स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

।। व्यास उवाच ।। ।।
आचारः परमो धर्मः सर्वधर्मपरायणः ।।
स्वधर्मनिरताश्चैव जितक्रोधा जितेंद्रियाः ।। १ ।।
रुद्रलोकं व्रजंतीह नात्र चित्रा मतिर्मम ।।
असंशयं च गच्छंति लोकानन्याञ्छशिप्रभैः ।। २ ।।
विनापि क्षेत्रवासेन तथैव नियमेन च ।।
स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः ।। ३ ।।
मूका जडांधबधि रास्तपोनियमवर्जिताः ।।
एषां तु का गतिश्चेत्ते महाकालवने मृताः ।। ४ ।।
।। सनत्कुमार उवाच ।। ।।
स्त्रियो म्लेच्छाश्च मूढाश्च पशवः पक्षिणो मृगाः ।।
कालेनैव मृता व्यास रुद्रलोकं व्रजंति ते ।। ५ ।।
शरीरैर्दिव्यरूपैश्च सर्वभोगसमन्विताः ।।
रमंते शंभुना सार्धं स्मशाने प्रेतसंकुले ।। ६ ।।
निर्भत्सिता पुरा देवी कालीति पार्वतीति च ।।
तदा सा कुपिता देवी कटके शंकरं प्रति ।।७।।
एवं हि कलहो जातः शिवगौर्योर्हि यत्र तु ।।
देवस्तत्र समुद्भूतो नाम्ना कलकलेश्वरः ।। ८ ।।
कृतमग्रे तदा कुंडं नाम्ना कलहनाशनम् ।।
स्नाने तत्र कृते व्यास जाताऽकलहिनी प्रिया ।। ९ ।।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा महेश्वरम् ।।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ।।5.1.8.१०।।
तत्र यच्छति यो दानं त्रुटिमात्रं च चंदनम् ।।
आत्मना तारि तास्तेन दश पूर्वे दशापरे ।। ११ ।।
भूमिदानं च यस्तत्र प्रदास्यति नरो मुने ।।
अपि गोचर्ममात्रेण सर्वभूम्यधिपो भवेत् ।। १२ ।।
गामेकां रक्ति कामेकां भूमेरप्येकमंगुलम् ।।
यः प्रदास्यति भक्त्या हि स वै राजा भविष्यति ।। १३ ।।
धेनुमश्वांस्तिलान्वस्त्रं भाजनं ताम्रदोहनम् ।।
उपानहश्च च्छत्रं च तथा च श्रेष्ठपादुके ।। १४ ।।
ये प्रदास्यंति विप्रेभ्यस्तेषां लोकाः सदाऽक्षयाः ।।
तस्य दक्षिणपार्श्वे तु पृष्ठे मात्राख्य देवताः ।। १५ ।।
सा तत्र सर्वलोकानां देवी दुरितहारिणी ।।
सर्वतीर्थं तु विज्ञेयं मणिकर्णिकमुत्तमम् ।। १६ ।।
तस्मिन्स्नात्वा तु यः पश्येत्पृष्ठमातर आदरात्।।
स मुक्तः सर्वपापेभ्यः सिद्धिमाप्नोति वांछिताम् ।। १७ ।।
तासां तु दर्शनं कृत्वा मार्गे गमनमाचरेत्।।
न भयं तस्य चोरेभ्यो रक्षोभूतभयं तथा ।। १८ ।।
स्वदेशे परदेशे वा पर्वतेष्वटवीषु च ।।
न समुद्रे भयं तस्य तथा वै दुष्टभावना ।। १९ ।।
ग्रहपीडासु सर्वासु तथा राजभयादिकम् ।।
बस्तं वा यदि वा मेषं महिषं चापि घातयेत् ।। 5.1.8.२० ।।
देवीमुद्दिश्य यो विप्र सोऽभीष्टफलमश्नुते ।।
आश्विनस्य सिताष्टम्यामर्धरात्रिगते नरः ।। ।। २१ ।।
यः स्नाति पुरतो देव्याः स सिद्धि लभते पराम् ।।
मृतपुत्रा च या नारी कुण्डे स्नात्वा सभर्तृका ।। २२ ।।
स्नाति वै फलकुम्भेन अग्रे देव्या विधानतः ।।
स्नात्वा नान्यमुखं पश्येत्कुम्भस्नानेन वै मुने ।। २३ ।।
तस्य संजायते पुत्रो यथा देवः षडाननः ।।
पृष्ठे मातुः परं पुण्यं तीर्थमप्सरसां शुभम् ।। २४ ।।
रूपसौभाग्यसंपन्नस्तत्र स्नातो भवेन्नरः ।।
उर्वश्या वै पुरा व्यास तीर्थस्यास्य प्रभावतः ।। २५ ।।
भर्ता पुरूरवा लब्धं ऐलेयोंऽसौ महीपतिः ।।
इति कौतूहलं श्रुत्वा व्यासो वचनमब्रवीत् ।। २६ ।।
।। व्यास उवाच ।। ।।
कथमप्सरसां तीर्थं तत्र जातं महामुने ।।
कारणेन यथा तेन यस्मिन्काले प्रतिष्ठितम् ।।
तथा तन्मे सविस्तारं सरहस्यं प्रकीर्तय ।। २७ ।।
कथं पुरूरवाश्चासौ भार्यास्तस्य वराप्सराः ।।
उर्वशीनाम का सा तु केन जाता वरांगना ।।
सर्वमेतद्यथावृत्तं वद कौतूहलं हि मे ।। २८ ।।
।। सनत्कुमार उवाच ।। ।।
नरनारायणौ पूर्वं यत्र वै तेपतुस्तपः ।। २९ ।।
बदरिकाश्रमस्थौ तौ तेनेन्द्रो भयमागतः ।।
सर्वाश्चाप्सरसो हृद्या रूपयौवनदर्पिताः ।। 5.1.8.३० ।।
आदिष्टा या मघवता विघ्नार्थं च समागताः ।।
तौ दृष्ट्वाप्सरसस्तत्र रमन्तीर्मदविह्वलाः ।। ३१ ।।
विघ्नार्थमिह आयातास्तदा देवौ जजल्पतुः ।।
अस्माकं न स्त्रियः संति तेन वै विघ्नकारणम् ।। ३२ ।।
एवं संजल्प्य च नरो नारायणमुवाच ह ।।
करिष्याम्यहमेकां वै आसां तु रूपतोऽधिकाम्।।३३।।
मंजर्या सहकारस्य स्त्रीमूरुभ्यां चकार ह ।।
रूपेणाप्रतिमां लोके सर्वाभरणभूषिताम् ।। ३४ ।।
उत्थितां प्रमदां दृष्ट्वा ज्वलनाभां वरांगनाम् ।।
गत्वा शशंसुस्ताः शक्रं न र्तौ लोभयितुं क्षमाः ।। ३५ ।।
शक्रस्तासां वचः श्रुत्वा गत्वा देवावुवाच ह ।।
प्रणामावनतो भूत्वा कृत्वा शिरसि चांजलिम् ।। ३६ ।।
अहमर्थी स्त्रियाश्चास्याः प्रसादः क्रियतामिति ।।
ततस्तां ददतुर्देवाविंद्राय परमेश्वरौ ।। ३७ ।।
अस्मद्वचनसामर्थ्याद्गृहाणेमां त्वमुर्वशीम् ।।
ऊरुभ्यां जनिता यस्मान्नरेणेयं वरांगना ।। ३८ ।।
मंजर्या सहकारस्य तेनेयमुर्वशी स्मृता ।।
पुरंदरो गृहीत्वा तामुर्वशीं परमांगनाम् ।। ३९ ।।
गत्वा स्वर्गमथाहूय चित्रांगदमुवाच ह ।।
शिक्षाऽस्याः क्रियतां चित्र यथा नृत्ये विचक्षणा ।। 5.1.8.४० ।।
क्रियतामचिरादेषा यत्नमास्थाय शोभनम् ।।
एवमुक्ते तु शक्रेण कृता तेन विचक्षणा ।।
वरं प्रवीणा सा जाता नृत्ये गीते च कोविदा ।। ४१ ।।
एवं सा न्यवसत्तत्र सुरसद्मनि सुन्दरी ।।
गते बहुतिथे काले तत्रा गात्स नरेश्वरः ।। ४२ ।।
इलस्यपुत्रो धर्मात्मा नाम्ना चैव पुरूरवाः ।।
इन्द्रस्यार्द्धासनगतो नृत्यं पश्यति तत्र ह ।। ४३ ।।
नृत्यन्तीं वासवस्याग्रे उर्वशीं वीक्ष्य कामुकः ।।
हृतचित्तस्तया राजा न किंचित्प्रत्यपद्यत ।। ४४ ।।
धैर्यं चित्ते समावेश्य मुहूर्तं पर्यवस्थितः ।।
उर्वशी च तदा तेन दर्शनाहतमानसा ।। ४५ ।।
तत्प्रदेशाद्विनिष्क्रम्य कामार्ता चातिविह्वला ।।
भूमौ सा पतिता बाला उच्छ्रिताद्रंगमण्डलात् ।। ४६ ।।
अथात्मानं च संवेद्य उत्थिता भूमिमण्डलात् ।।
दृष्टा सा राजसिंहेन मन्मथेन प्रपीडिता ।। ४७ ।।
गतः पुरूरवा भूमिं तामेव मनसा स्मरन् ।।
स्मरन्ती राजशार्दूलं गता साप्युर्वशी गृहम् ।। ४८ ।।
चित्रांगदगृहे गत्वा दूतं साथ चकार ह ।।
चित्रांगदेन सा नीता रात्रौ यत्र पुरूरवाः ।। ४९ ।।
उर्वश्या रहितः स्वर्गः शून्योऽप्यासीद्दिवौकसाम् ।।
रात्रावेव च सा तेन आनीता त्रिदिवं पुनः ।। 5.1.8.५० ।।
तया विरहितः सोऽपि शून्यचित्तः परिभ्रमन् ।।
उन्मत्ततां गतो व्यास षष्टिवर्षाणि पार्थिवः ।।५१।।
परिभ्रमन्स तीर्थानि महाकालवनं गतः ।।
गंध वेंणोर्वशी स्वर्गे नीता सा परमाप्सराः ।। ५२ ।।
नापि शेते न वा स्नाति हे राजन्निति जल्पति ।।
तावदप्सरसः सर्वास्ताः प्राप्ता यत्र चोर्वशी ।। ५३ ।।
रंभा च मेनका चैव प्रम्लोचा पुंजिकस्थली ।।
जलपूर्णाश्रुपूर्णा च वसंता चंद्रिका तथा ।। ५४ ।।
सूर्यदत्ता विशालाक्षी चंद्रा चन्द्रप्रभा तथा ।।
आगत्य तास्तु सहिता उर्वशीं वाक्यमब्रुवन् ।। ५५ ।।
किं रोदिषि वरारोहे मर्त्यहेतोः सुलोचने ।।
तद्वाक्यमुर्वशी तासां श्रुत्वा वचनम ब्रवीत् ।। ५६ ।।
सौख्यं षण्ढो न जानाति संगात्स्त्रीपुंसयोर्हि यत् ।।
अनयोपमया ज्ञेयं तस्यार्थे कृतनिश्चया ।। ५७ ।।
श्रुत्वा चेति वचस्तस्यास्ताः संमंत्र्य समाहिताः ।।
अविदिते च देवानां महाकालवने गताः ।। ५८ ।।
नृपं च ददृशुस्तत्र वृक्षच्छायानिषेवितम् ।।
दृष्ट्वा चाथ नृपं सर्वा भृशं जाताः सुविह्वलाः ।। ५९ ।।
दृष्ट्वा तथाविधाः सर्वाः कामार्ता सुरयोषितः ।।
मूढचित्ताः प्रहस्यैवमुर्वशी वाक्यमब्रवीत् ।।5.1.8.६०।।
।। उर्वश्युवाच ।। ।।
अयं स पुरुषव्याघ्रो विना येनाहमीदृशी ।।
ऐलः पुरूरवा नाम विख्यातो जगतीपतिः ।। ६१ ।।
एवं ब्रुवन्त्यां वै तस्यामुर्वश्यामप्सरोगणः ।।
मौनीभूतश्चिरं तस्थौ लज्जयानतकन्धरः ।। ६२ ।।
एतस्मिन्नन्तरे प्रायाद्भगवांस्तत्र नारदः ।।
दृष्ट्वा तथागताः सर्वा उर्वश्या सहितं नृपम् ।। ६३ ।।
संप्रेक्ष्य च ततः प्राह कि यूयमिह निस्वनाः ।।
त्यक्त्वा तथाविधं रम्यमिन्द्रस्यालयमुत्तमम् ।। ६४ ।।
वरं च व्रियतां शीघ्रं वियोगो न भवि ष्यति ।।
माहात्म्यं चास्य तीर्थस्य कथयामास नारदः ।। ६५ ।।
अस्मिन्हि दुर्भगा तीर्थे स्नात्वा स्त्री पुरुषोऽपि वा ।।
सौभाग्यं लभते सम्यक्सर्वभोगांस्तथोत्तमान् ।। ६६ ।।
आत्मानं तोलयेद्यस्तु तिलैर्वा लवणेन वा ।।
शर्कराभिश्च बह्वीभिर्वित्तशाठ्यविवर्जितः ।। ६७ ।।
गुडेन मधुना वापि देवीमुद्दिस्य पार्वतीम् ।।
लवणेन स्वरूपाढ्यस्तिलैः सर्वांगशोभनः ।। ६८ ।।
द्रव्यवृद्धिः शर्करया गुडेनांगेषु पूर्णता ।।
मधुना चैव सौभाग्यं तीर्थस्यास्य प्रभावतः ।। ६९ ।।
द्वादशैव तु युग्मानि देव्या देवस्य भोजयेत् ।।
कूपीं नखरिणीं दद्यात्ताटंकं कतकांजनम् ।। 5.1.8.७० ।।
वेत्रजां कंचुकीं चैव वस्त्रे कौसुंभके तथा ।।
श्वेतानुलेपनं पुंसां स्त्रीणां दद्याच्च कुंकुमम् ।। ७१ ।।
आषाढे श्रावणे वापि मासि भाद्रपदे तथा ।।
शुक्लाश्विनतृतीयाया मुत्तमं व्रतमाचरेत् ।। ७२ ।।
उत्तमा जायते नारी यथा देवी उमा तथा ।।
उमामहेश्वरौ कार्यौ सौवर्णौ च स्वशक्तितः ।। ७३ ।।
धार्यौ नार्या हि तौ देवौ स्वयं तुलावरोहणे ।।
फलानि चैव देयानि शाकानि विविधानि च ।। ७४ ।।
तत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ।।
एवं या कुरुते तत्र तीर्थे नारी समाहिता ।। ७५ ।।
गन्धर्वाप्सरसां लोके मृता याति न संशयः ।।
अत्र तीर्थे च द्वे लिंगे पूजिते देवदानवैः ।। ७६ ।।
दृष्ट्वा ते परमां सिद्धिं प्राप्नुतो दंपती तदा ।।
कार्तिक्यां तु विशेषेण कृत्वा तत्र प्रजागरम् ।।
संपूज्य गंधपुष्पैश्च रुद्रलोकमवाप्नुयात् ।। ७७ ।।
यथा देव्याः स्वरूपेण वियोगो नैव दृश्यते ।।
तथा तयोर्वियोगश्च दृश्यते न कदाचन ।। ७८ ।।
एवं कृत्वाथ तां विप्र सर्वाश्च त्रिदिवं गताः ।।
उक्तमप्सरसां तीर्थं तीर्थांतरमथोच्यते ।। ७९ ।।
दक्षिणे पृष्ठदेव्या वै माहिषं कुण्डमुच्यते ।।
महिषो दानवः पूर्वं निहतो गणनायकैः ।। 5.1.8.८० ।।
तत्र तीर्थे नरः स्नात्वा मातॄः संपूज्य यत्नतः ।।
प्रेतरक्षः पिशाचानां पीडया स विमुच्यते ।।८१ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽप्सरःकुण्डमाहात्म्यवर्णनंनामाष्टमोऽध्याः।। ८ ।।