स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १५५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि सर्वतीर्थादनुत्तमम् ।
उत्तरे नर्मदाकूले शुक्लतीर्थं युधिष्ठिर ॥ १५५.१ ॥
तस्य तीर्थस्य चान्यानि पुण्यत्वाच्छुभदर्शनात् ।
पृथिव्यां सर्वतीर्थानि कलां नार्हन्ति षोडशीम् ॥ १५५.२ ॥

युधिष्ठिर उवाच -
तस्य तीर्थस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ।
भ्रातृभिः सहितः सर्वैस्तथान्यैर्द्विजसत्तमैः ॥ १५५.३ ॥

श्रीमार्कण्डेय उवाच -
शुक्लतीर्थस्य चोत्पत्तिमाकर्णय नरेश्वर ।
यस्य संदर्शनादेव ब्रह्महत्या प्रलीयते ॥ १५५.४ ॥
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
यच्च बाल्यं कृतं पापं दर्शनादेव नश्यति ॥ १५५.५ ॥
मोक्षदानि न सर्वत्र शुक्लतीर्थमृते नृप ।
शुक्लतीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया ॥ १५५.६ ॥
समागमे मुनीनां तु देवानां हि तथैव च ।
कथितं देवदेवेन शितिकण्ठेन भारत ।
कैलासे पर्वतश्रेष्ठे तत्ते संकथयाम्यहम् ॥ १५५.७ ॥
पुरा कृतयुगस्यादौ तोषितुं गिरिजापतिम् ।
तपश्चचार विपुलं विष्णुर्वर्षसहस्रकम् ।
वायुभक्षो निराहारः शुक्लतीर्थे व्यवस्थितः ॥ १५५.८ ॥
ततः प्रत्यक्षतामागाद्देवदेवो महेश्वरः ।
प्रादुर्भूतस्तु सहसा तत्र तीर्थे नराधिप ॥ १५५.९ ॥
क्रोशद्वयमिदं चक्रे भुक्तिमुक्तिप्रदायकम् ।
तस्मिंस्तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥ १५५.१० ॥
गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ १५५.११ ॥
सर्वौषधीनामशनं प्रधानं सर्वेषु पेयेषु जलं प्रधानम् ।
निद्रा सुखानां प्रमदा रतीनां सर्वेषु गात्रेषु शिरः प्रधानम् ॥ १५५.१२ ॥
स्नातस्यापि यथा पुण्यं ललाटं नृपसत्तम ।
शुक्लतीर्थं तथा पुण्यं नर्मदायां युधिष्ठिर ॥ १५५.१३ ॥
सरितां च यथा गङ्गा देवतानां जनार्दनः ।
शुक्लतीर्थं तथा पुण्यं नर्मदायां व्यवस्थितम् ॥ १५५.१४ ॥
चतुष्पदानां सुरभिर्वर्णानां ब्राह्मणो यथा ।
प्रधानं सर्वतीर्थानां शुक्लतीर्थं तथा नृप ॥ १५५.१५ ॥
ग्रहाणां तु यथादित्यो नक्षत्राणां यथा शशी ।
शिरो वा सर्वगात्राणां धर्माणां सत्यमिष्यते ॥ १५५.१६ ॥
तथैव पार्थ तीर्थानां शुक्लतीर्थमनुत्तमम् ।
दुर्विज्ञेयो यथा लोके परमात्मा सनातनः ॥ १५५.१७ ॥
सुसूक्ष्मत्वादनिर्देश्यः शुक्लतीर्थं तथा नृप ।
मन्दप्रज्ञत्वमापन्ने महामोहसमन्वितः ॥ १५५.१८ ॥
शुक्लतीर्थं ना जानाति नर्मदातटसंस्थितम् ।
बहुनात्र किमुक्तेन धर्मपुत्र पुनः पुनः ॥ १५५.१९ ॥
शुक्लतीर्थं महापुण्यं सम्प्राप्तं कल्मषक्षयात् ।
योऽत्र दत्ते शुचिर्भूत्वा एकं रेवाजलाञ्जलिम् ॥ १५५.२० ॥
कल्पकोटिसहस्राणि पितरस्तेन तर्पिताः ॥ १५५.२१ ॥
एकः पुत्रो धरापृष्ठे पित्ःणामार्तिनाशनः ।
चाणक्यो नाम राजाभूच्छुक्लतीर्थं च वेद सः ॥ १५५.२२ ॥

युधिष्ठिर उवाच -
कोऽसौ द्विजवरश्रेष्ठ चाणक्यो नाम नामतः ।
शुक्लतीर्थस्य यो वेत्ता नान्यो वेत्ता हि कश्चन ॥ १५५.२३ ॥
केनोपायेन तत्तीर्थं तेन ज्ञातं धरातले ।
तदहं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥ १५५.२४ ॥

श्रीमार्कण्डेय उवाच -
इक्ष्वाकुप्रभवो राजा नप्ता शुद्धोदनस्य च ।
चाणक्यो नाम राजर्षिर्बुभुजे पृथिवीमिमाम् ॥ १५५.२५ ॥
विक्रान्तो मतिमाञ्छूरः सर्वलोकैरवञ्चितः ।
वञ्चितः सहसा धूर्तवायसाभ्यां नृपोत्तमः ॥ १५५.२६ ॥

युधिष्ठिर उवाच -
कथं स वञ्चितो राजा वायसाभ्यां कुतोऽथवा ।
पुरा येन प्रतिज्ञातं धीगर्भेण महात्मना ॥ १५५.२७ ॥
न जीवे वञ्चितोऽन्येन प्राणांस्त्यक्ष्ये न संशयः ।
एतन्मे वद विप्रेन्द्र परं कौतूहलं मम ॥ १५५.२८ ॥

श्रीमार्कण्डेय उवाच -
आत्मानं वञ्चितं ज्ञात्वा तदा संगृह्य वायसौ ।
प्रेषयामास तीव्रेण दण्डेन यमसादनम् ॥ १५५.२९ ॥
वायसावूचतुः ।
सुन्दोपसुन्दयोः पुत्रावावां काकत्वमागतौ ।
मा वधीस्त्वं महाभाग कस्मिंश्चित्कारणान्तरे ॥ १५५.३० ॥
तावावां कृतसंकल्पौ त्वया कोपेन मानद ।
निरस्तावनिरस्तौ वा यास्यावः परमां गतिम् ॥ १५५.३१ ॥
तदादेशय राजेन्द्र कृत्वा तव महत्प्रियम् ।
मुक्तशापौ भविष्यावो ब्रह्मणो वचनं तथा ॥ १५५.३२ ॥
तच्छ्रुत्वा काकवचनं चाणक्यो नृपसत्तमः ।
नाहं जीवे विदित्वैवं वञ्चितः केन कर्हिचित् ॥ १५५.३३ ॥
तस्मात्तीर्थं विजानीतं यमस्य सदने द्विजौ ।
प्रेषयामि यथान्यायं श्रुत्वा तत्कथयिष्यथः ॥ १५५.३४ ॥
तेनैव मुक्तौ तौ काकौ स्रक्चन्दनविभूषितौ ।
शीघ्रगौ प्रेषयामास यमस्य सदनं प्रति ॥ १५५.३५ ॥

राजोवाच -
तत्र धर्मपुरं गत्वा विचरन्तावितस्ततः ।
यदि पृच्छति धर्मात्मा यमः संयमनो महान् ॥ १५५.३६ ॥
कुतो वामागतं ब्रूतं केन वा भूषितावुभौ ।
मदीया भारती तस्य कथनीया ह्यशङ्कितम् ॥ १५५.३७ ॥
इक्ष्वाकुसंभवो राजा चाणक्यो नाम धार्मिकः ।
द्वादशाहे मृतस्यास्य तर्पितावशनादिना ॥ १५५.३८ ॥
तच्छ्रुत्वा वचनं राज्ञो गतौ तौ यमसादनम् ।
क्रीडितौ प्राङ्गणे तस्य स्रक्चन्दनविभूषितौ ।
धर्मराजेन तौ दृष्टौ पृष्टौ धृष्टौ च वायसौ ॥ १५५.३९ ॥

यम उवाच -
कुतः स्थानात्समायातौ केन वा भूषितावुभौ ।
वृत्तं वै कथ्यतामेतद्वायसावविशङ्कया ॥ १५५.४० ॥
काकावूचतुः ।
इक्ष्वाकुसम्भवो राजा चाणक्यो नाम धार्मिकः ।
द्वादशाहे मृतस्यास्य तर्पितावशनादिभिः ॥ १५५.४१ ॥
तयोस्तद्वचनं श्रुत्वा सदा वैवस्वतो यमः ।
चित्रगुप्तं कलिं कालं वीक्ष्यतामिदमब्रवीत् ॥ १५५.४२ ॥
अण्डजस्वेदजातीनां भूतानां सचराचरे ।
विहितं लोककर्त्ःणां सान्निध्यं ब्रह्मणा मम ॥ १५५.४३ ॥
गतः कुत्र दुराचारश्चाणक्यो नामतस्त्विह ।
अन्विष्यतां पुराणेषु त्वितिहासेषु या गतिः ॥ १५५.४४ ॥
ततस्तैर्धर्मपालैस्तु धर्मराजप्रचोदितैः ।
निरीक्षिता पुराणोक्ता कर्मजा गतिरागतिः ॥ १५५.४५ ॥
ततः प्रोवाच वचनं धर्मो धर्मभृतां वरः ।
शृण्वतां धर्मपालानां मेघगम्भीरया गिरा ॥ १५५.४६ ॥
शुक्लतीर्थे मृतानां तु नर्मदाविमले जले ।
अण्डजस्वेदजातीनां न गतिर्मम सन्निधौ ॥ १५५.४७ ॥
तत्तीर्थं धार्मिकं लोके ब्रह्मविष्णुमहेश्वरैः ।
निर्मितं परया भक्त्या लोकानां हितकाम्यया ॥ १५५.४८ ॥
पापोपपातकैर्युक्ता ये नरा नर्मदाजले ।
शुक्लतीर्थे मृताः शुद्धा न ते मद्विषयाः क्वचित् ॥ १५५.४९ ॥
एतच्छ्रुत्वा तु वचनं तौ काकौ यमभाषितम् ।
आगतौ शीघ्रगौ पार्थ दृष्ट्वा यमपुरं महत् ॥ १५५.५० ॥
पृष्टौ तौ प्रणतौ राज्ञा यथावृत्तं यथाश्रुतम् ।
कथयामासतुः पार्थ दानवौ काकतां गतौ ॥ १५५.५१ ॥
अस्मात्स्थानाद्गतावावां यमस्य पुरमुत्तमम् ।
पृथिव्या दक्षिणे भागे ह्यतीत्य बहुयोनिजम् ॥ १५५.५२ ॥
तत्पुरं कामगं दिव्यं स्वर्णप्राकारतोरणम् ।
अनेकगृहसम्बाधं मणिकाञ्चनभूषितम् ॥ १५५.५३ ॥
चतुष्पथैश्चत्वरैश्च घण्टामार्गोपशोभितम् ।
उद्यानवनसंछन्नं पद्मिनीखण्डमन्दितम् ॥ १५५.५४ ॥
हंससारससंघुष्टं कोकिलाकुलसंकुलम् ।
सिंहव्याघ्रगजाकीर्णमृक्षवानरसेवितम् ॥ १५५.५५ ॥
नरनारीसमाकीर्णं नित्योत्सवविभूषितम् ।
शंखदुन्दुभिर्निर्घोषैर्वीणावेणुनिनादितम् ॥ १५५.५६ ॥
यममार्गेऽपि विहितं स्वर्गलोकमिवापरम् ।
गतौ तत्र पुनश्चान्यैर्यमदूतैर्यमाज्ञया ॥ १५५.५७ ॥
विदितौ प्रेषितौ तत्र यत्र देवो जगत्प्रभुः ।
प्राणस्य भीत्या दृष्टोऽसौ सिंहासनगतः प्रभुः ॥ १५५.५८ ॥
महाकायो महाजङ्घो महास्कन्धो महोदरः ।
महावक्षा महाबाहुर्महावक्त्रेक्षणो महान् ॥ १५५.५९ ॥
महामहिषमारूढो महामुकुटभूषितः ।
तत्रान्यश्च कलिः कालश्चित्रगुप्तो महामतिः ॥ १५५.६० ॥
समागतौ तदा दृष्टौ मध्ये ज्वलितपावकौ ।
पुण्यपापानि जन्तूनां श्रुतिस्मृत्यर्थपारगौ ॥ १५५.६१ ॥
विचारयन्तौ सततं तिष्ठाते तौ दिवानिशम् ।
ततो ह्यावां प्रणामान्ते यमेन यममूर्तिना ॥ १५५.६२ ॥
पृष्टावागमने हेतुं तमब्रूव शृणुष्व तत् ।
उज्जयिन्यां महीपालश्चाणक्योऽभूत्प्रतापवान् ॥ १५५.६३ ॥
द्वादशाहे मृतस्यास्य भुक्त्वा प्राप्तौ यमालयम् ।
ततोऽस्माकं वचः श्रुत्वा कम्पयित्वा शिरो यमः ॥ १५५.६४ ॥
उवाच वचनं सत्यं सभामध्ये हसन्निव ।
अस्ति तत्कारणं येन चाणक्यः पापपूरुषः ॥ १५५.६५ ॥
नायातो मम लोके तु सर्वपापभयंकरे ।
शुक्लतीर्थे मृतानां तु नर्मदायां परं पदम् ॥ १५५.६६ ॥
जायते सर्वजन्तूनां नात्र काचिद्विचारणा ।
अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥ १५५.६७ ॥
मृतः स वै न सन्देहो रुद्रस्यानुचरो भवेत् ।
तद्धर्मवचनं श्रुत्वा निर्गत्य नगराद्बहिः ॥ १५५.६८ ॥
पश्यन्तौ विविधां घोरां नरके लोकयातनाम् ।
त्रिंशत्कोट्यो हि घोराणां नरकाणां नृपोत्तम ॥ १५५.६९ ॥
दृष्टा भीतौ परामार्तिगतौ तत्र महापथि ।
नरको रौरवस्तत्र महारौरव एव च ॥ १५५.७० ॥
पेषणः शोषणश्चैव कालसूत्रोऽस्थिभञ्जनः ।
तामिस्रश्चान्धतामिस्रः कृमिपूतिवहस्तथा ॥ १५५.७१ ॥
दृष्टश्चान्यो महाज्वालस्तत्रैव विषभोजनः ।
नरकौ दंशमशकौ तथा यमलपर्वतौ ॥ १५५.७२ ॥
नदी वैतरणी दृष्टा सर्वपापप्रणाशिनी ।
शीतलं सलिलं यत्र पिबन्ति ह्यमृतोपमम् ॥ १५५.७३ ॥
तदेव नीरं पापानां शोणितं परिवर्तते ।
असिपत्रवनं चान्यद्दृष्टान्या महती शिला ॥ १५५.७४ ॥
अग्निपुंजनिभाकारा विशाला शाल्मली परा ।
इत्यादयस्तथैवान्ये शतसाहस्रसंज्ञिताः ॥ १५५.७५ ॥
घोरघोरतरा दृष्टाः क्लिश्यन्ते यत्र मानवाः ।
वाचिकैर्मानसैः पापैः कर्मजैश्च पृथग्विधैः ॥ १५५.७६ ॥
अहंकारकृतैर्दोषैर्मायावचनपूर्वकैः ।
पिता माता गुरुर्भ्राता अनाथा विकलेन्द्रियाः ॥ १५५.७७ ॥
भ्रमन्ति नोद्धृता येषां गतिस्तेषां हि रौरवे ।
तत्र ते द्वादशाब्दानि क्षपित्वा रौरवेऽधमाः ॥ १५५.७८ ॥
इह मानुष्यके लोके दीनान्धाश्च भवन्ति ते ।
देवब्रह्मस्वहर्त्ःणां नराणां पापकर्मणाम् ॥ १५५.७९ ॥
महारौरवमाश्रित्य ध्रुवं वासो यमालये ।
ततः कालेन महता पापाः पापेन वेष्टिताः ॥ १५५.८० ॥
जायन्ते कण्टकैर्भिन्नाः कोशे वा कोशकारकाः ।
मृगपक्षिविहङ्गानां घातका मांसभक्षकाः ॥ १५५.८१ ॥
पेषणं नरकं यान्ति शोषणं जीवबन्धनात् ।
तत्रत्यां यातनां घोरां सहित्वा शास्त्रचोदिताम् ॥ १५५.८२ ॥
इह मानुष्यतां प्राप्य पङ्ग्वन्धबधिरा नराः ।
गवार्थे ब्राह्मणार्थे च ह्यनृतं वदतामिह ॥ १५५.८३ ॥
पतनं जायते पुंसां नरके कालसूत्रके ।
तत्रत्या यातना घोरा विहिता शास्त्रकर्तृभिः ॥ १५५.८४ ॥
भुक्त्वा समागता ह्यत्र ते यास्यन्त्यन्त्यजां गतिम् ।
बन्धयन्ति च ये जीवांस्त्यक्त्वात्मकुलसन्ततिम् ॥ १५५.८५ ॥
पतन्ति नात्र सन्देहो नरके तेऽस्थिभञ्जने ।
तत्र वर्षशतस्यान्त इह मानुष्यतां गताः ॥ १५५.८६ ॥
कुब्जा वामनकाः पापा जायन्ते दुःखभागिनः ।
ये त्यजन्ति स्वकां भार्यां मूढाः पण्डितमानिनः ॥ १५५.८७ ॥
ते यान्ति नरकं घोरं तामिस्रं नात्र संशयः ।
तत्र वर्षशतस्यान्ते इह मानुष्यतां गताः ॥ १५५.८८ ॥
दुश्चर्माणो दुर्भगाश्च जायन्ते मानवा हि ते ।
मानकूटं तुलाकूटं कूटकं तु वदन्ति ये ॥ १५५.८९ ॥
नरके तेऽन्धतामिस्रे प्रपच्यन्ते नराधमाः ।
शतसाहस्रिकं कालमुषित्वा तत्र ते नराः ॥ १५५.९० ॥
इह शत्रुगृहे त्वन्धा भ्रमन्ते दीनमूर्तयः ।
पितृदेवद्विजेभ्योऽन्नमदत्त्वा येऽत्र भुञ्जते ॥ १५५.९१ ॥
नरके कृमिभक्ष्ये ते पतन्ति स्वात्मपोषकाः ।
ततः प्रसूतिकाले हि कृमिभुक्तश्च सव्रणः ॥ १५५.९२ ॥
जायतेऽशुचिगन्धोऽत्र परभाग्योपजीवकः ।
स्वकर्मविच्युताः पापा वर्णाश्रमविवर्जिताः ॥ १५५.९३ ॥
नरके पूयसम्पूर्णे क्लिश्यन्ते ह्ययुतं समाः ।
पूर्णे तत्र ततः काले प्राप्य मानुष्यकं भवम् ॥ १५५.९४ ॥
उद्वेजनीया भूतानां जायन्ते व्याधिभिर्वृताः ।
अग्निदो गरदश्चैव लोभमोहान्वितो नरः ॥ १५५.९५ ॥
नरके विषसम्पूर्णे निमज्जति दुरात्मवान् ।
तत्र वर्षशतात्कालादुन्मज्जनमवस्थितः ॥ १५५.९६ ॥
भुवि मानुषतां प्राप्य कृपणो जायते पुनः ।
पादुकोपानहौ छत्रं शय्यां प्रावरणानि च ॥ १५५.९७ ॥
अदत्त्वा दंशमशकैर्भक्ष्यन्ते जन्यसप्ततिम् ।
पितुर्द्रव्यापहर्तारस्ताडनक्रोशने रताः ॥ १५५.९८ ॥
पीडनं क्रियते तेषां यत्र तौ युग्मपर्वतौ ।
या सा वैतरणी घोरा नदी रक्तप्रवाहिनी ॥ १५५.९९ ॥
पिबन्ति रुधिरं तत्र येऽभियान्ति रजस्वलाम् ।
असिपत्रवने घोरे पीड्यन्ते पापकारिणः ॥ १५५.१०० ॥
परपीडाकरा नित्यं ये नरोऽन्त्यजगामिनः ।
गुरुदाररतानां तु महापातकिनामपि ॥ १५५.१०१ ॥
शिलावगूहनं तेषां जायते जन्मसप्ततिम् ।
ज्वलन्तीमायसीं घोरां बहुकण्टकसंवृताम् ॥ १५५.१०२ ॥
शाल्मलीं तेऽवगूहन्ति परदाररता हि ये ।
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥ १५५.१०३ ॥
अरण्ये निर्जले देशे स भवेत्क्रूरराक्षसः ।
देवस्वं ब्राह्मणस्वं च लोभेनैवाहरेच्च यः ॥ १५५.१०४ ॥
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ।
एवमादीनि पापानि भुञ्जन्ते यमशासनात् ॥ १५५.१०५ ॥
येषां तु दर्शनादेव श्रवणाज्जायते भयम् ।
तथा दानफलं चान्ये भुञ्जाना यममन्दिरे ॥ १५५.१०६ ॥
दृष्टाः श्रुतं कथयतां दूतानां च यमाज्ञया ।
रथैरन्ये गजैरन्ये केचिद्वाजिभिरावृताः ॥ १५५.१०७ ॥
दृष्टास्तत्र महाभाग तपःसंचयसंस्थिताः ।
गोदाता स्वर्णदाता च भूमिरत्नप्रदा नराः ॥ १५५.१०८ ॥
शय्याशनगृहादीनां स लोकः कामदो नृणाम् ।
अन्नं पानीयसहितं ददते येऽत्र मानवाः ॥ १५५.१०९ ॥
तत्र तृप्ताः सुसंतुष्टाः क्रीडन्ते यमसादने ।
अत्र यद्दीयते दानमपि वालाग्रमात्रकम् ॥ १५५.११० ॥
तदक्षयफलं सर्वं शुक्लतीर्थे नृपोत्तम ।
एतत्ते कथितं सर्वं यद्दृष्टं यच्च वै श्रुतम् ॥ १५५.१११ ॥
कुरुष्व यदभिप्रेतं यदि शक्नोषि मुच्यताम् ।
तयोस्तद्वचनं श्रुत्वा चाणक्यो हृष्टमानसः ॥ १५५.११२ ॥
विसर्जयामास खगावभिनन्द्य पुनःपुनः ।
ताभ्यां गताभ्यां सर्वस्वं दत्त्वा विप्रेषु भारत ॥ १५५.११३ ॥
कामक्रोधौ परित्यज्य जगामामरपर्वतम् ।
तत्र बद्ध्वोडुपं गाढं कृष्णरज्ज्वावलम्बितम् ॥ १५५.११४ ॥
प्लवमानो जगामाऽशु ध्यायन्देवं जनार्दनम् ।
आरोग्यं भास्करादिच्छेद्धनं वै जातवेदसः ॥ १५५.११५ ॥
प्राप्नोति ज्ञानमीशानान्मोक्षं प्राप्नोति केशवात् ।
नीलं रक्तं तदभवन्मेचकं यद्धि सूत्रकम् ॥ १५५.११६ ॥
शुद्धस्फटिकसङ्काशं दृष्ट्वा रज्जुं महामतिः ।
आप्लुत्य विमले तोये गतोऽसौ वैष्णवं पदम् ॥ १५५.११७ ॥
गायन्ति यद्वेदविदः पुराणं नारायणं शाश्वतमच्युताह्वयम् ।
प्राप्तः स तं राजसुतो महात्मा निक्षिप्य देहं शुभशुक्लतीर्थे ॥ १५५.११८ ॥
एषा ते कथिता राजन्सिद्धिश्चाणक्यभूभृतः ।
तथान्यत्तव वक्ष्यामि शृणुष्वैकाग्रमानसः ॥ १५५.११९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चाणक्यसिद्धिप्राप्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥