स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०२१

विकिस्रोतः तः
Jump to navigation Jump to search

अध्याय २१

युधिष्ठिर उवाच -
श्रुतं मे विविधाश्चर्यं त्वत्प्रसादाद्द्विजोत्तम ।
भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत ॥ २१.१ ॥
कथमेषा नदी पुण्या सर्वनदीषु चोत्तमा ।
नर्मदा नाम विख्याता भूयो मे कथयानघ ॥ २१.२ ॥

श्रीमार्कण्डेय उवाच -
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
तारयेत्सर्वभूतानि स्थावराणि चराणि च ॥ २१.३ ॥
नर्मदायास्तु माहात्म्यं यत्पूर्वेण मया श्रुतम् ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ २१.४ ॥
गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ २१.५ ॥
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ २१.६ ॥
कलिङ्गदेशात्पश्चार्धे पर्वतेऽमरकण्टके ।
पुण्या च त्रिषु लोकेषु रमणीया पदे पदे ॥ २१.७ ॥
तत्र देवाश्च गन्धर्वा ऋषयश्च तपोधनाः ।
तपस्तप्त्वा महाराज सिद्धिं परमिकां गताः ॥ २१.८ ॥
तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः ।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ २१.९ ॥
सिद्धिक्षेत्रं परं तात पर्वतो ह्यमरंकटः ।
सर्वदेवाश्रितो यस्मादृषिभिः परिसेवितः ॥ २१.१० ॥
सिद्धविद्याधरा भूतगन्धर्वाः स्थानमुत्तमम् ।
दृश्यादृश्याश्च राजेन्द्र सेवन्ते सिद्धिकाङ्क्षिणः ॥ २१.११ ॥
अहं च परमं स्थानं ततः प्रभृति संश्रितः ।
अत्र प्रणवरूपो वै स्थाने तिष्ठत्युमापतिः ॥ २१.१२ ॥
श्रीकण्ठः सगणः सर्वभूतसङ्घैर्निषेवितः ।
अस्माद्गिरिवराद्भूप वक्ष्ये तीर्थस्य विस्तरम् ॥ २१.१३ ॥
यानि सन्तीह तीर्थानि पुण्यानि नृपसत्तम ।
यानि यानीह तीर्थानि नर्मदायास्तटद्वये ॥ २१.१४ ॥
न तेषां विस्तरं वक्तुं शक्तो ब्रह्मापि भूपते ।
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ॥ २१.१५ ॥
विस्तरेण तु राजेन्द्र अर्धयोजनमायता ।
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ॥ २१.१६ ॥
पर्वतादुदधिं यावदुभे कूले न संशयः ॥ २१.१७ ॥
सप्तषष्टिसहस्राणि सप्तषष्टिशतानि च ।
सप्तषष्टिस्तथा कोट्यो वायुस्तीर्थानि चाब्रवीत् ॥ २१.१८ ॥
परं कृतयुगे तानि यान्ति प्रत्यक्षतां नृप ।
पश्यन्ति मानवाः सर्वे सततं धर्मबुद्धयः ॥ २१.१९ ॥
यथायथा कलिर्घोरो वर्तते दारुणो नृप ।
तथातथाल्पतां यान्ति हीनसत्त्वा यतो नराः ॥ २१.२० ॥
जालेश्वरादितीर्थानि पर्वतेऽस्मिन्नराधिप ।
पितृतृप्तिप्रदान्याहुः स्वर्गमोक्षप्रदानि च ॥ २१.२१ ॥
श्रेष्ठं दारुवनं तत्र चरुकासंगमः शुभः ।
उत्तरे नर्मदायास्तु चरुकेश्वरमुत्तमम् ॥ २१.२२ ॥
दारुकेश्वरतीर्थं च व्यतीपातेश्वरं तथा ।
पातालेश्वरतीर्थं च कोटियज्ञं तथैव च ॥ २१.२३ ॥
इति चैवोत्तरे कूले रेवाया नृपसत्तम ।
अमरेश्वरपार्श्वे च लिङ्गान्यष्टोत्तरं शतम् ॥ २१.२४ ॥
वरुणेश्वरमुख्यानि सर्वपापहराणि च ॥ २१.२५ ॥
मान्धातृपुरपार्श्वे च सिद्धेश्वरयमेश्वरौ ।
ओङ्कारात्पूर्वभागे च केदारं तीर्थमुत्तमम् ॥ २१.२६ ॥
तत्समीपे महाराज स्वर्गद्वारमघापहम् ।
नाम्ना ब्रह्मेश्वरं पुण्यं सप्तसारस्वतं पुरः ॥ २१.२७ ॥
रुद्राष्टकं च सावित्रं सोमतीर्थं तथैव च ।
एतानि दक्षिणे तीरे रेवाया भरतर्षभ ॥ २१.२८ ॥
अस्मिंस्तु पर्वते तात रुद्राणां कोटयः स्थिताः ।
स्नानैस्तुष्टिर्भवेत्तेषां गन्धमाल्यानुलेपनैः ॥ २१.२९ ॥
प्रीतास्तेऽपि भवन्त्यत्र रुद्रा राजन्न संशयः ।
जपेन पापसंशुद्धिर्ध्यानेनानन्त्यमश्नुते ॥ २१.३० ॥
दानेन भोगानाप्नोति इत्येवं शङ्करोऽब्रवीत् ।
पर्वतात्पश्चिमे देशे स्वयं देवो महेश्वरः ।
स्थितः प्रणवरूपोऽसौ जगदादिः सनातनः ॥ २१.३१ ॥
तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ।
पितृकार्यं प्रकुर्वीत विधिदृष्टेन कर्मणा ॥ २१.३२ ॥
तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः ।
आ सप्तमं कुलं तस्य स्वर्गे मोदति पाण्डव ॥ २१.३३ ॥
आत्मना सह भोगांश्च विविधान् लभते सुखी ।
षष्टिवर्षसहस्राणि क्रीडते सुरपूजितः ॥ २१.३४ ॥
मोदते सुचिरं कालं पितृपूजाफलधितः ।
ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले ॥ २१.३५ ॥
धनवान्दानशीलश्च नीरोगो लोकपूजितः ।
पुनः स्मरति तत्तीर्थं गमनं कुरुते पुनः ॥ २१.३६ ॥
द्वितीये जन्मनि भवेद्ध्रदस्यानुचरोत्कटः ।
तथैव ब्रह्मचर्येण सोपवासो जितेन्द्रियः ॥ २१.३७ ॥
सर्वहिंसानिवृत्तस्तु लभते फलमुत्तमम् ।
एवं धर्मसमाचारो यस्तु प्राणान्परित्यजेत् ॥ २१.३८ ॥
तस्य पुण्यफलं यद्वै तन्निबोध नराधिप ।
शतं वर्षसहस्राणि स्वर्गे मोदति पाण्डव ॥ २१.३९ ॥
अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते ।
दिव्यगन्धानुलिप्ताङ्गो दिव्यालङ्कारभूषितः ॥ २१.४० ॥
क्रीडते दैवतैः सार्द्धं सिद्धगन्धर्वसंस्तुतः ।
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ॥ २१.४१ ॥
हस्त्यश्वरथयानैश्च धर्मज्ञः शास्त्रतत्परः ।
गृहे स्तम्भशताकीर्णे सौवर्णे रजतान्विते ॥ २१.४२ ॥
सप्ताष्टभूमिसुद्वारे दासीदाससमाकुले ।
मत्तमातङ्गनिःश्वासैर्वाजिहेषितनादितैः ॥ २१.४३ ॥
क्षुभ्यते तस्य तद्द्वारमिन्द्रस्य भुवनं यथा ।
राजराजेश्वरः श्रीमान्सर्वस्त्रीजनवल्लभः ॥ २१.४४ ॥
तस्मिन्गृहे वसित्वा तु क्रीडाभोगसमन्वितः ।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ २१.४५ ॥
एवं तेषां भवेत्सर्वं ये मृता ह्यमरेश्वरे ।
अग्निप्रवेशं यः कुर्याद्भक्त्या ह्यमरकण्टके ॥ २१.४६ ॥
स मृतः स्वर्गमाप्नोति यास्यते परमां गतिम् ।
स्नानं दानं जपो होमः शुभं वा यदि वाशुभम् ॥ २१.४७ ॥
पुराणे श्रूयते राजन्सर्वं कोटिगुणं भवेत् ।
तस्यास्तीरे तु ये वृक्षाः पतिताः कालपर्यये ॥ २१.४८ ॥
नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ।
अनिवृत्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ २१.४९ ॥
पतनं कुरुते यस्तु तस्मिंस्तीर्थे नराधिप ।
कन्यास्त्रीणि सहस्राणि पाताले भोगभागिनः ॥ २१.५० ॥
तिष्ठन्ति भवने तस्य प्रेषणे प्रार्थयन्ति च ।
दिव्यभोगैः सुसम्पन्नः क्रीडते कालम् ॥ २१.५१ ॥
पृथिव्यां ह्यासमुद्रायां तादृशो नैव जायते ।
यादृशोऽयं नरश्रेष्ठ पर्वतोऽमरकण्टकः ॥ २१.५२ ॥
तत्र तीर्थं तु विज्ञेयं पर्वतस्यानु पश्चिमे ।
ह्रदो जालेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ २१.५३ ॥
तत्र पिण्डप्रदानेन सन्ध्योपासनकेन तु ।
पितरो द्वादशाब्दानि तर्पितास्तु भवन्ति वै ॥ २१.५४ ॥
दक्षिणे नर्मदातीरे कपिला तु महानदी ।
सरलार्जुनसंछन्ना खदिरैरुपशोभिता ॥ २१.५५ ॥
माधवीसल्लकीभिश्च वल्लीभिश्चाप्यलंकृता ।
श्वापदैर्गर्जमानैश्च गोमायुवानरादिभिः ॥ २१.५६ ॥
पक्षिजातिविशेषैश्च नित्यं प्रमुदिता नृप ।
साग्रं कोटिशतं तत्र ऋषीणामिति शुश्रुम ॥ २१.५७ ॥
तपस्तप्त्वा गतं मोक्षं येषां जन्म न चागमः ।
येन तत्र तपस्तप्तं कपिलेन महात्मना ॥ २१.५८ ॥
तत्र तच्चाभवत्तीर्थं पुण्यं सिद्धनिषेवितम् ।
येन सा कापिलैस्तात सेविता ऋषिभिः पुरा ॥ २१.५९ ॥
तेन सा कपिला नाम गीता पापक्षयंकरी ।
तत्र कोटिशतं साग्रं तीर्थानाममरेश्वरे ॥ २१.६० ॥
अहोरात्रोषितो भूत्वा मुच्यते सर्वकिल्बिषैः ।
दानं च विधिवद्दत्त्वा यथाशक्त्या द्विजोत्तमे ॥ २१.६१ ॥
ईश्वरानुग्रहात्सर्वं तत्र कोटिगुणं भवेत् ।
यस्मादनक्षरं रूपं प्रणवस्येह भारत ॥ २१.६२ ॥
शिवस्वरूपस्य ततः कृतमात्राक्षरं भवेत् ।
तिर्यञ्चः पशवश्चैव वृक्षा गुल्मलतादयः ॥ २१.६३ ॥
तेऽपि तत्र क्षयं याताः स्वर्गं यान्ति न संशयः ।
विशल्या तत्र या प्रोक्ता तत्रैव तु महानदी ॥ २१.६४ ॥
स्नात्वा दत्त्वा यथान्यायं तत्रापि सुकृती भवेत् ।
तत्र देवगणाः सर्वे सकिन्नरमहोरगाः ॥ २१.६५ ॥
यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः ।
सर्वे समागतास्तां वै पश्यन्ति ह्यमरेश्वरे ॥ २१.६६ ॥
तैश्च सर्वैः समागम्य वन्दितौ तौ शुभौ कटौ ।
पुरा युगे महाघोरे सर्वलोकभयंकरे ॥ २१.६७ ॥
नर्मदायाः सुतस्तत्र सशल्यो विशलीकृतः ।
सर्वदेवैश्च ऋषिभिर्विशल्या तेन सा स्मृता ॥ २१.६८ ॥

युधिष्ठिर उवाच -
उत्पन्ना तु कथं तात विशल्या कपिला कथम् ।
कथं वा नर्मदापुत्रः शल्ययुक्तोऽभवन्मुने ॥ २१.६९ ॥
आश्चर्यभूतं लोकस्य श्रोतुमिच्छामि सुव्रत ॥ २१.७० ॥

श्रीमार्कण्डेय उवाच -
पुरा दाक्षायणी नाम सहिता शूलपाणिना ।
क्रीडित्वा नर्मदातोये परया च मुदा नृप ॥ २१.७१ ॥
जलादुत्तीर्य सहसा वस्त्रमन्यत्समाहरत् ।
देव्यास्तु स्नानवस्त्रं तत्पीडितं लीलया नृप ॥ २१.७२ ॥
सहितानुचरीभिस्तु इन्द्रायुधनिभं भृशम् ।
तस्मिन्निष्पीड्यमाने तु वारि यन्निःसृतं तदा ॥ २१.७३ ॥
तस्मादियं सरिज्जज्ञे कपिलाख्या महानदी ।
संयोगादङ्गरागस्य वस्त्रोद्यत्कपिलं जलम् ॥ २१.७४ ॥
गलितं तेन कपिला वर्णतो नामतोऽभवत् ।
तथा गन्धरसैर्युक्तं नानापुष्पैस्तु वासितम् ॥ २१.७५ ॥
नानावर्णारुणं शुभ्रं वस्त्राद्यद्वारि निःसृतम् ।
पीड्यमानं करैः शुभ्रैस्तैस्तु पल्लवकोमलैः ॥ २१.७६ ॥
कपिलं जलमिश्रैस्तु तस्मादेषा सरिद्वरा ।
कपिला चोच्यते तज्ज्ञैः पुराणार्थविशारदैः ॥ २१.७७ ॥
एषा वै वस्त्रसम्भूता नर्मदातोयसम्भवा ।
महापुण्यतमा ज्ञेया कपिला सरिदुत्तमा ॥ २१.७८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कपिलासरित्सम्भववर्णनं नामैकविंशोऽध्यायः ॥