स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०११

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


अध्याय ११

युधिष्ठिर उवाच -
अहो महत्पुण्यतमा विशिष्टा क्षयं न याता इह या युगान्ते ।
तस्मात्सदा सेव्यतमा मुनीन्द्रैर्ध्यानार्चनस्नानपरायणैश्च ॥ ११.१ ॥
यामाश्रित्य गता मोक्षमृषयो धर्मवत्सलाः ।
ये त्वयोक्तास्तु नियमा ऋषीणां वेदनिर्मिताः ॥ ११.२ ॥
मोक्षावाप्तिर्भवेद्येषां नियमैश्च पृथग्विधैः ।
दशद्वादशभिर्वापि षड्भिरष्टाभिरेव वा ॥ ११.३ ॥
त्रिभिस्तथा चतुर्भिर्वा वर्षैर्मासैस्तथैव च ।
मुच्यन्ते कलिदोषैस्ते देवेशानसमर्चनात् ॥ ११.४ ॥
ब्रह्माणं वा सुरश्रेष्ठ केशवं वा जगद्गुरुम् ।
अर्चयन्पापमखिलं जहात्येव न संशयः ॥ ११.५ ॥
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
यस्मिन्संसारगहने निमग्नाः सर्वजन्तवः ।
ते कथं त्रिदिवं प्राप्ता इति मे संशयो वद ॥ ११.६ ॥

श्रीमार्कण्डेय उवाच -
जन्मान्तरैरनेकैस्तु मानुष्यमुपलभ्यते ।
भक्तिरुत्पद्यते चात्र कथंचिदपि शङ्करे ॥ ११.७ ॥
तीर्थदानोपवासानां यज्ञैर्देवद्विजार्चनैः ।
अवाप्तिर्जायते पुंसां श्रद्धया परया नृप ॥ ११.८ ॥
तस्माच्छ्रद्धा प्रकर्तव्या मानवैर्धर्मवत्सलैः ।
ईशोऽपि श्रद्धया साध्यस्तेन श्रद्धा विशिष्यते ॥ ११.९ ॥
अन्यथा निष्फलं सर्वं श्रद्धाहीनं तु भारत ।
तस्मात्समाश्रयेद्भक्तिं रुद्रस्य परमेष्ठिनः ॥ ११.१० ॥
तेषांहि सफलं जन्म येषां भक्तिरचञ्चला ।
सा चैव त्रिविधा भक्तिः सात्त्विकी राजसी तथा ॥ ११.११ ॥
तामसी सर्वलोकस्य त्रिविधं च फलं लभेत् ।
ते कर्मफलसंयोगादावर्तन्ते पुनःपुनः ॥ ११.१२ ॥
जन्मान्तरशतैस्तेषां ज्ञानिनां देवयाजिनाम् ।
देवत्रये भवेद्भक्तिः क्षयात्पापस्य कर्मणः ॥ ११.१३ ॥
ईशानात्तु पुनर्मोक्षो जायते छिन्नसंशयः ।
ये पुनर्नर्मदातीरमाश्रित्य द्विजपुंगवाः ॥ ११.१४ ॥
त्रयीमार्गमसन्दिग्धास्ते यान्ति परमां गतिम् ।
एकाग्रमनसो ये तु शङ्करं शिवमव्ययम् ॥ ११.१५ ॥
अर्चयन्तीह निरताः क्षिप्रं सिध्यन्ति ते जनाः ।
कालेन महता सिद्धिर्जायतेऽन्यत्र देहिनाम् ॥ ११.१६ ॥
नर्मदायाः पुनस्तीरे क्षिप्रं सिद्धिरवाप्यते ।
षड्भिर्वर्षैस्तु सिध्यन्ति ये तु सांख्यविदो जनाः ॥ ११.१७ ॥
वैष्णवा ज्ञानसम्पन्नास्तेऽपि सिध्यन्ति चाग्रतः ।
सर्वयोगविदो ये च समुद्रमिव सिन्धवः ॥ ११.१८ ॥
एकीभवन्ति कल्पान्ते योगे माहेश्वरे गताः ।
सर्वेषामेव योगानां योगो माहेश्वरो वरः ॥ ११.१९ ॥
तमासाद्य विमुच्यन्ते येऽपि स्युः पापयोनयः ।
शिवमर्च्य नदीकूले जायन्ते ते न योनिषु ॥ ११.२० ॥
गतिरेषा दुरारोहा सर्वपापक्षयंकरी ।
मुच्यन्ते मङ्क्षु संसाराद्रेवामाश्रित्य जन्तवः ॥ ११.२१ ॥
तस्मात्स्नायी भवेन्नित्यं तथा भस्मविलेपनः ।
नर्मदातीरमासाद्य क्षिप्रं सिद्धिमवाप्नुयात् ॥ ११.२२ ॥
त्रिकालं पूजयेच्छान्तो यो नरो लिङ्गमादरात् ।
सर्वरोगविनिर्मुक्तः स याति परमां गतिम् ॥ ११.२३ ॥
षड्भिः सिध्यति मसैस्तु यद्यपि स्यात्स पापकृत् ।
ये पुनः शुद्धमनसो मासैः शुध्यन्ति ते त्रिभिः ॥ ११.२४ ॥
यथा दिनकरस्पृष्टं हिमं शैलाद्विशीर्यन्ते ।
तद्वद्विलीयते पापं स्पृष्टं भस्मकणैः शुभैः ॥ ११.२५ ॥
वैनतेयभयत्रस्ता यथा नश्यन्ति पन्नगाः ।
तद्वत्पापानि नश्यन्ति भस्मनाभ्युक्षितानि ह ॥ ११.२६ ॥
नर्मदातोयपूतेन भस्मनोद्धूलयन्ति ये ।
सद्यस्ते पापसङ्घाच्च मुच्यन्ते नात्र संशयः ॥ ११.२७ ॥
व्रतं पाशुपतं भक्तया यथोक्तं पालयन्ति ये ।
शूद्रान्नेन विहीनास्तु ते यान्ति परमां गतिम् ॥ ११.२८ ॥
अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ।
वैश्यान्नमन्नमेव स्याच्छूद्रान्नं रुधिरं स्मृतम् ॥ ११.२९ ॥
शूद्रान्नरससंपुष्टा ये म्रियन्ते द्विजोत्तमाः ।
ते तपोज्ञानहीनास्तु काका गृध्रा भवन्ति ते ॥ ११.३० ॥
दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥ ११.३१ ॥
विशेषाद्यतिधर्मेण तपोलौल्यं समाश्रिताः ।
नरकं यान्त्यसन्दिग्धमित्येवं शङ्करोऽब्रवीत् ॥ ११.३२ ॥
ईदृग्रूपाश्च ये विप्राः पाशुपत्ये व्यवस्थिताः ।
ते महत्पापसंघातं दहन्त्येव न संशयः ॥ ११.३३ ॥
विडम्बेन च संयुक्ता लौलुप्येन च पीडिताः ।
असंग्राह्या इत्येवं श्रुतिनोदना ॥ ११.३४ ॥
मातापितृकृतैर्दोषैरन्ये केचित्स्वकर्मजैः ।
नष्टा ज्ञानावलेपेन अहङ्कारेणऽपरे ॥ ११.३५ ॥
शाङ्करे प्रस्थिता धर्मे ये स्मृत्यर्थबहिष्कृताः ।
क्लिश्यमानास्तु कलेन ते यान्ति परमां गतिम् ॥ ११.३६ ॥
अश्रद्दधानाः पुरुषा मूर्खा दम्भविवर्धिताः ।
न सिध्यन्ति दुरात्मानः कुदृष्टान्तार्थकीर्तनाः ॥ ११.३७ ॥
महाभाग्येऽपि तीर्थस्य शाङ्करं व्रतमास्थिताः ।
वियोनिं यान्त्यसन्दिग्धं लौलुप्येन समन्विताः ॥ ११.३८ ॥
न तीर्थैर्न च दानैश्च दुष्कृतं हि विलुप्यते ।
अज्ञानाच्च प्रमादाच्च कृतं पापं विनश्यति ॥ ११.३९ ॥
एवं ज्ञात्वा तु विधिना वर्तितव्यं द्विजातिभिः ।
परं ब्रह्म जपद्भिश्च वार्तितव्यं मुहुर्मुहुः ॥ ११.४० ॥
ऊर्ध्वरूपं विरूपाक्षं योऽधीते रुद्रमेव च ।
ईशानं पश्यते साक्षात्षण्मासात्सङ्गवर्जितः ॥ ११.४१ ॥
संहिताया दशावृत्तीर्यः करोति सुसंयतः ।
नर्मदातटमाश्रित्य स मुच्येत्सर्वपातकैः ॥ ११.४२ ॥
पुराणसंहितां वापि शैवीं वा वैष्णवीमपि ।
यः पठेन्नर्मदातीरे शिवाग्रे स शिवात्मकः ॥ ११.४३ ॥
आ भूतसंक्षयं यावत्स्वर्गलोके महीयते ।
संसाख्यसनं हातुं पुरा प्रोक्तं तु नन्दिना ॥ ११.४४ ॥
देवर्षिसिद्धगन्धर्वसमवाये शिवालये ।
नन्दिगीतामिमां राजञ्छृणुष्वैकमनाः शुभाम् ॥ ११.४५ ॥
स्वर्गमोक्षप्रदां पुण्यां संसारभयनाशिनीम् ॥ ११.४६ ॥
संसारगह्वरगुहां प्रविहातुमेतां चेदिच्छथ प्रतिपदं भवतापखिन्नाः ।
नानाविधैर्निजकृतैर्बहुकर्मपाशैर्बद्धाः सुखाय शृणुतैकहितं मयोक्तम् ॥ ११.४७ ॥
शक्र वक्रगतिं मा गा मा कृथा यम यातनाम् ।
चेतः प्रचेतः शमय लौलुप्यं त्यज वित्तप ॥ ११.४८ ॥
दीनानाथविशिष्टेभ्यो धनं सर्वं परित्यज ।
यदि संसारजलधेर्वीचीप्रेङ्खोल्लनातुरः ॥ ११.४९ ॥
जन्मोद्विग्नं मृतेस्त्रस्तं ग्रस्तं कामादिभिर्नरम् ।
स्रस्तं यो न यमादिभ्यः पिनाकी पाति पावनः ॥ ११.५० ॥
मा धेहि गर्वं कीनाश हास्यं यास्यसि पीडयन् ।
प्राणिनं सर्वशरणं तद्भावि शरणं तव ॥ ११.५१ ॥
कालः करालको बालः को मृत्युः को यमाधमः ।
शिवविष्णुपराणां हि नराणां किं भयं भवेत् ॥ ११.५२ ॥
भवभारार्तजन्तूनां रेवातीरनिवासिनाम् ।
भर्गश्च भगवांश्चैव भवभीतिविभेदनौ ॥ ११.५३ ॥
शिवं भज शिवं ध्याय शिवं स्तुहि शिवं यज ।
शिवं नम वराक त्वं ज्ञानं मोक्षं यदीच्छसि ॥ ११.५४ ॥
पठ पञ्चाननं शास्त्रं मन्त्रं पञ्चाक्षरं जप ।
धेहि पञ्चात्मकं तत्त्वं यज पञ्चाननं परम् ॥ ११.५५ ॥
किं तैः कर्मगणैः शोच्यैर्नानाभावविशेषितैः ।
यदि पञ्चाननः श्रीमान् सेव्यते सर्वथा शिवः ॥ ११.५६ ॥
किं संसारगजोन्मत्तबृंहितैर्निभृतैरपि ।
यदि पञ्चाननो देवो भावगन्धोपसेवितः ॥ ११.५७ ॥
रे मूढ किं विषादेन प्राप्य कर्मकदर्थनाम् ।
भवानीवल्लभं भीमं जप त्वं भयनाशनम् ॥ ११.५८ ॥
नर्मदातीरनिलयं दुःखौघविलयंकरम् ।
स्वर्गमोक्षप्रदं भर्गं भज मूढ सुरेश्वरम् ॥ ११.५९ ॥
विहाय रेवां सुरसिन्धुसेव्यां तत्तीरसंस्थं च हरं हरिं च ।
उन्मत्तवद्भावविवर्जितस्त्वं क्व यासि रे मूढ दिगन्तराणि ॥ ११.६० ॥
भज रेवाजलं पुण्यं यज रुद्रं सनातनम् ।
जप पञ्चाक्षरीं विद्यां व्रज स्थानं च वाञ्छितम् ॥ ११.६१ ॥
क्लेशयित्वा निजं कायमुपायैर्बहुभिस्तु किम् ।
भज रेवां शिवं प्राप्य सुखसाध्यं परं पदम् ॥ ११.६२ ॥
एवं कैलासमासाद्य नदीं स शिवसन्निधौ ।
जगौ यल्लोकपालानां तन्मयोक्तं तवाधुना ॥ ११.६३ ॥

मार्कण्डेय उवाच -
स्नानदानपरो यस्तु नित्यं धर्ममनुव्रतः ।
नर्मदातीरमाश्रित्य मुच्यते सर्वपातकैः ॥ ११.६४ ॥
विधिहीनो जपेन्नित्यं वेदान्सर्वाञ्छतं समाः ।
मृत्युलाङ्गलजाप्येन समो योऽप्यधिको गुणैः ॥ ११.६५ ॥
बीजयोन्यविशुद्धस्तु यथा रुद्रं न विन्दति ।
तथा लाङ्गलमन्त्रोऽपि न तिष्ठति गतायुषि ॥ ११.६६ ॥
गायत्रीजपसंयुक्तः संयमी ह्यधिको गुणैः ।
अग्निमीडे इषेत्वो वा अग्न आयाहि नित्यदा ॥ ११.६७ ॥
शन्नो देवीति कूलस्थो जपेन्मुच्येत किल्बिषैः ॥ ११.६८ ॥
साङ्गोपाङ्गांस्तथा वेदाञ्जपन्नित्यं समाहितः ।
न तत्फलमवाप्नोति गायत्र्या संयमी यथा ॥ ११.६९ ॥
रुद्राध्यायं सकृज्जप्त्वा विप्रो वेदसमन्वितः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ११.७० ॥
अन्यद्वै जप्यसंस्थानं सूक्तमारण्यकं तथा ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ११.७१ ॥
यत्किंचित्क्रियते जाप्यं यच्च दानं प्रदीयते ।
नर्मदाजलमाश्रित्य तत्सर्वं चाक्षयं भवेत् ॥ ११.७२ ॥
एवंविधैर्व्रतैर्नित्यं नर्मदां ये समाश्रिताः ।
ते मृता वैष्णवं यान्ति पदं वा शैवमव्ययम् ॥ ११.७३ ॥
सत्यलोकं नराः केचित्सूर्यलोकं तथापरे ।
अप्सरोगणसंवीता यावदाभूतसम्प्लवम् ॥ ११.७४ ॥
एवं वै वर्तमानेऽस्मिंल्लोके तु नृपपुंगव ।
ऋषीणां दशकोट्यस्तु कुरुक्षेत्रनिवासिनाम् ॥ ११.७५ ॥
मया सह महाभाग नर्मदातटमाश्रिताः ।
फलमूलकृताहारा अर्चयन्तः स्थिताः शिवम् ॥ ११.७६ ॥
तच्च वर्षशतं दिव्यं कालसंख्यानुमानतः ।
षड्विंशतिसहस्राणि तानि मानुषसंख्यया ॥ ११.७७ ॥
ततस्तस्यामतीतायां सन्ध्यायां नृपसत्तम ।
शेषं मानुष्यमेकं तु काले वर्षशतं स्थितम् ॥ ११.७८ ॥
ततोऽभवदनावृष्टिर्लोकक्षयकरी तदा ।
यया यातं जगत्सर्वं क्षयं भूयो हि दारुणम् ॥ ११.७९ ॥
ये पूर्वमिह संसिद्धा ऋषयो वेदपारगाः ।
तेषां प्रभावाद्भगवान् ववर्ष बलवृत्रहा ॥ ११.८० ॥
महती भूरिसलिला समन्ताद्वृष्टिराहिता ।
ततो वृष्ट्या तु तेषां वै वर्तनं समजायत ॥ ११.८१ ॥
पुनर्युगान्ते सम्प्राप्ते किंचिच्छेषे कलौ युगे ।
निःशेषमभवत्सर्वं शुष्कं स्थावरजङ्गमम् ॥ ११.८२ ॥
निर्वृक्षौषधगुल्मं च तृणवीरुद्विवर्जितम् ।
अनावृष्टिहतं सर्वं भूमण्डलमभूद्भृशम् ॥ ११.८३ ॥
ततस्ते ऋषयः सर्वे क्षुत्तृषार्ताः सहस्रशः ।
युगस्वभावमाविष्टा हीनसत्त्वा अभवन्नृप ॥ ११.८४ ॥
नष्टहोमस्वधाकारे युगान्ते समुपस्थिते ।
किं कार्यं क्व नु यास्यामः कोऽस्माकं शरणं भवेत् ॥ ११.८५ ॥
तानहं प्रत्युवाचेदं मा भैष्टेति पुनःपुनः ।
ईदृग्विधा मया दृष्टा बहवः कालपर्ययाः ॥ ११.८६ ॥
नर्मदातीरमाश्रित्य ते सर्वे गमिता मया ।
एषा हि शरणं देवी सम्प्राप्ते हि युगक्षये ॥ ११.८७ ॥
नान्या गतिरिहास्माकं विद्यते द्विजसत्तमाः ।
जनित्री सर्वभूतानां विशेषेण द्विजोत्तमाः ॥ ११.८८ ॥
पितामहा ये पितरो ये चान्ये प्रपितामहाः ।
ते समस्ता गताः स्वर्गं समाश्रित्य महानदीम् ॥ ११.८९ ॥
भृग्वाद्याः सप्त ये त्वासन्मम पूर्वपितामहाः ।
धौमृणी च महाभागा मम भार्या शुचिस्मिता ।
मनस्वती च या मता भार्गवोऽङ्गिरसस्तथा ॥ ११.९० ॥
पुलस्त्यः पुलहश्चैव वसिष्ठात्रेयकाश्यपाः ।
तथान्ये च महाभागा नियमव्रतचारिणः ।
अन्ये च शतसाहस्रा अत्र सिद्धिं समागताः ॥ ११.९१ ॥
तस्मादियं महाभागा न मोक्तव्या कदाचन ।
नान्या काचिन्नदी शक्ता लोकत्रयफलप्रदा ॥ ११.९२ ॥
द्वन्द्वैरनेकैर्बहुभिः क्षुत्तृषाद्यैर्महाभयैः ।
मुच्यन्ते ते नराः सद्यो नर्मदातीरवासिनः ॥ ११.९३ ॥
तस्मात्सर्वप्रयत्नेन सेवितव्या सरिद्वरा ।
वाञ्छद्भिः परमं श्रेय इह लोके परत्र च ॥ ११.९४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्यवर्णनं नाम एकादशोऽध्यायः ॥