स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १८०

विकिस्रोतः तः
Jump to navigation Jump to search

अध्याय १८०

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल दशाश्वमेधिकं परम् ।
तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥ १८०.१ ॥
यत्र गत्वा महाराज स्नात्वा सम्पूज्य चेश्वरम् ।
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ १८०.२ ॥

युधिष्ठिर उवाच -
अश्वमेधो महायज्ञो बहुसम्भारदक्षिणः ।
अशक्यः प्राकृतैः कर्तुं कथं तेषां फलं लभेत् ॥ १८०.३ ॥
अत्याश्चर्यमिदं तत्त्वं त्वयोक्तं वदता सता ।
यथा मे जायते श्रद्धा दीर्घायुस्त्वं तथा वद ॥ १८०.४ ॥

मार्कण्डेय उवाच -
इदमाश्चर्यभूतं हि गौर्या पृष्टस्त्रियम्बकः ।
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते निपुणाय वै ॥ १८०.५ ॥
पुरा वृषस्थो देवेश ह्युमया सह शङ्करः ।
कदाचित्पर्यटन्पृथिवीं नर्मदातटमाश्रितः ॥ १८०.६ ॥
दशाश्वमेधिकं तीर्थं दृष्ट्वा देवो महेश्वरः ।
तीर्थं प्रत्यञ्जलिं बद्ध्वा नमश्चक्रे त्रिलोचनः ॥ १८०.७ ॥
कृताञ्जलिपुटं देवं दृष्ट्वा देवीदमब्रवीत् ॥ १८०.८ ॥

देव्युवाच -
किमेतद्देवदेवेश चराचरनमस्कृत ।
प्रह्वनम्राञ्जलिं बद्ध्वा भक्त्या परमया युतः ॥ १८०.९ ॥
एतदाश्चर्यमतुलं सर्वं कथय मे प्रभो ॥ १८०.१० ॥

ईश्वर उवाच -
प्रत्यक्षं पश्य तीर्थस्य फलं मा विस्मिता भव ।
वियत्स्था मे भुविस्थस्य क्षणं देवि स्थिरा भव ॥ १८०.११ ॥
एवमुक्त्वा तु देवेशो गौरवर्णो द्विजोऽभवत् ।
क्षुत्क्षामकण्ठो जटिलः शुष्को धमनिसंततः ॥ १८०.१२ ॥
उपविश्य भुवः पृष्ठे सुस्वरं मन्त्रमुच्चरन् ।
क्रमप्रियो महादेवो माधुर्येण प्रमोदयन् ॥ १८०.१३ ॥
श्रुत्वा तां मधुरां वाणीं स्वयं देवेन निर्मिताम् ।
संभ्रान्ता ब्राह्मणाः सर्वे स्नातुं ये तत्र चागताः ॥ १८०.१४ ॥
नित्यक्रिया च सर्वेषां विस्मृता श्रुतिविभ्रमात् ।
तं दृष्ट्वा पठमानं तु क्षुत्पिपासाभिपीडितम् ॥ १८०.१५ ॥
द्विजोऽन्यमन्त्रयत्कश्चिद्भक्त्या तं भोजनाय वै ।
प्रसादः क्रियतां ब्रह्मन्भोजनाय गृहे मम ॥ १८०.१६ ॥
अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः ।
सर्वान्कामान्प्रदास्यन्ति प्रीता मेऽद्य पितामहाः ॥ १८०.१७ ॥
त्वयि भुक्ते द्विजश्रेष्ठ प्रसीद त्वं ध्रुवं मम ।
एवमुक्तो महादेवो द्विजरूपधरस्तदा ॥ १८०.१८ ॥
प्रहस्य प्रत्युवाचेदं ब्राह्मणं श्लक्ष्णया गिरा ।
मया वर्षसहस्रं तु निराहारं तपः कृतम् ॥ १८०.१९ ॥
इदानीं तु गृहे तस्य करिष्ये द्विजसत्तम ।
दशभिर्वाजिमेधैश्च येनेष्टं पारणं तथा ॥ १८०.२० ॥
इत्युक्तो देवदेवेन ब्राह्मणो विस्मयान्वितः ।
उत्तमाङ्गं विधुन्वन्वै जगाम स्वगृहं प्रति ॥ १८०.२१ ॥
एवं ते बहवो विप्राः प्रत्याख्याते निमन्त्रणे ।
पुराणार्थमजानन्तो नास्तिका बहवो गताः ॥ १८०.२२ ॥
अथ कश्चिद्द्विजो विद्वान्पुराणार्थस्य तत्त्ववित् ।
देवं निमन्त्रयामास द्विजरूपधरं शिवम् ॥ १८०.२३ ॥
तथैव सोऽपि देवेन प्रोक्तः स प्राह तं पुनः ।
मनसा चिन्तयित्वा तु पुराणोक्तं द्विजोत्तमः ॥ १८०.२४ ॥
स्मृतिवेदपुराणेषु यदुक्तं तत्तथा भवेत् ।
इति निश्चित्य तं विप्रमुवाच प्रहसन्निव ॥ १८०.२५ ॥
भोभो विप्र प्रतीक्षस्व यावदागमनं पुनः ।
इत्युक्त्वा तु द्विजो गत्वा दशाश्वमेधिकं परम् ॥ १८०.२६ ॥
स्नानं महालम्भनादि कृतं तेन द्विजन्मना ।
जपं श्राद्धं तथा दानं कृत्वा धर्मानुसारतः ॥ १८०.२७ ॥
संकल्प्य कपिलां तत्र पुराणोक्तविधानतः ।
समायात्त्वरितं तत्र यत्रासौ तिष्ठते द्विजः ॥ १८०.२८ ॥
अथागत्य द्विजं प्राह वाजिमेधः कृतो मया ।
उत्तिष्ठ मे गृहं रम्यं भोजनार्थं हि गम्यताम् ॥ १८०.२९ ॥
इत्युक्तः शङ्करस्तेन ब्राह्मणेनातिविस्मितः ।
उवाच ब्राह्मणं देव इदानीं त्वमितो गतः ॥ १८०.३० ॥
द्विजवर्य कथं चेष्टा दश यज्ञा महाधनाः ॥ १८०.३१ ॥

द्विज उवाच -
न विचारस्त्वया कार्यः कृता यज्ञा न संशयः ।
यदि वेदाः प्रमाणं तं भुवि देवा द्विजास्तथा ॥ १८०.३२ ॥
दशाश्वमेधिकं तीर्थं तथा सत्यं द्विजोत्तम ।
यदि वेदपुराणोक्तं वाक्यं निःसंशयं भवेत् ॥ १८०.३३ ॥
तदा प्राप्तं मया सर्वं नात्र कार्या विचारणा ।
एवमुक्तस्तु देवेश आस्तिक्यं तस्य चेतसः ॥ १८०.३४ ॥
विमृश्य बहुभिः किंचिदुत्तरं न प्रपद्यत ।
जगाम तद्गृहं रम्यं पठन्ब्रह्म सनातनम् ॥ १८०.३५ ॥
सम्प्राप्तं तं द्विजं भक्त्या पाद्यार्घ्येण तमर्चयत् ।
षड्रसं भोजनं तेन दत्तं पश्चाद्यथाविधि ॥ १८०.३६ ॥
ततो भुक्ते महादेवे सर्वदेवमये शिवे ।
पुष्पवृष्टिः पपाताशु गगनात्तस्य मूर्धनि ।
तस्यास्तिक्यं तु संलक्ष्य तुष्टः प्रोवाच शङ्करः ॥ १८०.३७ ॥

ईश्वर उवाच -
किं तेऽद्य क्रियतां ब्रूहि वरदोऽहं द्विजोत्तम ।
अदेयमपि दास्यामि एकचित्तस्य ते ध्रुवम् ॥ १८०.३८ ॥

ब्राह्मण उवाच -
यदि प्रीतोऽसि मे देव यदि देयो वरो मम ।
अस्मिंस्तीर्थे महादेव स्थातव्यं सर्वदैव हि ॥ १८०.३९ ॥
उपकाराय देवेश एष मे वर उत्तमः ।
एवमुक्तस्तु देवेन आरुरोह द्विजोत्तमः ॥ १८०.४० ॥
गन्धर्वाप्सरःसम्बाधं विमानं सार्वकामिकम् ।
पूज्यमानो गतस्तत्र यत्र लोका निरामयाः ॥ १८०.४१ ॥

मार्कण्डेय उवाच -
एतदाश्चर्यमतुलं दृष्ट्वा देवी सुविस्मिता ।
विस्मयोत्फुल्लनयना पुनः पप्रच्छ शङ्करम् ॥ १८०.४२ ॥

पार्वत्युवाच -
कथमेतद्भवेत्सत्यं यत्रेदमसमञ्जसम् ।
स्नानं कुर्वन्ति बहवो लोका ह्यत्र महेश्वर ॥ १८०.४३ ॥
तेषां तु स्वर्गगमनं यथैष स्वर्गतिं गतः ।
कथमेतत्समाचक्ष्व विस्मयः परमो मम ॥ १८०.४४ ॥
एतच्छ्रुत्वा तु देवेशः प्रहसन्प्रत्युवाच ताम् ।
वेदवाक्ये पुराणार्थे स्मृत्यर्थे द्विजभाषिते ॥ १८०.४५ ॥
विस्मयो हि न कर्तव्यो ह्यनुमानं हि तत्तथा ।
असंभाव्यं हि लोकानां पुराणे यत्प्रगीयते ॥ १८०.४६ ॥
यदि पक्षं पुरस्कृत्य लोकाः कुर्वन्ति पार्वति ।
तस्मान्न सिद्धिरेतेषां भवत्येको न विस्मयः ॥ १८०.४७ ॥
नास्तिका भिन्नमर्यादा ये निश्चयबहिष्कृताः ।
तेषां सिद्धिर्न विद्येत आस्तिक्याद्भवते ध्रुवम् ॥ १८०.४८ ॥
श्रुत्वाख्यानमिदं देवी ववन्दे तीर्थमुत्तमम् ।
सर्वपापहरं पुण्यं नर्मदायां व्यवस्थितम् ॥ १८०.४९ ॥

मार्कण्डेय उवाच -
दशाश्वमेधं राजेन्द्र सर्वतीर्थोत्तमोत्तमम् ।
तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥ १८०.५० ॥
तत्रागता महाभागा स्नातुकामा सरस्वती ।
पुण्यानां परमा पुण्या नदीनामुत्तमा नदी ॥ १८०.५१ ॥
नाममात्रेण यस्यास्तु सर्वपापैः प्रमुच्यते ।
स्नातास्तत्र दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ १८०.५२ ॥
दशाश्वमेधे सा राजन्नियता ब्रह्मचारिणी ।
आराधयित्वा देवेशं परं निर्वाणमागतीः ॥ १८०.५३ ॥
कालुष्यं ब्रह्मसम्भूता संवत्सरसमुद्भवम् ।
प्रक्षालयितुमायाति दशम्यामाश्विनस्य च ॥ १८०.५४ ॥
उपोष्य रजनीं तां तु सम्पूज्य त्रिपुरान्तकम् ।
राजन्निष्कल्मषा यान्ति श्वोभूते शाश्वतं पदम् ॥ १८०.५५ ॥

युधिष्ठिर उवाच -
सरस्वती महापुण्या नदीनामुत्तमा नदी ।

श्रीमार्कण्डेय उवाच -
राजन्नाश्वयुजे मासि दशम्यां तद्विशिष्यते ।
पार्थिवेषु च तीर्थे तु सर्वेष्वेव न संशयः ॥ १८०.५६ ॥
दशाश्वमेधिके राजन्नित्यं हि दशमी शुभा ।
विशेषादाश्विने शुक्ला महापातकनाशिनी ॥ १८०.५७ ॥
तस्या स्नात्वार्चयेद्देवानुपवासपरायणः ।
श्राद्धं कृत्वा विधानेन पश्चात्सम्पूजयेच्छिवम् ॥ १८०.५८ ॥
तत्रस्थां पूजयेद्देवीं स्नातुकामां सरस्वतीम् ।
नमो नमस्ते देवेशि ब्रह्मदेहसमुद्भवे ॥ १८०.५९ ॥
कुरु पापक्षयं देवि संसारान्मां समुद्धर ।
गन्धधूपैश्च सम्पूज्य ह्यर्चयित्वा पुनःपुनः ॥ १८०.६० ॥
दश प्रदक्षिणा दत्त्वा सूत्रेण परिवेष्टयेत् ।
कपिलां तु ततो विप्रे दद्याद्विगतमत्सरः ॥ १८०.६१ ॥
सर्वलक्षणसम्पन्नां सर्वोपस्करसंयुताम् ।
दत्त्वा विप्राय कपिलां न शोचति कृताकृते ॥ १८०.६२ ॥
पश्चाज्जागरणं कुर्याद्घृतेनाज्वाल्य दीपकम् ।
पुराणपठनेनैव नृत्यगीतविवादनैः ॥ १८०.६३ ॥
वेदोक्तैश्चैव पूजयेच्छशिशेखरम् ।
प्रभाते विमले पश्चात्स्नात्वा वै नर्मदाजले ॥ १८०.६४ ॥
ब्राह्मणान् भोजयेद्भक्त्या शिवभक्तांश्च योगिनः ।
एवं कृते ततो राजन् सम्यक्तीर्थफलं लभेत् ॥ १८०.६५ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेच्छङ्करं नरः ।
दशाश्वमेधावभृथं लभते पुण्यमुत्तमम् ॥ १८०.६६ ॥
पूतात्मा तेन पुण्येन रुद्रलोकं स गच्छति ।
आरूढः परमं यानं कामगं च सुशोभनम् ॥ १८०.६७ ॥
तत्र दिव्याप्सरोभिस्तु वीज्यमानोऽथ चामरैः ।
क्रीडते सुचिरं कालं जयशब्दादिमङ्गलैः ॥ १८०.६८ ॥
ततोऽवतीर्णः कालेन इह राजा भवेद्ध्रुवम् ।
हस्त्यश्वरथसम्पन्नो महाभोगी परंतपः ॥ १८०.६९ ॥
दशाश्वमेधे यद्दानं दीयते शिवयोगिनाम् ।
दशाश्वमेधसदृशं भवेत्तन्नात्र संशयः ॥ १८०.७० ॥
सर्वेषामेव यज्ञानामश्वमेधो विशिष्यते ।
दुर्लभः स्वल्पवित्तानां भूरिशः पापकर्मणाम् ॥ १८०.७१ ॥
तत्र तीर्थे तु राजेन्द्र दुर्लभोऽपि सुरासुरैः ।
प्राप्यते स्नानदानेन इत्येवं शङ्करोऽब्रवीत् ॥ १८०.७२ ॥
अकामो वा सकामो वा मृतस्तत्र नरेश्वर ।
देवत्वं प्राप्नुयात्सोऽपि नात्र कार्या विचारणा ॥ १८०.७३ ॥
अग्निप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तम ।
अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥ १८०.७४ ॥
जलप्रवेशं यः कुर्यात्तत्र तीर्थे नराधिप ।
ध्यायमानो महादेवं वारुणं लोकमाप्नुयात् ॥ १८०.७५ ॥
दशाश्वमेधे यः कश्चिच्छूरवृत्त्या तनुं त्यजेत् ।
अक्षया नु गतिस्तस्य इत्येवं श्रुतिनोदना ॥ १८०.७६ ॥
न तां गतिं यान्ति भृगुप्रपातिनो न दण्डिनो नैव च सांख्ययोगिनः ।
ध्वजाकुले दुन्दुभिशङ्खनादिते क्षणेन यां यान्ति महाहवे मृताः ॥ १८०.७७ ॥
यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयांल्लभते लोकान्यदि क्लीबं न भाषते ॥ १८०.७८ ॥
दशाश्वमेधे संन्यासं यः करोति विधानतः ।
अनिवर्तिका गतिस्तस्य रुद्रलोकात्कदाचन ॥ १८०.७९ ॥
दशाश्वमेधे यत्पुण्यं संक्षेपेण युधिष्ठिर ।
कथितं परया भक्त्या सर्वपापप्रणाशनम् ॥ १८०.८० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशाश्वमेधतीर्थमाहात्म्यवर्णनं नामाशीत्युत्तरशततमोऽध्यायः ॥