स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १२०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


अध्याय १२०

श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि कम्बुकेश्वरमुत्तमम् ।
हिरण्यकशिपुर्दैत्यो दानवो बलदर्पितः ॥ १२०.१ ॥
अवध्यः सर्वलोकानां त्रिषु लोकेषु विश्रुतः ।
तस्य पुत्रो महातेजाः प्रह्लादो नाम नामतः ॥ १२०.२ ॥
विष्णुप्रसादाद्भक्त्या च तस्य राज्ये प्रतिष्ठितः ।
विरोचनस्तस्य सुतस्तस्यापि बलिरेव च ॥ १२०.३ ॥
बलिपुत्रोऽभवद्बाणस्तस्मादपि च शम्बरः ।
शम्बरस्यान्वये जातः कम्बुर्नाम महासुरः ॥ १२०.४ ॥
ज्ञात्वा विष्णुमयं घोरं महद्भयमुपस्थितम् ।
दानवानां विनाशाय नान्यो हेतुः कदाचन ॥ १२०.५ ॥
स त्यक्त्वा पुत्रदारांश्च सुहृद्बन्धुपरिग्रहान् ।
चचार मौनमास्थाय तपः कम्बुर्महामतिः ॥ १२०.६ ॥
अक्षसूत्रकरो भूत्वा दण्डी मुण्डी च मेखली ।
शाकयावकभक्षश्च वल्कलाजिनसंवृतः ॥ १२०.७ ॥
स्नात्वा नित्यं धृतिपरो नर्मदाजलमाश्रितः ।
पूजयंस्तु महादेवमर्बुदं वर्षसंख्यया ॥ १२०.८ ॥
ततस्तुतोष भगवान्देवदेवो महेश्वरः ।
उवाच दानवं काले मेघगम्भीरया गिरा ॥ १२०.९ ॥
भोभोः कम्बो महाभाग तुष्टोऽहं तव सुव्रत ।
इष्टं व्रतानां परमं मौनं सर्वार्थसाधनम् ॥ १२०.१० ॥
चरितं च त्वया लोके देवदानवदुश्चरम् ।
वरं वृणीष्व भद्रं ते यत्ते मनसि रोचते ॥ १२०.११ ॥

कम्बुरुवाच -
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
अक्षय्यश्चाव्ययश्चैव स्वेच्छया विचराम्यहम् ॥ १२०.१२ ॥
दैत्यदानवसङ्घानां संयुगेष्वपलायिता ।
भयं चान्यन्न विद्येत मुक्त्वा देवं गदाधरम् ॥ १२०.१३ ॥
तस्याहं संयुगे साध्यो येनोपायेन शङ्कर ।
भवामि न सदा कालं तं वदस्व वरं मम ॥ १२०.१४ ॥

ईश्वर उवाच -
मम संनिहितो यत्र त्वं भविष्यसि दानव ।
तत्र विष्णुभयं नास्ति वसात्र विगतज्वरः ॥ १२०.१५ ॥
तस्य देवाधिदेवस्य वेदगर्भस्य संयुगे ।
शङ्खचक्रधरस्येशा नाहं सर्वे सुरासुराः ॥ १२०.१६ ॥
किं पुनर्यो द्विषत्येनं लोकालोकप्रभुं हरिम् ।
स सुखी वर्तते कालं न निमेषं मतं मम ॥ १२०.१७ ॥
तस्मात्त्वं परया भक्त्या सर्वभूतहिते रतः ।
वसिष्यसि चिरं कालमित्युक्त्वादर्शनं गतः ॥ १२०.१८ ॥
गते चादर्शनं देवे तत्र तीर्थे महामतिः ।
स्थापयामास देवेशं शिवं शान्तमनामयम् ॥ १२०.१९ ॥
तस्मिंस्तीर्थे महादेवं स्थापयित्वा दिवं गतः ।
तदाप्रभृति तत्पार्थ कम्बुतीर्थमिति श्रुतम् ।
विख्यातं सर्वलोकेषु महापातकनाशनम् ॥ १२०.२० ॥
कम्बुतीर्थे नरः स्नात्वा विधिनाभ्यर्च्य भास्करम् ।
ऋग्यजुःसाममन्त्रैश्च स्तूयमानो नृपोत्तम ॥ १२०.२१ ॥
तस्य पुण्यं समुद्दिष्टं ब्राह्मणैर्वेदपारगैः ।
तत्सर्वं तु शृणुष्वाद्य ममैव गदतो नृप ॥ १२०.२२ ॥
ऋग्यजुःसामगीतेषु साङ्गोपाङ्गेषु यत्फलम् ।
तत्फलं समवाप्नोति गायत्रीमात्रमन्त्रवित् ॥ १२०.२३ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
पूजयेद्देवमीशानं सोऽग्निष्टोमफलं लभेत् ॥ १२०.२४ ॥
अकामो वा सकामो वा तत्र तीर्थे कलेवरम् ।
यस्त्यजेन्नात्र सन्देहो रुद्रलोकं स गच्छति ॥ १२०.२५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कम्बुकेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरशततमोऽध्यायः ॥