स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६६

विकिस्रोतः तः
Jump to navigation Jump to search

।। स्कन्द उवाच ।। ।।
ज्येष्ठेश्वरस्य परितो लिंगान्यन्यानि यानि तु ।।
तानि ते कथयिष्यामि शृणु वातापितापन ।। १ ।।
ज्येष्ठेशाद्दक्षिणे भागे लिंगमप्सरसां शुभम् ।।
तत्रैवाप्सरसः कूपः सौभाग्योदकसंज्ञकः ।। २ ।।
तत्कूपजलसुस्नातो विलोक्याप्सरसेश्वरम् ।।
न दौर्भाग्यमवाप्नोति नारी वा पुरुषोथवा ।। ३ ।।
तत्रैव कुक्कुटेशाख्यं लिंगं वापीसमीपगम्।।
तस्य पूजनतः पुंसां कुटुंबं परिवर्धते ।। ४ ।।
पितामहेश्वरं लिंगं ज्येष्ठवापीतटे शुभम् ।।
तत्र श्राद्धं नरः कृत्वा पितॄणां मुदमर्पयेत्।। ५ ।।
पितामहेशान्नैर्ऋत्यां पूजनीयं प्रयत्नतः ।।
गदाधरेश्वरं लिंगं पितॄणां परितृप्तिदम् ।। ६ ।।
दिशि पुण्यजनाख्यायां लिंगाज्ज्येष्ठेश्वरान्मुने।।
वासुकीश्वरसंज्ञं च लिंगमर्च्यं समंततः।। ७ ।।
तत्र वासुकिकुंडे च स्नानदानादिकाः क्रियाः ।।
सर्पभीतिहराः पुंसां वासुकीशप्रभावतः।। ८ ।।
यः स्नातो नागपंचम्यां कुंडे वासुकिसंज्ञिते ।।
न तस्य विषसंसर्गो भवेत्सर्पसमुद्भवः।। ९।।
कर्तव्या नागपञ्चम्यां यात्रा वर्षासु तत्र वै।।
नागाः प्रसन्ना जायंते कुले तस्यापि सर्वदा।। 4.2.66.१०।।
तत्कुण्डात्पश्चिमे भागे लिंगं वै तक्षकेश्वरम्।।
पूजनीयं प्रयत्नेन भक्तानां सर्वसिद्धिदम् ।। ११।।
मुनेस्तस्योत्तरे भागे कुण्डं तक्षकसंज्ञितम् ।।
कृतोदकक्रियस्तत्र न सर्पैरभिभूयते।। १२।।
तत्कुण्डादुत्तरे भागे क्षेत्रं क्षेमकरः सदा।।
भक्तानां साध्वसध्वंसी कपाली नाम भैरवः।। १३।।
भैरवस्य महाक्षेत्रं तद्वै साधकसिद्धिदम्।।
तत्र संसाधिता विद्याः षण्मासातत्सिद्धिमाप्नुयुः।। १४।।
तत्र चण्डी महामुण्डा भक्तविघ्नोपशांतिदा।
बलिपूजोपहाराद्यैः पूज्या स्वाभीष्टसिद्धये।।१५।।
तस्या यात्रां तु यः कुर्यान्महाष्टम्यां नरोत्तमः ।।
यशस्वी पुत्रपौत्राढ्यो लक्ष्मीवाँश्चापि जायते ।। १६ ।।
महामुण्डा प्रतीच्यां तु चतुःसागरवापिका ।।
तस्यां स्नातो भवेत्स्नातः सागरेषु चतुर्ष्वपि ।। १७ ।।
महाप्रसिद्धं तत्स्थानं चतुःसागरसंज्ञितम्।।
चत्वारि तत्र लिंगानि सागरैः स्थापितानि च ।। १८ ।।
तस्या वाप्याश्चतुर्दिक्षु पूजितानि दहंत्यघम् ।।
तदुत्तरे महालिंगं वृषभेश्वरसंज्ञितम् ।। १९ ।।
हरस्य वृषभेणैव स्थापितं तत्स्वभक्तितः ।।
तस्य दर्शनतः पुंसां षण्मासान्मुक्तिरुद्भवेत् ।। 4.2.66.२० ।।
वृषेश्वरादुदीच्यां तु गंधर्वेश्वरसंज्ञितम् ।।
गंधर्वकुण्डं तत्प्राच्यां तत्र स्नात्वा नरोत्तमः ।। २१ ।।
गंधर्वेश्वरमभ्यर्च्य दत्त्वा दानानि शक्तितः ।।
सन्तर्प्य पितॄदेवांश्च गंधर्वैः सह मोदते ।। २२ ।।
कर्कोटनामा नागोस्ति गन्धर्वेश्वरपूर्वतः ।।
तत्र कर्कोटवापी च लिंगं कर्कोटकेश्वरम् ।। २३ ।।
तस्यां वाप्यां नरः स्नात्वा कर्कोटेशं समर्च्य च ।।
कर्कोटनागमाराध्य नागलोके महीयते ।। २४ ।।
कर्कोट नागो यैर्दृष्टस्तद्वाप्यां विहितोदकैः ।।
क्रमते न विषं तेषां देहे स्थावरजंगमम् ।। २५ ।।
कर्कोटेशात्प्रतीच्यां तु धुंधुमारीश्वराभिधम् ।।
तल्लिंगाभ्यर्चनात्पुंसां न भवेद्वैरिजं भयम् ।। २६ ।।
पुरूरवेश्वरं लिंगं तदुदीच्यां व्यवस्थितम् ।।
द्रष्टव्यं तत्प्रयत्नेन चतुर्वर्गफलप्रदम् ।। २७ ।।
दिग्गजेनार्चितं लिंगं सुप्रतीकेन तत्पुरः ।।
सुप्रतीकेश्वरं नाम्ना यशोबलविवर्धनम् ।। २८ ।।
सरश्च सुप्रतीकाख्यं तत्पुरो भासते महत् ।।
तत्र स्नात्वा च तल्लिंगं दृष्ट्वा दिक्पतितां लभेत् ।। २९ ।।
तत्रास्त्येका महागौरी नाम्ना विजयभैरवी ।।
रक्षार्थमुत्तराद्वारि स्थिता पूज्येष्टसिद्धये ।। 4.2.66.३० ।।
वरणायास्तटे रम्ये गणौ हुंडनमुंडनौ ।।
क्षेत्ररक्षां विधत्तस्तौ विघ्नस्तंभन कारकौ ।। ३१ ।।
तौ द्रष्टव्यौ प्रयत्नेन क्षेत्रनिर्विघ्न हेतवे ।।
हुंडनेशं मुंडनेशं तत्र दृष्ट्वा सुखी भवेत् ।। ३२
।। स्कंद उवाच ।। ।।
इल्वलारे कथामेकां शृणुष्वावहितो भव ।।
वरणायास्तटे रम्ये यद्वृत्त पूर्वमुत्तमम् ।। ३३ ।।
एकदाद्रींद्रमालोक्य मेना संहृष्टमानसम् ।।
उमां संस्मृत्य निःश्वस्य प्रोवाचेति पतिव्रता ।। ३४ ।।
।। मेनोवाच ।। ।।
आर्यपुत्र न जानामि प्रवृत्तिमपि कांचन ।।
विवाहसमयादूर्ध्वं तस्या गौर्या गिरीश्वर ।। ३५ ।।
स वृषेंद्रगतिर्देवो भस्मोरग विभूषणः ।।
महापितृवनावासो दिग्वासाः क्वास्ति संप्रति ।। ३६ ।।
अष्टौ या मातरो दृष्टा ब्राह्मी प्रभृतयः प्रिय ।।
स्वस्वरूपास्ता मन्येऽहं बालिकाः कष्टहेतवः ।। ३७ ।।
तस्यैकस्य न कोप्यन्योस्त्यद्वितीयस्य शूलिनः ।।
तदुदंतप्रवृत्त्यै च क्रियतामुद्यमो विभो ।। ३८ ।।
तस्याः प्रियाया वाक्येन तदपत्यप्रियो गिरिः ।।
उवाच वचनं सास्रमुमा वात्सल्यसन्नगीः ।।३९।।
।। गिरिराज उवाच ।। ।।
अहमेव गमिष्यामि तस्या मेने गवेषणे ।।
नितरां बाधते प्रेम तददृष्ट्यग्निदूषितम् ।।4.2.66.४०।।
यदा प्रभृति सा गौरी निर्गता मम सद्मतः ।।
मन्ये मेने तदारभ्य पद्मसद्मा विनिर्ययौ ।। ४१।।
तदालापामृतधयौ न मे शब्दग्रहौ प्रिये ।।
प्राणेश्वरि तदारभ्य स्यातां शब्दांतरग्रहौ ।। ४२ ।।
जैवातृकी यतोह्नः स्याद्दूरीभूता दृशोर्मम ।।
अहो जैवातृकी ज्योत्स्ना ततोह्नोति दुनोति माम् ।। ४३ ।।
इत्युक्त्वादाय रत्नानि वासांसि विविधानि च ।।
धराधरेंद्रो निर्यातः शुभलग्नबलोदये ।। ४४
।। अगस्त्य उवाच ।। ।।
कानि कानि च रत्नानि कियंत्यपि च षण्मुख ।।
यान्यादाय प्रतस्थे स तानि मे ब्रूहि पृच्छतः ।। ४५ ।।
।। स्कंद उवाच ।।
तुला मुक्ताफलानां तु कोटिद्वय परीमिताः ।।
तथा वारितराणां च हीरकाणां तुला शतम् ।। ४६ ।।
नवलक्षाधिकं विप्र षडस्राणां सुतेजसाम् ।।
लक्षद्वयं विदूराणां तुलाविमलवर्चसाम ।। ४७ ।।
कोटयः पद्मरागाणां पंचावैहि तुला मुने ।।
पुष्पराग तुलालक्षं गुणितं नवसंख्यया ।। ४८ ।।
तथा गोमेद रत्नानां तुलालक्षमिता मुनै ।।
इंद्रनीलमणीनां च तुलाः कोट्यर्ध संमिताः ।। ४९ ।।
गरुडोद्गाररत्नानां तुलाः प्रयुतसंमिताः ।।
शुद्धविद्रुमरत्नानां तुलाश्च नवकोटयः ।। 4.2.66.५० ।।
अष्टांगाभरणानां च संख्या कर्तुं न शक्यते ।।
वाससां च विचित्राणां कोमलानां तथा मुने ।। ५१ ।।
चामराणि च भूयांसि द्रव्याण्यामोदवंति च ।।
सुवर्णदासदास्यादीन्यसंख्यातानि वै मुने ।। ५२ ।।
सर्वाण्यपि समादाय प्रतस्थे भूधरेश्वरः ।।
आगत्य वरणातीरं दूरात्काशीमलोकयत् ।। ५३ ।।
अनेकरत्ननिचयैः खचिताऽखिलभूमिकाम् ।।
नानाप्रासादमाणिक्यज्योतिस्ततततांबराम् ।। ५४ ।।
सौधाग्रविविधस्वर्णकलशोज्वलदिङ्मुखाम् ।।
जयंतीवैजयंतीनां निकरैस्त्रिदिवस्थलीम् ।। ५५ ।।
महासिद्ध्यष्टकस्यापि क्रीडाभवनमद्भुतम् ।।
जितकल्पदुमवनां वनैः सर्वफलावनैः ।। ५६ ।।
इति काशीसमृद्धिं स विलोक्याभूद्विलज्जितः ।।
उवाच च मनस्येव भूधरेंद्र इदं वचः ।। ५७ ।।
प्रासादेषु प्रतोलीषु प्राकारेषु गृहेषु च ।।
गोपुरेषु विचित्रेषु कपाटेषु तटेष्वपि ।। ५८ ।।
मणिमाणिक्यरत्नानामुच्छलच्चारुरोचिषाम् ।।
ज्योतिर्जालैर्जटिलितं ययेदमवलोक्यते ।। ५९ ।।
द्यावाभूम्योरंतरालं तथेति समवैम्यहम् ।।
ईदृक्संपत्तिसंभारः कुवेरस्यापि नो गृहे ।। 4.2.66.६० ।।
अपि वैकुंठभुवने नेतरस्येह का कथा ।।
इति यावद्गिरींद्रोसौ संभावयति चेतसि ।। ६१ ।।
तावत्कार्पटिकः कश्चित्तल्लोचनपथं गतः ।।
आहूय बहुमानं तमपृच्छच्चाचलेश्वरः ।। ६२ ।।
।। हिमवानुवाच ।। ।।
हंहो कार्पटिक श्रेष्ठ अध्यास्वैतदिहासनम् ।।
स्वपुरोदंतमाख्याहि किमपूर्वमिहाध्वग ।। ६३ ।।
कोत्र संप्रत्यधिष्ठाता किमधिष्ठातृ चेष्टितम् ।।
यदि जानासि तत्सर्वमिहाचक्ष्व ममाग्रतः ।। ६४ ।।
सोपि कार्पटिकस्तस्य गिरिराजस्य भाषितम् ।।
समाकर्ण्य समाचष्टुं मुने समुपचक्रमे ।। ६५ ।।
।। कार्पटिक उवाच ।। ।।
आचक्षे शृणु राजेंद्र यत्पृष्टोस्मि त्वयाखिलम् ।।
अहानि पंचषाण्येव व्यतिक्रांतानि मानद।।६६।।
समायाते जगन्नाथे पर्वतेंद्र सुतापतौ ।।
सुंदरान्मंदरादद्रेर्दिवोदासे गते दिवि ।।६७।।
यो वै जगदधिष्ठाता सोधिष्ठातात्र सर्वगः ।।
सर्वदृक्सर्वदः शर्वः कथं न ज्ञायते विभो ।।६८।।
मन्ये दृषत्स्वरूपोसि दृषदोपि कठोरधीः ।।
यतो विश्वेश्वरं काश्यां न वेत्सि गिरिजापतिम् ।।६९।।
स्वभावकठिनात्मापि स वरं हिमवान्गिरिः ।।
प्राणाधिक सुता दानाद्यो धिनोद्विश्वनायकम् ।। 4.2.66.७० ।।
बिभ्रत्सहज काठिन्यं जातो गौरीगुरुर्गुरुः ।।
शंभुं प्रपूज्य सुतया स्रजा विश्वगुरोरपि ।। ७१ ।।
चेष्टितं तस्य को वेद वेदवेद्यस्य चेशितुः ।।
मनागिति च जानेहं तच्चेष्टितमिदं जगत् ।।७२।।
अधिष्ठाता मया ख्यातस्तथाधिष्ठातृ चेष्टितम् ।।
अपूर्वं यत्त्वयापृष्टं तदाख्यामि च तच्छृणु ।। ७३ ।।
शुभे ज्येष्ठेश्वरस्थाने सांप्रतं स उमापतिः ।।
काशीं प्राप्य मुदा तिष्ठेद्गिरिराजांगजा सखः ।। ७४ ।।
।। स्कंद उवाच ।। ।।
यदा यदा स गिरिजा मृदुनामाक्षरामृतम् ।।
आविष्करोति पथिकोऽद्रींद्रो हृष्येत्तदातदा ।। ७५ ।।
उमानामामृतं पीतं येनेह जगतीतले ।।
न जातु जननीस्तन्यं स पिबेत्कुंभसंभव ।। ७६ ।।
उमेतिद्व्यक्षरं मंत्रं योऽहर्निशमनुस्मरेत् ।।
न स्मरेच्चित्रगुप्तस्तं कृतपापमपि द्विज ।। ७७ ।।
पुनः शुश्राव हिमवान्हृष्टः कार्पटिकोदितम् ।।
।। कार्पटिक उवाच ।। ।।
राजन्विश्वेश्वरार्थेयः प्रासादो विश्वकर्मणा ।। ७८ ।।
निर्मीयते सुनिर्माणो जन्मि निर्वाणदायिनः ।।
तदपूर्वं न कर्णाभ्यामप्याकर्णितवानहम् ।। ७९ ।।
यत्रातिमित्रतेजोभिः शलाकाभिः समंततः ।।
मणिमाणिक्यरत्नानां प्रासादेभित्तयः कृताः ।।4.2.66.८० ।।
यत्र संति शतं स्तंभा भास्वंतो द्वादशोत्तराः ।।
एकैकं भुवनं धर्तुमष्टाष्टाविति कल्पिताः ।। ८१ ।।
चतुर्दशसु या शोभा विष्टपेषु समंततः ।।
तस्मिन्विमाने सास्तीह शतकोटिगुणोत्तरा ।। ८२ ।।
चंद्रकांतमणीनां च स्तंभाधार शिलाश्च याः ।।
चित्ररत्नमयैस्तंभैः स्तंभितास्तत्प्रभाभराः ।। ८३ ।।
पद्मरागेंद्रनीलानां शालीनाः शालभंजिकाः ।।
नीराजयंत्यहोरात्रं यत्र रजप्रदीपकैः ।। ८४ ।।
स्फुरत्स्फटिकनिर्माण श्लक्ष्ण पद्मशिलातले ।।
अनेकरत्नरूपाणि विचित्राणि समंततः ।।८५।।
आरक्तपीतमंजिष्ठ नीलकिर्मीरवर्णकैः ।।
विन्यस्तानीव भासंते चित्रे चित्रकृतायतः ।। ८६ ।।
दृक्पिच्छिला विलोक्यंते माणिक्यस्तंभराजयः ।।
यतोऽविमुक्ते स्वक्षेत्रे मोक्षलक्ष्म्यंकुरा इव ।। ८७ ।।
रत्नाकरेभ्यः सर्वेभ्यो गणा रत्नोच्चयान्बहून् ।।
राशींश्चक्रुः समानीय यत्राद्रिशिखरोपमान् ।। ८८ ।।
यत्र पातालतलतो नागानां कोशवेश्मतः।।
गणैर्मणिगणाः सर्वे समाहृत्य गिरीकृताः ।। ८९ ।।
शिवभक्तः स्वयं यत्र पौलस्त्यः स्वद्रिकूटतः ।।
कोटिहाटककूटानि आनयामास राक्षसैः ।। 4.2.66.९० ।।
प्रासादनिर्मितिं श्रुत्वा भक्ता द्वीपांतरस्थिताः ।।
माणिक्यानि समाजह्रुर्यथासंख्यान्यहो नृप ।। ९१ ।।
चिंतामणिः स्वयं यत्र कमर्णे विश्वकर्मणे ।।
विश्राणयेदहोरात्रं विचित्रांश्चिं तितान्मणीन्।। ९२ ।।
नानावर्णपताकाश्च यत्र कल्पमहीरुहः ।।
अनल्पाः कल्पयंत्येव नित्यभक्तिसमन्विताः ।। ९३ ।।
अब्धयो यत्र सततं दधिक्षीरेक्षुसर्पिषाम् ।।
पंचामृतानां कलशैः स्नपयंति दिनेदिने ।। ९४ ।।
यत्र कामदुघा नित्यं स्नपयेन्मधुधारया ।।
स्वदुग्धया स्वयं भक्त्या विश्वेशं लिंगरूपिणम् ।। ९५ ।।
गंधसाररसैर्यं च सेवते मलयाचलः ।।
कर्पूररंभा कर्पूरपूरैर्भक्त्या निषेवते ।। ९६ ।।
इत्याद्य पूर्वं यत्रास्ति प्रत्यहं शंकरालये ।।
कथं तं त्वमुमाकातं न वेत्सि कठिनाशय ।। ९७ ।।
इति तस्य समृद्धिं तां दृष्ट्वा जामातुरद्रिराट ।।
त्रपया परिभूतोभून्नितरां कुंभसंभव ।। ९८ ।।
तस्मै कार्पटिकायाथ स दत्त्वा पारितोषिकम् ।।
पुनश्चिंतापरोजातोऽद्रिराट्कार्पटिके गते ।। ९९ ।।
उवाचेति मनस्येव विस्मयोत्फुल्ललोचनः ।।
अहो भद्रमिदं जातं यत्त्वया श्रावि शर्मभाक् ।। 4.2.66.१०० ।।
यावत्संपत्तिसंभारः श्रूयते दृश्यतेत्र वै ।।
जामातुरत्र सदने लीला त्रिजगतीपतेः ।। १ ।।
ततः प्राभृतकस्तुच्छो नितरां प्रतिभाति मे ।।
कन्यार्थं यो मया नीतो जामातुः परितोषकृत् ।। २ ।।
अहं मन्ये तथैवासौ यथादर्शि मया पुरा ।।
वृद्धोक्षमात्रसंपत्तिः सर्वकर्मपराङ्मुखः ।। ३ ।।
नैनं कोपि विजानीयान्नान्वयोस्य कदाऽचन ।।
नामापि यस्य नैकं च किंदेशीयश्च नोह्यते ।। ४ ।।
किंवृत्तश्च किमाचारो नाममात्रेण चेश्वरः ।।
ऐश्वर्यसूचकं वस्तु यस्य किंचिन्न लक्ष्यते ।। ५ ।।
सोसौ निर्वाणसंपत्तिं रंकायापि ददात्यहो ।।
सुमुखः सर्वकर्माणि फलवंति करोति सः ।। ६ ।।
वेदवेद्यो हि सर्वज्ञो यत्संतानोऽखिलं जगत् ।।
यं न कोपि हि वेदादौ वेदवेद्यः स एष वै ।।७ ।।
योनभिज्ञः सदाज्ञातः स सर्वज्ञोयमेव हि ।।
यस्यैकमपि नो नाम पुंसा ज्ञेयं न केनचित् ।।८।।
सर्वेषां सर्वनामानि यस्य नामानि निश्चितम् ।।
सोसौ हि सर्वदेशीयः सर्वेभ्यः सर्वसिद्धिदः ।।९।।
यस्य देशो न विदितो यस्तु वृत्तिपराङ्मुखः।।
आचारहीनमिव यं पुराऽपश्यं कठोरधीः ।। 4.2.66.११० ।।
श्रुतिस्मृती यतः सर्वमाचारं वित्त एव हि ।।
नाममात्रेण नियतं यमज्ञासिषमीश्वरम् ।। ११ ।।
साक्षादीश्वर एवैष सोन्येष्वैश्वर्यसूचकः ।।
अपि सर्वगुणाधारो गुणातीतः परापरः ।। १२ ।।
अर्वाचीन इहाप्येष पराचीनः परात्परः ।।
भूधराणामहं नाथो विश्वनाथ उमापतिः ।।१३।।
अहं प्रमितसंपत्तिरप्रमेय धनोह्यसौ ।।
तुच्छप्राभृत कस्तस्मान्नेदानीमस्य दर्शनम् ।। १४ ।।
करिष्येथ करिष्यामि व्यावृत्त्यागत्य कर्हिचित् ।।
संप्रधार्येति मनसि सायं स च गिरीश्वरः ।। १५ ।।
आहूय सर्वाननुगान्पार्वतीयान्महाबलान् ।।
आदिष्टवानिदं वाक्यं सर्वे यूयं बलाधिकाः ।। १६ ।।
कुर्वंत्वेकं ममादेशं यावन्नोद्यति भानुमान् ।।
तावच्छिवालयं चैकं विदधत्वत्र सत्वरम्।। १७।।
यस्मिन्कृते कृतार्थः स्यामिह लोके परत्र च ।।
समागत्येह काश्यां यः कुर्यादेकं शिवालयम् ।। १८ ।।
तेन त्रैलोक्यमखिलं सालयं कृतमेव हि ।।
तेन दत्तानि दानानि महांति विधिपूर्वकम् ।। १९ ।।
सुपर्वणि सुपात्राय सुताथ श्रद्धयाधिकम् ।।
येन स्ववित्तमानेन धर्मोपार्जित वित्ततः ।। 4.2.66.१२० ।।
कृतं शंभोर्महासद्म न तं पद्मा त्यजेत्क्वचित् ।।
तपांसि तेन तप्तानि शीर्णपर्णाशनान्यपि ।। २१ ।।
वाराणसीं समासाद्य येनाकारि शिवालयः ।।
अशेषाः सुविशेषाढ्या इष्टांस्तेन महामखाः।। २२ ।।
आनंदकानने येन देवदेवालयः कृतः ।।
इति तस्य समादेशं समाकर्ण्यानुगास्ततः ।।। २३ ।।
चक्रुर्देवालयं श्रेष्ठं यावद्व्युष्टा न यामिनी ।।
तावच्छैलेश्वरं लिंगं शैलेशेन प्रतिष्ठितम् ।।
चंद्रकांतमणेश्चंचत्कांतिश्चेतितमंडपम् ।। २४ ।।
अलेखयत्प्रशस्तिं च प्रशस्ताक्षरमालिनीम् ।।
व्याचक्षाणां निजां सर्वं गोत्रेभ्योप्यधिकोन्नतिम् ।। २५ ।।
ततोऽरुणोदये जाते स्नात्वा पंचनदे ह्रदे ।।
शैलराजः कालराजं नमस्कृत्य समर्च्य च ।। २६ ।।
तत्र राशिं समुत्सृज्य परितस्तवरितो ययौ ।।
पार्वतीयैरनुगतः सर्वैरपि निजालयम् ।। २७ ।।
ततः प्रातः समालोक्य गणौ हुंडनमुंडनो ।।
हृष्टौ देवालयं रम्यं वरणायास्तटे शुभे ।। २८ ।।
अदृष्टपूर्वदेवाय निवेदयितुमागतौ ।।
तौ तु दृष्ट्वा महादेवमुमादर्शितदर्पणम् ।। २९ ।।
प्रणम्य दंडवद्भूमौ कृतांजलिपुटौ गणौ ।।
कृताभ्यनुज्ञो भ्रूक्षेपाद्विज्ञप्तिमथ चक्रतुः ।। 4.2.66.१३० ।।
देवदेव न जानीवः केनचिद्दृढभक्तिना ।।
अतीव रम्यः प्रासादो निर्मितो वरणातटे ।। ३१ ।।
आसायं नैक्षिचावाभ्यां दृष्टोद्यैव प्रगे विभो।।
गणोदितमितीशानो निशम्याह गिरींद्रजाम् ।। ३२ ।।
विज्ञातसर्ववृत्तांतः सर्वज्ञोप्यनभिज्ञवत् ।।
अचलेंद्रागजेयावस्तत्प्रासादविलोकने ।।३७।।
इत्युक्त्वेशः सगिरिजो निरगात्सगणो मुने।।
महास्यंदनमारुह्य प्रासादं द्रष्टुमुत्सुकः ।। ३४ ।।
अथालुलोके गिरिशः प्रासादं वरणातटे ।।
अतीव रम्यरचनं यामिनीमात्रनिर्मितम्।।३५ ।।
स्यंदनादवरुह्याथ गर्भागारमवीविशत् ।।
ददर्श च महालिंगं चंद्रकांतशिलामयम् ।। ३६ ।।
देदीप्यमानं महसा मोक्षलक्ष्म्यंकुराकृति ।।
दृष्टिप्रसादजननं पुनर्जननशातनम् ।। ३७ ।।
केनेदं स्थापितं लिंगं यावज्जिज्ञासतीश्वरः ।।
तावद्दर्श पुरतः प्रशस्तिं कर्तृसूचिकाम्।।
वाचयित्वेव च मनाङ्मनस्येव मनोजहृत् ।।
उवाच देवो दिष्ट्येति प्रेक्षस्वात्मपितुः कृतिम् ।। ३९ ।।
उमा श्रुत्येति संहृष्टा कदंबकुसुमश्रियम् ।।
आनंदांकुरलक्ष्मीवदंगेषु परिबिभ्रती ।। 4.2.66.१४० ।।
ततो व्यजिज्ञपद्देवं देवी पादौ प्रणम्य च ।।
अस्मिँल्लिंगवरे नाथ त्वया स्थेयमहर्निशम् ।। ४१ ।।
अस्य लिंगस्य ये भक्ता शैलेशस्य महेशितुः ।।
तेभ्यस्त्वं महतीमृद्धिं दास्यसीह परत्र च ।। ४२ ।।
तथेति देव उक्त्वा तां पार्वतीं पुनरब्रवीत् ।।
वरणायां कृतस्नानैः शैलेशो यैः समर्चितः ।। ४३ ।।
पितॄन्संतर्प्य च मुदा दत्त्वा दानानि शक्तितः ।।
न तेषां पुनरावृत्तिरत्र संसारवर्त्मनि।। ४४ ।।
शैलैश्वरे महालिंगे नित्यं स्थास्याम्यहं शुभे ।।
प्रदास्यामि परां मुक्तिमेतल्लिंगार्चके जने।। ४५।।
शैलेश्वरं ये द्रक्ष्यंति वरणायाः सुरोधसि ।।
तेषां काश्यां निवसतां दुःखं नाभिभविष्यति ।। ४६।।
उमयापि वरो दत्तस्तत्र लिंगे घटोद्भव ।।
शैलेश्वरस्य ये भक्तास्ते मे पुत्रा न संशयः ।। ४७
।। स्कंद उवाव । ।।
इति शैलेश्वरं लिंगं कथितं ते महामुने ।।
इदानीं कथयिष्यामि रत्नेश्वरसमुद्भवम् ।। ४८।।
श्रुत्वा शैलेश माहात्म्यं श्रद्धया परया नरः ।।
पापकंचुकमुत्सृज्य शिवलोकमवाप्नुयात् ।। १४९ ।।. ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशाखंडे उत्तरार्धे शैलेशादि लिंगनिर्णयोनाम षट्षष्टितमोऽध्यायः ।। ६६ ।।