स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ००९

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय ९

श्रीमार्कण्डेय उवाच -
पुनर्युगान्तं ते चान्यं सम्प्रवक्ष्यामि तच्छृणु ।
सूर्यैरादीपिते लोके जङ्गमे स्थावरे पुरा ॥ ९.१ ॥
सरित्सरःसमुद्रेषु क्षयं यातेषु सर्वशः ।
निर्मानुषवषट्कारे ह्यमर्यादगतिं गते ॥ ९.२ ॥
नानारूपैस्ततो मेधैः शक्रायुधविराजितैः ।
सर्वमापूरितं व्योम वार्यौघैः पूरिते तदा ॥ ९.३ ॥
ततस्त्वेकार्णवीभूते सर्वतः सलिलावृते ।
जगत्कृत्वोदरे सर्वं सुष्वाप भगवान्हरः ॥ ९.४ ॥
प्रकृतिं स्वामवष्टभ्य योगात्मा स प्रजापतिः ।
शेते युगसहस्रान्तं कालमाविश्य सार्णवम् ॥ ९.५ ॥
तत्र सुप्तं महात्मानं ब्रह्मलोकनिवासिनः ।
भृग्वादिऋषयः सर्वे ये चान्ये सनकादयः ॥ ९.६ ॥
पर्यङ्के विमले शुभ्रे नानास्तरणसंस्तृते ।
शयानं ददृशुर्देवं सपत्नीकं वृषध्वजम् ॥ ९.७ ॥
विश्वरूपा तु सा नारी विश्वरूपो महेश्वरः ।
गाढमालिङ्ग्य सुप्तस्तां ददृशे चाहमव्ययम् ॥ ९.८ ॥
पादमूले ततस्तस्य श्यामां तां पद्मलक्षणाम् ।
कन्यां पश्यामि सुश्रोणीं चरणौ तस्य मृद्गतीम् ॥ ९.९ ॥
विमलाम्बरसंवीतां व्यालयज्ञोपवीतिनीम् ।
श्यामां कमलपत्राक्षीं सर्वाभरणभूषिताम् ॥ ९.१० ॥
सकलं युगसाहस्रं नर्मदेयं विजानती ।
प्रसुप्तं देवदेवेशमुपास्ते वरवर्णिनी ॥ ९.११ ॥
हृतैर्वेदैश्चतुर्भिश्च ब्रह्माप्येवं महेश्वरः ।
भृग्वाद्यैर्मानसैः पुत्रैः स्तौति शङ्करमव्ययम् ॥ ९.१२ ॥
भक्त्या परमया राजंस्तत्र शम्भुमनामयम् ।
स्तुवन्तस्तत्र देवेशं मन्त्रैरीश्वरसम्भवैः ॥ ९.१३ ॥
प्रसुप्तं देवमीशानं बोधयन्समुपस्थितः ।
उत्तिष्ठ हर पिङ्गाक्ष महादेव महेश्वर ॥ ९.१४ ॥
मम वेदा हृताः सर्वे अतोऽहं स्तोतुमुद्यतः ।
वेदैर्व्याप्तं जगत्सर्वं दिव्यादिव्यं चराचरम् ॥ ९.१५ ॥
अतीतं वर्तमानं च स्मरामि च सृजाम्यहम् ।
तैर्विना चाहमेकस्तु मूकोऽधो जडवत्सदा ॥ ९.१६ ॥
गतिर्वीर्यं बलोत्साहौ तैर्विना न प्रजायते ।
तैर्विना देवदेवेश नाहं किंचित्स्मरामि वै ॥ ९.१७ ॥
तान्वेदान्देवदेवेश शीघ्रं मे दातुमर्हसि ।
जडान्धबधिरं सर्वं जगत्स्थावरजङ्गमम् ॥ ९.१८ ॥
स्थानादि दश चत्वारि न शोभन्ते सुरेश्वर ।
प्रणमाम्यल्पवीर्यत्वाद्वेदहीनः सुरेश्वर ॥ ९.१९ ॥
वेदेभ्यः सकलं जातं यत्किंचित्सचराचरम् ।
तावच्छोभन्ति शास्त्राणि समस्तानि जगद्गुरो ॥ ९.२० ॥
यावद्वेदनिधिरयं नोपतिष्ठेत्सनातनः ।
यथोदितेन सूर्येण तमो याति विनाशताम् ॥ ९.२१ ॥
एवं समस्तपापानि यान्ति वेदस्य धारणात् ।
वेदे रहसि यत्सूक्ष्मं यत्तद्ब्रह्म सनातनम् ॥ ९.२२ ॥
हृदिस्थं देव जानामि गतं तद्वेदगर्जनात् ।
वेदानुच्चरतो मेऽद्य तव शङ्कर चाग्रतः ॥ ९.२३ ॥
अकस्मात्ते गता वेदा न सृजेयं विभो भुवम् ।
तेऽपि सर्वे महादेव प्रविष्टाः सम्मुखार्णवम् ॥ ९.२४ ॥
ते याच्यमाना देवेश तिष्ठन्तु स्मरणे मम ।
दुहितेयं विशालाक्षी सर्वः सर्वं विजानते ॥ ९.२५ ॥
जायती युगसाहस्रं नान्या काचिद्भवेदृशी ।
ऋषिश्चायं महाभागो मार्कण्डो धीमतां वरः ॥ ९.२६ ॥
कल्पे कल्पे महादेव त्वामयं पर्युपासते ।
जगत्त्रयहितार्थाय चरते व्रतमुत्तमम् ॥ ९.२७ ॥
एवमुक्तस्तु देवेशो ब्रह्मणा परमेष्ठिना ।
उवाच श्लक्ष्णया वाचा नर्मदां सरितां वराम् ॥ ९.२८ ॥
कथयस्व महाभागे ब्रह्मणस्त्वं तु पृच्छतः ।
केन वेदा हृताः सर्वे वेधसो जगतीगुरोः ॥ ९.२९ ॥
एवमुक्ता तु रुद्रेण उवाच मृगलोचना ।
ब्रह्मणो जपतो वेदांस्त्वयि सुप्ते महेश्वर ॥ ९.३० ॥
भवतश्छिद्रमासाद्य घोरेऽस्मिन्सलिलावृते ।
पूर्वकल्पसमुद्भूतावसुरौ सुरदुर्जयौ ॥ ९.३१ ॥
श्रियावृत्तौ महादेव त्वया चोत्पादितौ पुरा ।
सुरासुरसुदुर्जेयौ दानवौ मधुकैटभौ ॥ ९.३२ ॥
तौ वायुभूतौ सूक्ष्मौ च पठतोऽस्मात्पितामहात् ।
तावाशु हृत्वा वेदांश्च प्रविष्टौ च महार्णवम् ॥ ९.३३ ॥
एतच्छ्रुत्वा महातेजा ह्यमृतायास्ततो वचः ।
सस्मार स च देवेशं शङ्खचक्रगदाधरम् ॥ ९.३४ ॥
स विवेश महाराज भूतलं ससुरोत्तमः ।
दानवान्तकरो देवः सर्वदैवतपूजितः ॥ ९.३५ ॥
मीनरूपधरो देवो लोडयामास चार्णम् ।
वेदांश्च ददृशे तत्र पाताले निहितान्प्रभुः ॥ ९.३६ ॥
तौ च दैत्यौ महावीर्यौ दृष्टवान्मधुसूदनः ।
महावेगौ महाबाहू सूदयामास तेजसा ॥ ९.३७ ॥
वेदांस्तत्रापि तोयस्थानानिनाय जगद्गुरुः ।
चतुर्वक्त्राय देवायाददाच्चक्रविभूषितः ॥ ९.३८ ॥
ततः प्रहृष्टो भगवान् वेदांल्लब्ध्वा पितामहः ।
जनयामास निखिलं जगद्भूयश्चराचरम् ॥ ९.३९ ॥
सा च देवी नदी पुण्या रुद्रस्य परिचारिका ।
पावनी सर्वभूतानां प्रोवाह सलिलं तदा ॥ ९.४० ॥
तस्यास्तीरे ततो देवा ऋषयश्च तपोधनाः ।
यजन्ति त्र्यम्बकं देवं प्रहृष्टेनान्तरात्मना ॥ ९.४१ ॥
एका मूर्तिर्महेशस्य कारणान्तरगता ।
त्रैगुण्या कुरुते कर्म ब्रह्मचक्रीशरूपतः ॥ ९.४२ ॥
एतेषां तु पृथग्भावं ये कुर्वन्ति सुमोहिताः ।
तेषां धर्मः कुतः सिद्धिर्जायते पापकर्मिणाम् ॥ ९.४३ ॥
एवमेता महानद्यस्तिस्रो रुद्रसमुद्भवाः ।
एका एव त्रिधा भूता गङ्गा रेवा सरस्वती ॥ ९.४४ ॥
गङ्गा तु वैष्णवी मूर्तिः सर्वपापप्रणाशिनी ।
रुद्रदेहसमुद्भूता नर्मदा चैवमेव तु ॥ ९.४५ ॥
ब्राह्मी सरस्वती मूर्तिस्त्रिषु लोकेषु विश्रुता ।
दिव्या कामगमा देवी वाग्विभूत्यै तु संस्थिता ॥ ९.४६ ॥
नर्मदा परमा काचिन्मर्त्यमूर्तिकला शिवा ।
दिव्या कामगमा देवी सर्वत्र सुरपूजिता ॥ ९.४७ ॥
व्यापिनी सर्वभूतानां सूक्ष्मात्सूक्ष्मतरा स्मृता ।
अक्षया ह्यमृता ह्येषा स्वर्गसोपानमुत्तमा ॥ ९.४८ ॥
सृष्टा रुद्रेण लोकानां संसारार्णवतारिणी ॥ ९.४९ ॥
सीरजलं येऽपि पिबन्ति लोके मुच्यन्ति ते पापविशेषसङ्घैः ।
व्रजन्ति संसारमनादिभावं त्यक्त्वा चिरं मोक्षपदं विशुद्धम् ॥ ९.५० ॥
यथा गङ्गा तथा रेवा तथा चैव सरस्वती ।
समं पुण्यफलं प्रोक्तं स्नानदर्शनचिन्तनैः ॥ ९.५१ ॥
वरदानान्महाभागा ह्यधिका चोच्यते बुधैः ।
कारुण्यान्तरभावेन न मृता समुपागता ॥ ९.५२ ॥
मुच्यन्ते दर्शनात्तेन पातकैः स्नानमङ्गलैः ।
नर्मदायां नृपश्रेष्ठ ये नमन्ति त्रिलोचनम् ॥ ९.५३ ॥
उमारुद्राङ्गसम्भूता येन चैषा महानदी ।
लोकान्प्रापयते स्वर्गं तेन पुण्यत्वमागता ॥ ९.५४ ॥
य एवमीशानवरस्य देहं विभज्य देवीमिह संशृणोति ।
स याति रुद्रं महतारवेण गन्धर्वयक्षैरिव गीयमानः ॥ ९.५५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदोत्पत्तितत्स्नानफलादिकथनं नाम नवमोऽध्यायः ॥