत्र सह देवर्षिमानवैः ।। ८३ ।।
उमातीर्थं तु तत्रैव सर्वशक्तिसमन्वितम् ।।
औमेयलोकप्राप्त्यै स्यात्स्नानमात्रेण निश्चितम् ।। ८४ ।।
ततस्त्रिलोकी विख्यातं त्रिलोक्युद्धरणक्षमम् ।।
तीर्थं श्रेष्ठतरं वीर यदाख्या मणिकर्णिका ।। ८५ ।।
चक्रपुष्करिणीतीर्थं तदादौ विष्णुना कृतम् ।।
तदाख्या कर्णनादेव सर्वैः पापैः प्रमुच्यते ।। ८६ ।।
स्वर्गौकसस्त्रिसंध्यं वै जपंति मणिकर्णिकाम् ।।
यन्नामग्रहणं पुंसां श्रेयसं परमाय हि ।। ८७ ।।
यैः श्रुता यैः स्मृता वीर यैर्दृष्टा मणिकर्णिका ।।
त एव कृतिनो लोके कृतकृत्यास्त एव हि ।। ८८ ।।
त्रिलोके ये जपंतीह मानवा मणिकर्णिकाम् ।।
जपामि तानहं वीर त्रिकालं पुण्यकर्मणः ।। ८९ ।।
इष्टं तेन महायज्ञैः सहस्रशतदक्षिणैः ।।
पंचाक्षरी महाविद्या येनोक्ता मणिकर्णिका ।। 4.2.84.९० ।।
महादानानि दत्तानि तेन वै पुण्यकर्मणा ।।
येनाहमर्चितो वीर संप्राप्य मणिकर्णिकाम् ।। ९१ ।।
मणिकर्ण्यंबुभिर्येन तर्पिताः प्रपितामहाः ।।
तेन श्राद्धानि दत्तानि गयायां मधुपायसैः ।। ९२ ।।
मणिकर्णीजलं येन संपीतं शुद्धबुद्धिना ।।
किं तस्य सोमपानैस्तैः पुनरावृत्तिलक्षणैः ।। ९३ ।।
ते स्नाताः सर्वतीर्थेषु महापर्वसुभूरिशः ।।
तथा च सर्वावभृथैर्यैः स्नाता मणिकर्णिका ।। ।। ९४ ।।
तैः सुराः पूजिताः सर्वे ब्रह्मविष्णुमुखा मखैः ।।
यैः स्वर्णकुसुमैरत्नैरर्चिता मणिकर्णिका ।।९५।।
अहं तेनोमया सार्धं दीक्षां संप्राप्य शांभवीम् ।।
अर्चितः प्रत्यहं येन पूजिता णिकर्णिका ।। ९६ ।।
तपांसि तेन तप्तानि शीर्णपर्णादिना चिरम् ।।
सेविता श्रद्धया येन श्रीमती मणिकर्णिका ।। ९७ ।।
दत्त्वा दानानि भूरीणि मखानिष्ट्वा तु भूरिशः ।।
चिरं तप्त्वाप्यरण्येषु स्वर्गैश्वर्यान्महीं पुनः ।। ९८ ।।
विपुलेत्र महीपृष्ठे पंचक्रोश्यां मनोहरा ।।
संश्रिता मणिकर्णीयैस्ते याताश्चानिवर्तकाः ।। ९९ ।।
दानानां च व्रतानां च क्रतूनां तपसामपि ।।
इदमेव फलं मन्ये यदाप्या मणिकर्णिका ।। 4.2.84.१०० ।।
मोक्षलक्ष्मीरियं साक्षाच्छ्रीमती मणिकर्णिका ।।
प्रायोस्या महिमानं वै नवेद्म्यहमपि स्फुटम् ।। १ ।।
अवाच्यां मणिकर्ण्याश्च तीर्थं पाशुपतं परम् ।।
तीर्थं तु रुद्रवासाख्यं विश्वतीर्थमतः परम् ।। २ ।।
मुक्तितीर्थं ततो रम्यमविमुक्तमथोत्तमम् ।।
तीर्थं च तारकं स्कांदं ढुंढेस्तीर्थं ततोपि च ।। ३ ।।
भवानेयमथैशानं ज्ञानतीर्थमथोत्तमम् ।।
नंदितीर्थं विष्णुतीर्थं तीर्थं पैतामहं ततः ।। ४ ।।
नाभितीर्थमिदं चैव ब्रह्मनालमतः परम् ।।
ततो भागीरथं तीर्थं यत्तवाग्रे पुराकथि ।।५।।
तीर्थात्युत्तरवाहिन्यां स्वर्धुन्यां काशिसन्निधौ ।।
संत्यनेकानि पुण्यानि मयोक्तान्यल्पशः पुनः ।। ६ ।।
तत्रापि नितरां श्रेष्ठा पंचतीर्थी(?) नृपांगज ।।
यस्यां स्तात्वा नरो भूयो गर्भवासं न संस्मरेत् ।। ७ ।।
प्रथमं चासिसंभेदं तीर्थानां प्रवरं परम्।।
ततो दशाश्वमेधाख्यं सर्वतीर्थनिषेवितम् ।। ८ ।।
ततः पादोदकं तीर्थमादिकेशवसन्निधौ ।।
ततः पंचनदं पुण्यं स्नानमात्रादघौघहृत् ।। ९ ।।
एतेषामपि तीर्थानां चतुर्णामपि सत्तम ।।
पंचमं मणिकर्ण्याख्यं मनावेयवशुद्धिदम् ।।4.2.84.११०।।
अहं स्नाम्यत्र सततमुमया सह पर्वसु ।।
ब्रह्मणा विष्णुना सार्धं सहेंद्रादिसुरर्षिभिः ।। ११ ।।
अतएवात्र गीयेत गाथेयं श्रुतिसंमता।।
नागलोककृतावासैः स्वर्गौकोभिश्च संततम् ।। १२ ।।
सत्यं सत्यं पुनः सत्यं सत्यपूर्वमिदं वचः ।।
मणिकर्णी समं तीर्थं नास्ति ब्रह्मांडगोलके ।। १३ ।।
पंचतीर्थ्यां नरः स्नात्वा न देहं पांचभौतिकम् ।।
गृह्णाति जातुचित्काश्यां पंचास्योवाथ जायते ।। १४ ।।
इति दत्त्वा वरान्देवो वीरस्यांतर्दधे हरः ।।
स च वीरोपि वीरेशं प्रार्च्य प्राप्तः समीहितम् ।। १५ ।।
।। स्कंद उवाच।। ।।
तीर्थाध्यायमिमं पुण्यमगस्ते यो निशामयेत् ।।
तस्याघसंक्षयं यायादपि जन्मशतार्जितम् ।। १६ ।।
इति वीरेश्वराख्यानं तीर्थाख्यानप्रसंगतः ।।
कथितं ते पुरागस्ते कामेशं कथयाम्यतः ।।११७।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे वीरेश्वराख्यानं नाम चतुरशीतितमोऽध्यायः ।। ८४ ।। ।।।।। ।।