स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः २२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


।। श्रीविश्वनाथ उवाच ।। ।।
द्वाविंशतितमं विद्धि कर्कटेश्वरसंज्ञकम् ।।
यस्य दर्शनमात्रेण तिर्यग्योनिर्न दृश्यते ।। १ ।।
आसीत्पुरा बृहत्कल्पे धर्म मूर्तिर्जनाधिपः ।।
सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः ।। २ ।।
सोमसूर्यादयो यस्य तेजसा निष्प्रभाः कृताः ।।
प्रजाश्च पालिता येन निहत्य समरे द्विषः ।। ३ ।।
यथेच्छारूपधारी च संग्रामेष्वपराजितः ।।
तस्य भानुमतीनाम भार्या त्रैलोक्यसुंदरी ।। ४ ।।
राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी ।।
दशनारीसहस्राणां मध्ये श्रीरिव राजिता ।। ५ ।।
नृपो नृपसहस्रेण न कदाचित्प्रमुच्यते ।।
कदाचिदेकांतगतः पप्रच्छ स्वपुरोहितम् ।।
विस्मयेनावृतमना वशिष्ठमृषिसत्तमम् ।। ६ ।।
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा ।।
कस्माच्च विपुलं तेजो दुःसहं मम दृश्यते ।। ७ ।। ।।
।। वशिष्ठ उवाच ।। ।।
पुरा त्वमवनीपाऽऽसीः शूद्रजातिसमुद्भवः ।।
बहुदोषसमाविष्टो दुष्टया भार्ययाऽनया ।। ८ ।।
निवसन्दुष्टहृदयो वर्षाणि सुबहून्यपि ।।
महाक्रोधाभिभूतात्मा सदा निष्ठुरजल्पकः ।। ९ ।।
सदा ब्रह्मस्वहारी त्वं सदा वेदविनिंदकः ।।
सदा चासूयको राजन्सदा विश्वासघातकः ।। 5.2.22.१० ।।
अथ पंचत्वमापन्नः काले नरकमाप्तवान् ।।
ताम्रभ्राष्ट्रे परं दग्धो दशवर्षाणि पंच च ।। ११ ।।
रौरवे कुम्भिपाके च महारौरवसंज्ञके ।।
सूक्ष्माणि तिलमात्राणि कृत्वा खंडान्यनेकशः ।। १२ ।।
मूषायां धीमतो राजन्नसिपत्रे च दारितः ।।
शेषपातकशुद्ध्यर्थं धराया मवतारितः।।१३।।
विधाय कार्कटं रूपं यमेन त्वयि पार्थिव ।।
शिवस्य सरो विख्यातं महाकालवनोत्तमे।।१४।।
दत्तं जप्तं कृतं यच्च हुतं देवार्चनादि यत्।।
सर्वं तदक्षयं कर्म तस्मिन्सरसि विश्रुतम् ।।१५।।
निक्षिप्तस्त्वं तदा तेन भाविपुण्येन कर्मणा।।
तत्र स्थितस्त्वं भूपाल वर्षाणां पंचकं तथा।।१६।।
कदाचित्तीरभूम्यां त्वं गतः संक्रीडितुं शनैः ।।
समीक्ष्य तत्र काकेन धृत्वा चंचुपुटेन च ।।१७।।
आकाशमार्गं चोड्डीनः स त्वया ताडितो भृशम्।।
त्वत्तीक्ष्णपातैश्चरणैस्ताडितो व्यथितस्तदा ।। १८ ।।
मुक्तस्त्वं चंचुपुटतो वायसेनाकुलेन तु ।।
स्वर्गद्वारस्य पूर्वे तु देव्यगारे सुपुण्यदे ।। १९ ।।
शिवस्य क्षिप्तस्त्वं शीघ्रं चञ्च्वाक्षेपप्रपीडितः ।।
मृतोऽसि संनिधौ तत्र देवस्य परमेष्ठिनः।।5.2.22.२०।।
विमुच्य देहं तज्जीर्णं यावत्तं कार्कटं पुरा।।
तत्क्षणाद्दिव्य देहश्च दिव्याभरणभूषितः ।। २१ ।।
तस्य लिंगस्य माहात्म्याद्भूत्वा विद्याधरेश्वरः ।।
कामगेन विमानेन पूज्यमानो गणेश्वरैः ।।२२।।
स्वर्गे व्रजंस्त्वं संपृष्टः सुरसंघैश्च सादरम्।।
कोयं महात्मा मुदितो याति दिव्यपथोंऽबरात् ।। २३ ।।
ततो रुद्रगणैः सर्वं सुराणां कथितं पुरा ।।
वृत्तांतं विस्तरात्सर्वं कार्कटत्वविमोचनूम् ।। २४ ।।
तस्य लिंगस्य देवेशाः प्रभावोऽयमुपस्थितः ।।
देवैः प्रोक्तं च सहसा लिंगस्यास्य प्रभावतः ।।२५।।
कार्कटीयोनि मुक्तस्य प्राप्तं स्वर्गसुखं यतः ।।
कर्कटेश्वरनामायमतो लोके भविष्यति ।। २६ ।।
तदाप्रभृति देवोऽयं कर्कटेश्वरसंज्ञकः ।।
त्वया स्वर्गे महाभोगा भुक्ता राजन्यथेच्छया ।। २७ ।।
आगतोऽसि पुनर्भूमौ लब्धं राज्यमकंटकम् ।।
तस्य लिंगस्य माहात्म्याज्जातं सर्वं तवाधुना ।। २८ ।।
तस्मात्पार्थिव भूयस्त्वं लिंगमाराधय द्रुतम् ।।
जातिस्मरत्वमापन्नो वशिष्ठवचनात्तदा ।। २९ ।।
पूर्वं कर्म स्मृतं तेन स्वकीयं पार्थिवेन तु ।।
पुनर्गत्वा च तल्लिंगं पूजयामास यत्नतः ।।5.2.22.३० ।।
तस्मिँल्लिंगे लयं प्राप्तः स्वशरीरेण पार्वति।।
येऽर्चयंति सदा भक्त्या कर्कटेश्वरसंज्ञकम्।।
भुक्त्वा भोगांश्चिरं भूमौ ते यांति परमां गतिम्।।३१।।
नियमेन प्रपश्यंति ये देवं कर्कटेश्वरम्।।
अष्टम्यां वा चतुर्दश्यां तेषां पुण्यफलं शृणु।।३२।।
सूर्यदीप्तिप्रतीकाशैर्विमानैः सार्वकामिकैः।।
मृता मम पुरं यांति त्रिसप्तकुलसंयुताः।।३३।
तत्र दिव्यैर्महाभोगैः स्त्रीसहस्रैर्मनोरमैः।।
कल्पकोटिशतैर्देवि सेव्यमाना वसंति हि ।। ३४ ।।
तदंते विष्णुभवने तावत्कालं च संति हि ।।
वैष्णवैर्विविधैर्भोगैः स्त्रीसहस्रैस्तु सेविताः ।। ३५ ।।
विष्णुलोकाद्ब्रह्मलोकं संप्राप्य मुदिताः पुनः ।।
भोगान्नानाविधान्भुक्त्वा ततो यांति परं पदम् ।। ३६ ।।
दशाश्वमैधैर्यत्पुण्यं तत्फलं तीर्थयात्रया ।।
कर्कटेश्वरदेवस्य मेघनादेश्वरं शृणु ।। ३७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कर्कटेश्वरमाहात्म्यवर्णनं नाम द्वाविंशोऽध्यायः ।। २२ ।।