स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०३९

विकिस्रोतः तः
Jump to navigation Jump to search

अध्याय ३९

श्रीमार्कण्डेय उवाच -
ततो गच्छेच्च राजेन्द्र कपिलातीर्थमुत्तमम् ।
स्नानमात्रान्नरो भक्त्या मुच्यते सर्वकिल्बिषैः ॥ ३९.१ ॥

युधिष्ठिर उवाच -
आश्चर्यभूतं लोकेषु कथितं द्विजसत्तम ।
नर्मदेश्वरमाहात्म्यं कापिलं कथयस्व मे ॥ ३९.२ ॥
यस्मिन् कालेऽथ सम्बन्धे उत्पन्नं तीर्थमुत्तमम् ।
सर्वपापहरं पुण्यं तीर्थं जातं कथं प्रभो ॥ ३९.३ ॥

मार्कण्डेय उवाच -
शृणु वक्ष्येऽद्य ते राजन्कपिलातीर्थमुत्तमम् ।
येन ते विस्मयः सर्वः श्रुत्वा गच्छति भारत ॥ ३९.४ ॥
पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः ।
उत्पादयित्वा सकलं भूतग्रामं चतुर्विधम् ॥ ३९.५ ॥
जपहोमपरो भक्त्या क्षणं ध्यात्वा च तिष्ठति ।
ज्वलमानात्तु कपिला तावत्कुण्डात्समुत्थिता ॥ ३९.६ ॥
अग्निज्वालोज्ज्वलैः शृङ्गैस्त्रिनेत्रा सुपयस्विनी ।
अग्निपूर्णा ह्यग्निमुखा अग्निघ्राणाग्निलोचना ॥ ३९.७ ॥
अग्निखुरा ह्यग्निपृष्ठा अग्निसर्वाङ्गसंस्थितिः ।
सर्वलक्षणसम्पूर्णा घण्टाललितनिःस्वना ॥ ३९.८ ॥
दृष्ट्वा तु तां महाभागां कपिलां कुण्डमध्यगाम् ।
ब्रह्मा लोकगुरुस्तात प्रणम्येदमुवाच ह ॥ ३९.९ ॥
नमस्ते कपिले पुण्ये सर्वलोकनमस्कृते ।
मङ्गल्ये मङ्गले देवि त्रिषु लोकेष्वनुपमे ॥ ३९.१० ॥
त्वं लक्ष्मीस्त्वं स्मृतिर्मेधा त्वं धृतिस्त्वं वरानने ।
उमादेवीति विख्याता त्वं सती नात्र संशयः ॥ ३९.११ ॥
वैष्णवी त्वं महादेवी ब्रह्माणी त्वं वरानने ।
कुमारी त्वं महाभागे भक्तिः श्रद्धा तथैव च ॥ ३९.१२ ॥
कालरात्रिस्तु भूतानां कुमारी परमेश्वरी ।
त्वं लवस्त्वं त्रुटिश्चैव मुहूर्तं लक्षमेव च ॥ ३९.१३ ॥
संवत्सरस्त्वं मासस्त्वं कालस्त्वं च क्षणस्तथा ।
नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे ॥ ३९.१४ ॥
एवं स्तुता तु मानेन कपिला परमेष्ठिना ।
तमुवाच महाभागं प्रहृष्य पद्मसम्भवम् ॥ ३९.१५ ॥
प्रसन्ना तव वाक्येन देवदेव जगद्गुरो ।
किं करोमि प्रियं तेऽद्य ब्रूहि सर्वं पितामह ॥ ३९.१६ ॥

ब्रह्मोवाच -
जगद्धिताय जनिता मया त्वं परमेश्वरि ।
स्वर्गान्मर्त्यं ततो याहि लोकानां हितकाम्यया ॥ ३९.१७ ॥
सर्वदेवमयी त्वं तु सर्वलोकमयी तथा ।
विधिना ये प्रदास्यन्ति तेषां वासस्त्रिविष्टपे ॥ ३९.१८ ॥
एवमुक्त्वा ततो देवी ब्रह्माणं परमेश्वरी ।
वन्द्यमाना सुरैः सिद्धैराजगाम धरातलम् ॥ ३९.१९ ॥

युधिष्ठिर उवाच -
यदायातेह सा तात ब्राह्मणो वचनाच्छुभा ।
तदा देवाश्च लोकाश्च कथमङ्गेषु संस्थिताः ॥ ३९.२० ॥
कथं वा संस्थितागत्य कपिला सा द्विजोत्तम ।
तीर्थे वा ह्यूषरे क्षेत्र एतन्मे कथय द्विज ॥ ३९.२१ ॥

मार्कण्डेय उवाच -
सा तदा ब्रह्मणा चोक्ता धात्रा लोकस्य भारत ।
ब्रह्मलोकाद्गता पुण्यां नर्मदां लोकपावनीम् ॥ ३९.२२ ॥
तपः कृत्वा सुविपुलं नर्मदातटमाश्रिता ।
चचार पृथिवीं सर्वां सशैलवनकाननाम् ॥ ३९.२३ ॥
तदाप्रभृति राजेन्द्र कपिलातीर्थमुत्तमम् ।
सर्वपापहरं ख्यातमृषिसङ्घैर्निषेवितम् ॥ ३९.२४ ॥
तत्तीर्थे विधिवत्स्नात्वा कपिलायाः प्रयच्छति ।
पृथ्वी तेन भवेद्दत्ता सशैलवनकानना ॥ ३९.२५ ॥
तां तु पश्यति यो भक्त्या दीयमानां द्विजोत्तमे ।
तस्य वर्षशतं पापं नश्यते नात्र संशयः ॥ ३९.२६ ॥
भूर्भुवः स्वर्महश्चैव जनः सत्यं तपस्तथा ।

ते तत्पृष्ठं समाश्रित्य स्थिता लोका नृपोत्तम ॥ ३९.२७ ॥
गौ में देवों का वास

मुखे ह्यग्निः स्थितो देवो दन्तेषु च भुजङ्गमाः ।
धाता विधाता ह्योष्ठौ च जिह्वायां तु सरस्वती ॥ ३९.२८ ॥
सहस्रकिरणौ देवौ चन्द्रादित्यौ सुलोचनौ ।
नासिकामध्यगश्चैव मारुतो नृपसत्तम ॥ ३९.२९ ॥
ललाटे तु महादेवो ह्यश्विनौ कर्णसंस्थितौ ।
नरनारायणौ शृङ्गे शृङ्गमध्ये पितामहः ॥ ३९.३० ॥
कम्बलोऽधिगतस्तात पाशधृग्वरुणस्तथा ।
यमश्च भगवान्देव आश्रित्य चोदरं श्रितः ॥ ३९.३१ ॥
खुरेषु पन्नगाश्चैवं पुच्छाग्रे सूर्यरश्मयः ।
एवम्भूतां हि कपिलां सर्वदेवमयीं नृप ॥ ३९.३२ ॥
ये धारयन्ति च गृहे धन्यास्ते नात्र संशयः ।
प्रातरुत्थाय यस्तस्याः कुरुते तु प्रदक्षिणाम् ॥ ३९.३३ ॥
प्रदक्षिणा कृता तेन सशैलवनकानना ।
कपिलापञ्चगव्येन यः स्नापयति शङ्करम् ॥ ३९.३४ ॥
उपवासपरो यस्तु तस्मिंस्तीर्थे नराधिप ।
स्नात्वा ह्युक्तविधानेन तर्पयेत्पितृदेवताः ॥ ३९.३५ ॥
तस्य ते वंशजाः सर्वे दश पूर्वे दशापरे ।
तृप्ता रोहन्ति वै स्वर्गे ध्यायन्तोऽस्य मनोरथान् ॥ ३९.३६ ॥
एष ते विधिरुद्दिष्टः सम्भवो नृपसत्तम ।
तीर्थस्य च फलं पुण्यं किमन्यत्परिपृच्छसि ॥ ३९.३७ ॥
धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ३९.३८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये कपिलातीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥