स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

पूर्ववर्ती पृष्ठः (अध्यायाः १५१ - १६०) | आगामी पृष्ठः (अध्यायाः १७१ - १८०)


सनत्कुमार उवाच
शक्रेण तु कृतानुज्ञो नन्दी प्रमथनायकः ।
ब्रह्मणो भवनं गन्तुं मतिं दध्रे महाद्युतिः१ ।। १ ।।
स मुहूर्त्तान्महावेगो महावेग२ इवानिलः३ ।
वैराजं भवनं प्राप्तश्चतुर्वक्त्रस्य पार्षदः ।।२।।
हतक्लमां स तु सभां सभां मेरुगिरेरिव ।
विवेश नन्दी तेजस्वी दिवाकरकरो यथा । ।३ ।।
- - - -- - - - - - -- - - - -- - - -
४९ प्रभु - रव्र. । ५० मन्दरावासमव्यग्र - ग., मन्दरावासिनव्यग्रः - घ । ५१ धर? । ५२ ग्रहिष्यति - क ख. । ५३ भूमिपः (प) - क. ग. (ख) । । ५४ द्विजापूर्वं - ग. । ५५ मनन्दयन् - ग. । ५६ त्सवम् - क. ग । ५७ देवेश - क. ।
१ महामतिः - ख. । २ मुहुर्त्तं स महावेगो - ग, । ६ इवानलः - क. ।
- - - -- - - - - - - - -

828
तां कथामिव चित्रार्थां चित्रार्थैर्बहुभिर्युताम् ।
ददर्श४ स सभां नन्दी बह्वाश्चर्यसमाकुलाम्५ । ।४। ।
तस्यां सभायामालीनं यतिभिस्सह सोद्भुतम् ।
अपश्यदब्जजं नन्दी देवैः पञ्चभिरावृतम् । ।५। ।
वेदार्थं भाषमाणं तं६ यतीनां परिपृच्छताम् ।
ताँश्च भाष्यविदः सर्वान् श्रुत्वा साध्विति वादिनः । ।६। ।
नन्दी पितामहं सम्यक् पूजयामास सत्वरम् ।
ततः पितामहः प्राह नन्दिनं गणनायकम् । ।७। ।
किं चिरादागतोसीति स च तं प्रत्यभाषत ।
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।।८ । ।
भगवँस्तत्र७ देवस्त्वां निमन्त्रयति शङ्करः ।
इमांश्च तपसाग्न्याभान्८ सवेदान् वेदवादिनः । ।९।।
निमन्त्रयति देवेशो यज्ञकोटीनिमन्त्रितः९ ।
यतिभिस्सह सर्वस्त्वं मन्दरं चित्रकन्दरम् । । 8.161.१० । ।
व्रज मानद देवानामेवमाज्ञापयत्यजः ।
इत्येवं वचसां कर्ता वचः श्रुत्वा स नन्दिनः । ।१ १ । ।
जप्यप्रियमुवाचेदं हृष्टरूपः१० पितामहः ।
नन्दीश्वर व्रजस्व त्वमविघ्नेन शिवेन च । ।१ २। ।
अहमप्यागमिष्यामि एभिस्सह शिवान्तिकम् ।
मोक्ष्यते चाप्यशोकोसौ दक्षशापकृतं तमः ।। १३ ।।
पुत्री हिमवतो देवी यं ग्रहीष्यति पुत्रकम् ।
इत्युक्तः प्रतिमान्येश११मीशस्य१२ दयितोग्रणीः । ।१४।।
ब्रह्मणो भवनात्तूर्णं क्षीरोदमुदधिं ययौ ।
मालामिव समुद्रस्य स तु वेलाममालिनीम् । । १ ५। ।
- - - -- - - - - - - - -
४ ददृशे - क. । ५ अश्चर्य बहुसंकुलाम् - क ख. । ६ स विभाषन्तं - क. ख. । ७ भगवांस्तत्र - क. । ८ तपनाभासान् - ध. । ९ कोटिनिमन्त्रितः - ख ग. । १० दृष्टरूपः - क. । ११ इत्युक्तस्तु प्रणम्याथ - घ. । १२.. .मीशेश - क. ख. ।
- - - -- - - - - - - - -

829
गणेश्वरसदोमुख्य आससाद दुरुत्सहाम् ।
स वेलानिलयान् विप्रान् वालखिल्याँ१३ स्तपोधनान् ।।१ ६। ।
नानानियमसंयुक्तानपश्यद्१४ गणनायकः
वन्दमानं१५ तमालोक्य गणेशं सुयशापतिम् ।।१७' ।
आशीभिरनुकूलाभिर्ननन्दुस्ते१६ तपोधनाः ।
तपोधनानां हृष्टानां नन्दी मध्यगतो बभौ । । १८।।
ग्रहाणां सौम्यरूपाणां यथा१७ मध्यगतोडुपः१८ ।
अथ पाद्यार्घ्यदानेन फलदानेन वैव हि । ।१९। ।
संपूज्य नन्दिनं देवं बालखिल्यास्तमब्रुवन् ।
कुतश्चिरस्यागमनमिह ते प्रमथाधिप ।
कच्चिद् द्रक्ष्याम देवेशं साम्बमम्बापतिं भवम् ।।8.161.२ ० ।।
ततो नन्दी द्विजश्रेष्ठान्१९ श्रेष्ठो वै प्रमथाधिपः ।
सालाङ्कारमिदं वाक्यमब्रवीद् द्विजसंसदि । ।२ १ ।।
मन्दरे साम्बिको देवो नेहागच्छति शङ्करः ।
इह चागमनं२० यन्मे तच्छृणुध्वं तपोधनाः ।।२२ ।।
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
तत्र वो गोपतिर्देवो निमन्त्रयति शङ्करः ।। २३ ।।
श्वः सर्वे दारसहिताः सशिष्यतनयाग्नयः ।
मन्दरं यात विप्राग्र्या मामम्बां२१ चानुगृहणत२२ ।।२४।।
इत्येवं नन्दिना प्रोक्ता बालखिल्या२३ महर्षयः२४ ।
देवे भक्ति२५ प्रकर्षेण२६ गणेशमिदमब्रुवन् ।। २५।।
भो नन्दिन्नागमिष्यामः श्वः प्रभाते वयं प्रभो ।
पर्वतं याह्यविघ्नेन मन्दरं चारुकन्दरम् । ।२६। ।
- - - -- - - - - - - - -
१३ बालिखिल्याँ - क ख. । १४ लीलानियमसंयुक्तानपश्यद्।१५ वन्द्यमान-क। १६ स्तं-घ ख। १७ स्थितो - क. ख. । १८ इवोडुपः ( ?) - घ । । १९ नन्दिर्द्विजश्रेष्ठान् - ख. । २० त्वागमनं - घ. । २१। माम्बां - क ख । २२ च नुगृहणथ - क ख., गृह्य च - घ । २३ बालिखिल्या - क. ख. । २४ महाबलाः ख. । २५ देवभक्ति क । २६ प्रहर्षेण - क ख. । २७ देवेश - घ. ।
- - - -- - - - - - - - -

830
स बालखिल्यैः प्रणतोभिपूजितो
निमन्त्र्य२७ सर्वान् त्रिपदे द्विजोत्तमान् ।
पुनर्निवृतोभिजगाम मन्दरं
स यत्र देव्या सहितोवतिष्ठते । ।२७। ।
अथ भुवनपतिं पतिं सुराणां
गिरितनयामुखपङ्कजद्विरेफम् ।
धनदवरदमेत्य भूतनाथं
गणपतिनाथ इदं तदावभाषे । ।२८ । ।
दिवि च भुवि च ये चरन्ति विप्राः
शमदमसंयमशौचसत्वयुक्ताः२८ ।
त्रिपुरदमन कालनाश सर्वे
तव वचनाद्विनिमन्त्रिता मया ते२९ । । २९।।
इति स्कन्दपुराणे तरुपुत्रग्रहणे विप्रामन्त्रणं नाम एकषष्ट्युत्तरशततमोध्यायः

सनत्कुमार उवाच
आमन्त्रितेषु विप्रेषु नारायणपदत्रये१ ।
नन्दिन्यथ निवृत्ते च गणयूथपयूथपे । । १ । ।
भगवान् क्रतुकामघ्नः पूष्णो दन्तनिपातनः ।
माली मौली बली कालः काले वचनमव्रवीत् । । २। ।
अम्बिके जगतः२ सर्वे ब्राह्मणा ब्राह्मणः२ समाः ।
आमन्त्रिता वरारोहे कुरु यत्ते मनोगतम् । । ३ । ।
स यत्राशोकतरुकः पुत्रकस्ते भविष्यति ।
तत्र सज्जीकरोप्यन्न४मन्नदः पिङ्गलः५ प्रिये । ।४।।
- - - -- - - - - - - - -
२८... भिमन्त्र्य - क । २९ दमयममंयनशौचसत्वयुक्ताः - क, दमशम - ख. घ. । ३० मयेति - ख. । १ त्रिलोकपुरवासिषु - घ । २... ध्यागता - घ. । ३ ब्रह्मणा (?) । ४ करोत्वन्नं - क, करोद् देवि - घ । २.., त्व - क., पिञ्जलः - क. ।
- - - -- - - - - - - - -

831
श्वः प्रभाते यथा देवि नन्दिना सह नन्दिनि ।
यामोशोकतरोः६ पार्श्वं तथा कुरु गिरीन्द्रजे ।।५।।
साकाशजलपातालं७ जगज्जननि तत्र हि८ ।
पिण्डीकृतं त्वद्धितार्थे९ भविष्यति गिरेः सुते ।। ६।।
अनेन चामन्त्रयता नन्दिना वै द्विजोत्तमान् ।
क्रान्तं त्रिविक्रमाक्रान्तं१० नारायणपदत्रयम् ।।७।।
सोहमस्य वरारोहे वरेण्ये११ वरदायिनि ।
वरं दास्यामि वरदे यदि ते रुचितं प्रिये ।।८। ।
अथ देवी दिवोनाथं डिण्डिमुण्डेश्वरं१२ हरम् ।
अवदद्वरदं कान्तं कान्तं चन्द्रार्धभूषणम्१३ । ।९।।
अयन्नन्दीश्वरो देव आवयोः परमो हितः ।
वरकोटीसहस्राणि त्वत्तोर्हति न संशयः । ।8.162.१ ० ।।
वरदो ह्यसि लोकानां लोकानामपि चेश्वरः ।
यदि तुष्टोसि शैलादेर्दिशस्व प्रवरं वरम् । । ११ । ।
कृत्तिवासास्ततो देवो मूर्ध्न्युपाघ्राय नन्दिनम् ।
उवाच प्रमथेशानं१५ व्रियतामीप्सितो१६ वरः । ।१ २ ।।
ततः कपीन्द्रवदनः सुरेशसदृशद्युतिः ।
प्रणम्य शिरसा प्राह नन्दी शङ्करवल्लभः१७ ।।१ ३। ।
प्रभावात्तव देवेश वरदास्म्यजरामरः१८ ।
भोगवान् पूजितः पूज्यैर्देवदानवकिन्नरैः ।।१४। ।
किं मे वरेण योहं ते वरकोटिप्रपूजितौ१९ ।
पश्यामि चरणौ शर्व साम्बस्य प्रमथार्चितौ ।। १५।।
- - - -- - - - - - - - -
६ माया... - क, यामी ( म्य शोकतरोः - ख., याह्यशोकतरो - घ. । ७ सकालजलपातालं - घ. । ८ जगत्सर्वं निमन्त्रितं - घ,... मन्त्र(त्र - क. । ९ त्वद्धितार्थं - ख. ग । १० त्रिविक्रमम् - घ., ...माक्रान्त - क. ग. । १५ वरदो - घ । १२ चण्डाण्डेश्वर - घ । १३ कान्तचन्द्रार्धभूषणम् - क. ग. । १४ सर्वेषां - घ । १५ प्रमथेशान - क. । १६ वृयतामीप्सितो - क. ग. । १७ नन्दीशो हरवल्लभः - घ. । १८ वरदास्म्यजरामरः - क. ग. । १९ प्रपूजितैः - क. ।
- - - -- - - - - - - - -

832
वरेण तु ममानेन गोपते यदि तुष्यसि२० ।
नित्या भवतु मे भक्तिस्त्वयि साम्बे महेश्वर२१ ।। १ ६।
शिष्टानां मद्विशिष्टानां गणानां गणपाधिपः२२ ।
त्वया कृतो देववर किमतोन्यत् करिष्यसि । । १७। ।
इत्येवं नन्दिनं देवो भाषमाणं तदा नतम्२३ ।
प्रीत्यापश्यद्२४ विरूपाक्षः शशाङ्ककृतशेखरः ।। १८ ।।
ततोत्पलनिकाशेन करेण भगवान् हरः ।
प्रमृज्य प्राह हर्षेण हर्षयन् नन्दिनं भृशम् । । १ ९। ।
भक्तिमानसि मे२५ नन्दिन् सदारं सगणाश्रयम् ।
तां च भक्तिं पुरस्कृत्य पार्श्वस्थोसि मया कृतः ।। 8.162.२० ।।
सत्याद्धर्मात्तपोदानाद् गोभ्यो वेदेभ्य एव च ।
एभ्यो मे त्वं प्रियतरः सर्वेभ्यो गणपेश्वर । । २१ । ।
प्रभाते२६ यश्च ते नाम कीर्तयिष्यति लोकप२७ ।
सोश्वमेधस्य च फलं सम्यगिष्टस्य लप्स्यते२८ ।।२२। ।
यश्च त्वां द्वेष्टि विद्विष्टः२९ स मे धर्मरतोपि हि ।
यस्य त्वं दयितोसौ३० मे दयितस्तु भवेत् सदा । ।२३ । ।
नमो नन्दीश्वरायेति प्रोच्य यः स्वप्स्यते नरः ।
तस्य कुष्माण्डराजेभ्यो३१ न भविष्यति वै भयम् ।। २४। ।
इत्येवं ब्रुवतस्तस्य नन्दीश्वरगुणस्तवम् ।
ब्रह्मणस्तनुरत्युग्रा३२ सन्ध्या समभिवर्तत । । २५ ।।
संध्याकालन्तु३३ कालज्ञः कालः कालनिहा३४ हरः ।
उपोढं वीक्ष्य नृत्तस्य देवः कालममन्यत३५ । । २६। ।
- - - -- - - - - - - - -
२०. तुष्यति - क., तुष्यसे - घ । २१ साम्ब महेश्वर - ग., गणेश्वर - क. । २२ गणपाधिप - क. । २३ नुतं - ख. । २४ पृत्यापश्यद् - क. । २५ मां (?) । २६ प्रयतः - ख । २७ लोकपः - क. । २८ लक्ष्यते - ख. । २९ वै द्वेष्टि - क । ३० दयितः सो - क. ग. । ३१ कुष्माण्डराजभ्यो - क. । ३२. रव्यग्रा - ख, ग. । ३३ संन्ध्याकालन्तु - क. ग. । ३४ कालावहो - घ. । ३५ यं रक्तं वीक्ष्य संसारं कालं मत्वेत्यजोव्ययः - घ. ।
- - - -- - - - - - - - -

833
उपस्पृश्य ततः सोद्भिरपां स्रष्टा त्रिलोकपः ।
अन्वास्त४६ भगवानि सन्ध्यां लोकसंस्थां नु पालयन्४७ ।।२७
प्रसारितकरो देवो न्यस्तजानुकमण्डलः३८ ।
प्रसरितकरो व्योम्नि दिवाकर इवाभवत् । ।२८। ।
जप्त्वा तु परमं जप्यं त्रिवेदरससंभवम ।
भवः प्रनृत्त्य३९च्चतुर४०श्चतुरं चतुरानन४१ । ।२९। ।
भर्त्तारं वीक्ष्य नृत्यन्तं४२ विषक्तकरपल्लवम् ।
सहधर्मचरी देवी भर्त्तारं सान्वनृत्यत४३ । ।8.162.३ ० । ।
दम्पती वीक्ष्य नृत्यन्तौ साट्टहासं गणाग्रणीः ।
प्रानृत्यत४४ ततो नन्दी देवयोः प्रीतिमावहन् । ।३ १ । ।
देवमम्बाञ्च नृत्यन्तौ नन्दिनञ्च समीक्ष्य तु ।
प्रमथा नीलमेघाभाः४५ प्रनृत्तास्तूर्यनिस्वनैः ।।३ २। ।
ततो भेर्यो झर्झराश्च४६ किखिरानकमण्डुकाः४७ ।
आडम्बरा डिण्डिमाश्च शंखाश्चैव प्रसस्वनुः । । ३३ ।।
मुहुर्मुहुः साधयते नृत्तं चतुरमम्बिका ।
नन्दी विसृजते४८ हासं प्रमथा नेदुरुल्बणाः । । ३४। ।
तत्तूर्यवरशब्दाढ्यं४९ शिवाशनिरवाकुलम् ।
सन्ध्यामुखं बभौ रौद्रं वडवामुखसन्निभम् । ।३५।।
ननृतुर्जहसुश्चान्ये५० जजपुश्च तथापरे ।
जगुश्चान्येतिमधुरं गन्धर्वा इव पार्षदाः । ।३ ६ । ।
ततोम्बरतलापीडे पूर्णविम्बेतिनिर्मले ।
मृगाङ्के ह्युदिते चन्द्रे चन्द्रावयवभूषणः५१ ।।३७।।
- - - -- - - - - - - - -
३६ अन्वास्ते - क. । ३७ लोकसंस्थान्तु पालयन् - घ . . . . भिपालना (नी म् (नात्) -कः। ३८ जानुन्यस्त(?), कमण्डलुः - क ख. । ३९ प्रहृष्ट - क. । ४० चतुर - ख. । ४१ ... ञ्चतुराननः - क. ख., प्रनृत्यच् चतुरः (?) । ४२ नृत्तन्तं - क. ग. । ४३... सत - ख. । ४४ प्रनृत्यत - घ. । ४५ निलमेघाभः - क. । ४६ मर्मराश्च - ख. । ४७ किखरानक - क. ख., मेण्डुका - ग. । ४८ विससृजे - ख. । ४९ खरशब्दाढ्य - क. ख. ग. घ । ५० नर्नतुर्जहसुश्चान्ये - क. ख. ग. । ५१... भूषणे - क. ।
- - - -- - - - - - - - -

834
समाप्य नियमं देवः साम्बनन्दीशपार्षदः५२ ।
विररामोत्सवात्तस्मात् पार्वतीं चेदमब्रवीत् ।।३ ८।।
उषित्वा शर्वरीमेतां शर्वर्यमितविक्रमे ।
अशोकतरुकं पुत्रं ततः श्वस्त्वं ग्रहीष्यसि । ।३ ९। ।
धारेयी सा सदर्भायां धरायां५३ धारणीधरा५४ ।
सुष्वाप देववचनादेकां५५ रात्रिं यतव्रता । ।8.162.४० । ।
ततः शतसहस्रांशावुदितेर्केर्कभावनः ।
उमामाह प्रयामेति५६ यत्राशोकः सुतः५७ स ते५८ ।।४१ ।।
ततो भगवती धन्या धनदा धनदार्चिता ।
भवमाह प्रयामेति सिञ्जमानविभूषणा५९ ।।४२। ।
पादचारेण भगवान् पादपं पादपालयः ।
तमशोकतरु प्राप सनन्दी साम्बिको हरः ।।४३ । ।
स तत्र पिङ्गलं यक्षं६० पिङ्गलानलसन्निभम् ।
साधयानं ददर्शान्नमन्नदं प्रमथैः सह ।।४४।।
अथात्र भक्ष्यभोज्यस्य चोष्यलेह्यस्य च प्रभुः ।
सोपश्यत् पर्वतप्रख्यान् राशीन् राशिविदां वरः । ।४५।।
स साधितं६१ ततो दृष्ट्वा यक्षेणान्नं पिनाकधृक् ।
प्रहर्षमतुलं६२ लेभे साम्बिकः सह नन्दिना ।।४६। ।
ततः पितामहो देवः सह देवाप्सरोरगैः६३ ।
तत्रागान्मुदितो भूत्वा६४ यत्र साम्बोम्बिकापतिः ।।४७।।
ते प्रणम्य महादेवं६५ देवास्तेनाभिपूजिताः ।
परिवार्य तदाशोकमिदमूचुर्हराग्रतः६६ । ।४८। ।
- - - -- - - - - - - - -
५२ सपार्षद - ख । ५३ धारया - क । ५४ धरणीधरा - ख. । ५५ देवा (तां) - क. । ५६ व्रजाम्येति - घ. । ५७ यत्राशोकसुतः - क., यत्राशोकतरुः - ख. । ५८ सुतः - ख., शुभे - ग. । ५९ सिञ्जन्मणि वभूषणा (?) । । ६० पिङ्गलाध्यश - क. । ६१ संसाधितम् (?) । ६२ सहर्षमतुलं - ख. । ६३ देवसुरोरगै - क ख.। ६४ बुद्ध्वा - घ. । ६५ प्रणेमुर्महादेव - ख. । ६६ महासुराः - घ. ।
- - - -- - - - - - - - -

835
अद्यप्रभृति वृक्षोयं सर्वतः६७ सुखसंयुतः ।
दक्षशापतमोन्मुक्तो भविष्यति दिवौकसः६८ । ।४९। ।
अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ।
सर्वाभरणपुष्पाढ्यः सर्वगन्धरसान्वितः ।।8.162.५० ।।
सर्वकामप्रदश्चैव इच्छापुष्पफलस्तथा६९ ।
भविष्यति न सन्देहो देव्याश्च सुदृढं प्रियः ।५१ ।।
सनत्कुमार उवाच
ततो गिरीन्द्रतनयां गिरीशः प्रणतार्तिहा ।
पश्यान्नपर्वतानेतानिति प्रोवाच कामदः७० । ।५२ । ।
सा वीक्ष्य भक्ष्यभोज्यस्य उच्छ्रयान् पर्वतोपमान् ।
दृढं तुतोष देवेशा पिङ्गलस्य गुहारणिः । ।५३ । ।
सुमालिनं यक्षवरं पिङ्गलं पर्वतात्मजा ।
युयोज वरदानेन तामाह च महेश्वरः । ।५४। ।
देवि सर्वमिदं सज्जं भक्ष्यं भोज्यं७१ तवोत्तमम् ।
यत्ते मनीषितं कार्यं तत्कुरुष्व किमास्यते । ।५५। ।
ततः सातिप्रमुदिता दिव्याम्बरनिवासिनी ।
मनोजवमनुज्ञाप्य शङ्करं भुवनेश्वरम् । ।५६ । ।
दैत्यशोकप्रदा देवी तमशोकं७२ विभावरी ।
अलञ्चकार सस्नेहा अलङ्कारैः पृथग्विधैः । ।५७ । ।
आतपत्रं च तस्याग्रे मुक्तादामावभासितम्७३ ।
उच्छ्रयामास गिरिजा मयूराङ्गरुहैः सह । ।५८। ।
नानावर्णेन चाप्यस्य चन्दनेन सुगन्धिना ।
आमूलादकरोद्देवी वरपङ्काङ्कितां७४ तनुम् । ।५९।।
- - - -- - - - - - - - -
६७ सर्वगः - घ. । ६८ विनिश्चयम् (?) । ६९ स्वेच्छापुप्पफलस्तथा - ग । ७० कामहा - घ. । ७१ भक्ष्यभोज्यं - क. ख. । ७२ तदशोकं - क, तपशोकं. - ख. । ७३ विभूषितं - क. । ७४ करपङ्काङ्किता - क., करपट्टाङ्कितां - ख. ।
- - - -- - - - - - - - -

836
जाम्बूनदमयश्चापि पट्टैर्मणिविराजितैः ।
सर्वतो भूषयामास अशोकतरुकं प्रियम् । ।8.162.६० । ।
तस्य शाखाप्रशाखासु मुक्तादामानि७५ पार्वती ।
आबबन्ध७६ स तैर्भाति नक्षत्रैरिव चन्द्रमाः ।।६१ ।।
अथ वासोयुगैः श्वेतैस्तमशोकं गुहारणिः ।
वासयामास लोकानां जननी पुत्रलालसा । ।६२।।
श्रीवेष्टकं नमेरुञ्च गुग्गुलं घृतमेव च ।
समवेतं ततो धूपं ददौ देववरप्रदा । ।६३ । ।
ततः शंखनिनादेन देवतूर्यरवेण च ।
बलिं बलवतो भार्या चकार चरती तपः ।।६४।।
तथार्चयन्त्यास्तं७७ वृक्षं चन्द्रहारामृतप्रभम् ।
स्तनाभ्यामस्रवत् क्षीरं७८ पुत्रस्नेहाभिसंगमात्७९ ।।६५। ।
उमया८० सोर्चितो वृक्षः अशोको वनदीपकः८१ ।
अतीव शुशुभे तत्र वसन्त इव रूपवान् ।। ६६।।
नन्दिनाथ समानीतान् ब्राह्मणान् ब्रह्मणः समान् ।
वाचयामास पुण्याहं दत्त्वा तेषां यथेप्सितम्८२ ।।६७। ।
ततः पुण्याहघोषान्ते आशीर्वादस्य चोभयोः ।
अनुमान्य पतिं देवी ऋषीँस्तानब्रवीत्तु सा८३ ।।६८। ।
अपुत्रा भगवन्तोहमशोकतरुकं८४ सुतम् ।
इममद्य८५ ग्रहीष्यामि समनुज्ञातुमर्हथ८६ ।।६९। ।
इत्येवं ब्रुवतीं देवीं पार्वतीं पुत्रलालसाम् ।
सममूचुर्द्विजाः सर्वे इष्टतो गृह्यतामिति । ।8.162.७० ।।
ततः शंखरवो८७ दिव्यः सर्वतूर्यरवान्वितः८८ ।
प्रबभौ पूरयन् सर्वं नारायणपदत्रयम् ।।७१ ।।
- - - -- - - - - - - - -
७५ मुक्तामाला (ल्या) नि - ख. । ७६ आबबद्ध - ख. । ७७.. र्चयत्यास्तं - क. । ७८. मभवत् क्षीरं (?), क्षीरमभचत् - क. । ७९ संगतम् (?) । ८० उमायाः - क. । ८१ अशोकवनदीपकम् - क. ख. । ८२ गोधनमेव च - घ... ताम् - क.,. तान् - ख. । ८३ ब्राह्मणान्ब्रवीत् (?), बिप्राँस्तानब्रवीत् - क., ऋषीन्वमब्रवीत् - घ. । ८४ अपुत्राह हि भगवन्नशोकतरुक - क.,... हं द्विजाः स्वामी - घ. । ८५ इदमद्य - क इयमद्य - ख । ८६ मामनुज्ञातुमर्हथ (?) । ८७ वरो - घ. । ८८ आडंबरवरान्वितः - घ ।
- - - -- - - - - - - - -

837
वेदानुच्चारयन्८९ विप्रा नृत्यन्त्यप्सरसां गणाः ।
नेदुश्च प्रमथास्सर्वे सगन्धर्वमहोरगाः । ।७२ ।।
ऋतवः षट् च संहृष्टाः स्वैः स्वैः कुसुमसंचयैः ।
अलञ्चक्रुरशोकञ्च तच्च दैवतमण्डलम् । ।७३ ।।
तत्प्रवादितगान्धर्वं प्रनृत्ताप्सरसां गणम् ।
पश्यन्ति हृषिता देवा अशोकतरुकोत्सवम९० ।।७४।।
वादयन् कच्छपीं वीणां वीणावादयतां वरः९१ ।
नारदो नृत्यते हर्षाद् वातनुन्न इवानलः९२ ।।७५।।
तपोधनैश्च धनिनो देवैश्च धनदार्चिता ।
पूज्यमाना बभौ तत्र रवेरिव यथा प्रभा । ।७६। ।
समाप्य नियमं साथ गृहीत्वाशोकपुत्रकम्९३ ।
गिरीन्द्रतनया९४ भाति धरा इव जलोक्षिता ।।७७।।
अथ नन्दीश्वरादिष्टाः प्रमथास्ते सहस्रशः ।
अददन् स्वासनान्याशु विप्राणां विप्रवत्सलाः ।।७८।।
स्वर्णानां राजतानां च स्फटिकानां९५ प्रभावताम् ।
प्रमथैः कीर्यमाणाना९६ मासनानामभूत् स्वनः । ।७९।।
मेरोः शिखरवर्षाणां महती कुशजैरिव (?
तथासनान्युद्वहतां प्रमथानां बभौ रवः९७ । ।8.162.८० । ।
वर्षान्नमृष्टाकामानां (?) मेघानां स्तनतामिव ।
स्कन्धस्थैश्च करस्थैश्च उत्तमांगस्थितैरपि९८ । ।८ १ । ।
आसनैः प्रमथा रेजुः सार्काग्नय इवाचलाः ।
आनयन्त्यपरे तूर्णमपरे धारयन्त्युत । ।८२ । ।
प्रमथास्ते९९ हृष्टरूपा ह्यासनानि महासनाः ।
एकैकयोजनशतं विस्तृतायोजनान्तरम् ।।८३ । ।
- - - -- - - - - - - - -
८९ सामान्युच्चारयन् - घ । ९ ० शक्रब्रह्म पुरोगमाः पुरोगमा - - घ । ९१ वीणा वादयितां - क. ख । ९२ गन्ध- नुन्न इवाचलः - घ. । ९३ कं स (सु) त - घ. । ९४ ववर्ष हर्षिता - घ । स्फाटिकानां - घ. । ऽ १ क्रीयमाणानां - घ., सीर्य (?) । ९७ प्रमथानामभूद् (?) । ९८ शतैरपि - घ. । ९९ प्रकृतास्ते - घ. ।
- - - -- - - - - - - - -


838
असंसक्तासना पंक्तिर्निर्मिता विश्वकर्मणा ।
मन्दरस्य शुभे१०० पृष्ठे विप्रपंक्त्यो विनिःसृताः । ।८४।।
तपनैर्निर्गतैः सर्वैः समामेघास्वसेचतान्? । ।८५ । ।
स्नाते पथ इव दृष्टवा रेजुरासनभूषणाः ।?
सहस्रपंक्तयस्तास्तु मंदरे विस्तृते१०१ गिरौ । ।८६ ।।
द्विजातीननुलिप्ताँस्तु यक्षजम्बालमिश्रकान् ।?
सशेखरान् सस्रग्दामाननुहूय समोद्यतान्? । ।८७। ।
मंदारैस्तु१०२ ससंतानैः पारिभद्रैस्तथैव च ।
अनिलैः सांगनादाश्च (?) रेजुर्देवा इव द्विजाः ।।८८ ।।
सुश्लक्ष्णैश्च सुगन्धैश्च गन्धचूर्णैः सपिञ्जरैः ।
अवकीर्णास्ततो देवैर्भूमिदेवाः समंततः । ।८९। ।
दिव्यचन्दनपङ्काङ्का दिव्यचूर्णावचूर्णिताः ।
ब्राह्मणा रेजुरेकस्था एकस्था इव पावकाः । । 8.162.९० ।।
दिव्यं धूपं चारयित्वा मामाज्ञा (?) सर्वशश्च ह ।
ततः स्फटिकसंकाशं पद्मरेणुरिवार्जिताः (१) ।।९१ । ।
हस्तशौचं मुहूर्तेन दत्तं शंकरकिंकरैः ।
बद्धकक्षास्ततः शूरा बद्धकक्षा इव द्विपाः ।
परिवेष्टुमुपक्रान्ताः प्रमथा ब्राह्मणर्षभान् । ।९ २। ।
भाजनान्यथ स्वर्णानि राजतस्फाटिकानि च ।
मुहूर्तेन द्विजातीनां ददुर्देवा१०३ विनीतवत् । ।९३ ।।
हृत्वा हृत्वा बभूरेखं दंडे वारि समंडलम् (?) ।
भक्ष्यभोज्यान्नपानानि१०४ ददुः सम्यक् समन्ततः । । ९४। ।
अर्थवद्यो हरिपुरासराटपुरकान्यपि१०५ ।
नेत्रस्थं हृदयस्थं च मुखस्थं हस्तसूचितम् । ।९५। ।
- - - -- - - - - - - - -
१०० शुभाः - व. । १०१ विसृते - घ- । १०२ मंदरैस्तु - घ. । १०३ दधुर्देवा (?) । १०४ भोक्ष्य- भोज्यानि पानानि - घ. । १०५... त्यपि - घ ।
- - - -- - - - - - - - -

839
ब्राह्मणानां विदुश्चैव ददुश्च प्रमथाधिपाः ।
भृङ्गारैः काञ्चनैः केचित्१०६ पानीयं गुणवर्धनम्१०७। ।९६ ।।
दिशंतोपि चरंत्येते पानीयमितिवादिनः ।
अपरे चन्द्ररश्म्याभैश्चामरैः सत्सुगन्धिभिः ।।९७। ।
आबीजुर्ब्राह्मणान्१०८ हृष्टाः प्रमथाः तपसोनिलः (?) ।
दिव्या देवस्त्रियश्चैव लोकत्रयनिवासिनः । ।९८ । ।
एकैकं ब्राह्मणांस्तत्र सेवन्ते वासवं यथा ।
अप्सरोवारसंघाश्च सर्वालंकारभूषिताः ।।९९।।
ननृतुर्देवचेतांसि मुष्णन्त्यः सर्वतोदिशम् ।
विश्वावसुर्नारदश्च तुम्बुरुः पर्वतस्तथा । ।8.162.१ ०० ।।
कुस्तुम्बुरुः शालिशिराः पर्जन्यो गण्डमण्डकः ।
चित्राङ्गदश्चित्रसेनश्चित्रश्चित्ररथस्तथा ।। १०१ । ।
एते दैवतगन्धर्वा रक्तातोद्या हरप्रियाः ।
दिव्यतानेषु गायन्ति गेयं मन्मथदीपनम् । ।१ ० २। ।
नमेरुर्गुग्गुलून्मिश्रो घृतधारावसेचितः१०९ ।
धूपः सञ्चार्यते तत्र प्रतीहारीभिरुत्तमः११० ।। १०३ ।।
यदर्थमेष भ्रमति नारायणपदत्रये ।
पूज्यमानः सुरैः सेन्द्रैः श्लोको धूपत्रयाङ्कनः१११ । । १ ०४। ।
गुग्गुलोश्च नमेरोश्च आज्यधूपस्य चैव ह ।
तृप्तिं न देवा गच्छन्ति प्रियाणामिव दर्शनात् । । १ ०५।।
त्रयाणामेव धूपानां जहुर्न पवना गतिम्११२ ।
गुग्गुलोश्च नमेरोश्च आज्यधूपस्य चैव ह । । १० ६।।
तं दृष्टवा चन्द्रमौलिस्तु११३ तरुकोत्सवमीश्वरः ।
पार्वतीहर्षदो हर्षं पुपोषानुत्तमं मुहुः११४ । ।१ ०७।।
- - - -- - - - - - - - -
१०६ कश्चित् - घ. । १०७ वर्द्धत. - घ । १०८ अविदुर्ब्राह्मणान् - घ. । १०९... वसेचितं - क. । ११० प्रतीहारिभिरुत्तमः (?) । १११ ङ्करः - क., कङ्कणः - ख. । ११२ न जहद् गन्धमागतं - घ. । ११३ ततः स कृतातुलाल ( ?) - घ. । ११४ बहु - घ. ।
- - - -- - - - - - - - -

840
हृष्यमाणे पशुपतौ मुहुर्व्रतपतौ हरे ।
चराचरं पशुपतौ त्रैलोक्यं११५ हर्षणायते११६ । । १०८ । ।
प्रनृत्ताप्सरसोवारं११७ दिव्यधूपाधिवासितम् ।
ऋतुभिः११८ कुसुमैः कीर्णं तत्सदो गगनायते । । १० ९। ।
ततः शाल्योदनं तूर्णं - - - - - - - - ११९ ।
तेन तेमृतकल्पेन सर्व एव द्विजोत्तमाः ।
भक्ष्यभोज्यान्नपानेन ततृपुर्लोकपूजिताः१२० । ।8.162.१ १० ।।
ततः श्रुतिसुखः पुण्यो राक्षसासुरवेजनः ।
पुण्याहशब्दः प्रकृतो विप्रैस्त्रैलोक्यपूरणः । । १११ ।।
ततः साम्बमशोकं तं सहरं सह नन्दिना ।
कुसुमाक्षतसंयुक्तमाशीर्भिरभिनन्द्य च । ।१ १ २। ।
महान्तः सुस्वनाः सर्वे ब्रह्मसूत्रजटाधराः ।
प्रणमन्तो विरूपाक्षं ययुर्विप्रा यथागतम् ।। ११३ । ।
सुराश्च पूजिता दानैर्वाक्प्रदानैश्च शूलिना ।
यथागतं१२१ गताः सर्वे परिवार्य शतक्रतुम्१२२ । । १ १४।।
गणाश्च गणपालेन१२३ पूजिताः सगणाधिपाः ।
यथावासं ययुः सर्वे हर्षादुद्धूतवाससः । । ११ ५। ।
अहो देव्या हि सौभाग्यमहोस्या१२४ वल्लभो हरः ।
अहो देवस्य देव्यर्थं संभ्रमो लक्षितो हि नः । ।१ १६ ।।
या नैवं१२५ दयिता भर्त्तुर्यथेशस्य गिरेः सुता१२६ ।
कथं सा सुभगा नाम स्त्रीत्वं चापि बिभर्त्ति किम् । । ११७ ।।
- - - -- - - - - - - - -
११५ पशुपातेस्त्रैलोक्यं - ख. । ११६ हर्षं जायते - क. ग । ११७ वारी - घ. । ११८ धातुभिः - घ. । ११९ इतः परं कतिपयोंशः खण्डितः । १२० ततृपुर्लोकपूजिताः - क. ख. ग. । १२१ पितामहं - क. ग. । १२२ शतक्रतु - क.,... तु - ग. । १२३ गणपाः सर्वे - कः ग. । १२४.. तिसौभाग्यमहोस्या - क., भि... - ख. । १२५ नैव - ग. । १२६ सुतां - क. ग. ।
- - - -- - - - - - - - -

841
गिरिपुत्र्या कृतं मन्ये तपः परमभास्वरम् ।
तपसाभिजितो१२७ यस्या वरदो१२८ वृषभध्वजः । । ११ ८। ।
अहो स्त्रीणां बलं सूक्ष्मं देवैरपि सुदुर्जयम् ।
येन रुद्रसमा ईशाः स्त्रीणां वश्यत्वमागताः । । ११९ ।।
अन्ये तानब्रुवँस्तत्र महात्मानो गणाधिपाः ।
देव एवैष रूपेण भार्या भूत्वावतिष्ठते१२९ । । 8.162.१२० । ।
मावमन्यत देवीं तां योगात् किं नावबुध्यथ ।
इत्येवं जल्पमानास्ते अन्योन्येन१३० गणोत्तमाः१३१ ।
जग्मुः स्वभवनान्येव दीप्यमाना यथाग्नयः । । १२१ । ।
देवोपि नन्दिना सार्धं सोम्बया१३२ चाभिरूपया ।
अशोकतरुकस्याध उपविष्टोम्बिकार्चितः१३३ । । १२२ । ।
ततः प्रणम्य१३४ वरदं१३५ सोमा१३६ सोमविभूषणम् ।
उवाच वचसां योनिर्भूतसंघपतिं पतिम् । । १२३ । ।
सुनिर्वृतास्मि संवृत्ता त्रिपुरान्धकसूदन१३७ ।
यन्मयाशोकतरुकः पुत्रः१३८ प्रकृतकः कृतः । ।१ २४। ।
समस्तव्यस्तमखिलं त्रैलोक्यं लोकभावन ।
समागतं त्वत्प्रभावात् मम पुत्रतरूत्सवे१३९ । १ २५। ।
नूनं मे सुकृतं देव तपः परमभास्वरम् ।
लब्धोसि यन्मया देव सर्वभूतपतिः पतिः ।। १२६ । ।
देवैर्यच्चापि१४० मुषितमिष्टपुत्रफलं पुरा१४१ ।
तन्मे सर्वं१४२ व्यपगतं प्राप्याशोकतरुं सुतम् । ।१ २७। ।
मत्तो१४३ धन्यतरा देव१४४ नास्त्यन्या त्रिदिवे१४५ ङ्गना१४६ ।
पतिर्व्रतपतिर्वीर१४७ यस्या मे त्वं महेश्वर१४८ । । १ २८। ।
- - - -- - - - - - - - -
१२७ निर्जितो - घ. । १२८ वशगो - घ. । १२९ भूतावतिष्ठते - क ग, भार्याभूतो.. (?) । १३० अन्योन्यं तु - घ. । १३१ दिवौकसः - घ. । १३२ साम्बया - क., सोमया - घ. । १३३.. म्बिकाश्रितः - घ. । १३४ ततो- भिपूज्य - घ. । १३५ वरदां - घ. । १३६ सोमं - क. घ. । १३७ त्रिपुरान्तक - घ. । १३८ पुत्र - क. । १३९ तरुपुत्रमहोत्सवे (?) । १४० देवैर्यच्चात्र - घ. । १४१... मिष्टं पुत्रफलं - घ. । १४२ सव्यं (त्यं) - क. । १४३ मया - घ. । १४४ देवि - क. । १४५ त्रिदिवो - ख., त्रिदिवा - घ. । १४६ त्रिदिवाङ्गना - ख. ।ऽ १४७ पतिता पतिवीरस्य - घ. । १४८ महेश्वरः - क. ख. ।
- - - -- - - - - - - - -

842
भवं भवानी प्रीत्यैवमुक्त्वा मुक्तावलीधरा ।
पपात पद्भ्यां देवस्य नेत्रास्रापूरितेक्षणा । । १२९। ।
तामुत्थाप्य गिरीशस्तु परिष्वज्य च पीडितम्१४९ ।
निवेश्य - - - रुमूरूभ्यां१५० सस्नेहमिदमब्रवीत्१५१ । । 8.162.१३० ।।
देवी सती च साध्वी च सहधर्मचरी च मे ।
ब्रह्मण्या च शरण्या च त्वं मे नित्यं प्रिया प्रिये ।। १३१ । ।
अकार्यमपि कार्यं हि अतो१५२ देवि मया तव ।
किं पुनर्यद्यशोन्मिश्रमीदृशं१५३ धर्मसंयुतम् । । १३ २। ।
तर्पिता ब्राह्मणा देवि देवाश्च सगणास्त्वया ।
गृहीतः पुत्रकश्चायं त्वयाशोकतरुः प्रिये ।। १३३ ।।
एहि देवि गृहान् याम संपूर्णस्ते मनोरथः ।
भूयः सुतं१५४ तं द्रक्ष्यामः स्तबकैः समलंकृतम् ।। १ ३४। ।
इत्युक्ता पतिना साध्वी हर्षपूर्णमुखेक्षणा ।
प्राहेदं वचनं तत्र हरितं हरिणेक्षणा१५५ । । १३ ५। ।
हरिणाक्ष स्थितमिह१५६ अमुं१५७ पुत्र सुपुत्रकम् ।
गोपायस्व हरे यत्नाद् गजाश्वाच्चाण्डजाण्डपात् । ।१ ३ ६। ।
यदि वापि भवेदेष स्तबकैः समलंकृतः ।
अशोकपुत्रको मह्यं तदा मां द्रष्टुमर्हसि ।। १ ३७। ।
इति संदिश्य हरितमुद्भ्रान्तहरिणेक्षणा ।
सापाङ्गचक्षुर्विक्षेपं कृत्वोमा पतिना सह ।
विवेश सदनं देवी प्रभेवादित्यमण्डलम् । । १ ३८। ।
इति पशुपतिना सहैव देवी सुतमुपगृह्य तरुं ह्यशोकपोतम्१५८ ।
प्रमुदितगणमध्यगा विवेश स्वभवनमेव तदा प्रहृष्टचित्ता । । १ ३९।।
इति स्कन्दपुराणे अशोकतरुपुत्रग्रहणे द्विषष्ट्युत्तरशततमोध्यायः
- - - -- - - - - - - - -
१४९ परिष्वज्यावपीडितम् - (?) , पीडितां - घ । १५० मूरुभ्यां (?) । - क., वरशूराभ्यां - घ. । १५१ सस्नेहामिदमब्रवीत् - ख. । । ५२ कर्तव्यतो ( ?) । १५३ र्यशसा मिश्रमीदृशं - घ.,.. ञ्चेदृशं - ख. । १५४ शु प - घ. । । १५५ हरिणेक्षणं - घ. । १५६ स्थितिरिह - घ । १५७... मुमं - घ. । १५८ ह्यशोकवृक्षम् - क ख. । १५९ २११ - ख., इतः परं नियमानुष्टानमहिमाख्यानात्मकाः कतिपयेध्यायाः अधिका घ .पुस्तके ।
- - - -- - - - - - - - -

843
व्यास उवाच
शार्वं तेजः समादाय वह्निः किं कृतवांस्तदा ।
कथं स्कन्दस्समुत्पन्नः कस्मिँस्थाने महाद्युतिः ।।१।।
सेनापत्ये कथञ्चासावभिषिक्तः सुरोत्तमैः ।
किमर्थमभिषिक्तश्च१ कस्मिन्देशेपि वा प्रभो ।।२।।
तारकश्च कथं तेन निहतो रणमूर्धनि ।
एतदिच्छाम्यहं वेत्तु त्वत्प्रसादान्महामुने ।।३ ।।
इति विज्ञापितो धीमान् व्यासेनाक्लिष्टकर्मणा ।
प्रोवाच वदतां श्रेष्ठः पितामहसुतस्तदा ।।४।।
सनत्कुमार उवाच
अथ त्रैलोचनं तेजः सुतसंकल्पसंभवम् ।
न धारयितुमुत्सेहे दीप्तिमानपि पावकः ।।५।।
दाहात्मकोपि भूतानां दह्यमानस्स तेजसा ।
गङ्गामभ्यर्थयामास धारणे तस्य तेजसः ।।६।।
सा तेनाभ्यर्थिता देवी हुताशेन त्रिलोकगा ।
एवमस्त्विति साशङ्कमुवाच मधुरस्वरा ।।७।।
तत्तेजो देवदेवस्य तेजस्वी हव्यवाहनः ।
तदा संक्रामयाञ्चक्रे गङ्गायां योगमायया ।।८।।
ज्ञात्वापि दुर्धरं तत्सा प्रतिपेदे वरानना ।
अर्थिप्रणयनिर्भङ्गदोषभीता२ सरिद्वरा ।।९।।
अथ सा क्षिप्रमभवन्मन्थरालसगामिनी ।
प्रभावात्तेजसस्तस्य श्यामोन्मुखपयोधरा३ ।। 8.163.१० ।।
भिन्नाञ्जनरुचा तन्व्या४ रोमराज्या रराज सा५ ।
घनराज्या घनापाये लेखेवानुष्णदीधितेः ।।१ १।।
- - - -- - - - - - - - -
१ कमर्थमभिषिक्तश्च - क. । २ प्रणयि निर्भङ्गदोषभीता - क ख. । ३ श्यामामुखपयोधरा - क. । ४ तन्वी (?) । ५ च - क. ।
- - - -- - - - - - - - -

844
जगाम च तदा ग्लानिं किञ्चिदाविप्लुतेक्षणा ।
नोपलेभे तदा देवी रतिं शय्यासनेषु च । ।१ २ ।।
अमृतस्यन्दिभिः शीतैः६ स्पृष्टापि शशिनः करैः ।
मम्लौ७ सा तेजसा तेन दह्यमाना तदानघा८ ।। १३ । ।
 - - - - - - - - शरस्तम्बाभिराजिते ।
सोत्ससर्ज तदा तेजो हरस्योग्रं शुभेहनि९ । । १४। ।
शरमध्यात् समभवद् बालो१० बालपराक्रमः ।
षड्वक्त्रो द्वादशभुजः सूर्यकोटिसमद्युतिः । । १ ५।।
समिध्य विधिना तत्र पावकं पावकत्विषः ।
विश्वामित्रस्तदा चक्रे जातकर्म सुजन्मनः ।। १ ६।।
कृत्तिकास्तं११ तदा दृष्ट्वा प्रस्नुतोरुपयोधराः१२ ।
आजग्मुरन्तिकं तस्य - - - - - - - - ।। १७। ।
उपतस्थुश्च तं वेदास्सोपवेदास्ससंग्रहाः ।
कला विद्याश्च निखिला लक्ष्मीर्मेधा सरस्वती । ।१ ८।।
कान्तिर्धर्मो दया क्षान्तिर्धृतिर्धैर्यं पराक्रमः ।
योगस्तेजो बल प्रज्ञा स्थितिगाम्भीर्यसत्क्रियाः ।। १९ ।।
अथातो धनुरादाय दिव्यमद्भुतविक्रमः१३ ।
सन्धाय लीलया बाणं स मुमोच गिरौ - - । ।8.163.२ ० । ।
प्रोद्भिन्नं सहसा तेन भूभृतः शिखरोत्तमम् ।
पपाताशु परित्रस्तभीतोद्भ्रान्तविहङ्गमम् ।।२१ । ।
तद् दृष्ट्वा महदाश्चर्यं सत्वानां तन्निवासिनाम् ।
विस्मयश्च भयञ्चैव युगपत् संबभूवतुः । । २२ । ।
अथ प्रेक्ष्य भयं तस्मादात्मनो बलसूदनः ।
मातॄः संप्रेषयामास विनाशायामितद्युतेः ।। २३ ।।
- - - -- - - - - - - - -
६ अमृनस्यन्दनिःशीतैः - क । ७ मम्ले - ख । ८ तदानघाः - क. । ९ इतः परं पत्रमेकं खण्डितं क. पुस्तके । १० बलो - ख. । ११ कृत्तिकास्ते - ग । १२ प्रग्वं (पुत्रं) चारुपयोधराः - ख । १३ घ पुस्तके भिन्नक्रममेतदाख्यानम् ।
- - - -- - - - - - - - -

845
आगत्य मातरस्तत्र दृष्ट्वा तं तेजसां निधिम् ।
तमेव शरणं जग्मुस्तत्तेजोहृतचेतसः । ।२४।।
आजगाम ततः क्रुद्धः सह व्रातैर्दिवौकसाम् ।
ऐरावतगजस्कन्धमारूढः पाकशासनः । ।२५।।
आगच्छतः सुरान्दृष्ट्वा ननादोच्चैर्महाद्युतिः ।
अभ्यद्रवच्च संक्रुद्धः सिंहो मत्तान् गजानिव१४ । ।२६। ।
बभूवुस्तेन नादेन मुहुर्मूढा दिवौकसः ।
अभूदैरावणस्यापि मदध्वंसः१५ कपोलयोः । ।२७। ।
अर्चींषि च१६ प्रदीप्तानि विससर्ज सहस्रशः ।
त्रिलोचनसुतस्तेषां सुराणां सुरदर्पहा । । २८। ।
अर्च्चिर्भिर्हतकान्तीनि मुखान्यसुरविद्विषाम् ।
बभूवुर्हिमदग्धानि सरोजानि सरःस्विव१७ । । २९।।
अथ वज्रं समादाय ज्वलितं ज्वलनद्युतेः ।
रोषादाताम्रनेत्रान्तो विससर्ज शतक्रतुः । ।8.163.३ ० । ।
तेन वज्रप्रहारेण स द्विमूर्त्तिस्तदाभवत् ।
द्वाभ्यामपि च मूर्त्तिभ्यामभ्यधावत् पुरन्दरम् । ।३ १ । ।
अथ दर्पं विहायाशु प्रणेमे पाकशासनः ।
तेजसां निधये तस्मै प्राह चैवं१८ विनिर्जितः१९ । ।३ २ । ।
गृहाण राज्यमप्येयत्२० प्रार्थनीयं मनस्विनाम् ।
त्वमेव युक्तो२१ लोकानां पालने पावकात्मज ।। ३३ । ।
सत्स्वप्यन्येषु२२ तेजस्सु तमसां२३ विनिहन्तृषु२४ ।
अग्नावेव हविः पुण्यं हूयते - - - - - । ।३४। । - - - - -- - - -- - ।
प्राह प्रभवतां श्रेष्ठो विहस्य विबुधाधिपम् । । ३५ । ।
- - - -- - - - - - - - -
१४ मत्तगजानेव - घ. । १५ समदध्व (त्व) - ख. । १६ स ( ?) । १७ सरेष्विव - ख. ग. । १८ चेत्यं - ग., चैनं (?), चेदं (?) । १९ विनिर्मित - ग, दिवि स्थित ( ?) - ख. । २०... मद्यैव - ग । २१ मुक्तो - ख शक्तो - ग । २२ सत्स्वप्येसु ( षु) च - ख । २३ तपसा - ख । २४ विनिवर्तिषु - ख. ।
- - - -- - - - - - - - -

846
शाधि शक्र त्वमेवेदं राज्यं चिरमभीप्सितम् ।
अनेन बहुदोषेण नाहमर्थी पुरन्दर । । ३६ । ।
निशाम्य तद्वचः श्रीमान् स्कन्दस्याक्लिष्टचेतसः ।
अर्थवद्वचनं श्लक्ष्णं पुनराह शचीपतिः । । ३ ७। ।

- - - - - - - - - - .. - - - - - । । ३ ८। ।
दर्शय नो विचित्राणि कार्यजातान्यनेकधा ।
संगतानि विभिन्नानि - - - - - - - - ।
त्रैलोक्यराज्यग्रहणं स्वनुबद्धमनव्ययम् ।। ३९ । ।
एवमुक्तवति प्राह सम्भवत्यनलद्युतिः२५ ।
स्निग्धगम्भीरया वाचा स्मितपूर्वमिदं वचः । ।8.163.४० । ।
न विचालयितुं चेतः२६ शक्र२७ शक्ता२८ हठान्मम२९ ।
न वारि सरितां पत्युरलातैः संप्रतप्यते । ।४१ । ।
राज्यं राजीवपत्राक्ष न जातु मनसाप्यहम् ।
दोषाणां नित्यमावासं३० कामये३१ पाकशासन । ।४२ । ।
तस्य तद्वचनं श्रुत्वा पुनर्वक्तुमियेष सः ।
सुधानिष्यन्दिभिः स्कन्दं स्नपयन्निव लोचनैः । ।४३ । ।
आकरे३२ तेजसां श्लाघ्ये नैतच्चित्रं त्वयि प्रभो ।
शक्ता एवं३३ न सज्जन्ते भोगेषु सुमहत्स्वपि । ।४४। ।
सेनापत्येभिषिच्यस्व सुराणामर्थसिद्धये ।
वपुः (?) संमानयामीह३४ नाहमाज्ञापये विभो३५ । ।४५। ।
अथ तद्वचनं श्रुत्वा पुरुहूतं महाभुजः ।
द्वादशाक्षः सहस्राक्षमिदमाहोरुविक्रमः । ।४६ । ।
मम प्रभवति श्रीमान् लोकानां प्रभुरव्ययः ।
अनन्यभूरमेयात्मा वृषकेतुः पुरन्दर । ।४७। ।
- - - -- - - - - - - - -
२५ शम्भवत्यनिलद्युतिः - ख. । २६ चैव - क. । २७ शक्रः - ग. । २८ शप्ताः (क्तः) - ग. । २९ शठा मम - ख. ग. । ३० निलयं नित्यं - ग. । ३१ कामोयं - ख. । ३२ आधारे - ख. । ३३ एव - ख. । ३४. माहं - ख,... म्यहं - ग., नाज्ञापकमहं - ख । ३५ प्रभो - ख. ।
- - - -- - - - - - - - -

847
तमाराध्य प्रभुं भक्त्या गृहाणाज्ञां शतक्रतो ।
तामहं प्रतिपत्स्यामि३६ यामसौ दास्यति प्रभुः ।।४८।।
तस्याभिप्रायमाज्ञाय देवदेवो वृषध्वजः ।
आजगाम सपत्नीको दिदृक्षुस्तनयं तदा ।।४९।।
स्वाहया सहितो वह्निर्गङ्गा च सरितां वरा ।
कृत्तिकाश्च सुसंहृष्टाः श्वेतं शिखरिणां वरम् ।।8.163.५०।।
युगपत्ते तदा तत्र श्वेतस्य शिखरोत्तमे ।
चिन्तयामासुरायान्तः कन्नु स्कन्दोभियास्यति ।।५१ ।।
अथ तेषामभिप्रायं ज्ञात्वा मतिमतां वरः ।
षोढा समभवत् स्कन्दो योगीशो बलवत्तदा ।।५२।।
स्कन्दोभ्यगान्महादेवं विशाखो हिमवत्सुताम् ।
नैगमेषो ययौ गङ्गां वह्निं शाखो महाद्युतिः ।।५३।।
स्वाहां जगाम संहृष्टः काकपक्षधरो गुहः ।
कृत्तिकाः३७ षण्मुखः श्रीमान् वेगादभिससार च ।।५४।।
मनोरथान् स सर्वेषां देवदेवात्मजः प्रभुः ।
युगपद्योगिनामीशः पूरयामास मूर्तिभिः ।।५५। ।
अथ तस्मै ददौ शम्भुरस्त्रग्रामं चतुर्विधम् ।
सुधाकणपरिस्रावि चूडारत्नं च पार्वती ।।५६।।
स्वमनोनिर्मलां गङ्गा विशुद्धाममृतोद्भवाम् ।
एकावलिं ददौ तस्मै गुहायोत्फुल्ललोचना ।।५७। ।
द्विषत्प्राणहरां गुर्वीममोघां हव्यवाहनः ।
अर्चिष्मतीं ददौ चास्मै शक्तिं शक्ताय सूनवे ।।५८।।
पताकां महतीं रक्तां ज्वलत्पावकसप्रभाम् ।
किङ्किणीनादितां दिव्यां प्रादात् स्वाहा महात्मने ।।५९।।
सुपुण्यगन्धामुत्फुल्लां स्वरजःपरिपिञ्जराम् ।
कृत्तिकाश्च ददुस्तस्मै३८ मालामञ्चितकेसराम् ।।8.163.६० । ।
- - - -- - - - - - - - -
३६ प्रतिवक्ष्यामि - . ३७ कृत्तिकां - क. ख । ३८ ददौ तस्मै - क ।
- - - -- - - - - - - - -

848
अथाजग्मुः सुराः सर्वे पितामहपुरःसराः ।
श्वेताद्रेः शिखरं रम्यं वृषकेतुं दिदृक्षवः । । ६१ ।।
तानागतान् समं सर्वान् तदा तत्र दिवौकसः ।
दृष्ट्वा संभावयामास महादेवः प्रसन्नया । ।६२ । ।
प्रणम्य देवदेवेशं३९ लब्ध्वानुज्ञां४० दिवौकसः ।
शिलासु शशिगौरीषु निषेदुरमितौजसः । ।६३ । ।
प्रोत्तुङ्गशिखरः श्वेतो द्युतिमानपि भूधरः ।
तेजसां सन्निपातेन बभूव द्युतिमत्तरः । ।६४। ।
अथ प्रचोदितः सर्वैर्विबुधैर्विबुधाधिपः ।
व्यज्ञापयन्महादेवं प्रणम्य वदतां वरः । । ६५। ।
तारकाख्येन नो लक्ष्मीरामृष्टा४१ प्रसभं प्रभो ।
वज्रं वक्षःस्थले तस्य कठिने कुण्ठतां४२ ययौ ।। ६६ ।।
चक्रं हरेः सहस्रारं ज्वलितं ज्वलितौजसः ।
आसाद्य मृदुतां भेजे कण्ठं तस्यामरद्विषः ।। ६७। ।
दण्डो वैवस्वतस्यापि प्रदीप्तानलभास्वरः४३ ।
अलातमिव तोयौघे निर्वाणो दानवोरसि । । ६८ ।।
समरे रिपुदुर्वारो महापाशः प्रचेतसः ।
तस्य कण्ठे समभवन्मन्त्रेणेव वशीकृतः४४ ।। ६९। ।
उत्पाट्य४५ प्रसभं तेन नन्दने कल्पपादपाः४६ ।
निवेशिता यथाकामं स्वगृहोद्यानभूमिषु ।।8.163.७० ।।
समीपे तस्य साशङ्कस्तालवृन्तायतेनिलः ।
स्वपुष्पनिकरैर्भीता ऋतवस्तमुपासते । ।७१ । ।
हविर्भुजि हुतं हव्यमाच्छिनत्ति बलादसौ ।
मिषतां सर्वदेवानां देवदेव दितेः सुतः । ।७२ । ।
- - - -- - - - - - - - -
३९ देवदेवाय - क. ख. ग. । ४० लब्धानुज्ञा - क., लब्धानुज्ञा - ग. । ४१... रामिष्टा - क.,.. राशिष्टा - ग. । ४२ कुण्ठितां - ख., कुण्ठितं (?) । ४३ भासुरः - वा. । ४४ वशीकृते - ख. । ४५ उत्पाट्याप्रसभं क. । ४६ पादपान् - क. ।
- - - -- - - - - - - - -

849
अभिषिच्य सुराः स्कन्दं सेनापत्ये महाद्युतिम् ।
जेतुमिच्छन्ति दैत्येन्द्र प्रसादात्तव शङ्कर । ।७३ ।।
एवं विज्ञापितस्तत्र वज्रिणा वृषभध्वजः ।
दादावनुज्ञां स्कन्दाय४७ सेनापत्याभिषेचने । ।७४।।
अथ विबुधसमूहैर्वन्दितो वन्दनीयो
मदनतनुविहन्ता बालचर्न्द्रार्धमौलिः ।
तनयमभिसमीक्ष्य स्नेहसzफुल्लनेत्रः
शशिकिरणसिताद्रेराशु सोन्तर्बभूव ।।७५।।
इति स्कन्दपुराणे स्कन्दाभिषेकानुज्ञाने त्रिषष्ट्युत्तरशततमोध्यायः४८

सनत्कुमार उवाच
अथ ते स्कन्दमादाय सुरा ब्रह्मपुरस्सराः ।
समन्तपञ्चकं पुण्यमाजग्मुरमितौजसः । ।१ ।।
तस्मिँस्तीरे सरस्वत्याः प्रागुदक्प्रवणे समे ।
विस्तीर्णे श्वभ्रपाषाण१ कण्टकोषरवर्जिते ।। २।।
स्कन्दस्य२ परितः सर्वे तदा संहृष्टचेतसः ।
निषेदुस्ते सुरश्रेष्ठा३ ज्वलितानलवर्चसः । । ३ । ।
तत् पुण्यममरैः पृक्तं स्थानं पुण्यतरं४ पुनः ।
अभूद् गाङ्गैरिवाम्भोभिः समेतं५ यामुनं पयः । ।४।।
आजगामाथ तं देशं क्षितिर्मूर्त्तिमती तदा ।
स्कन्दाभिषेके सञ्जाते हर्षसंफुल्ललोचना ।।५ । ।
अथासौ क्षिप्रमभवद् देशः कनकबालुकः ।
विचित्रः परितश्चित्रैः स्फुरद्रत्नगभस्तिभिः ।।६ ।
- - - -- - - - - - - - -
४७ स्कन्दस्य (?) । ४८ २११ - ख. पु. ।

१ स्वर्णपाषाण - ख. । २ स्कन्दञ्च (?) । ३ विषेदुरमरश्रेष्ठा - ख. । ४ पुण्यतमं - क. । ५ संपृक्तं (?) ।
- - - -- - - - - - - - -

850
अध्यासत महात्मानो यं देशमपमत्सराः ।
निरस्तदुरितः सोभूत्तत्र७ तेषां विभूतिभिः ।।७। ।
अथ सिंहासनं दिव्यं शातकुम्भं सुसंस्कृतम् ।
गृहीत्वा गिरिभिः सार्धमाजगाम हिमलयः१० ।।८।।
रत्नैरोषधिभिर्गन्धैः पूर्णान् पुण्यैश्च वारिभिः ।
आदाय कलाशान् हैमान् फुल्लाम्बुरुहमालिनः ।।९।।
उदन्वन्तः सुसम्भ्रान्ताः प्रचलन्मणिकुण्डलाः ।
आजग्मुस्त्वरितास्तत्र हारविभ्राजितोरसः ।।8.164.१ ०।।
गङ्गा रत्नमयाँश्चारून् कलशान्११ स्फुरितत्विषः ।
हैमाम्बुजकृतोत्तंसान् पूर्णान् परमवारिणा ।।१ १ ।।
गृहीत्वा सह सर्वाभिस्सरिद्भिस्सरिताम्बरा ।
आजगाम तदा हर्षात् प्रस्खलन्ती समेष्वपि ।।१ २।।
अभिषेचनिकान् कुम्भान् ग्राहयित्वा सुसंस्कृतान् ।
नानारत्नप्रभोद्योतप्रतिरक्तार्कदीधितीन् ।।१३ ।।
देवीभिः सह बह्वीभिराजगाम दिवौकसाम् ।
आक्रामन्तीव तेजांसि तेजसा स्वेन पार्वती ।।१४।।
अद्भिः परमपुण्याभिः पूर्णान् रत्नांशुमालिनः ।
कलशान् स्फाटिकान् शुभ्रान्१२ ग्राहयित्वा सुसंस्कृतान् ।।१५।।
मुकुटं च महच्छ्रलाघ्यं दीप्तिमच्चारुविग्रहम् ।
नानारत्नविवित्रांशुसमूहस्फुरितोदरम् । ।१६।।
हारञ्च निर्मलं१३ शुद्धं शशाङ्ककिरणत्विषम् ।
कान्तं मुक्तावितानञ्च१४ चेतोहारि सुनिर्मलम्१५ । ।१७।।
अभ्यागमत्तदा तत्र प्रहृष्टो यादसां पतिः ।
दानवाधिपमातङ्गविषाणोल्लिखिताङ्गदः ।।१८।।
- - - -- - - - - - - - -
६ अध्यासन्त - क. ख. । ७ शश्वत्तत्र - ख., सश्च - क । । ८ विभूतयः - क. ख । ९ शातकुम्भसुसंस्कृतम् - क. । १० हिमाचलः - ख. । ११.. श्चारुकलशान् - ख. । १२ स्फाटिकमयान् - क. ख । १३ निस्ततं - क, कान्तमुक्तावितानञ्च - ख. । १४ चेतसां हारनिर्मलम् - क. ख, हारि.? (?) । १५ निर्मलम् - क ख. ।
- - - -- - - - - - - - -

851
रत्नाङ्गदानि चारूणि द्युतिमन्ति धनेश्वरः ।
समादायाभ्यगात् सारं सर्वासामिव सम्पदाम् । ।१ ९।।
निशाकरांशुगौराणि१६ दीर्घाणि रुचिमन्ति च ।
आदाय रत्नदण्डानि चामराणि नहाद्युतिः१७ ।। 8.164.२० ।।
वैवस्वतोपि सं१८पूर्णशरच्चन्द्रांशुनिर्मलम् ।
प्रोद्वहन् वक्षसा हारमाजगाम तदन्तिकम् । ।२१ ।।
आतपत्रापदेशेन ददौ तस्मै महात्मने ।
फलं सुराधिपत्यस्य समग्रमिव वासवः । ।२२। ।
भूषयन्तस्तरूँस्तत्र खपुष्पानेकरोद्गमैः ।
ऋतवस्तं तदा देशमाजग्मुस्तुष्टचेतसः ।।२३ । ।
अरुन्धती शची स्वाहा सिनीवाली गिरीन्द्रजा ।
अदितिर्देवमाता च निशा सानुमतिः१९ कुहूः ।।२४। ।
ह्रीः श्रीः पुष्टिर्दिशो२० द्यौश्च सुताः सर्वाः प्रजापतेः ।
राका च धिषणा चैव सुरभिर्देवयोषितः । ।२५। ।
ओषध्यो मूत्तिमत्यश्च कौशिको वनदेवता ।
अहः काष्ठा मुहूर्ताश्च मासाः संवत्सरः कलाः । । २६।।
ऐरावणः सुप्रतीको वामनः कुमुदोञ्जनः ।
पुष्पदन्तो महापद्मः२१ सार्वभौमश्च दिग्गजाः ।
आभिषेचनिकं सर्वमुपनिन्युर्महात्मनः२२ ।। २७।।
ज्वलितवह्निसमानरुचो जटाः परिनियम्य हिमाचलवासिनः ।
तमभिजग्मुरुदीर्णतपोबला मुनिवरा मुदिता दहनात्मजम् ।।२८ ।।
विबुधसद्मरता ज्वलितौजसस्त्रिदशवन्दितपादसरोरुहाः२३ ।
ऋषिगणास्त्वरिताभिययुर्गुहं२४ नियमितोर्जितनित्यतपःक्रियाः२५ । ।२९।।
- - - -- - - - - - - - -
१६ निशाकरोंशुगौराणि - ख. । १७ महाद्युते (तेः) - क । १८ यत् - क. । १९ सानुमती - क. । २० ह्रीः पुष्टिर्विदिशो - ख. । २१ पुष्पदन्तः पुण्डरीकः (?) । २२ अभिषेचनिकीः सर्वे अपो निन्युर्महात्मनः - ख. । २३. पादविवन्दिसरोरुहाः - क । २४ र्गृहं - क. । २५ नियमिता नियतेन्द्रिय.., - ख. ।
- - - -- - - - - - - - -

852
समुदिता मुदितोत्सुकमानसाः कमलयोनिसुताश्च महौजसः ।
तमभिजग्मुरुदारयशोभृतस्त्रिनयनात्मजमग्र्यबलोदयम् । ।8.164.३ ० । ।
अभिययुस्त्वरिता भुजगेश्वराः स्वफणिरत्नमरीचिवितानिनः२६ ।
विषभृतोप्यतिसौम्यवपुर्धरा दहनसूनुमलंघ्यपराक्रमम् ।। ३१ । ।
उपययुर्गरुडाश्च विमत्सरा भुजगराजसुरूढबलोदयाः ।
द्रुततरं तरुणार्कसमद्युतिं पवनवेगविजिह्मितपादपाः । । ३२ । ।
ननृतुरायतलोलविलोचना विविधभावविलासरसान्विताः ।
परमयौवनरूपगुणान्विताः२७ प्रमुदिताः परितोप्सरसोलसाः ।।३ ३ ।।
विविधपुष्परजोरुणमूर्त्तयः सुरभिगन्धवहा विववुस्तदा ।
विरजसोतितरां मृदुवृत्तयो२८ विबुधचित्तसुखाश्च समीरणाः । ।३४।।
आभिषेचनिकं कृत्स्नं विधिं तस्य बृहस्पतिः ।
समिद्ध्य ज्वलनं सम्यक् चचार शरजन्मनः । ।३५ ।।
आशीर्भिराशिषां धाम समाश्लिष्य शिवात्मजम् ।
स्तुत्यं स्तुतिभिरग्र्याभिस्तुष्टुवुर्मुनयस्तदा ।।३६।।
मङ्गलानि जगुस्तस्य गन्धर्वा नारदश्च यः ।
प्रतिसार्य तदा वीणां तारं रक्तमनाकुलम् ।। ३७।।
अथ तं दक्षिणे पाणौ गृहीत्वा कृतमङ्गलम् ।
गुरुः सिंहासने तस्मिन् प्राङ्मुखं संन्यवेशयत्२९ । ।३८। ।
अनाहतास्तदा व्योम्नि नेदुरुच्चैर्दिवौकसाम् ।
भृशं दुन्दुभयश्चित्राः सम्यक् चेतोपहारिणः । ।३ ९ ।।
मत्तद्विरेफसंगीताः स्वकिञ्जल्कारुणत्विषः ।
पुण्यगन्धा विचित्राश्च निपेतुः पुष्पवृष्टयः । ।8.164.४० ।।
चतुर्भिर्वदनैः स्कन्दं स्तुवन् गीर्भिः प्रजापतिः ।
आददे कलशं पूर्वं पूर्णं पुण्येन वारिणा । ।४१ ।।
- - - -- - - - - - - - -
२६ विकाशिनः - च । २७ गुणाचिताः - ख. । २८ मृविवित्तदा (?) - क । २९ स न्यवेशयत् - क. ख. ग. ।
- - - -- - - - - - - - -

853
समाधायाम्बरं पीतं ततो विष्णुः समाददे ।
कलशं कौस्तुभमणेः परामृष्टं३० गभस्तिभिः । ।४२।।
ततः केयूररत्नांशुखचितं पाकशासनः ।
उत्तरीयं नियम्याशु जग्राह कलशं तदा ।।४३ ।।
निबध्य शशिलेखाङ्का जटा ज्वलनपिङ्गलाः३१ ।
जगृहुः कलशान् रुद्रा भुजङ्गकृतकङ्कणाः । ।४४। ।
बिभ्रतोपि परां दीप्तिं सुखसंस्पर्शमूर्त्तयः ।
आदित्या३२ जगृहुः पूर्णान् कलशान् पुण्यवारिभिः ।।४५।।
वसवोपि सुरेन्द्रारिगजदन्तक्षतोरसः ।
आददुः कलशाँस्तत्र पूर्णान् पुण्येन वारिणा ।।४६। ।
अश्विनावपि पुण्याभिः पूर्णावद्भिः सुसंस्कृतौ ।
आददाते तदा कुम्भौ हैमौ रत्नांशुमालिनौ ।।४७। ।
कुम्भानाददिरे तत्र ज्वलना ज्वलितत्विषः ।
हैमाम्बुरुहसंछन्नान् चित्रान् रत्नगभस्तिभिः । ।४८। ।
नागगन्धर्वराजानो लोकपाला मरुद्गणाः ।
ऋषयो बालखिल्याश्च३३ पितरः पतगेश्वराः । ।४९। ।
धर्मो धाता विधाता च कालो मृत्युर्वसुन्धरा३४ ।
सन्ध्या कान्तिर्धृतिर्मेधा कीर्तिर्लक्ष्मीः सरस्वती । ।8.164.५ ० ।।
समुद्रास्सरितो वेदास्तीर्थानि गिरयो ग्रहाः ।
कुम्भानाददिरे तत्र पूर्णान् परमवारिणा ।।५१ । ।
अथ ते हृष्टमनसः प्रहृष्टं पावकात्मजम् ।
अभ्यषिञ्चन् तदा सर्वे सेनापत्ये महौजसम् ।।५२। ।
जयशब्दं ततश्चक्रुः समं सर्वे दिवौकसः३५ ।
जयिनः शर्वपुत्रस्य३६ ऋषयश्च समागताः ।।५३ ।।
- - - -- - - - - - - - -
३० पृष्टं - क । ३१ ज (ज्व) लज्वलन पिंङ्गलाः - क ख । ३२ सूर्याश्च - क ख. । ३३ बालि- खिल्याश्च - क. ख. ग. । ३४ वसुन्धराः क. ख. ग. । ३५ सम सर्वदिवौकसः - क., सममेव दिवौकसः - ग. । ३६ सर्वभूतस्य - ख. ।
- - - -- - - - - - - - -

854
जग्राह मघवा तस्य३७ श्वेतमातपवारणम् ।
सर्वरत्नप्रभाव्रातवितानपरिवेषवत् । ।५४। ।
दुधुवुश्चामरैर्दीर्घैः शरच्चन्द्रांशुनिर्मलैः३८ ।
परितो रत्नदण्डैश्च लोकपाला महाद्युतिम् । ।५५।।
अमृतादुत्थितं दिव्यमुपनीतं प्रचेतसा ।
मौलिमारोपयाञ्चक्रे३९ सुतस्य हिमवत्सुता । ।५६। ।
हेमावदाते४० विस्तीर्णे शशाङ्ककिरणद्युतिम् ।
तस्य वक्षःस्थले हारं बबन्ध सरितां वरा । ।५७। ।
हारेणालंकृतं वक्षः किन्नु हारो गुहोरसा ।
इति तत्र वितर्कोभूत्तदा विबुधसंसदि । ।५८। ।
आबबन्ध महाबाहोरङ्गदानि स्वलंकृता४१ ।
भुजेषु पारणालानस्तम्भपीनेष्वरुन्धर्ता४२ । ।५९।।
दीप्तिमान् पावकसुतस्तदाभूद्दीप्तिमत्तरः ।
सर्पिषा हूयमानेन ज्वलितोग्निरिवाध्वरे । ।8.164.६ ० ।।
ददौ तस्मै चतुर्वक्त्रः प्रभुः प्रीतो महात्मने ।
महापारिषदान् शूरान् बलिनः कामरूपिणः ।।६१ । ।
घण्टाकर्णं सुरक्ताक्षं नन्दिषेणं च दुर्जयम् ।
चतुर्थं बलिनां श्रेष्ठं ख्यातं कुमुदमालिनम् । ।६२ । ।
ददौ स्थाणुर्महावीर्यं४३ महापारिषदं क्रतुम् ।
संप्रवृत्ते तदा घोरे संग्रामे तारकामये ।।६३ ।।
क्रुद्धो जघान दैत्यानां योयुतानि४४ चतुर्दश ।
विबुधाश्च ददुस्तस्मै सेनां नैर्ऋतसंकुलाम् । । ६४।।
दैत्ययक्षक्षयकरीमजेयां४५ विश्वरूपिणीम् ।
ददौ वैवस्वतस्तस्मै महापारिषदावुभौ ।।६५।।
- - - -- - - - - - - - -
३७... न्तस्य - क. ख. । ।। ३८ सरश्चन्द्रसुनिर्मलैः - क. । ३९... मारोपमामास - ख । ४० हैमावदाते - ग. । ४१ स्वलंकृतां - क. ग । ४२... नालस्तम्भपीनेस्वरुन्धती - क, काल ... - ख । ४३ महावीर्यो - ख. । ४४ प्रयुतानि - क. ख. । ४५ मजेयं - क. ग ।
- - - -- - - - - - - - -

855
उन्माथञ्च४६ प्रमाथञ्च महावीर्यपराक्रमौ ।
सुभ्राजं भास्वरञ्चैव ददौ सूर्योनुयायिनौ । ।६६। ।
कार्त्तिकेयाय संहृष्टो रणे परमदुर्जयौ ।
कैलासशिखराकारौ श्वेतस्रगनुलेपनौ ।।६७। ।
चन्द्रमापि ददौ तस्मै मणिं सुमणिमेव च ।
ज्वालाजिह्वं तथा ज्योतिमात्मजाय विभावसुः । ।६८ ।।
ददौ परमसंप्रीतः शत्रुसैन्यनिबर्हणौ ।
परिघं पटहं४७ भीमं दहातिदहनौ तथा ।।६९। ।
अंशोप्यनुचरान् पञ्च ददौ स्कन्दाय धीमते ।
उत्क्रोशं सत्वरञ्चैव वज्रदण्डधरावुभौ ।।8.164.७० ।।
सुताय देवदेवस्य ददौ प्रीतः शतक्रतुः ।
चक्रं विक्रमकञ्चैव संक्रमञ्चातिदुर्जयम् । ।७१ । ।
ददौ ज्वलनपुत्राय विष्णुः प्रीतो महायशाः ।
वर्द्धनं नन्दनञ्चैव सर्वविद्यान्तगावुभौ४८ । ।७२। ।
स्कन्दाय ददतुः४९ प्रीतावश्विनौ५० च महाबलौ ।
कुन्दरं कुमुदं चोग्रं कुमुदञ्च महाबलम् । ।७३ ।।
डम्बराडम्बरौ५१ चौभौ ददौ धाताग्निसूनवे ।
वक्रानुवक्रौ बलिनौ मेषास्यौ५२ दुर्जयौ रणे । ।७४। ।
ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ ।
सुव्रतं सत्यसन्धञ्च ददौ मित्रो महात्मने ।।७५।।
सुप्रभञ्च महामायं शुभकर्माणमेव च ।
प्रादाद्विधाता स्कन्दाय शत्रुपक्षनिषूदनौ ।।७६।।
पालिन्तकं महावीर्यं कालकञ्च महाबलम् ।
ददौ पारिषदौ५३ पूषा स्कन्दायामिततेजसे । ।७७।।
- - - -- - - - - - - - -
४६ प्रमथञ्च - ग. । ४७ वटकं (हं) - क, पट्टहं - ख । ४८ विद्योत्तमाबुभौ - क. । ४९ प्रददुः - ख. । ५० अश्विनौ - क । ५१ डम्बरोदुम्बरौ - ख. । ५२ मेघास्यौ - क ख. । ५३ च पार्षदौ - क. ।
- - - -- - - - - - - - -

856
बलञ्चातिबलञ्चैव महाकायौ महाबलौ ।
प्रददौ कार्त्तिकेयाय वायुः प्रीतो महात्मने ।।७८ ।।
घसञ्च प्रघसञ्चैव तिमिवक्त्रौ महोदरौ५४ ।
ददौ ज्वलनपुत्राय वरुणः पाशधारिणौ ।।७९। ।
सुवर्चसं महावीर्यं तथा चाप्यतिवर्चसम् ।
हिमवान् प्रददौ तस्मै स्कन्दायातिबलावुभौ । ।8.164.८० । ।
काञ्चनञ्च महामायं तथा जीमूतमालिनम् ।
ददावनुचरौ मेरुरुभौ५५ ज्वलनसूनवे । ।८ १ । ।
स्थिरञ्चातिस्थिरञ्चैव तथा परिषदावुभौ ।
पुनर्ददौ महामेरुः स्कन्दायामिततेजसे । ।८२ ।।
उच्छृङ्गं च विशृङ्गं५६ च शिलापाषाणयोधिनौ ।
प्रादाद्विन्ध्यो महासत्वौ स्कन्दाय ज्वलितौजसे ।।८३ ।।
संग्रहं विग्रहं चैव समुद्रश्च गदाधरौ ।
प्रददौ कार्त्तिकेयाय महापारिषदौ तदा । ।८४। ।
उन्मादं५७ पुष्पदन्तं च शङकुकर्णञ्च दुर्जयम् ।
महावीर्यान्महासत्वान् प्रादात् पुत्राय पार्वती ।।८५।।
जयं महाजयं चैव ददुर्नागा महात्मने ।
ददौ च५८ परमप्रीतः स्कन्दाय वृषवाहनः ।।८६। ।
बहून्पारिषदाञ्छूरान् समरे दुर्जयान्परैः ।
गजकर्णं निकुम्भञ्च पद्मं कुमुदमेव च । ।८७। ।
सनन्दं द्वादशभुजं तथा कृष्णोपकृष्णकौ५९ ।
कृतग्रीवं कपिस्कन्धं काञ्चनाक्षं जलन्धमम् । ।८८ ।।
अक्षिसन्तर्दनं कुण्ठं६० पार्श्वग्रीवं महोदरम् ।
एकाक्षं द्वादशभुजमेकपादं६१ महाजटम् ।।८९।।
- - - -- - - - - - - - -
५४ समुद्रश्च गदाधरौ - ख. । ५५ उभौ - क. ख । ५६ उच्छृतं पातिशृङ्गं (?) - क. । ५७ उन्नादं (?) । ५८ स - ख । ५९ कृष्णापकृष्णकौ - क. । ६० क्रुष्ठ - ख. । ६१ द्वादशभजं वक्त्रपादं - ख ।
- - - -- - - - - - - - -

857
सहस्रबाहुं विकचं व्याघ्रास्यं क्षितिकम्पनम् ।
पृष्ठवक्त्रं सुनामानं पार्श्वाननमहाननौ ।। 8.164.९० । ।
परिस्रुतं कोकनदं प्रियमाल्यानुलेपनम् ।
अजोदरं६२ गजस्कन्धं स्कन्धाक्षं शतलोचनम् । ।९१ । ।
ज्वालाजिह्वं करालं च६३ शितकेशं ततोदरम्६४ ।
अष्टजिह्वं चतुर्दंष्ट्रं मेघनादं पृथूदरम् ।।९२ ।।
विद्युदक्षं धनुर्वक्त्रं६५ जरठं६६ मारुताशनम ।
उदराक्षं झषाक्षं६७ च वज्रनाभं च सुप्रभम्६८ ।।९३।।
समुद्रवेगं गोकर्णं शैलकम्पनमेव च ।
पत्रमेषं प्रबाहुं६९ च तथा नन्दोपनन्दकौ । ।९४। ।
धूम्रं श्वेतं कलिङ्गं च सिद्धार्थं वरदं तथा ।
प्रियकं७० गर्दभास्यं च गोनर्दं७१ भूततापनम् ।।९५ ।।
आनन्दं च प्रमोदं च स्वस्तिकं ध्रुवकं तथा ।
क्षेपवापं७२ सुजातं च सिद्धयात्रं महावरम् ।।९ ६ । ।
गोव्रजं कनकापीडं महापार्श्वं महोदरम् ।
गायनं हसनं चैव बाणखङ्गधरं७३ प्रभुम् । । ९७। ।
वैतालिं चातितालिं च तथा शठिकवातिकौ ।
मांसजं पङ्कदिग्धं च समुद्रोन्माथमव्ययम् ।।९८।।
रणोत्कटं प्रभासं च श्वेतमूर्धानमच्युतम् ।
कालकण्ठशरीरञ्च७४ कुष्माण्डं शत्रुतापनम् ।। ९९ ।।
गोमायुवक्त्रं श्येनास्यं भूतलोन्माथनं तथा ।
यज्ञवाहं प्रवाहं च काकास्यं काकलोचनम् ।।8.164.१ ०० । ।
मञ्जुलं वक्रनासं च महानासं गजोदरम् ।
तुहनं च तुहानं७५ च चित्रदेवमजं७६ खरम् । । १०१ । ।
- - - -- - - - - - - - -
६२ अञ्जोदरं - क. । ६३ करालास्यं - ख । ६४ नतोदरम् - ख । ६५ धनुष्कण्ठ (?) - क । ६६ जठरं - क. ख. । ६७ मयाक्षं - ख । ६८ वसुप्रभम् - ख. । ६९ प्रवाह - क. । ७० प्रियाक्षं (?) । ७१ गोनर्दं - ख. । ७२ क्षेमवापं - ख । ७३ पाण्योः खड्गधरं - ख. । ७४ बालकण्ठशरीरञ्च - ख. । ७५ तुदानं - ख. । ७६ चित्रदेहमजं (?) ।
- - - -- - - - - - - - -

858
मधुरं सुप्रसादं च किरीटं भकुटोत्कटम्७७ ।
वसनं मधुवर्णञ्च७८ कलशं कलशोदरम् ।। १०२ ।।
रेवन्तं७९ मन्मथकरं सूचीवक्त्रं गजाननम् ।
श्वेतवक्त्रं सुवक्त्रं च चारुवक्त्रं च पाण्डरम् । । १०३ ।।
कण्ठबाहुं सुबाहुं च बकं कोकिलकं तथा ।
अचलं कनकाक्षं च बलानामग्रनायकम् ।। १ ०४। ।
सञ्चारं च कोकमुखं गृध्रास्यं जम्बुकं तथा ।
लोमशञ्च जरास्यं च उष्ट्रग्रीवं कमण्डलुम्८० । ।१ ०५।।
दण्डकं दीर्घवक्त्रं च हंसवक्त्रं महाबलम् ।
टुण्डुकं८१ शतपादं च शताक्षं चापपृष्ठक्रम् । । १० ६।।
शिक्षकं चापवक्त्रं च शाखवक्त्रं८२ च कुण्डकम् ।
महायोगान्महासत्वान् सततं ब्रह्मचारिणः ।। १ ०७।।
अप्रधृष्यान्महावीर्यान् समरे रिपुसूदनान् ।
नानाशस्त्रप्रहरणान् नानारूपान् महौजसः । । १०८ । ।
नानावक्त्रैः परिवृतान् गणैश्च गणनायकान् ।
गजेन्द्रचर्मवसनान् व्याघ्रकृष्णाजिनाम्बरान् । । १० ९।।
रक्तकेशान् हरिश्मश्रून् मुण्डान् दिग्वाससोपरान् ।
जटिनः पिङ्गनेत्राँश्च भुजङ्गकृतमेखलान् ।। 8.164.११० । ।
पन्नगाङ्गदिनः शूराञ्छ्वसद्भोगीन्द्रकुण्लान् ।
पावनैः परिदिग्धाङ्गान्८३ भस्मभिश्चन्द्रपाण्डरैः ।। ११ १।।
नृत्यतो वल्गमानाँश्च हासोत्फुल्लविलोचनान् ।
गणैः परिवृतानन्यैर्बहुभिर्गणनायकान् ।। ११२ । ।
कूर्मकुक्कुटवक्त्रैश्च शशगोधावृकाननैः ।
खरोष्ट्राश्वमुखैर्भीमैर्वराहमहिषाननैः । । ११३ । ।
- - - -- - - - - - - - -
७७ किरीटम (मु) कुटोत्कटम् - ख. । ७८ मधुपर्णञ्च - ख । ७५ एवन्तं - ख. । ८० कमण्डलं (?) । ८१ कन्डुकं - ख. । ८२ शाखावक्त्रं - क. । ८३ परिदुग्धाङ्गान् - ख. ।
- - - -- - - - - - - - -

859
मनुष्यमेढवक्त्रैश्च८४ श्वशृगालमृगाननैः ।
भीमैर्मकरवक्त्रैश्च शिशुमाररुषाननैः ।
मार्जारवृकवक्त्रैश्च८५ दीर्घवक्त्रैरवक्त्रकैः । ।१ १४।।
लकुलोलूकचक्राह्वशतपत्रनिभाननैः ।
आखुबभ्रु विडालानां तुल्यास्यै रिपुदुर्जयैः ।। ११ ५। ।
छागमेषमुखैश्चान्यैः शुककारण्डवाननैः ।
ऋक्षशार्दूलवक्त्रैश्च द्विपिसिंहाननैस्तथा८६ ।। ११ ६।।
भीमैर्द्विरदवक्त्रैश्च८७ तरक्षुवदनैस्तथा८८ ।
गरुडक्रोष्टुकास्यैश्च काककोकिलवक्त्रकैः ।। १ १७। ।
गोवानरमुखैश्चान्यैः८९ श्येनगृध्रमुखैस्तथा ।
महाजठरपादाङ्गैस्तारकाक्षैर्महाबलैः । ।१ १८ ।।
पारावतमुखैश्चान्यैः कृकवाकुमुखैस्तथा ।
लावतित्तिरिवक्त्रैश्च कृकलासमुखैरपि ।। ११ ९।।
पीतकौशेयवासोभिश्चीरवल्कलधारिभिः ।
फणीन्द्रानद्धगात्रैश्च चित्रगोनसकङ्कणैः९० । ।8.164.१ २० । ।
स्थूलोदरैः कृशाङ्गैश्च स्थूलाङ्गैश्च कृशोदरैः ।
ह्रस्वग्रीवैर्महाकर्णैर्नानाव्यालविभूषणैः ।। १२१ । ।
गजेन्द्रचर्मवासोभिः शूरैः समरदुर्जयैः ।
स्कन्धवक्त्रैरवक्त्रैश्च पृष्ठास्यैः सर्वतोमुखैः । ।१ २२। ।
नानाकृतिभुजैर्वीरैर्नानाभुजगभीषणैः९१ ।
नानावेषै९२ महायोर्गर्नानास्थाननिवासिभिः । । १२३ । ।
नानावस्त्रधरैश्चान्यै९३ र्नानामाल्यानुलेपनैः ।
नानाचर्माम्बरैरन्यैर्नानाभरणधारिभिः ।।१ २४।।
उष्णीषिभिर्मुकुटिभिः कम्बुग्रीवैः सुसंस्थितैः ।
किरीटिभिः पञ्चशिखैर्जटामुकुटधारिभिः ।।१ २५।।
- - - -- - - - - - - - -
८८ मेषवक्त्रैश्च - ख, मृष - क. । ८५ शुकवक्त्रैश्च - क. । ८६ तरक्षुवदनैस्तथा - क । ८७ द्वीपिसिंहाननैश्चैव - क. । ८८ भीमैर्दिरदवक्त्रकै. - क. । ८९ गोधानरमुखैश्चान्यैः (?) । ९० गोनासकङ्कणैः (?) । ९१ भूषणैः (?) । ९२ नानावेगै - ख? । ९३ नानावक्त्रधरैश्चान्यै - क. ।
- - - -- - - - - - - - -

860
त्रिशिखैर्द्विशिखैश्चापि९४ तथा सप्तशिखैरपि ।
शिखण्डिभिर्दीर्घजटैर्मुण्डैः कपिलमूर्धजैः ।। १ २६।।
चित्राक्षकैश्चित्रमुखैश्चित्रस्रगनुलेपनैः ।
चित्राम्बरधरैः वीरैः सततं प्रियविग्रहैः९५ । । १२७। ।
कृष्णनिर्मांसवक्त्रैश्च९६ दीर्घपृष्ठैः कृशोदरैः ।
स्थूलपृष्ठैर्महाग्रीवैर्लम्बोदरमहोदरैः९७ ।।१ २८।।
महाभुजैर्महावक्त्रैर्ह्रस्वग्रीवैः कृशाननैः ।
कुब्जैभ्र दीर्घजंघैश्च हस्तिकर्णशिरोधरैः । ।१ २९। ।
दीर्घोष्ठर्दीर्घजिह्वैश्च९८ दीर्घाक्षैर्दीर्घनासिकैः ।
महादंष्ट्रैः सुदंष्ट्रैश्च चित्रदंष्ट्रैर्महाबलैः । । 8.164.१३० । ।
सुविभक्तशरोरैश्च दीप्तिमद्भिः स्वलंकृतैः ।
पिङ्गलाक्षैर्महाकर्णैः शंकुकर्णैरकर्णकैः ।। १३१ ।।
दीर्घदंष्टैः पृथूरस्कैः स्थूलोष्ठै९९र्हरिमूर्धजैः ।
नानापादोष्ठदंष्ट्रैश्च नानाहस्तशिरोधरैः । । १३ २।।
नानाचर्मभिराच्छन्नैर्नानावासोभिरावृतैः ।
हृष्टैः परिपतद्भिश्च नृत्यद्भिश्च महारवैः । ।१ ३३ ।।
लम्बकर्णैर्महोरस्कैर्नीलकण्ठै१०० स्त्रिलोचनैः ।
शुकोदरनिभैः कैश्चित् कैश्चिदञ्जनसन्निभैः । ।१ ३४।।
श्वेताङ्गैर्लोहितग्रीवैः पिङ्गाक्षैर्भीमदर्शनैः ।
कल्माषपाणिपादैश्च जातीहिङ्गुलकप्रभैः१०१ । । १३ ५। ।
चामीकरापीडनिभैः१०२ श्वेतैर्लोहितराजिभिः१०३ ।
राजावर्त्तसवर्णैश्च१०४ मयूरसदृशप्रभैः ।।१ ३ ६। ।
पाशोद्यतकरैः१०५ कैश्चिद् व्यात्तवक्त्रै१०६ र्महारवैः ।
पिङ्गाक्षैर्नीलकण्ठैश्च महापरिघबाहुभिः ।। १३७।।
- - - -- - - - - - - - -
९४ श्चैव - क. ख । ९५ विग्रहप्रियैः (?) । ९६ निर्माल्यवस्त्रैश्च (?) । ९७ प्रलम्बोदरमेहनैः (?) । ९८ दीर्घजंघैश्च - ख. । ९९ स्थूलाक्षै - ख. । १००. नीलकर्णै. - क., नीलकण्ठैः - ख. । १०१ जातिहिङ्गु- लकप्रभैः - ख. । १०२. पीतनिभैः - ख. । १०३ श्वेतलोहितराजिभिः (?) । १०४ लाजावर्तसवर्णैश्च (?) । १०५ पादोद्यतकरैः - ख. । १०६ व्याघ्रवक्त्रै - क ।
- - - -- - - - - - - - -

861
शतघ्नीशक्तिहस्तैश्च गदामुशलपाणिभिः ।
शूलासिपाणिभिः कैश्चिन्महाकायैर्महाबलैः १३८ । ।
भुशुण्डीप्रासहस्तैश्च वीरैः परशुपाणिभिः ।
पाशमुद्गरहस्तैश्च चक्रतोमरपाणिमिः । । १३९ ।
चित्रायुधधरैर्वीरैरावृण्वद्भिर्दिशो दिशम् ।
घण्टाजालविनद्धाङगैः किंकिणीजालधारिभिः । । 8.164.१४० । ।
वृता गणैर्गणाध्यक्षा महासत्वैर्महाबलैः ।
उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् । । १४१ ।।
मातॄश्च प्रददौ तस्मै कौशिकीदेहसंभवाः ।
महाबला१०७ महासत्वाः समरेष्वपराजिताः ।। १४२ ।।
प्रभावतीं विशालाक्षीं पलितां१०८ वृषनासिकाम् ।
श्रीमतीं बहुलां सिंहीं विजयां बहुपुत्रिकाम् । ।१४३ । ।
गोपालीं सुप्रभां षष्ठीं बृहदम्बालिकां१०९ कृशाम् ।
जयावतीं मालतिकां ध्रुवरत्नां११० प्रभाकरीम् ।। १४४।।
सुप्रभां वसुदां१११ चैव विशोकां नन्दिनीं तथा ।
वज्रचूडां महचूडां वज्रनेमिं११२ महाप्रभाम् । । १४५। ।
अञ्जनीञ्च भरत्सेनां कमलाक्षीं शशिप्रभाम् ।
शत्रुञ्जयां महानासां क्रोधनां शलभीं खषीम् । । १४६।।
माधवीं शुकवक्त्राञ्च कीर्तिनेमिमनिन्दिताम्११३ ।
गीतप्रियां महामायां वायसीममृतां सतीम् । । १४७। ।
सरस्वतीं भोगवतीं सुभ्रूञ्च कनकावतीम् ।
सुतां लक्ष्मीं वीर्यवतीं विद्युज्जिह्वां महाबलाम् । । १४८।।
पद्मावतीं सुनक्षत्रां कन्दरां बहुयोजनाम्११४ ।
सन्तानिकां शिवां चैव कमलां मलदामपि । । १४९।
- - - -- - - - - - - - -
१०७ महबलम् - क. । १०८ पालितां - क ख । १०९ बृहदत्पालिशा - क । ११० ध्रुवनन्दां - ख. । १११ वसुधां - ख. । ११२ वक्रनेमिं? - ख- । ११३. मनन्दताम् - ख । ११४ बहुभोजनाम् (?) ।
- - - -- - - - - - - - -

862
सुदामां बहुदामां च सुप्रभां च यशस्विनीम् ।
नृत्तप्रियां वरारोहां सितोलूखलमेखलाम्११५ ।। 8.164.१५० ।।
शतघण्टां शतानन्दां शतनेत्रां यशस्विनीम् ।
वपुष्मतीं च शीलाञ्च भद्रकालीञ्च भैरवाम् । ।१ ५१ ।।
संहारिकां निष्कुटिकां भूतां११६ चत्वरवासिनीम् ।
सुमङ्गलां स्वस्तिमतीं वृद्धिकामां जनप्रियाम् । । १५२। ।
धनदां सुप्रदां११७ चैव भवदां सुखदामपि ।
ऐलीं११८ भेलीं समेलीं११९ च वेतालीं जननीं निशाम् ।।१५३ ।।
कण्डूं पिङ्गलिकां चैव देवमित्रां यशस्विनीम् ।
लम्बुषीं१२० सनकां चैव चित्रसेनामथाचलाम् । । १ ५४। ।
कुकूनिकां१२१ शंखिनिकां१२२ तथा झर्झरिकामपि१२३ ।
कुण्डालिकां कोलविलां१२४ कण्डराञ्च शतोदरीम् । ।१ ५५। ।
उत्क्वाथनीं जुरेलाञ्च१२५ महावेलां च१२६ कङ्कणाम् ।
मनोजवां कण्टकिनीं विघसां पूतनां तथा ।। १ ५६। ।
वैशयां१२७ चर्चिकां१२८ वामां क्रोधनां मुखमण्डिकाम् ।
मण्डोदरीं च टुण्डाञ्च कोटरां मेघवासिनीम् । । १ ५७।।
सुभगां लम्बिनीं लम्बां वामधूलीं१२९ विकत्थनाम् ।
ऊर्ध्ववेणीधरां चैव ललाटनयनां तथा । ।१ ५८ । ।
पृथुबर्हां महाकायां मधुकुम्भां तडित्प्रभाम् ।
मन्थानिकामुन्मनिकां जरायुं जर्जराननाम् । । १ ५९।।
ख्यातां दहदहां चैव तथा धमधमामपि ।
खटंखटां१३० महावीर्यां वृषणां मणितुण्डिकाम् ।। 8.164.१६० ।।
बद्धवेणीं१३१ धराधारां पिङ्गाक्षीं लम्बकर्णिकाम् ।
आमोदां च प्रमोदां च तथा लम्बपयोधराम् । । १६१ ।।
- - - -- - - - - - - - -
११५ श्वेतोलूखलमेखलाम् - ख । ११६ भ्रा? - ख । ११७ सु १धां - स । ११८ वेलीं - ख. । ११९ समेलिं - क? । १२० लम्बुसीं - क. ख. । १२१ कुक्कूणिकां - ख. । १२२ शंखनिकां - ख. । १२३ जम्भनिकामपि - ख! १२४ कोलविकां - ख. । १२५ जरेल्लाञ्च - क । १२६ महावेशां च - ख. । १२७ वैशायां - क, १२८ च द्रुहां - ख. । १२९ शतधूलिं (?) - क । १३० खट्वखटां - ख. । १३१ बहु (ऊर्ध्व?) वेणीं - ख ।
- - - -- - - - - - - - -

863
शशोलूकमुखीं कृष्णां खरजंघां महारवाम् ।
शिशुमारमुखीं श्वेतां लोहिताक्षीं विभीषणाम् । ।१६२।।
जटालिकां कामचरीं१३२ दीर्घजिह्वां च लोलुपाम् ।
कनेलिकां१३३ वासनिकां मुकुटाञ्च महाबलाम् । । १६३ ।।
लोहिताक्षीं१३४ महाकायां हरिपिण्डीञ्च दुर्जयाम् ।
पशुदां वित्तदां वीरामङ्गदाञ्च महबलाम् । । १६४। ।
पयोदां गोप्रदां शंखां सुनिषण्णां तरस्विनीम् ।
प्रतिष्ठां सुप्रतिष्ठां च रोचमानां सुरोचनाम् । ।१ ६५।।
गोकर्णीमश्वकर्णीञ्च सशिरां१३५ खरिकां तथा ।
कचक्रचां मेघरवां मेघमालां विरोचनाम् । । १६६ । ।
एता१३६श्चान्याश्च१३७ बहुला मातरो१३८ मारुतस्यदाः ।
एकाक्षरां१३९ सुगन्धां१४० च कृष्णकर्णीं च दारुणाम् ।।१ ६७।।
क्षुरकर्णीं चतुष्कर्णीं कर्णप्रावरणां तथा ।
चतुष्पथनिकेतां च गोकर्णीं महिषाननाम् ।।१ ६८ । ।
खरकर्णीं महाकर्णीं भेरीस्वनमहास्वने ।
शंखकुंभश्रवां१४१ चैव संग्रामेष्वपराजिताम् । ।१ ६९।।
गणां१४२ च सुगणां चैव तथा वातीं१४३ च कामगाम् ।
चतुष्पथरवां१४४ चैव भूतिनीं वन्यगोचराम्१४५ । ।8.164.१७० । ।
कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ।
दीर्घदन्त्योतिनख्यश्च१४६ दीर्घवक्त्रातिभीषणाः१४७ ।।१७१ ।।
चतुरा१४८ मधुराश्चैव यौवनस्थाः स्वलंकृताः ।
माहात्म्येन च संयुक्ताः कामरूपा महाबलाः ।।१७२। ।
निर्मांसगात्र्यः श्वेताश्च जाम्बूनदसमप्रभाः ।
कृष्णा जीमूतवर्णाश्च धूम्रकेश्यो महाभयाः । ।१७३ ।।
- - - -- - - - - - - - -
१३२ कामचरां - क. । १३३ क्रमेलिकां (?) । १३४ रोहीताक्षीं (?) । १३५ ससिरां - ख. । १३६ एतां - क. । १३७. श्चान्याश्च - क. । १३८ मारुतो - ख. १३९ एकाक्षदां - ख. । १४० युगन्धां - ख. । १४१ कुम्भस्रवां - क ख. । १४२.. गणां - क. । १४३ वापीं - ख. । १४४ चतुष्पथरतां - ख. । १४५ वा(धा)न्यगोचराम् - क. । १४६ तिनख्यश्च - क. । १६७ श्च दारुणाः -ख. । १४८ चर श्च - ख ।
- - - -- - - - - - - - -

864
असुराणां महादंष्ट्रा दीर्घदंष्ट्राः सिताम्बराः ।
ऊर्ध्वकर्णोधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः १४९ ।।१७४।।
लम्बोदर्यो विलम्बोष्ठ्यो लम्वकर्णपयोधराः ।
ताम्राक्ष्यस्ताम्रवक्त्राश्च हर्यक्ष्यो१५० हरिमूर्धजाः । ।१७५।।
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः ।
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ।।१७६ ।।
नानाभरणधारिण्यो नानास्रगनुलेपनाः ।
नानावस्त्राणि बिभ्रत्यो नानायुधधरास्तथा१५१ ।। १७७। ।
एताश्चान्याश्च संहृष्टा१५२ ददौ स्कन्दाय कौशिकी ।
वैजयन्तीं ददौ तस्मै मालामञ्चितकेसराम् । । १७८। ।
विष्णुर्विविधगन्धाढ्यामुत्फुल्लां चारुदर्शनाम्१५३ ।
वाससी विरजस्के च तरुणार्कसमप्रभे । । १७९। ।
संप्रीता प्रीतमनसे१५४ ददौ स्कन्दाय पार्वती ।
कमण्डलुं सुधावारिसंपूर्णममृतोद्भवम् ।।8.164.१ ८० । ।
ददौ प्रीता कुमाराय गङ्गा गम्भीरचेतसे ।
गरुत्मान् दयितं पुत्रं चित्रबर्हं शिखण्डिनम् । ।१८१ । ।
ददौ स्कन्दाय संप्रीतो बलिनं कामरूपिणम् ।
ताम्रचूडमदाद्वीरमरुणश्चरणायुधम् । । १८२ । ।
भववीर्यजवोपेतं स्कन्दाय प्रियदर्शनम् ।
महाभारसहं छागं कामगं कामरूपिणम् ।
प्रददौ वरुणस्तस्मै स्कन्दाय बलवत्तरम् ।।१८ ३ । ।
ब्रह्मण्याय ददौ ब्रह्मा मेध्यं कृष्णाजिनाम्बरम् ।
प्रमदाहावविभ्रान्तं१५५ लोचनोदरसन्निभम् । । १८४। ।
तेजसां निधये तस्मै ददौ दण्डं बृहस्पतिः ।
स्कन्दाय परमप्रीतश्चारुचामीकरस्रजम् । । १ ८५।।
- - - -- - - - - - - - -
१४९ लम्बुमेखलाः - ख. । १५० हर्यक्षा - क. १५१. स्तदा - क. । १५२ बिभ्रत्यो - क । १५३ ...लोचनाम् - क. । १५४ प्रीतमनसा - क. । १५५ विभ्रान्तं - क. ।
- - - -- - - - - - - - -

865
सेनापतिं तमभिषिच्य हुताशपुत्रं
सम्यक् प्रहृष्टमनसो विबुधाः समेताः ।
दैत्येश्वरस्य निधनाय महाप्रभावा
यात्रां सुरारिजयिनी१५६ सहिताः प्रचक्रुः१५७ । । १८ ६। ।
इति स्कन्दपुराणे सेनापत्याभिषेके चतुःषष्ट्युत्तरशततमोध्यायः

सनत्कुमार उवाच
स्कन्दं पुरोधाय सुराः समस्ताः सन्नाहयामासुरनीकमाशु ।
आहत्य भेरीः शतशो महद्भिर्दण्डैर्दृढं हाटकरत्नचित्रैः । । १ । ।
दिग्वारणान् भूधरकूटकल्पान् मन्दाकिनीवारिभिराप्लुताङ्गान् ।
आनाय्य गन्धैर्विविधैश्च माल्यैरभ्यर्च्चयाञ्चक्रुरनीकमुख्याः ।।२। ।
चित्राणि वर्माणि ततो बबन्धुर्बद्घ्वा१ प्रयत्नातिशयेन कक्षे२ ।
तेषां सुयत्नाद्३ गजवाजिमुख्यान हैमानि यन्त्राणि तयायुधानाम् । । ३ । ।
चित्राः समुच्छिश्रियिरे४ पताका ध्वजाश्च चामीकरचारुदण्डाः ।
क्षुरप्रमाला विविधा बबन्धुः पक्षेषु५ घण्टाश्च समाससर्ज्जुः६ । ।४। ।
रथञ्च कार्तस्वरचारुचक्रं७ सांग्रामिकं रत्नमरीचिचित्रम् ।
संयोजयामासुरुदारवेषैः प्रहृष्टचित्तैः खगमैस्तुरङ्गै द्वे । ।५। ।
पर्यच्छमम्भोरुहगर्भगौरं बबन्ध शक्रः कवचं महार्हम् ।
वक्षस्यभेद्ये हरिचन्दनाक्ते वज्रप्रभाप्रज्वलितप्रकाशम् । । ६ । ।
बबन्धुरुच्चैर्विनियम्य पिङ्गा जटा भुजङ्गैर्बृहतीः श्वसद्भिः ।
चित्राणि हृष्टाः कवचानि रुद्रा वक्षस्सु दैत्यद्विपविक्षतेषु । ।७। ।
चित्रं दधानः९ कवचं महाद्युतिर्निबद्धनिस्त्रिंशतलाङ्गुलित्रवान्१० ।
बिभ्रद्धनुः सज्जमपीद्धपौरुषो जहौ शशाङ्कः सहजां न सौम्यताम् । ।८। ।
- - - -- - - - - - - - -
 १५६ दमनीं - क. टि. । १५७ प्रजग्मुः - क. ख. ।
१ बुध्वा - क ख. । २ कक्ष्ये - क. ख. ३ सयत्ना (?) । ४ समुच्चिच्छ्रियिरे - क । ५ वक्रेषु - क. । ६ समाससर्जुः - क ख. । ७ कार्तस्वनचारुचक्रं - क. ख. । ८ प्रयच्छ - क. ख. । ९ बधान - ख । १० लताङ्गुलित्रवान् - ख. ।
- - - -- - - - - - - - -

866
यत्नाद् बन्द्बधुः कवचानि सूर्याः किञ्चित्प्रदीप्तानि तदा स्वदीप्त्या११ ।
लौहान्यभेद्यानि१२ शरैः परास्तैश्चारूणि चामीकरचित्रितानि ।।९। ।
निबद्धभास्वत्कवचः सुधन्वा१३ सुपीननिस्त्रिंशनिबद्धपार्श्वः ।
गृहीतदण्डो विनिबद्धमौलिर्भयानकोभूत् सुतरां यमोपि । । 8.165.१० ।।
रुचा परीतः परयातिमात्रं स्फुरन्मुहुः प्रोन्नतपूर्वकायः ।
पराभवं विद्विषतां समाजे प्रचेतसः ख्यापयतीव पाशः । । ११ ।।
दृष्टिं धनेशोपि हुताशपिङ्गां दधद् गदायां परिघोरुबाहुः ।
ईशप्रसादेन निजेन१४ वेति सुरद्विषामाहनने विनाशम् ।।१ २। ।
सैन्येथ देवद्विषतां निपेतुरुल्काः स्फुरद्वह्निकणा बृहत्यः ।
विना घनैर्व्योम ररास भीमं सवृक्षशैला विचचाल चोर्वी । । १३ । ।
रजो नभस्तः परितः पपात वातेरितं रासभपृष्ठधूस्रम्१५ ।
ध्वजा निपेतुर्दृढहेमदण्ढा रक्ताम्बुवृष्टिं ससृजुः पयोदाः ।।१४। ।
मुहुर्मुहुर्दैन्यपरितचिताः कदुष्णमस्रं१६ मुमुचुस्तुरङ्गाः ।
कपोलभित्तीः१७ प्रजहौ गजानां मदश्च पारावतकण्ठनीलः । । १५ । ।
स्थानेषु दीप्तेषु विनेदुरुच्चैर्दीप्तस्वराः पक्षिमृगाश्वसंघाः१८ ।
प्रसादमालाः१९ परितो विमृद्रन् ववौ२० विवृद्धः२१ परुषो नभस्वान् ।। १ ६।।
सेना प्रहृष्टा महती सुराणामभ्याययौ दैत्यपतिं रराणा२२ ।
दैत्योपि देवागमनं विदित्वा सन्नाहयामास२३ तदा स्वसैन्यम् । ।१७। ।
सैन्यानि तानि२४ त्रिदशासुराणामन्योन्यमासेदुरुदायुधानि ।
क्षुब्धान्यतीव प्रलये महाब्धेः२५ पूर्वापराणीव तदा जलानि ।। १८। ।
निशाम्य दैत्या रणतूर्यनिस्वनं प्ररूढगर्वा बलिनो जयोत्सुकाः ।
अतिप्रहर्षादसमाप्तमङ्गला गृहीतशस्त्राः समराय निर्ययुः ।। १ ९।।
रथाश्वपादातसमुद्धतं२६ रजो रणाजिरे वानरकण्ठधूसरम् ।
स्वनश्च तेषामतिदारुणो महान् नभस्तदा व्याप दिशश्च सर्वतः । ।8.165.२० । ।
- - - -- - - - - - - - -
११ स्वदीप्ती - क. । १२ लोहान्यभेद्यानि - क. ख । १३ सुधर्मा - क. । १४ जिनेन - क. । १५. धोस्र - क, ..धौस्रं - ख. । १६ सास्रं - क. । १७ कपोलभित्ती - क., भित्तौ - ख. । १८ पक्षिमृगाश्च सघाः - क. ख. । १९ माला - क ख- । २० बभौ - क. ख. । २१ विबद्धः - ख । २२ रणाय - ख., सुराणा - क. । २३ समाह्वयामास - क. । २४ सैन्ये हि तानि - क. ख. । २५ महोदधेः - क. ख. । २५६ पादातिसमुद्धतं - क. ।
- - - -- - - - - - - - -

867
समुद्यतैर्दानवदेवतायुधैर्ध्वजैः पताकातपवारणैस्तथा ।
बभौ सविद्युच्छशिशक्रकार्मुकं२७ सहंसपंक्तीव तदा नभस्तलम् । ।२१ ।।
शस्त्राणि गात्रेषु तनुत्रवत्सु निपात्यमानानि परस्परस्य ।
दैत्यामरैराहनने प्रचक्रुः शब्दं स्फुरद्वह्नकिणैः समेतम् । ।२२ । ।
दृष्ट्वासुरान् सत्वबलोपपन्नान् सुरास्सहायाननपेक्ष्य२८ केचित् ।
सन्नेहिरे मत्तगजानिवेभा मदाम्बुभिः श्यामकपोलदेशाः ।।२३ ।।
बलानि वेगादभिसृत्य दूरमग्रेसराणि२९ त्रिदशासुराणाम्३० ।
स्वजीविताशामपहाय जघ्नुरन्योन्यमाविष्कृतपौरुषाणि ।।२४। ।
निकामवैराशयमानसानां जिघांसता तत्र परस्परेण ।
स संप्रहारस्तुमुलस्तदासीत् सुरासुराणामनवो महाजौ३१ ।। २५। ।
सेदुर्गजास्तोमरशक्तिभिन्नास्तुरङ्गमा बाणहता निपेतुः ।
सफेनमास्यै रुधिरं वमन्तो दृढप्रहारान्मुमुहुश्च योधाः ।।२६।।
छिन्नानि पेतुर्निशितैः क्षुरप्रैः सकुण्डलान्याननपङ्कजानि ।
अन्योन्यमाविष्कृतदर्परोषैर्महाहवे दानवदेवमुख्यैः३२ । ।२७। ।
ता मातरस्ते च गणा विचेरुर्विपोथयन्तः समरेरिसंघान्३३ ।
मुष्टिप्रहारैस्तलपार्ष्णिघातैर्विकर्षणावेष्टनपीडनैश्च ।
- - - - - - - - - - - - - - - - - - - - - ।।२८।।
मातङ्गमुख्यान् द्विरदैः प्रभिन्नैस्तुरङ्गमान् वाजिभिरुत्तमाँश्च ।
रथान् रथैः३४ पत्तिगणान् पदातैर्गणा निजघ्नुर्युधि दानवानाम् ।।२९।।
उत्पत्य वेगादिषुभिर्गणेन्द्रा३५ गजाधिरूढान् दितिजेन्द्रयोधान् ।
मुष्टिप्रहारैः कुलिशोग्रपातैर्विभिन्नमस्तिष्कविनिर्गताक्षान् ।। 8.165.३० ।।
परश्वधैश्चिच्छिदुरात्तरोषाः३६ खड्गैश्चकर्तुर्बिभिदुश्च शूलैः ।
महाद्विपालाननितान्तपीनैः३७ प्रपोथयाञ्चक्रुररीन्३८ भुजैश्च ।।३ १ ।।
- - - -- - - - - - - - -
२७ सविद्युच्छविशक्रकार्मुकं (?) । २८ सहायानपेक्ष्य - क ।२९ .मग्रेश्वराणां - क. । ३० ददृशे सुराणाम् - ख.। ३१ .मनवं महाजौ - क, मभवत्तदाजौ - ख. । ३२ महाहवैर्द्दानवदैत्यमुख्यैः - क. । ३३ .सिंहान् - ख । ३४ रथाद्रथैः - क. । ३५ वेगान्निषुभिर्गजेन्द्रा - क, .. दिषु तद् गजेन्द्रा - ख, । ३६.. रात्तदोषाः - क. । ३७ निभात्तपीनैः - ख. । ३८ प्रपोढयाञ्चक्रुररीन् - ख ।
- - - -- - - - - - - - -

868
देव्योपि तान्३९ दैत्यगणान् निजघ्नुर्महासमाजे समुपात्तशस्त्रान् ।
उत्पत्य वाजिप्रवराधिरूढान् रथस्थितान् वारणधूर्गतांश्च ।।३२।।
प्रचुक्षुभे तद्बलमासुरं तदा गणेन्द्रनिष्पिष्टबलाग्रनायकम् ।
गुरुत्मतः पक्षसमीरणाहतं४० महाह्रदं यद्वदगाधमम्बुधेः४१ ।।३ ३ ।।
अथाभिवीक्ष्य प्रसभं गणाधिपैर्निहन्यमानानि बलानि तारकः ।
रुषा तदा ताम्रतरायतेक्षणः४२ समभ्यगान्मौलिबलाभिपालितः ।।३४।।
विस्फार्य शक्राशनितुल्यनिस्वनं रत्नप्रभाप्रज्वलितं स कार्मुकम् ।
संछादयन् बाणतलैर्नभस्तलं मर्मातिगैः कङ्कमयूरपत्रिभिः ।। ३ ५।।
तस्यागमं दैत्यपतेर्विदित्वा तदाननादानलसूनुरुच्चैः ।
स्वपाणिसस्थामभिवीक्ष्य शक्तिं विचित्रचामीकरचारुघण्टाम् ।।३६। ।
नभो विगाह्य४४ प्रदिशो दिशश्च स कार्त्तिकेयस्य तदा निनादः ।
मनांसि देवद्विषतां प्रसह्य विमोहयामास महासमाजे ।।३७।।
अथापतन्तं समभीक्ष्य४५ तारकं बलेन गुप्तं महता महाहवे ।
मुमोच शक्तिं ज्वलितानलप्रभां विनाशनायामरविद्विषां गुहः ।।३८। ।
सा तेन मुक्ता ज्वलनात्मजेन ज्वालाभिरावृत्य नभो दिशश्च ।
अनेकधा व्योम्न्यभवत् सुघोरा४६ मायेव दैत्यान् परिमोहयन्ती ।। ३९। ।
पपात वक्षःसु च सहतेषु४७ सुरद्विषां चित्रतनुत्रभृत्सु ।
समं समस्तैस्त्वनिवार्यवेगा४८ विदार्य चोरांसि विवेश तूर्णम् । ।8.165.४० । ।
देवद्विषस्तेभिहतास्समस्ताः४९ पर्यस्तपृथ्वायतरक्तनेत्राः ।
सन्दष्टजिह्वाधरविह्वलाङ्गाः प्राणाञ्जहुः शोणितमुद्वमन्तः ।।४१ । ।
तमांसि यद्वत् सविता भिनत्ति समं मयूखैरतिरस्कृतानि ।
बिभेद तद्वद् द्विषतां बलानि रणाजिरे शक्तिभिरग्निसूनुः ।।४२। ।
निहत्य देवद्विषतः समस्तान् रणाजिरे प्रोन्नतदर्पवीर्यान् ।
प्रभेव सूर्यं परितप्य लोकान् पुनस्तदा स्कन्दमियाय शक्तिः । ।४३ ।।
- - - -- - - - - - - - -
३९ दैव्योततं - क. ४० पक्षिसमीरणाहत - क. । ४१ दगाधमम्बुधि - क । ४२ यतेक्षणो - क. ख. ४३ मुदानान दानलसूनुरुच्चैः (?) । ४४.. वगाह्य (?) । ४५ समवीक्ष्य क. । ४६ सुघोरं - क. । ४७ वक्षःसुरसंघ(ह) तेषु - क., सुसंह (?) । ४८ स्तेष्वपि - ख, रनिवायंवेगा (?) । ४९ भिहिता- स्समस्ताः - क ।
- - - -- - - - - - - - -

869
दितितनयसमूहैः सार्धमाविप्रतापैः (?)
समरशिरसि हत्वा तारक दैत्यराजम् ।
त्रिदशसमितिमुख्यैः स्तूयमानः प्रहृष्टैः
प्रतिगमदमितौजाः५० शूलपाणेः समीपम् । ।४४।।
इति स्कन्दपुराणे तारकवधे पञ्चषष्ट्युत्तरशततमोध्यायः५१

व्यास उवाच
भगवन् सर्वधर्मज्ञ महायोगबलान्वित ।
श्रुतमेतन्मया कृत्स्नं स्कन्दस्य चरितं महत् ।।१ । ।
त्वत्तः परमयोगेश गुह्यं भगवतः परम् ।
ततः१ परं स देवेशस्त्रिपुरारिर्वृषध्वजः । । २ । ।
संप्रेष्य सहितं देवैर्महासेनापतिं गुहम् ।
संन्यस्य२ देवताः स्कन्दे किमन्यदकरोत् प्रभुः । ।३ । ।
क्व जगाम च देवेशः किमुवाचाचलात्मजा३ ।
कानि चैनमुमा४ प्राह शंसैतत् पृच्छतो मम । ।४। ।
सूत उवाच
व्यासेनैवं तदा पृष्ट आख्यातुमुपचक्रमे ।
सर्वागमपरार्थज्ञो५ ब्रह्मसूनुर्महातपाः । ।५। ।
सनत्कुमार उवाच
संन्यस्य षण्मुखे देवान् देवदेवो भवस्तदा ।
जगाम सहितो देव्या मन्दरं हेमकन्दरम् ।। ६ ।।
त तस्थावासने६ तत्र हैमे महति सुप्रभे ।
नानारत्नसमाकीर्णे हेमशृङ्ग इवोच्छ्रिते ।।७।।
तस्य पार्श्वे स्थिता देवी रराज हिमवत्सुता ।
व्यभ्रे वियति पूर्णेन्दो रोहिणीव समीपगा । ।८।।
- - - -- - - - - - - - -
५० प्रतिययुर्.. - क. । ५१ २०० (२१६) - ख. पु ।
१ अतः - क. । २ स न्यस्य - क. ख । ३. .लात्मजा - क. । ४ चैवमुमा - क. । ५ सर्वागमपरो- र्थज्ञो - क. । ६ सदा वै (स तदा ) वसते - क, सेमस्थानुसते (?) - ख. ।
- - - -- - - - - - - - -

870
सोवाच परमेशानं प्रणम्य गिरिजा तदा ।
सहधर्मचरी यस्मात् प्रिया चाहमतीव ते । ।९। ।
पूर्वप्रणयलब्धा च तेन पृच्छाम्यशङ्किता ।
पावनानि पवित्राणि नामानि तव कामद । । 8.166.१० । ।
सार्थानि श्रोतुमिच्छामि कथितानि त्वया विभो ।
एवं पृष्टस्तदा गौर्या प्राह सर्वं सुराधिपः ।। ११ ।।
सर्वयज्ञफलैस्तुल्यं नाम्नामर्थप्रबोधनम् ।
मम देवि परं गुह्यं ब्रह्माद्या यद्विजानते । । १ २। ।
तत् प्रवक्ष्यामि ते देवि येन देवत्वमाप्यते ।
रुजः सर्वगतो८ यस्माद् द्रावयामि जगत्यहम् । ।१ ३ ।।
रोदनं हन्मि यस्माच्च रुद्रस्तस्मादहं प्रिये ।
संहरामि जगत् कृत्स्नमन्तकाले यतो ह्यहम् । ।१४।।
मृत्युहर्त्ता यतश्चापि हरस्तेन९ प्रकीर्त्तितः ।
पुरं शरीरमाख्यातं सर्वेषां प्राणिनामिह । । १ ५।।
सर्वप्राणिगतं यस्मात् तत्पुरं शयनं मम ।
तस्मात् पुरुष इत्येव मम नाम महर्द्धिमत् । । १ ६। ।
कदाचिन्नैव जातोहं न च मे जन्म यत्१० क्वचित् ।
अजस्ततोहमीशानि सर्वदैव११ प्रकीर्त्तितः । ।१७। ।
अभावं मयि गत्वा तु जगत् स्थावरजङ्गमम् ।
पुनर्भवति मत्तश्च भवस्तेन निरूपितः१२ । ।१ ८ ।।
महतामपि देवानामहमेव महान् यतः ।
न च मत्तो महानन्यो महादेवस्ततो ह्यहम् । । १९।।
पालयामि पशून् यस्मात् सृजामि च यदृच्छया ।
तेषाञ्च पतिरेवाहं तस्मात् पशुपतिः स्मृतः । । 8.166.२० । ।
ईश एवाहमन्येषां१३ न च मामीशते परे१४ ।
नयामि चेशतां भक्तानीशानस्तेन कीर्त्तितः ।।२ १ । ।
- - - -- - - - - - - - -
७ पूर्वं प्रणयलब्धा - क ख । ८ सर्वगत - ख. । ९ श्चापि हरस्तेन - क. । १० यः - क. । ११ सर्वदेवैः - क ख । १२ विरूपितः - क. ख. । १३ ईशमेवाहमन्येषां - क ख. । १४ परः - क. ख. ।
- - - -- - - - - - - - -

871
दिशो हि मम१५ वासांसि सर्वदिक्षु वसाम्यहम् ।
वासश्चाहं दिशां यस्माद् दिग्वासास्तेन संस्मृतः ।।२२।।
भूतानां शङ्करो१६ यस्मात् तेनाहं शङ्करः स्मृतः ।
लोकानां शिबकृद् यस्माच्छिवस्तस्मादहं स्मृतः ।।२३ । ।
नीलं येन ममाङ्गस्य१७ संरक्तं लोहितत्विषम्१८ ।
नीललोहित इत्येव तेनाहं परिकीर्तितः ।।२४।।
शूली शूलेन संप्रोक्तो लकुलेन१९ च लाकुली२० ।
रुद्रेति कीर्तिते देवि अग्निष्टोमफलं स्मृतम् । ।२ ५ । ।
हरेत्यभिहिते चापि गोसवस्य फलं लभेत् ।
भवेति कीर्तिते सद्यः सर्वपापैर्विमुच्यते ।।२६ ।।
पुरुषेति परं सौख्यमजेति च सलोकताम् ।
ईशानेति महैश्वर्यं महादेवेति चाक्षयम् । ।२७ ।।
दिग्वासेति परं मोक्षं शङ्करेति सुखं महत् ।
शिवेति शिवमत्यर्थं शूलीति परमं बलम् । ।२८।।
लाकुलीति२१ परांल्लोकान् कीर्तर्येल्लभते नरः ।
सर्वयज्ञफलानीह कीर्त्तयन्नीललोहितम् ।।२९। ।
लभते देवि मद्भक्तो मयि चावासमव्ययम् ।
एवं तत् कथितं व्यास नाम्नामर्थप्रबोधनम् । ।8.166.३ ० ।।
शूलिना२२ देवदेवेन२३ देव्याः प्रियहितेच्छया ।
किमन्यत् पृच्छसि ब्रह्मन् वद यावद् ब्रवीमि ते । ।३ १ । ।
व्यास उवाच
श्वेतजीवप्रदो रुद्र इति पूर्वं त्वया मुने ।
प्रोक्तं परमधर्मज्ञ तन्मे ब्रूहि समासतः ।। ३ २।।
प्रददौ कथमीशानस्तज्जीवं मुनये विभो२४।
किमर्थं क्व च योगेश कश्चासौ श्वेत उच्यते ।।३ ३ ।।
- - - -- - - - - - - - -
१५ मम हि - क. । १६ शमकृद् - क. ख. । १७. स्या - क. । १८ लोविताद् विषं - क. । १९ लगुडेन - ख., नकुलेन (?) । २. लागुडीति - ख., नाकुलीति (?) । २१ लागुडीती - ख., नाकुलीति (?) । । २२ शूलिनो - ख. । २३ देवदेवस्य - ख. । २४ विभुः - ख. ।
- - - -- - - - - - - - -

872
सनत्कुमार उवाच
शृणु वत्स यथा दत्तं पुनर्जन्म पिनाकिना ।
यमेन ह्रियमाणाय२५ श्वेताय विगतायुषे । ।३४। ।
आसीद् दर्भध्वजो नाम बृहस्पतिसमो मुनिः ।
सर्वविद्याविनीतात्मा यस्य पुत्रः कुशध्वजः ।। ३५। ।
बभूव सुमहातेजा विश्वामित्र इवापरः ।
प्रियस्तस्याभवत्पुत्रः श्वेतो नाम महाद्युतिः ।।३ ६। ।
तस्य जन्मप्रभृत्येव२६ कुशघ्वजसुतस्य वै ।
छायेवानपगा भक्तिर्बभूव वृषभध्वजे । । ३७। ।
तिष्ठतो गच्छतश्चापि स्वपतस्तप्यतस्तथा२७ ।
सर्वभावेन देवेशं ध्यायन् तस्थौ महामुनिः । । ३८ ।।
अथ कालेन विप्रेन्द्र विपृथुर्नाम दानवः
वव्रे दुहितरं गत्वा श्वेतस्य पितरं बली ।।३९।।
न च तस्मै सुतां प्रादात् तामसौ सुरविद्विषे ।
स तेन निहतो रात्रौ बलाद् दर्भध्वजोपि च२८ ।।8.166.४० ।।
जामाता कांक्षितश्चासीत् तेन चक्रगदाधरः ।
विष्णुः परमधर्मात्मा दुहित्रा चास्य सुव्रत२९ । ।४१ । ।
तस्य तं दुहिता ज्ञात्वा हतं पितरमात्मनः ।
जगाम तपसे३० साध्वी परहेतोर्महाव्रता । । ८२ ।।
श्वेतोपि तत्ततो ज्ञात्वा वैराग्यं परमास्थितः ।
नर्मदातीरमासाद्य एकचित्तो जितेन्द्रियः ।।४३ । ।
रूद्रमेवार्पितावस्थ३१ स्तन्निष्ठस्तत्परायणः ।
तप्यमानस्तपो घोरं तस्थौ युक्तस्तपोधनः ।।४४
अथागात् सुमहान् कालस्तप्यतस्तस्य धीमतः ।
आयुर्यद्विहितं धात्रा तत्तस्य क्षयमभ्यगात् । ।४५। ।
- - - -- - - - - - - - -
२५ ह्रियते व्यास - क. ख. । २६ प्रभृत्यैव - क । २७ तिष्ठन् गच्छन्स्वपंश्चापि तप्यंश्चापि यथा तथा (?) । २८ मिथ - ख. । २९ सुव्रतः - क. ख. । ३० तपसा - ख. । ३१ रुद्रे सर्वोपितावस्थ - ख. ।
- - - -- - - - - - - - -

873
क्षीणायुषमथो ज्ञात्वा श्वेतं मृत्युविचेष्टितम् ।
सुतो विवस्वतो हृष्टः कालमृत्युपुरोगमान् ।।४६।।
किङ्करान् प्रेषयामास तमानेतुं द्विजोत्तमम् ।
तमथा३२ भ्येत्य ते दूताः स्थिताः श्वेतजिघांसया ४७। ।
तान् दृष्ट्वा स तदा श्वेतो यमदूतानवस्थितान ।
हाहेति मरणाद्भीतस्त्रासाद् दुःखपरिप्लुतः । ।४८। ।
अन्वचिन्तयदव्यग्रः परित्राणाय शङ्करम् ।
अथ चिन्तितमात्रस्तु गिरीन्द्रशिखरस्थितः३३ । ।४९ । ।
भक्तानुग्रहकृद्देवः श्वेतं वेद यमार्द्दितम् ।
तं तथा दुःखितं ज्ञात्वा भक्तं मृत्युवशं गतम् । ।8.166.५० । ।
शङ्करः प्रहसन् देवीमिदमाह सुरेश्वरः ।
श्वेतो नाम मुनिर्देवि मद्भक्तस्तपसैधितः३४ ।।५१ ।।
क्षीणायुरभवन्मूढो मृत्युपाशविमोहितः ।
व्यवस्थैषा पुरा सृष्टा ब्रह्मणा लोककर्तृणा । । ५२ । ।
प्राणिनामायुषो हानिः कालसंस्थानसंक्षये ।
ब्रह्मापि हि सृजँल्लोकान् मूढो भवति शैलजे । ।५३ । ।
मृत्युदुःखान्विताँल्लोकान् यस्मात्सृजति मोहितः ।
सोपि भक्तो ममात्यन्तं ब्रह्मा लोकपितामहः । । ५४।।
तस्य भक्तिविशेषाच्च गौरवाच्च गिरीन्द्रजे ।
अनुज्ञाता मयाप्येषा सृष्टिर्मृत्युसमन्विता ।।५५। ।
तथा तु स मुनिर्देवि मयि सर्वार्पितक्रियः ।
एकभक्तितया३५ तस्य दृढं प्रीतोस्मि पार्वति ।।५६। ।
त्राता३६ तस्य भविष्यामि जीवयिष्यामि तं मुनिम् ।
ततो भर्तुर्वचः३७ श्रुत्वा गिरिजा वाक्यमब्रवीत् । ।५७।।
एवं३८ कुरु महादेव भक्तानुग्रहमीप्सितम् ।
शरणं को भवेदन्यस्तस्य भक्तिमतो मुनेः३९ ।।५८।।
- - - -- - - - - - - - -
३२ तमथो - क । ३३ शिरसि स्थितः - ख. । ३४ तपसेधितः - क. ख. । ३५ एकभक्ततया - ख. । ३६ ततो - क. । ३७ भर्तृवचः - ख. । ३८ एतत् - क. । ३९ मुने - क. ।
- - - -- - - - - - - - -

874
एवमुक्तः स पार्वत्या देवदेवो कृषध्वजः ।
नन्दीश्वरपुरोगाँस्तान् गणेशान् गणपाधिपः । ।५९।।
शंकुकर्णञ्च गणपं तथान्यांश्च सहस्रशः ।
मुनेः श्वेतस्य रक्षार्थं प्रेषयामास शूलधृक् । ।8.166.६ ० ।।
महाबलास्ते गणनायकेन्द्रा आज्ञां गृहीत्वा परमेशवक्त्रात ।
तूर्ण ययुः श्वेतमुनेरुपान्तं४० दूतान् दिधक्षन्त इवान्तकस्य । ।६१ । ।
ते गत्वा४१ श्वेतमैक्षन्त यमदूतैरथादिर्तम् ।
मृगमेकमिवारण्ये व्याधैर्बहुभिरावृतम् । । ६२ । ।
ग्रीवायां कालपाशेन हस्तपादे४२ च यन्त्रितम् ।
मृत्युना स्वयमाकृष्टं४३ स्रवद्रुधिरचक्षुषा । ।६३ । ।
विकृतास्यैर्महादंष्ट्रैस्संरक्तश्मश्रुमूर्धजैः४४ ।
विद्युत्सदृशनेत्रैश्च लोहदण्डोग्रपाणिभिः ।
यमदूतैर्महाघोरैः क्षिप्यमाणं समन्ततः । ।६४। ।
दृष्ट्वा तथा तं मुनिमार्त्तमुच्चैः क्रोशन्तमीशेत्यसकृद् गणेन्द्रः ।
मुमोच पाशान्मुनिमाशु तस्मात् पाशात्पशूनामिव बन्धमीशः ।। ६५। ।
गच्छध्वं यमकिङ्करा मुनिमितस्त्यक्त्वा शरीरैर्दृढैः४५
र्भक्तो ह्येष सुरासुरेश्वरमजं शम्भुं जगत्कारणम् ।
यः स्रष्टा पवनाग्निशक्रमरुतां ब्रह्मादिभिर्वन्दित-
स्त्राता सोस्य वृषेन्द्रकेतुरजितो नैनं यमो द्रक्ष्यति । ।६६।।
ते दृष्ट्वा गणपान् दूताः कालमृत्युपुरस्सराः ।
भयान्मुक्त्वा मुनिं श्वेतमब्रुवन् दूरतः स्थिताः ।।६७।।
पूर्णः कालो मुनेरस्य क्षीणमायुर्गणेश्वराः ।
किमनेन विमुञ्चध्वं नयामैनं यमान्तिकम् । ।६८। ।
अथ नन्दीश्वरः प्राह क्रुद्धस्तान् प्रदहन्निव ।
अक्षता गच्छत क्षिप्रं कृपणा यमकिङ्कराः । ।६९। ।
- - - -- - - - - - - - -
४० रूपान्तिकं - क, समीपम् (?) । ४१ गताः - क. । ४२ हस्तपादौ च - क., हस्तपादैश्च - ख. । ४३ ः ?माक्रुष्टं - क. । ४४ मूर्धजं - ख. । ४५ शरीरं दृढम् - क. ख. ।
- - - -- - - - - - - - -

875
यावच्चैते४६ न कुप्यन्ति प्रमथेन्द्राः सुरोषणाः ।
मा वः सिंहा इवारण्ये वारणान्मदमोहितान्४७ ।
सकृदेव समाहत्य करिष्यन्ति गतायुषः । ।8.166.७० । ।
अथैवमुक्ता गणनायकेन नन्दीश्वरेणामितविक्रमेण ।
भीता ययुस्ते पितृराजदूता गत्वा च चक्रुः कथयां यमस्य ।।७१ ।।
तेषामुपश्रुत्य तदा वचांसि तीव्राणि नन्दीश्वरभाषितानि ।
आदित्यसूनुः प्रचुकोप मोहात् स्वयं प्रयातुं च मतिं चकार ।।७२। ।
अथाभ्ययात् क्रोधविरक्तनेत्रः सर्वैर्वृतो मृत्युपुरस्सरैस्तैः ।
विनिःश्वसन्नाग इव प्रचण्डो जगद्दिधक्षन्निव कृत्स्नमेकः । ।७२।।
दृष्टा मुनिं श्वेतमपेतमोहं वृतं गणेन्द्रैर्हरतुल्यरूपैः ।
मुञ्चध्वमेनं तरसेत्यवोचन्४८ नन्दीश्वराद्यान् ग्रहराजसूनुः । ।७४।।
कस्त्वं यम४९ श्वेतमुनिं विनेतुं भवस्य धन्यः५० प्रमथेशभक्तम् ।
संरक्ष्यमाणं स्वयमेव मूढं५१ गच्छाकृतात्मन्निति नन्द्युवाच । ।७५।।
अथ श्रुत्वा वचस्तस्य नन्दिनः परुषं महत् ।
यमः प्रोवाच संक्रुद्ध इदं सर्वगणाधिपम् ।।७६।।
गणेन्द्रा गतजीवोयं विप्रस्तिष्ठति मूढवत् ।
किमनेन विमुञ्चध्वं मा वृथा खेदमाप्स्यथ । ।७७। ।
रक्षितोपि चिरं ह्येष मामेव समुपैष्यति ।
कालेन परिपूर्णेन क्षीणायुरिह कश्चन ।।७८। ।
तपोधर्मसमायुक्तो विद्वानपि न जीवति ।
यदनेन कृतं कर्म धर्म्यं गर्हितमेव वा । ।७९। ।
सन्त्यज्य तदिमं५३ देहं प्राप्नोतु५४ गणपाधिपाः ।
ममायत्तमिदं५५ सर्वं भूतग्रामपरीक्षणम्५६ । ।8.166.८० । ।
पुण्यपापीयसोर्नित्थं कर्मणोः प्रविचारणम्५७ ।
तेनार्पयत मे क्षिप्रं श्वेतमेनं गतायुषम् । ।८१ । ।
- - - -- - - - - - - - -
४६ यावदेते - ख. । ४७ वारणन्दर्पमोहितम् - ख. । ४८ तरसैत्यवोचन् - क. ख । ४९ यमः - क. । ५० धन्यं - क. ख. । ५१ मूढ - ख ५२ ..पेष्यते - क., .. पास्यति - ख । ५३ तमिमं - ख. । ५४ प्राप्तातु - ख. । ५५ मदायत्तमिदं (?) । ५६ भूतग्रामपीक्षणम् - ख., ... समीक्षणम् (?) । ५७ विप्रचारणम् - क. ।
- - - -- - - - - - - - -

876
अथवैनं गृहीत्वेह सर्व एव गणेश्वराः ।
प्रयाम शूऽलिनोभ्यासं नियतं स विमोक्ष्यति । ।८२ । ।
पितृराजवचः श्रुत्वा नन्दीश्वरपुरोगमाः ।
एवमस्त्विति तं प्राहुर्यमं क्रोधवशं गतम् । ८३ । ।
ततस्ते सहिताः सर्वे श्वेतश्च मुनिसत्तमः ।
जगन्नाथं हरं द्रष्टुमाजग्मुविन्ध्यपर्वतम् । ।८४।।
न्यवेदयद्यथावृत्तं नन्दी सर्वगणाधिपः५८ ।
प्रणम्य परया भक्त्या भवायामिततेजसे । ।८ ५ । ।
श्रुत्वा तु भगवान् वाक्यं नन्दिना संप्रभाषितम् ।
प्राह वैवस्वतं साक्षात् स्निग्धगम्भीरया गिरा । ।८६। ।
श्वेतस्यास्य परा भक्तिर्मयि प्रेतगणाधिप ।
अतः५९ क्षीणायुषोप्यस्य मृत्युर्न प्रभविष्यति । ।८७। ।
महता तपसा भक्त्या मयि भावितचेतसः६० ।
मत्प्रसादाज्जितो मृत्युः श्वेतेनानेन तापन । ।८८। ।
ममादेशात्त्वयाप्यस्य नैव कार्यः पराभवः ।
किन्न वेत्सि रवेः पुत्र मद्भक्ता नरपुङ्गवाः । ।८९। ।
न पश्यन्ति तवावासं६१ देहभेदेप्युपस्थिते ।
अस्य भक्तिविशेषेण परेण परितोषितः । ।8.166.९० ।।
अनेनैव शरीरेण अमरत्वं ददाम्यहम् ।
इति मत्वा विसन्देह६२स्त्वरा गच्छ स्वमालयम् । ।९ १ ।
इति देववचः श्रुत्वा प्रणम्य तपनात्मजः ।
परमार्थमविज्ञाय प्रोवाचेदं पिनाकिनम् । ।९ २ ।।
त्वयैव भगवन्नेषा स्थितिः सृष्टा पुरातनी ।
कर्मण्यस्मिन्नियुक्तोहं जन्ममृत्युविचारणे । । ९३ । ।
अधिकार६३ निवृत्तौ६४ हि शक्रस्यापि वृषध्वज ।
त्वयैव पवनः सृष्टो ह्यहं६५ चैव सुरेश्वर । ।९४। ।
- - - -- - - - - - - - -
५८ गणाधिपम् - क । ५९ अथ - क. । ६० भावितचेतसि - क., चेतसा (?) । ६१ यमावासं क.। ६२ मत्वापि सन्देह क। ६३ अधिकरो ( ?) । ६४ निर्वृत्तौ - क-, नियुक्तौ ख, निवृतौ(?), निवृत्तो (?)। ६५ अहं क.।
- - - -- - - - - - - - -

877
न केनचिदयं६६ पन्थाः कालमृत्युक्षयात्मकः६७ ।
व्यभिचीर्णो महादेव कालातिक्रमधारणात्६८ । । ९५ । ।
एवमेतां परां सृष्टिं विचिन्त्य विबुधेश्वर ।
मोक्तुमर्हसि विप्राग्र्यं काले पूर्णे६९ गतायुषम् । । ९६ । ।
एवं स्थितिरभिन्ना७० स्यादहं च न विमानितः ।
मृत्युश्चान्तःशरीरस्थः७१ श्वेतस्तद्वरमाप्स्यति । । ९७ । ।
इत्युक्तं७२ प्रेतराजेन श्रुत्वा वाक्यं वृषध्वजः ।
दिप्ताङ्गार७३ इवैकस्मात्७४ संहार इव पावकः । । ९८ । ।
जगत्क्षोभ इवाकस्मादुत्प्रेक्ष्यः७५ समपद्यत ।
नन्दीशस्य ततः स्कन्धमुपाश्रित्य पिनाकधृक् । । ९९ । ।
इदं प्राह वचो व्यास तं दृष्ट्वा यममास्थितम् ।
अहो दिनकृतः सूनोरस्य शाठ्यप्रभाषितम्७६ । । 8.166.१०० । ।
कार्कश्यं वचसः पश्य प्रत्युत्तरसमीरितम् ।
परित्रातो मया श्वेतो यम गच्छेति भाषितः७७ । । १०१ । ।
मुञ्च श्वेतमिति प्राह मामेव गतचेतनः ।
किन्त्वयं मूढ एव स्यादुत पौरुषगर्वितः । । १०२ । ।
गच्छेति को मयाज्ञप्ते७८ स्थातुमत्र भवत्यलम् ।
प्रत्युत्तरं पुनः प्राह मामेव पुरतः स्थितः७९ । । १०३ । ।
एवं स भगवानुक्त्वा जगत्प्रभवकारणः ।
तिर्यग् दृष्टि समाधाय सरोषं यममैक्षत । । १०४ । ।
स तेन चक्षुषा दग्धो निपपात महीतले ।
महावृक्ष इवारण्ये महावायुसमीरितः ।
भस्मसात्त्वं८० ययौ तूर्णं प्रजहास ततो भवः । । १०५ । ।
- - - -- - - - - - - - -
६६.. दियं - क ख. । ६७ क्षयात्मिका - क । ६८ वारणात् (?) । ६९ पूर्णं - ख । ७०. रभिज्ञा - क. ख.। ७१ श्चान्तशरीरस्यः - क., श्चान्यशरीरस्थ - ख, स्थ - क ख. । ७२ इत्युक्तः - ख. । ७३ दीप्तांश?व - क. ख. । ७४ इवाकस्मात् (?) । ७५ दुष्प्रेक्ष्य (?) । ७६ सान्त्वप्रभाषितम् (?) । ७७ भाषितं - ख । ७८ ज्ञप्तः (?) । ७९ स्थितं - क ख. । ८० भम्मसाच्च - क ।
- - - -- - - - - - - - -

878
श्वेतं ततस्तं प्रणतं मुनिं तु सगद्गदं मृत्युभयाद्विषण्णम् ।
पस्पर्श मूर्ध्नि त्रिपुरासुरारिर्वचो न भेतव्यमिति ब्रुवाणः ।।१ ० ६। ।
प्रादाद्वरं शूलधरश्च८१ तस्मै मृत्युर्न ते विप्र भविष्यतीति ।
ददौ च नित्यं गणपत्वमेव प्रोवाच चैनं परितुष्ट ईशः । । १ ०७।।
क्रुद्धश्च यस्मादहमर्कसूनोरस्मिन् गिरौ पुण्यतमस्ततोयम् ।
वत्स्यामि चेहाचलराजमूर्ध्नि क्रोधेश्वरस्तेन भविष्यतीह । । १ ०८। ।
विन्ध्यप्रदेशेमरसिद्धजुष्टे क्रोधेश्वरे पुण्यगिरौ पुमांसः ।
त्यक्ष्यन्ति ये देहमपेतमोहास्तेषां गतिः श्वेतसमा स्मृता मे ।।१ ०९।।
द्रक्ष्यन्ति श्वेतेश्वरमत्र ये च ते चापि दिव्या गणपा ममैव ।
तवैव८२ नाम्ना च नदी सुपुण्या८३ श्वेतस्य गङ्गेति भविष्यतीयम्८४ ।।8.166.१ १ ०।।
सन्तर्पणान्नैकविधं८५ पितॄणां स्वर्लोकदं स्थानमतीव यस्याम्८६ ।
इत्युक्तमात्रे जगदीश्वरेण श्वेतो मुनिर्दिव्यवपुर्बभूव । ।१ ११ ।।
नन्दीशचण्डेशसमानधर्मा प्रणम्य देवं पुरतः स्थितोभूत् ।
दृष्ट्वाथ सूनुं विगतासुमर्कः शोकाभितप्तस्त्वरितो जवेन ।। ११२ ।।
ब्रह्मादिभिः शक्रपुरस्सरैस्तैः८७ सार्द्धं जगत्कारणमाजगाम ।
विज्ञापयामासुरथामरास्ते आदित्यसूनु८८ प्रतिजीवहेतोः ।। ११३ । ।
मूढो यतोयं जगदीश्वरेश कृच्छ्रं तत८९स्तीव्रमिदं प्रयातः ।
प्रसीद देवेश कुरु प्रसादं जीवत्वयं प्रेतगणाधिराजः । १ १४। ।
यथापुरा चैष भवत्विदानीमार्त्तिं हि९० नश्छिन्धि सुरासुरेश ।
विज्ञप्तिमेवं त्रिदिवालयानां ब्रह्मादिशक्रार्कपुरस्सराणाम् ।।१ १ ५। ।
श्रुत्वा यमं तं करुणायमान उत्तिष्ठ पुत्रेति विभुर्बभाषे ।
दिव्यं ततः पूर्ववदद्रिकल्पं विभ्रत् स देहं ग्रहराजसूनुः ।। ११६ ।।
प्रोत्थाय तूर्णं भगवन्तमाशु ननाम पद्भ्यां सहसा गृहीत्वा ।
ब्रह्मादयस्ते च सुरेन्द्रसंघा दृष्ट्वा९१ ततस्तान् प्रणतानवोचत् । ।११७।।
- - - -- - - - - - - - -
८१ शूलभृतश्च - क. । ८२ तथैव - ख. । ८३ नदीषु पुण्या - ख. । ८४ भविष्यतीह - क. । ८५ सन्तर्पणं नैकविधं - क., .. णेनैकविधिं - ख । ८६ यत्स्यात् (?) । ८७ शक्रादिभिर्ब्रह्मपुरस्सरैस्तैः (?), पुरस्सरैश्च - ख. । ८८.. .सूनुं - क. । ८९ जगत् - क. । ९० ह - क । ९१ दृष्टा - क.।
- - - -- - - - - - - - -

879
ब्रह्मार्कविष्णुज्वलनादिनाथः कर्ता सुराणां सुरनाथ एकः ।
सुरेश्वरः सोमजटार्धमौलिर्देवाः प्रयात स्वनिकेतनानि । । ११८ ।।
विज्ञप्तिरेषा सफला कृता वो मैवं९२ कृथास्त्वं पुनरात्ममोहम्९३ ।
प्रेतेश्वरं चेति वचोभ्युवाच जग्मुस्ततो देवगणाः प्रणम्य । । ११९ ।।
प्रगृह्य सौरिं पितृराजमाशु श्वेतोपि तस्थौ मरणाद्विहीनः ।
नन्दी यथा निर्वृतदुःखभाव९४स्तथैव विप्रः परमेशभक्तः९५ ।। 8.166.१२० ।।
इति कथितमिदं ते श्वेतमृत्युप्रणाशं
हिमगिरितनयाया भर्तुरीशस्य शम्भोः ।
फलमवितथभक्ति९६ प्राप्तिसंपद्विशेषं
जगति शरणमेकं तं शरण्यं नमस्ये । ।१ २१ । ।
इति स्कन्दपुराणे श्वेतवरप्रदाने षट्षष्ट्युत्तरशततमोध्यायः९७

 व्यास उवाच
यत् प्रोक्तं भवता गुह्यं माहात्म्यमिदमुत्तमम् ।
नान्यस्यैतद् भवेन्मुक्त्वा जगदार्त्तिहरं हरम् ।।१ ।।
पुण्यान्यायतनानीह देदेवस्य शूलिनः
यानि दृष्ट्वा न शोचन्ति जन्ममृत्यू महामुने१ । ।२।।
तानि मे ब्रूहि धर्मज्ञ यद्यनुग्राह्यता मयि ।
एवं कृतार्थमात्मानं मुच्ये यन्मुनिसत्तम । ।३ । ।
व्यासस्य वचनं श्रुत्वा ब्रह्मपुत्रोब्रवीदिदम् ।
साधु व्यास महाबुद्धे भक्तिमानसि शङ्करे । ।४। ।
- - - -- - - - - - - - -
९२ यै... - क., मे... - ख- । ९३ ...मोहात् - ख. । ९४ निर्हृतदुःखभाव (?) । ९५ ...भक्त्या - ख. । ९६ पुण्य (?) । ९७ २१४ - ख ।
१ जन्ममृत्युभयान्नराः - क. ।
- - - -- - - - - - - - -

880
स्थानानि शूलिनो यस्त्वं पुण्यानि श्रोतुमिच्छसि ।
कृतार्थस्त्वं महायोग मुक्तः संसारबन्धनैः । ।५। ।
शृणु वक्ष्यामि ते वत्स गुह्यमेतत् परं हि मे ।
स्थानानुवर्णनं२ शम्भोर्मृत्युजन्मभयापहम् ।। ६। ।
आदित्यबन्धनं नाम कूटं विन्ध्यगिरेः शुभम् ।
स्थापितं तत्र लिङ्गं तु तपनेन महाप्रभम् ।।७ ।।
तद् दृष्ट्वा मनुजो व्यास जन्मप्रति न शोचति ।
हेमसोमोद्भवं नाम कूटं हिमगिरेः शुभम् । ।८। ।
पुण्यमायतनं तत्र च्यवनेनाभिनिर्मितम् ।
ये तदायतनं शम्भोरभिगच्छन्ति मानवाः । ।९। ।
 न च्यवन्ति पुनः स्वर्गात् प्रलयेपि समागते ।
उदये तु गिरौ पुण्ये सिद्धसंघैर्निषेविते । । 8.167.१० । ।
सत्यो नाम ह्रदः पुण्यो हेमपद्मसमावृतः ।
यत्र ते मुनयः सत्याः सत्यानलरविप्रभाः । । ११ । ।
धारयन्ति महात्मान आशीर्भिस्सरथं४ रविम् ।
पुण्यमायतनं तत्र स्थापितं तैः पिनाकिनः५ । । १ २। ।
अमरैरर्चितं व्यास सिद्धविद्याधरैर्वृतम् ।
यैस्तदायतनं दृष्टं भवभक्तैर्वियद्गमैः६ ।। १३ ।।
ते भवस्य प्रिया भूत्वा भवन्ति प्रमथेश्वराः ।
उशीरवीजः शैलेन्द्र७स्तत्राश्रमपदं महत् । । १४। ।
आगस्त्यस्य तृणाङ्गस्य देवदानवपूजितम् ।
महानीलमयं लिङ्गं तस्मिन् व्यास महोच्छ्रयम् ।। १ ५।।
तस्मिन्नायतने रुद्रं तृणाङ्गः स महानृषिः ।
दक्षिणामूर्त्तिमास्थाय८ स्तौति नित्यं कपर्दिनम् ।
दिवौकसस्तमभ्यर्च्य भवन्ति गणपाधिपाः ।। १६ ।।
- - - -- - - - - - - - -
२ स्थानानां वर्णनं - ख. । ३ तं - क. ख । ४ माशोर्मिस्सरथ - ख. । ५ पिनाकिनं - क ख । ६ विपद्गतैः - ख. । ७ उशीरवीजशैलेन्द्र - ख. । ८ दक्षिणां मूर्तिमास्थाय - क. ख. ।
- - - -- - - - - - - - -

881
उत्तरेण निरालोके रविचन्द्रविवर्जिते ।
मेरुशृङ्गे महोत्सेधं सौवर्णं स्थापितं महत् । ।१७। ।
लिङ्गं भगवतो व्यास यत्रास्ते शूलधृक् स्वयम् ।
उत्तानपादपुत्रेण भवभक्तिपरात्मना । ।१८। ।
नित्यमभ्यर्चितं लिङ्गं ध्रुवेणास्ते९ महामुने ।
देवानामप्यगम्यं तद् ध्रुवं मुक्त्वा परं वरम् । । १ ९।।
जैगीषव्येण मुनिना अस्ते पर्वतराजनि ।
स्थापितं सुमहल्लिङ्गं देवदेवस्य शूलिनः ।। 8.167.२० ।।
तद्१० दृष्ट्वा मानवो व्यास रुद्रलोकमवाप्नुयात् ।
मोक्षविद्यास्वभिज्ञाश्च सांख्ययोगविशारदाः ।।२१ ।।
भवन्ति मनुजा दृष्ट्वा तल्लिङ्गं परमाद्भुतम् ।
नन्दने देवराजेन स्थापितं लिङ्गमुत्तमम् । ।२२।।
तपनीयमयं शुभ्रं देवता यदुपासते ।
तद् दृष्ट्वा देवता लिङ्गं११ प्राप्नुवन्ति परं पदम् । ।२ ३ । ।
क्षीरोदे सागरे दिव्यं१२ बालखिल्यैः१३ स्वयं कृतम् ।
महदायतनं पुण्यं सिद्धकिन्नरसेवितम् । ।२४। ।
तस्मिँश्चन्द्रप्रभं लिङ्गं स्फाटिकं मणिरञ्जितम् ।
बालखिल्यास्तमभ्यर्च्य जग्मुरीशसलोकताम्१४ ।। २ ५।।
सौवर्णं यक्षराजेन स्थापितं गन्धमादने ।
लिङ्गं भगवतो दिव्यं यत् कुबेरेशनामकम्१५ । ।२६ ।।
मन्दारकुसुमैर्दिव्यैर्हेमपद्मैश्च भक्तितः ।
तमभ्यर्च्य महेशानं कुबेरो निर्वृतोभवत् । ।२७। ।
यैस्तदायतनं दृष्टं कुबेरस्य सुरासुरैः ।
सर्वयज्ञफलं तेभ्यो ददाति वृषभध्वजः । ।२८ । ।
एभ्यः पुण्यतमानीह यानि गम्यानि मानुषैः ।
शृणु तानि महाबुद्धे स्थानानि शशिमौलिनः । ।२९। ।
- - - -- - - - - - - - -
९ ध्रुवमस्तौ - ख. । १० तं - क. ख । ११ देवतास्ते तु - क ख. । १२ दिव्ये - क. ख. । १३ बालिखिल्यैः - क. ख. । १४ ...रीशस्य लोकताम् - क. । १५ कुबेरो ननाम ह( म्) - क. ख. ।
- - - -- - - - - - - - -

882
सर्वपर्वतराजस्य शृङ्गे हिमवतः शुभे ।
महालयमिति ख्यातं स्थानमाद्यं स्वयम्भुवः । ।8.167.३ ० ।।
यत्र सर्वामरा व्यास चतुर्वक्त्रपुरस्सराः ।
संसिद्धा मुनयश्चैव ये च योगीश्वरा भुवि । ।३ १ । ।
समभ्यर्च्य हरं१६ भक्त्या तदवाप्ताः परं पदम् ।
यत्र साक्षान्महादेवो न्यस्तवान् पदमात्मनः ।। ३ २।।
यं प्रणम्य नराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
अभिगम्य तमीशानं महालयनिवासिनम् ।। ३३ ।।
देहभेदं समासाद्य यत्र तत्र यथा तथा ।
न पुनर्जायते मर्त्यो यातः१७ सिद्धिमनुत्तमाम् । ।३४।।
न तं पश्यन्त्यधर्मज्ञा१८ येपि पापकृतो१९ नराः ।
महागणपतिस्तत्र द्वारसंस्थो महाबलः ।। ३ ५।।
स तेषां गमनं हन्ति ये नराः पापकारिणः ।
योगिनो यत्र देवाश्च सिद्धाश्च परमर्षयः२० । ।३ ६। ।
तं२१ प्रणम्य ययुः सिद्धिं पुण्यं पशुपतेः पदम् ।
तस्य संकल्पनादेव द्रक्ष्यामीति महालयम् ।। ३७। ।
कर्मभिर्मुच्यते जन्तुर्महापातकसंज्ञितैः२२ ।
महालयं महत्क्षेत्रं मोक्षसिद्धिप्रदं शुभम्२३ ।।३८। ।
कुलान्युभयतः२४ सप्त दृष्टत्वा त्रायति मानवः ।
ततः पुण्यतमं व्यास केदारं नाम नामतः ।।३९। ।
परं धाम वृषाङ्कस्य तस्यैवोत्तरतः शुभम्२५ ।
स्वयं किल हरो देवस्तस्मिन्नचलसत्तमे । ।8.167.४० । ।
जटाभाराज्जलं पुण्यं मुमोच - - - - - ५ ।
- - - दभवत्तत्र हरमौलिविनिःसृतम् ।।४१ ।।
- - - -- - - - - - - - -
१६ महद् - ख. । १७ जन्तुर्यातः - ख । १८ धर्मिज्ञा - क. । १९ महापापकृतो - ख. । २० परमर्षभ - क- । २१ तत् - ख. । २२ संज्ञितम् - क. । २३ विभो - ख. । २४ कुलानुभयतः - क. ख. । २५ शुचिम् - ख. । २६ इतः पर पत्रमेकं खण्डितं ख. पुस्तके ।
- - - -- - - - - - - - -

883
नरास्तदमृतप्रख्यं ये पिबन्ति जलं शुभम् ।
ते भवन्ति गणा व्यास कुष्माण्डा रुद्रवल्लभा । ।४२ ।।
महारूपा महात्मनो नन्दिनोप्यधिकप्रभाः ।
केदारवासिनं दृष्टवा देवदेवं जगत्पतिम । ।४३ । ।
- - - - - -- -- - ।
ब्रह्मा शक्रस्तथा विष्णुः सोमो यक्षगणाधिपः ।।४४। ।
अर्चयन्ति स्थितं तत्र भक्तितः परमेश्वरम् ।
केदारसलिलं पीतं यैर्नरैः सुमहात्मभिः ।।४५। ।
कथं शोचन्ति ते व्यास प्राप्तं किन्नु न तैः सुखम् ।
केदारे हिमवन्महीध्रशिखरे यत्तत्पयः प्रस्रुतं
मूर्ध्नः सोममहेन्द्रविष्णुमरुतां स्रष्टुर्विभोः शूलिनः ।
पातुं यन्न लभन्त्यधर्मरुचयः शैवं विनानुग्रहं
तत्पीत्वा भवबन्धनप्रतिभयान्मुक्ता भवेयुः प्रजाः । ।४६।।
मध्यमेश्वरमत्रैव स्थानमाद्यमुमापतेः ।
गत्वा२७ तमपि देवेशं गाणपत्यमवाप्नुयात् । ।४७।।
तत्रापि स्वयमेवेशः सदा सन्निहितो मुने ।
अभिगम्य तमीशानं न शोचेन्मरणं प्रतिं ।।४८। ।
त्रयाणामपि लोकानां प्रदेशे हिमवद्गिरेः ।
एष श्रेष्ठतमो व्यास सर्वसिद्धिप्रदः शुभः ।।४९।।
अस्याभिगमनादेव सर्वयज्ञफलं स्मृतम् ।
विपन्नस्य प्रमादाद्वा गाणपत्या गतिर्वरा । ।8.167.५० ।।
नातः पुण्यतमं किञ्चित् सर्वलोकेषु विद्यते ।
त्रैलोक्ये चक्रवर्त्तित्वमस्मिन् वा मरणं गिरौ । ।५१ ।।
चक्रवर्त्तिपदात्तस्मादिह मृत्युर्विशिष्यते२८ ।
याति सायुज्यतां शम्भोः परमैश्वर्यसंयुतः२९ ।।५२ । ।
- - - -- - - - - - - - -
२७ दृष्ट्वा (?) । २८ ...र्विशेष्यते - क. । २९ संयुतं - क ।
- - - -- - - - - - - - -

884
गिराविह मृतो जन्तुः किन्ततः परमं पदम् ।
महद्धिमवतस्त्वन्यत् कूटं सिद्धनिषेवितम् ।।५३ ।।
यत्र देवी तपस्तेपे गौरवर्णसमीप्सया ।
गौरीशिखरमित्येव त्रिषु लोकेषु विश्रुतम् ।।५४। ।
कुचकुण्ड इति ख्याते तीर्थे यत्रोमया कृते ।
तद् गौरीशिखरं पुण्यं येभिगच्छन्ति मानवाः । ।४५।।
अश्वमेधफलं प्राप्य ते यान्ति परमां गतिम् ।
ऋषभं शृङ्गमपरं वज्रस्फटिकसन्निभम् । ।४६।।
यत्र नन्दी तपस्तेपे वरञ्चावाप शङ्करात् ।
ऋषभं प्राप्य तत्कूटं स्थानं पुण्यमुमापतेः । ।५७। ।
दृष्ट्वा पापविनिर्मुक्तो रुद्रलोकमवाप्नुते ।
अन्यद्धिमगिरेः कूटं हेमकूटसमप्रभम् ।।५८। ।
यत्र भस्त्रेश्वरं नाम रुद्रस्यायतनं शुभम् ।
रुद्रस्तस्मिन् गिरौ देवो भस्त्रेश्वर इति स्मृतः । ५९। ।
तं नमस्य महादेवं किन्नरोरगचारणाः ।
मृत्युभीताश्च पुरुषा जन्मदुःखैस्तथार्दिताः । । 8.167.६० ।।
तदायतनमासाद्य कामानापुर्यथेप्सितान्३० ।
तं दृष्ट्वा मनुजो व्याप्त राजसूयफलं लभेत् ।।६१ । ।
गङ्गाद्वारे शुभद्वारे महापुण्ये महात्मना ।
दक्षेण स्थापितं लिङ्गं भक्तिहेतोः कपर्दिनः ।।६२। ।
वृक्षाः कनखला नाम यत्रासन् कनकात्मकाः ।
मानुषाणामशीलत्वात् संवृक्णा३१ दारवो३२ बभुः ।।६३ ।।
विश्वात्मा यत्र विश्वेशः शम्भुरम्बिकया सह ।
बहुरूपेश्वरो नाम्ना नैकप्राणिवरप्रदः । ।६४। ।
मानवा यन्न पश्यन्ति जन्म चेष(?) मुमुक्षवः ।
वाजिमेधं दशगुणं यं दृष्टवा प्राप्नुते नरः । ।६५। ।
- - - -- - - - - - - - -
३० कामानाप्नुर्यथेप्सितानु - क. । ३१ संवृत्ता - क. । ३२ दारवा - क. ख, ।
- - - -- - - - - - - - -

885
यं देवविद्याधरसिद्धसंघा गन्धर्वयक्षोरगदानवाश्च ।
दृष्ट्वेश्वरं नीलपयोदकण्ठं संसारपङ्के न पुनः पतन्ति । ६६।।
जप्येश्वरमिति ख्यातमन्यदायतनं विभोः३३ ।
यत्र जप्यं पुरा कृत्वा लिङ्गं स्थापितवान् द्विजः ।।६७। ।
जप्येश्वरं तदासाद्य३४ प्राणाँस्त्यक्ष्यन्ति ये नराः ।
ते जन्ममरणान्मुक्ता वत्स्यन्ति शिवसद्मनि । । ६८। ।
अन्यदायतनं व्यास शशिबिम्बार्धमौलिनः ।
महाभैरव इत्येव ख्यातं३५ जगति यन्मुने ।। ६९।।
यत्र शूलधरो देवः स्वयमेव वृषध्वजः ।
चकार भैरवं रूपं नन्द्युमागणभीषणम् । ।8.167.७० । ।
यद् दृष्टवा३६ हिमवत्पुत्री बभूव भयविह्वला ।
क्रीडाहेतोर्भवो यत्र त्रासयित्वा रिरीन्द्रजाम् । ।७१ । ।
सौम्यरूपोभवद् भूयः सान्त्वयामास शैलजाम् ।
महाभैरव इत्येव तदायतनमुच्यते । ।७२ । ।
भैरवेश्वरमागम्य यः पश्येत पिनाकिनम् ।
मरणं जन्म च३७ व्यास नासौ पुनरवाप्नुयात् । ।७३ । ।
यदेवाश्रमिणां पुण्यं तथेशव्रतचारिणाम् ।
तत्फलं भैरवं दृष्ट्वा प्राप्नोति नरपुङ्गवः३८ । ।७४।।
कुम्भकारेश्वरं३९ चैव तथैवोत्कुटुकेश्वरम्४० ।
छगलण्डेश्वरं४१ चैव महाभैरवजं स्थलम्४२ । ।७५।।
दृष्टैरेभिस्त्रिभिः स्थानैस्त्रिलोकाधिपतिर्भवेत् ।
रुद्रकोटीति४३ चाप्यन्यच्छिवायतनमुच्यते ।।७६।।
रुद्रकोटीत्रयं जप्त्वा तत्र नन्दी वरोत्तमान् ।
अवाप शङ्कराद् व्यास गणेशत्वं तथोत्तमम् । ।७७। ।
- - - -- - - - - - - - -
३३ विभो - क । ३४ तमासाद्य - क । ३५ ख्यातिं - क । ३६ यन्दृष्ट्वा - क. ३७ वा - क । ३८ भगपुङ्गवः (?) - क । ३९ कुम्भकारेश्वरे - ख. । ४० ..कुटुकेश्वर. - क, ... कुटुकेश्वरे (?) । ४१ छगलण्डश्वरे - क,.. रं - ख. । ४२ फलम् - क, । ४३.. भि - क. ।
- - - -- - - - - - - - -

886
यैस्तदायतनं दृष्टं ते यान्ति परमां गतिम् ।
देवदारुवने चापि भवस्यायतनं वरम् । ।७८। ।
देवदारुवनैश्छन्नं सरलैश्च सुगन्धिभिः ।
सदा संसेवितं तद्धि गन्धर्वोरगकिन्नरैः ।।७९ । ।
यत्र वैखानसा विप्राः शिवभक्तिपरायणाः ।
भास्करानलसंकाशा निवसन्ति तपोधनाः । ।8.167.८० ।।
भिक्षाहेतोर्वनं तत्तु४४ प्राविशत् किल शूलधृक् ।
स दृष्टस्तत्र४५ देवेशो मुनिभिः स्तब्धमेहनः ।।८१ ।।
ईर्ष्यया मुनिभिर्लिङ्गं तस्य देवस्य तन्महत् ।
विमूढैः पातितं व्यास देवदारुवनाश्रमे ।।८२। ।
तस्मिन् निपतिते४६ लिङ्गे लिङ्गहीनमभूज्जगत् ।
स्थावरं जङ्गमं चैव बभौ सर्वं नपुंसकम् । ।८ ३ ।।
ब्रह्मादयस्ततो देवास्ते च सिद्धा मुमुक्षवः ।
ज्ञात्वा शङ्करजं सर्वं तदपायं सुदारुणम् ।। ८४। ।
संस्तुत्य विविधैः स्तोत्रैः शङ्करं पर्यतोषयन् ।
ततस्तदभवल्लिङ्गं यथापूर्वं पिनाकिनः । ।८५।।
जगतश्च ततः४७ पुंस्त्वं तत्क्षणात् समपद्यत ।
तत्र तैः स्थापितं लिङ्गं परमेशस्य भक्तितः । ।८६।।
तद् दृष्टवा४८ वाजिमेधानां दशानां प्राप्नुते फलम् ।
एवं४९ दारुवनं५० पुण्यमीशस्यास्ते महामुने५१ ।।८७।।
अभिगम्य नराः क्षिप्रं मुच्यन्ते सर्वपातकैः ।
दधीचेन महद्दिव्यं पुण्यमायतनं कृतम् । ।८८।।
स्थानेश्वरमिति ख्यातं त्रिषु लोकेषु५२ विश्रुतम् ।
नरः स्थानेश्वरं प्राप्य यस्त्यजेदात्मनस्तनुम् ।।८९।।
- - - -- - - - - - - - -
४४ तत्र - क. । ४५ अदृष्टस्तत्र - क, संदृष्टस्तत्र(?) । ४६ हि पतिते (?) । ४७ पुनः - ख । ४८ तन्दृष्ट्वा - क ख, । ४९ देव - ख. । ५० दारुवणं - क । ५१ स - क, .. मीशस्य सुमहामुने - ख., महात्मनः - ख. । ५२ लोकेषु त्रिषु - ख. ।
- - - -- - - - - - - - -

887
योगैश्वर्यमनुप्राप्य स्वर्गलोके स मोदते५३ ।
तक्षकेन भुजङ्गेन दृढभक्तेन५४ शङ्करे५५ । ।8.167.९० ।।
तक्षकेश्वरमित्येवं स्थापितं जाह्नवीतटे ।
देवदेवस्य रुद्रस्य यत्र सान्निध्यमुत्तमम् ।।९१ । ।
तन्दृष्टत्वा पुरुषो देवमश्वमेधफलं लभेत् ।
अगस्त्येन कृतं चान्यत् पुण्यमायतनं महत् । ।९२ ।।
आम्रातेश्वरमित्येव ख्यातं जगति सुव्रत ।
दृष्ट्वा परमया भक्त्या पुरुषस्तं शुचिव्रतः । ।९३।।
देहभेदमनुप्राप्य शर्वलोकमवाप्नुयात् ।
गिरौ कालञ्जरे लिङ्गं दृष्ट्वा स्थानमुमापतेः । । ९४। ।
अश्वमेधफलं प्राप्य रुद्रलोकमवाप्नुयात् ।
पुष्पभद्रमिति ख्यातं विन्ध्यप्रस्थे द्रुमावृतम् । ।९५।।
भवस्यायतनं पुण्यं देवगन्धर्वसेवितम् ।
यत्तद्रावणपुत्रेण मेघनादेन रक्षसा ।
स्थापितं तोषयानेन सर्वभूतपतिं भवम् । ।९६। ।
यत्र मन्दोदरीपुत्रः स्थाणुना शशिमौलिना ।
मायारथप्रदानेन कृतः प्राप्तमनोरथः । ।९७।।
तद,५६ दृष्टवा तत्र गत्वा५७ च प्रणम्य च जगत्पतिम्५८ ।
पुरुषाः स्वर्गमायान्ति दिव्ययोगसमन्विताः ।।९८। ।
अन्ध्रेष्वायतनं चान्यच्छर्वस्य परमात्मनः ।
नाम्ना चित्ररथं नाम योगसिद्धिवरप्रदम् । ।९९। ।
त्रिपुरस्य वधे यत्र रथो देवस्य धीमतः ।
अमरैश्चित्रितो५९ व्यास सोमादित्ययमादिभिः ।। 8.167.१०० ।।
सम्यगिष्टे तु६० यत् प्रोक्तमश्वमेधे फलं६१ बुधैः ।
तच्चित्ररथमासाद्य फलं प्राप्नोति६२ मानवः ।।१ ०१ । ।
- - - -- - - - - - - - -
५३ मोदति - ख. । ५४ दृढ भक्तेन - क. । ५५ शङ्कर - क. ख. । ५६ तं - क. । ५७ चाभिगत्वा - ख. । ५८ जगतः पतिम् - ख. । ५९ ...श्चिन्तितो - ख. । ६० सम्यगिष्टेषु - ख. । ६१. अश्वमेधफलं - क. । ६२ लभति - क. ।
- - - -- - - - - - - - -

888
अन्यदुक्तरथं नाम भवस्यायतनं शुभम् ।
सुरकिन्नरगन्धर्वैः सदा संसेवितं शुभम् । । १०२ । ।
तत्र श्रीपर्वतो६३ नाम पर्वतः श्रीनिकेतनः ।
सिद्धामरशताकीर्ण्णं सिद्धिक्षेत्रं६४ तदुत्तमम् ।। १०३ ।।
शूलिनो यत्र लिङ्गानां पुण्यानां वरदायिनाम् ।
सहस्रं स्थापितं व्यास शिलादेन महात्मना । ।१ ०४।।
ये पश्यन्ति तमीशानं श्रीपर्वतनिवासिनम् । ।
जन्ममृत्युभयं तेषां नास्ति पुंसां कदाचन ।। १० ५। ।
अनेनैव शरीरेण तस्मिन् क्षेत्रे भवात्मके ।
योगाभ्यासपरा विप्राः सिद्धिं यान्ति यथेप्सिताम् ।। १०६ । ।
मनसाप्यभिगच्छन्ति ये नराः श्रीगिरिं मुने ।
न ते यान्ति यमावासं मृत्यावपि समागते ।। १०७ ।।
ततश्चोत्तरगोकर्णं हरलिङ्गाङ्किताश्रमम्६६ ।
तप्तं यत्र तपस्तीव्रं राक्षसैः पिशिताशनैः । ।१ ०८। ।
रावणाद्यैर्महाभागैर्लब्धश्च६७ वर ईप्सितः६८ ।
पुरा यत्र तपः कृत्वा प्रसाद्य च पिनाकिनम् ।। १ ०९। ।
त्रैलोक्ये चक्रवर्तित्वं रावणस्समवाप्तवान् ।
अश्वमेधं दशगुणं तद्६९ दृष्टवा लभते नरः । । 8.167.११० । ।
मृतश्च रुद्रसायुज्यं गच्छत्यत्र न ७० संशयः ।
ततो दक्षिणगोकर्णं स्थानं पुण्यं पिनाकिनः ।।१ ११ ।।
स्पृक्कया जातया यत्र७१ लङ्कामलयसानुषु ।
अर्च्यते भगवान्देवः सर्वामरवरेश्वरः । । ११२ । ।
एको७२ राक्षसशार्दूलो यत्राद्यापि विभीषणः ।
समभ्यर्च्यामरेशानं भुंक्ते राज्यमशङ्कितः७३ ।। ११३ ।।
- - - -- - - - - - - - -
६३ श्रीपर्वतं - क. । ६४ सिद्धक्षेत्रं - ख. । ६५ भवात्मिके - क. । ६६. श्रयम् - ख. । ६७ महाभाग लब्धश्च (?) । ६८ ईप्सितम् - क. । ६९ तं - क. ख । ७० गच्छते नात्र - क. ख. । ७१ तत्र - क.। ७२ एक - क. । ७३ .मशङ्कितम् - क. ।
- - - -- - - - - - - - -

889
मानवा येभिगच्छन्ति गोकर्णायतनाश्रमम् ।
दशानामश्वमेधानां प्राप्नुवन्ति फलं शुभम् । ।१ १४। ।
हरिश्चन्द्र इति ख्यातो गिरिर्नैकविनिर्झरः ।
जामदग्न्येन रामेण यस्मिन्नायतनं७४ कृतम् ।।१ १५ ।।
यत्र देवाश्च सिद्धाश्च यक्षगुह्यककिन्नराः ।
व्रतिनो योगिनश्चैव नेमिरे७५ वृषभध्वजम् । ।१ १६ । ।
हरिश्चन्द्रगिरे शृङ्गमाकूटं यैर्निरीक्षितम् ।
न ते वसन्ति मर्त्येषु देवा भूत्वा पुनर्मुने ।। १ १७।।
उत्तरे नर्मदातीरे योजनैकपथान्तरे७६ ।
कारोहणमिति स्थानं त्रिनेत्रायतनं महत् ।। ११ ८। ।
यत्र काकां७७ तपस्यन्तीमारुरोह प्रजापतिः ।
आरुरोह यतः काकां७८ तस्मिन् देशे प्रजापतिः ।। ११ ९। ।
तस्मात् कारोहणो७९ नाम्ना८० स देशः परिकीर्तितः ।
तस्मिन् देशेवतीर्णश्च भगवान् वृषभध्वजः । । 8.167.१२० ।।
पुण्योसौ सर्वदेशेभ्यो देशो येन निबोध तम्८१ ।
क्षीणे कृतयुगे व्यास त्रेतायुगमुखोदये ।। १२१ ।।
तस्मिन् पादं मुमोचैकं धर्मोधर्मनिपीडितः ।
द्वितीयं द्वापरे प्राप्त तृतीयं च कलौ युगे ।।१ २२।।
चतुर्थेनावतस्थे च यतः स भगवान् प्रभुः ।
एवं स धर्मसंवासाद्८२ देशः पुण्यतमः स्मृतः । । १२३ ।।
भारभूतिस्त्वसौ भूत्वा तस्मिन्देशे पिनाकधृक् ।
भारान्८३ बद्ध्वा द्विजातीनां नर्मदायां विचिक्षिपे ।। १ २४।।
कारुण्येन महादेवो मर्त्त्यजन्ममुमुक्षया ।
त्रेतायां दिण्डिमुण्डश्च शिरांसि विनिकृत्तवान् ।। १ २५।।
- - - -- - - - - - - - -
७४ न्नारायणं - ख. । ७५ मेनिरे - ख. । ७६ द्वियोजनपथान्तरे - ख. । ७७ कः का - क । ७८ कान्तां - क । ७१ कारोहणं - ख. । ८० नाम - क. ख. । ८१ तत् - (?) । ८२ धर्मसंवासो - ख.।
- - - -- - - - - - - - -

890
द्वापरे चाषढिर्भूत्वा८४ नृत्तेनानुगृहीतवान् ।
एवं प्रतियुगं व्यास तस्मिन्देशे शिवः स्वयम् । ।१ २६। ।
अवतीर्णश्चानुगृह्य८५ ब्राह्मणान् शुद्धमानसान् ।
तेषामायतनानि स्म सर्वेषामेव८६ सुव्रत । । १ २७।।
येन दृष्टानि देवस्य ईशान८७लोकमाप्नुयात् ।
वर्तमाने कलौ चापि ज्ञात्वा दुःखार्दितं जगत्८८ ।। १ २८।।
चतुरः८९ पुरुषान् सृष्ट्वा९० स्वस्मान्मुखचतुष्टयात् ।
प्रोवाच परमेशानो लोकानुग्रहलिप्सया९१ ।। १ २९। ।
यूयं यात महीं सर्वे द्विजा भूत्वा तपस्विनः ।
मामेवैष्यथ योगोशा नीत्वा विप्रान् परं पदम् ।। 8.167.१३० ।।
ते तथोक्त्वा ततो९२ व्यास संबभूवुः पृथक् पृथक् ।
मानुषेषु९३ तदा विप्रा मोक्षधर्मपरायणाः । ।१ ३१ ।।
उज्जयिन्यां९४ गुरुज्येष्ठः कौशिको नाम नामतः ।
द्वितीयो गार्ग्य इत्येव९५ जंबूमार्गे सतापनः (?) ।।१ ३२। ।
तृतीयश्चाभवन्मित्रो मथुरायां महामनाः९६ ।
ब्रह्मचारी चतुर्थस्तु कुरुष्वेव सुगोत्रजः । । १३३ ।।
भगवानपि देवेशो ह्यमरेश्वरसंयुतः९७ ।
अत्रिवंशप्रसूतस्य नाम्ना वै सोमशर्मणः ।। १ ३४।।

रूपं कृत्वा सिताङ्गं तु जगामात्रेर्गृहं९८ शुभम् ।
स तं ब्रह्मविदं विप्रमात्रेयं सकुलं विभुः । । १ ३५। ।
योगसिद्धिप्रदानेन अनुजग्राह शङ्करः ।
अनुगृह्य तदा व्यास सकुलं द्विजसत्तमम्९९ ।। १३ ६।।
जगामोज्जयिनीं देवः श्मशानं च विवेश ह ।
स तत्र भस्मनात्मानमवगुण्ठ्य१०० वृषध्वजः । ।१ ३७। ।
- - - -- - - - - - - - -
८४ भूत्वाषाढिर्द्वापरे च (?) । ८५ मनुगृह्य - क । ८६ तानि चायतनानीह सर्वाण्येव (?) । ८७ ऐशानं(?) । ८८ जनं (?) । ८९ चत्वारः - क. ख. । ९० दृष्टवा - ख. । ९१ कांक्षया (?) । ९२ तथोक्तास्तथा - क. ख. । ९३ तु - क. । ९४ उज्जयन्यां, उज्जयनी - क । ९५ इत्येवं - ख । ९६ महात्मना - क. ख. । ९७ देवेशममरेश्वरसंयुतः - क. ख. । ९८ जगामत्रिगृहं - ख । ९९ द्विजसत्तमः - क. । १०० भष्मासात्मा- नमवगुण्ठ्य - क ख. ।
- - - -- - - - - - - - -

891
उल्मुकं वामहस्तेन गृहीत्वा समुपाविशत् ।
तत्र प्रथममादाय शिष्यं कौशिकमीश्वरः । ।१ ३८। ।
जम्बूमार्गे द्वितीयं च मथुरायां ततोपरम् ।
कान्यकुब्जे ततश्चान्यमनुगृह्य जगत्पतिः ।। १३९।।
स्वसिद्धान्तं ददौ योगमुवाचेदं च लाकुली१०१ ।
रहस्यं परमं हीदं१०२ पञ्चार्थं इति संज्ञितम्१०३ । । 8.167.१४० । ।
विप्रान्मोचयितुं दत्तो युष्मभ्यं मर्त्त्यबन्धनात् ।
अनया दीक्षया विप्रान् प्रापयध्वं परं पदम् । । १४१ ।।
नदीतीरेषु मेध्येषु पुण्येष्वायतनेषु च ।
शून्यागारेष्वरण्येषु वासो वः सङ्गवर्जितः । । १४२। ।
वचो भगवतः श्रुत्वा शिष्याः पशुपतेः स्वयम् ।
यथाज्ञप्तमकुर्वन्त१०४ सर्वे ते भवतेजसः । । १४३ ।।
धर्मपादाङ्किते देशे अवतीर्णो यतो भवः ।
स देशः परमस्तस्मान्महापुण्यतमः स्मृतः ।।१४४।।
आश्रमो योगिनां यत्र प्रवृत्तः पापनाशनः ।
अष्टायतनमित्येवं स्थानमत्र१०५ महात्मनः ।।१४५। ।
यद्१०६ दृष्टवा मनुजा व्यास प्राप्नुवन्ति परं पदम् ।
कारोहणं शिवस्थानं येभिगच्छन्ति मानवाः ।। १४६। ।
गर्भशय्याभयं तेषां न भवेन्मुनिसत्तम ।
महीनर्मदयोर्मध्यं सह्यस्य च यदन्तरम् । ।१४७।।
एतत्पशुपतेः क्षेत्रं पुराणमृषिभिः स्तुतम्१०७ ।
तदागत्य नरो व्यास यद्यपि स्यात् सुपापकृत् ।
सर्वपापविनिर्मुक्तो१०८ यथेष्टां१०९ प्राप्नुयाद् गतिम् ।। १४८। ।
- - - -- - - - - - - - -
१०१ लागडिः - ख. । १०२ लीनं - ख. । १०३ संज्ञितः - ख । १०४ यथाज्ञाप्तमकुर्वन्त - क. ख. । १०५ स्थानं तत्र - ख. । १०६ यं - क. । १०७ ऋषिभिष्टुतं - ख. । १०८ विमुक्तात्मा - ख., विमुक्तोसौ - ख.। १०९ यथेष्टं - क. ।
- - - -- - - - - - - - -

892
कारोहणं स्थानमतीव पुण्यं शैवानि११० यत्रायतनानि धीमन्१११ ।
गत्वा नरास्तानि महाफलानि संसारगेहं न पुनर्विशन्ति ।। १४९।।
पुण्यमायतनं चान्यत् सप्तलोकाभिवन्दितम्११२ ।
वाराणस्या११३ मुनिश्रेष्ठ यत्र सन्निहितो हरः । । 8.167.१५० ।।
तत्र भागीरथी पुण्या उत्तरां भजते दिशम् ।
सिद्धिक्षेत्रं११४ बृहत्क्षेत्रं लोकेषु त्रिषु विश्रुतम् ।।१ ५१। ।
अविमुक्तं स्मृतं नाम्ना न विमुक्तं हरेण तु ।
अविमुक्तेश्वरं दृष्ट्वा देवं तत्र ह्युमापतिम्११५ ।।१५२।।
गाणपत्या गतिः प्रोक्ता मृत्युकाले महामुने ।
यत्रास्ते गणपो द्वारि विद्युत्केशो महाबलः ।।१५३ ।।
दण्डपाणिर्महातेजाः समादेशात् स्वयंभुवः ।
तमदृष्टवा न पश्यन्ति देवदेवेश्वरं हरम् ।।१ ५४। ।
योगिनोपि महात्मानः पुण्यं तस्यापि दर्शनम् ।
दण्डपाणिं शुचिर्दृष्ट्वा११६ हरदत्तवरं११७ गणम् ।।१५५।।
इह लोके सुखं प्राप्य यान्ति११८ तस्य सलोकताम् ।
यत्र सिद्धा महात्मानो योगैश्वर्यबलान्विताः । । १ ५६।।
छन्नाः प्रदक्षिणं कृत्वा प्रणमन्ति स्वयंभुवम् ।
शक्रः पितामहो विष्णुर्धनेशो वरुणो यमः । । १ ५७।।
हुतभुक् पवनः सोमः स्वयं चैव दिवाकरः ।
तथा सप्तर्षयः सिद्धा गन्धर्वाः पन्नगास्तथा । ।१५८। ।
अविमुक्तेश्वरं देवमर्चयन्ति यतव्रताः ।
ततः पुण्यतमं नास्ति सिद्धिक्षेत्रमिति श्रुतिः ।। १ ५९। ।
यत्र जन्तोर्विपन्नस्य मुक्तिः संसारबन्धनात् ।
प्रसादाज्जायते शम्भोर्गुह्यमेतत परं स्मृतम् । । 8.167.१६० । ।
गङ्गा११९ दक्षिणतस्तस्मिन्नुत्तरेण वराणसी१२० ।
तत्तयो१२१र्मध्यतः१२२ क्षेत्रमविमुक्तं पिनाकिनः । ।१ ६ १। ।
- - - -- - - - - - - - -
११० शैलानि - क., शैलाय - ख । १११ धीमान् - क. ख. । ११२.. नन्दितम् - ख । ११३ वारणसी(?) । ११४ सिद्धक्षेत्रं - ख. । ११५ तत्र देवमुमापतिम् - ख. । ११६ न्दृष्ट्वा - क. ख । ११७ हरदण्डधरं - ख. । ११८ याति - ख । ११९ गङ्गा (?) । १२० वराणमी (?) । १२१ तयोः (?), तद्वयोः (?) । १२२ र्मम तत् - क ।
- - - -- - - - - - - - -

893
लिङ्गे यत् स्थापिते शम्भोः प्राप्यते१२३ फलमन्यतः ।
तत् सहस्रगुणं प्रोक्तमविमुक्ते निवेशिते । । १६२ । ।
स्थापयेद्विधिना योषा१२४ पुमान्वा विधिपूर्वकम् ।
सहस्रं स्थापितं तेन लिङ्गानां भवति प्रभोः । । १६३ । ।
त्र्यक्षः स गणपो भूत्वा रुद्रसायुज्यतां व्रजेत् ।
अतः कृत्वा मुनिश्रेष्ठ ब्रह्मादित्यपुरस्सरैः ।
लिङ्गानि स्थापितानि स्म सर्वैस्तत्र सुरोत्तमैः । ।१ ६४। ।
तस्मिन् भगवतः क्षेत्रे काशिपुर्यामनेकशः ।
दृश्यन्तेद्यापि१२५ लिङ्गानि स्थापितानि महात्मभिः । ।१ ६ ५। ।
स्मरणादविमुक्तस्य पृथिव्यन्तेपि१२६ संस्थितः ।
कल्मषैर्मुच्यते जन्तुर्मृतश्च लभते सुखम्१२७ ।।१ ६ ६।।
ब्राह्मणास्तत्र मुञ्चन्ति वेदतत्त्वार्थवेदिनः ।
सिद्धाः पाशुपता ये च१२८ भवबन्धमुमुक्षवः । । १ ६७। ।
प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम्१२९ ।
पुनर्निष्क्रान्तुमन्यत्र कस्य जन्तोर्मतिर्भवेत् । । १६८ ।।
वेदेषु गीयते व्यास तत् क्षेत्रं शशिमौलिनः ।
देहिनस्त्यजतः प्राणान् मोक्षसिद्धिगतिप्रदम् ।। त६९। ।
येविमुक्ते वसन्ति स्म नरा रुद्रपरायणाः ।
रुद्रस्य भवने व्यास ते वसन्ति न संशयः । । 8.167.१७० । ।
तिष्ठन् गच्छन् स्वपन् भुञ्जन्१३० कर्म कुर्वन् हसन्नपि ।
योविमुक्तं स्मरेद्देही तस्य जन्मभयं कुतः । ।१७१ । ।
नाविमुक्तात् परं क्षेत्रं नाविमुक्तात्परं पदम ।
नाविमुक्तात्परं पुण्यं नाविमुक्तात्परा गतिः१३१ । । १७२ ।।
या गतिर्ध्यायतो१३२ नित्यं परे ब्रह्मणि लीयत१३३ ।
सैव संत्यजतः प्राणानविमुक्ते स्मृता१३४ गतिः । ।१७३ । ।
- - - -- - - - - - - - -
१२३ प्राप्स्यते - ख. । १२४ यो वा - क ख. । १२५ दृश्यन्त्यापि - क ख । १२६ पृथिव्यान्तेपि - ख. । १२७ शिवम् (?) । १५८ तु - ख. । १२९ सिद्धक्षेत्रमनुत्तमम् - ख. । १३० जाग्रन् - ख । १३१ परां गतिम् - ख. । १३२ या गतिर्ध्यानतो - ख. । १३३ लीयते - क. ख. । १३४ ऽमृता - क ख. ।
- - - -- - - - - - - - -

894
पुण्यमुमापतेः सुरवृषैर्जुष्टं सदा सिद्धये
बह्माद्यैरविमुक्तमेतदिति यत् संसेवितं शान्तये ।
ये सेवन्ति तदीशभक्तिपरमा१३५ मर्त्याः शमप्राप्तये
मुक्तास्ते भवसंभवप्रतिभयाद्१३६ गच्छन्ति मोक्षं परम् ।।१७४। ।
प्रयागे च तपःक्षेत्रे देवस्यायतनं महत् ।
तद्१३७ दृष्ट्वा मनुजः सम्यगिष्टां गतिमवाप्नुयात् । ।१७५।।
नैमिशे देवदेवस्य१३८ रुद्रस्यायतनं महत् ।
दृष्ट्वा पापविनिर्मुक्तः१३९ स्वर्गलोकमवाप्नुयात् । । १७६।।
धर्मक्षेत्रे कुरुक्षेत्रे स्थानं योगेश्वरं महत्
तेन दृष्टेन विप्रेन्द्र गाणपत्यमवाप्नुयात् ।।१७७।।
रुद्रलोकं मृतश्चासौ प्राप्नुयात् सर्वकामिकम् ।
गयायामन्यदीशस्य स्थानं भगवतः शुभम् । ।१७८।।
गध्रकूटेश्वरं नाम्ना सर्वपापविमोचनम ।
न तं दृष्ट्वा विमुह्यन्ति मृत्युकाले नरोत्तमाः । । १७९।।
तत्र भस्म समालभ्य सर्वपापैः प्रमुच्यते ।
द्वादशाब्दवतस्यापि द्विजः फलमवाप्नुयात् ।। 8.167.१८० ।।
अन्यदायतनं पुण्यं मगधामु१४० पिनाकिनः ।
नगरे पाटलीपुत्रे नाम्ना प्रहसितेश्वरम् । । १८१ । ।
वाजिमेधमवाप्नोति१४१ अभिगम्य तमीश्वरम् ।
मगधासु स्मृतान्यष्टौ स्थानानि शशिमौलिनः।। १८२ । ।
शिष्यैः परिवृतो यानि बभ्राम नकुलीश्वरः१४२ ।
यानि१४३ दृष्टवा भवेत्सद्यः पुमान् पापविवर्जितः ।।१८३ ।।
यवनेषु स्मृतं स्थानं पुण्यमन्यदुमापतेः ।
त्रिपिष्टपमवाप्नोति१४४ तन्दृष्ट्वा मानवः प्रभुम् ।।१८४। ।
- - - -- - - - - - - - -
१३५ भक्तिपरया - क । १३६ भवसागरप्रतिभयाद् (?) । १३७ तत् - क. ख । १३८ देवदेवेशं - क. ख. । १३९ पापैर्विनिर्मुक्तः - ख. । १४० मगधेषु (?) । १४१. .सहस्राणि - ख. । १४२ लगुडीश्वरः - ख. । १४३ तानि - ख. । १४४ त्रिविष्टपमवाप्नोति - ख. ।
- - - -- - - - - - - - -

895
अङ्गदेशे परं पुण्यं स्थानं प्रोक्तं पिनाकिनः ।
हेमचूडेश्वरं नाम्ना तं दृष्ट्वा न विमुह्यति१४५ ।। १८५।।
भागीरथ्यास्ततो१४६ व्यास सागरस्य च संगमे ।
ब्रह्मणा स्थापितं लिङ्गं पुण्यं तत्र१४७ पिनाकिनः ।। १८६ ।।
तस्याभिगमनादेव सर्वपापैः प्रमुच्यते ।
दशानामश्वमेधानां तं दृष्ट्वा प्राप्नुते फलम् ।। १ ८७।।
प्रभासे शूलिनं दृष्ट्वा देहभेदे गणो भवेत् ।
पुष्करे शङ्करं दृष्ट्वा न शोचेन्मृत्युजन्मनी१४८ ।।१ ८८।।
महेन्द्रे च नगश्रेष्ठे रुद्रस्यायतनं शुभम् ।
अभिगम्य नरो विद्वानश्वमेधफलं लभेत् ।।१८९। ।
महाकालेश्वरं देवमुज्जयिन्यां१४९ महाव्रतः ।
अभिगम्याप्नुयाद्विद्वान् गणत्वं त्रिपुरद्विषः । । 8.167.१९० ।।
द्रिमिचण्डेश्वरं देवं दृष्ट्वा त्रायति मानवः ।
कुलान्युभयतः१५० सप्त सर्वयज्ञानि१५१ चाप्नुते ।।१९१ ।।
शंकुकर्णेश्वरं दृष्ट्वा न शोचेन्मरणं नरः ।
तथा हिमगिरेः शृङ्गे सिद्धकिन्नरसेविते ।।१ ९२ ।।
डिङ्गेश्वरमिति ख्यातं रुद्रस्यायतनं महत् ।
अभिगम्य च दृष्टवा च तं देवं जगतः प्रभुम् । ।१ ९३ ।।
शिवभक्तिपरो व्यास सर्वकामानवाप्नुयात्१५२ ।
मृतस्य च गतिः प्रोक्ता गाणपत्यं महात्मनः । ।१९४। ।
सुवर्णाक्षे परं स्थानं देवदेवस्य संस्मृतम् ।
तद् दृष्टवा१५३ मनुजो व्यास१५४ राजसूयफलं लभेत् ।। १९५।।
सप्तगोदावरे स्थानं दृष्ट्वा पुण्यं कपर्दिनः१५५ ।
अश्वमेधफलं प्राप्य स्वर्गलोके वसेन्नरः ।। १ ९६। ।
- - - -- - - - - - - - -
१४५ - न्न विमुच्यति - ख. । १४६ न्ततो ख. । १४७ तस्य पुण्यं - ख. । १४८ मृत्युजन्मनि - क. ख. । १४९ ...मुज्जयन्यां - क. ख. । १५० कुलानुभयतः - क. ख., कुलानुभयजान् - क. ख.। १५१ सर्वयज्ञान्स - ( ?) । १५२ सर्वकाममवाप्नुयात् - ख. । १५३ तं दृष्ट्वा - क. । १५४ भक्त्या - क. । १५१ कपार्दिनं - क. ख. ।
- - - -- - - - - - - - -

896
स्थानं पुण्यतमं चान्यच्छ्रेष्टं जगति कीर्तितम् ।
नाम्ना भद्रेश्वरं ख्यातं देवगन्धर्वसेवितम् । । १९७। ।
तं वीक्ष्य मानवो व्यास सर्वयज्ञफलं लभेत् ।
जन्मप्रभृति यत्किञ्चित् कृतं कर्माशुभं१५६ महत् ।। १ ९८। ।
तत्क्षणान्नश्यते सर्वं दृष्ट्वा भद्रेश्वरं१५७ हरम् ।
यत्र तत्र मृतश्चापि गाणपत्यं लभेन्नरः । । १९९।।
धन्यास्ते मानवा व्यास रुद्रभक्ता महौजसः ।
ये प्रपश्यन्ति भद्रेशं जन्ममृत्युभयापहम्१५८ ।।8.167.२ ०० । ।
एकाम्रे च विभोः स्थानं दृष्ट्वा स्वर्गमवाप्नुयात् ।
विरजायां हरं दृष्ट्वा वाजिमेधमवाप्नुयात् । । २०१ । ।
नेपालेषु च देवेशं दृष्ट्वा पशुपतिं प्रभुम् ।
दशाश्वमेधानाप्नोति१५९ रुद्रलोकं च गच्छति । ।२ ०२ । ।
देहभेदं च संप्राप्य पशुत्वाद्विप्रमुच्यते१६० ।
अन्यद्धिमगिरौ स्थानं नैकतुङ्गाधिपेश्वरम् । । २०३ ।।
दृष्ट्वा तन्न पुनर्मर्त्त्यो१६१ जायते मुनिसत्तम ।
भक्तानां प्रणतानाञ्च सर्वकामप्रदं स्मृतम् । ।२ ०४।।
एवमेतानि पुण्यानि रुद्रस्यायतनानि ते ।
कथितानि मया व्यास यैर्गतिः प्राप्यते शुभा । । २० ५।।
य एतानि पठेद्विप्रः प्रयतात्मा दिने दिने ।
तस्य सायुज्यतां देवो ददाति वृषभध्वजः । ।२ ० ६।।
मङ्गल्यं परमं पुण्यं मेध्यं सर्वभयापहम् ।
स्थानानां कीर्तनं शम्भोर्नित्यं कुर्याच्छुचिर्नरः । ।२ ०७।।
- - - -- - - - - - - - -
१५६ कर्म शुभं - ख. । १५७ भद्रेश्वरे (?) । १५८ भयावहम् - क. । १५९ दशाश्वमेधान्प्राप्नोति - क. टि. । १६० पशुपत्वाद्विमुच्यते - क. । १६१ तन्दृष्ट्वा न पुनर्मर्त्यो - ख. ।
- - - -- - - - - - - - -

897

इति गिरिवरपुत्रीविष्णुगङ्गाधरस्य१६२
जगति वसतिरेषा सर्वकामप्रदा ते ।
मुनिवरसुतशिष्टा१६३ पापसंशुद्धिकर्त्री१६४
वद किमपरमन्यद् व्यास तुभ्यं वदानि१६५ । ।२ ०८।।
इति स्कन्दपुराणे शिवायतनवर्णने१६६ सप्तषष्ट्युत्तरशततमोध्यायः१६७


सूत उवाच
श्रुत्वा कथामायतनानुबद्धां२ चन्द्रार्धबिम्बा३ स्थितमौलिनस्तु ।
व्यासो मुनिस्तं वचनं बभाषे ब्रह्मात्मजं ब्रह्मविदं मुनीन्द्रम् । । १ । ।
धर्म्या४ सुपुण्या भगवन् त्वयैषा गुह्या कथा मे विधिवत् प्रदिष्टा ।
स्थानानि शम्भोर्दयितानि कोन्य एवं परिज्ञातुमृषिः५ समर्थः ।। २ ।।
इच्छामि वेत्तुं त्रिपुरं प्रदग्धमेकेषुणा दिव्यपिनाकधर्त्रा ।
यथा पुरा भक्तवरप्रदेन६ तन्मे मुने ब्रूहि यथाप्रवृत्तम् ।। ३।।
पृष्टस्तथैवं मुनिना मुनीन्द्रः प्रश्नं यथावत् कथयञ्चकार ।
दग्धं यथा तत् त्रिपुरं तथा त्वं शृणुष्व पुत्रेति वचो ब्रुवाणः७ । ।४।।
तस्मिन् हते दैत्यवृषेन्द्रसिंहे पुरा हिरण्याक्षसुते प्रवीरे ।
भग्नेषु दैत्येषु सदानवेषु मयो बभूवाधृतिदुःखतप्तः । ।५। ।
स विश्वकृद्दानवराजलक्ष्म्या रत्येव हीनो मकरध्वजोभूत् ।
आदाय दैत्यं स हि तारकाक्षं विद्युत्प्रभं चेन्द्रसमप्रभावम् ।।६ । ।
तपश्चचारोग्रमहीनकर्मा८ दैत्यौ च तावन्धकतुल्यवीर्यौ९ ।
ते शीतकाले हिमपर्वतस्था ग्रीष्मे च पञ्चज्वलनाभितप्ताः । ।७। ।
व्यभ्रे पयःप्लावितभूमिभागे चेरुस्तपः प्रावृषि च प्रयत्ताः१० ।
तेषामगाद्दिव्यसमासहस्स्रं तथा सुतीव्रे तपसि स्थितानाम् ।।८ । ।
- - - -- - - - - - - - -
१६२. स्य च - क. । १६३. शिष्या - क. । १६४ ... शुद्धकर्त्री - क. । १६५ वदामि - ख । १६६ तीर्थवर्णने (?) - ख. । १६७ अ. २१५ - ख ।
१ व्यास - क. । २ बद्धा - क. ख. । ३ बिम्ब - क. । ४ धर्मा - ख., ब्रह्मन् - क. । ५ ज्ञातुमृषे - (?) । ६ भक्तिवरप्रदेन - क. ख. । ७ भ्युवाच - ख. । ८ तपश्चकारोग्रमहीनकर्मा - क. । ९ कल्पौ - क. ख । १० प्रयत्नात् - ख. ।
- - - -- - - - - - - - -

898
चर्मास्थिशेषा ज्वलनप्रभावास्तपो११ विशेषाद् दितिपुत्रसिंहाः ।
आदित्यतेजःप्रतिमानवीरा१२ बभूवुरादित्यवपुःप्रकाशाः । ।९।।
पितामहस्तानभिगम्य सर्वान् प्रियं१३ बहूक्त्वा वचनं बभाषे ।
तप्तं तपो वो विगतप्रमोहा वरं त्विदानीं वृणुतेति हृष्टाः१४ । । 8.168.१० ।।
तं प्राञ्जलिर्भूमिनिविष्टजानुर्मयः सुरेशं प्रणतोभ्युवाच ।
अवध्यतामप्रतिमं बलञ्च ज्ञानं च दिव्यं परमं सुखं च ।।१ १ ।।
मृत्युर्यथा नो१५ न भवेच्च देव वरं प्रयच्छैनमभीप्सितं१६ नः ।
करोम्यहं यच्च सुरेश दुर्गं त्रिभिः पुरैर्दिव्यविमानकल्पैः । ।१२।।
तन्मे भवेत् सर्वसुरैरगम्यं स्वच्छन्दसंस्थानगतिप्रचारम् ।
इत्येवमुक्तो१७ दनुजाधिपेन ब्रह्मा वचस्तं मयमाबभाषे ।। १३ ।।
दातुं न शक्यो वर एष१८ तुभ्यं तस्मात् परं१९ सान्तरमेव चान्यम्२० ।
त्वं पुत्र याचस्व ततः प्रदास्ये चिन्ता च ते मा दनुजान्यथाभूत् ।।१४। ।
ततो मयः प्राह वचो विमूढो वरो यथा मार्गित एव नोस्तु ।
ब्रवीमि यच्चान्यदहं२१ सुरेश तन्मेर्हसि त्वं प्रददातु मद्य ।। १५। ।
पूर्णे सहस्रे त्रिपुरं२३ समानां समेष्यते ह्यर्धनिमेषमात्रम्२४।
तस्मिन्क्षणे यस्त्रिषु२५ संगतेषु पुरेषु दिव्येषु सुरप्रवीर । ।१६।।
एकेषुणा तत्२६ त्रिपुरं दहेत स नो विनाशी त्रिपुरस्य२७ भूयात् ।
श्रुत्वा ततस्तद्वचनं मयस्य ब्रह्मा वरं तं हृषितान्तरात्मा ।
प्रादादभीष्टं दनुजाधिपाय२८ दत्त्वा च तूर्णं स्वपुरे जगाम ।।१७।।
ततो मयस्तत्त्रिपुरं ससर्ज जगद्विधातेव पुरादिकल्पे ।
अयोमयं तत्प्रथमं चकार ततोपरं राजतमद्रिकल्पम् ।। १८ ।।
तृतीयमन्यत्पुरमाशु हैमं ससर्ज मेरोरिव शृङ्गमुच्चम्२९ ।
सृष्टं ततस्तत्त्रिपुरं मयेन स्वर्गस्य रूपं प्रजहार दिव्यम् । । १९।।
- - - -- - - - - - - - -
११ त्ततो - क., .. स्तपो, - ख.,.. .त्तपो (?) । १२ प्रतिमान्यवीरा - क. ख. । १३ प्रियान् - क. । १४ हृष्टः - क. ख । १५ यथातो - ख ' १६ प्रयच्छेत - क, प्रयच्छेत - ख, प्रयच्छैतदभीप्सितं (?) । १७ मुक्तेः - क, क्ते - ख. । १८ शक्यामरता हि (?) । १९ वरं - क । २० मेतत् - ख, चान्यत् - क । २१ महं - ख । २२ प्रदातु  ? र । २३ सहस्रेतु पुरं - क ख. । २४ चार्धनिमेषमात्रम् - ख. । २५ यः सह - घ. । २६ तं - क. । २७ विनाशस्त्रिपुरस्य - क. । २८ -.धिपस्य (?) । २९ ...मुच्चै (?) ।
- - - -- - - - - - - - -

899
द्वारैर्मनोज्ञैर्वडभीगवाक्षैर्बीथ्यङ्गणैर्हेममयैः३० सुयुक्तम् ।
चन्द्रांशुसंसृष्टतलैश्च हर्म्यैः शीतानिलाह्लादसुखप्रवेशैः३१ । ।8.168.२० । ।
मुक्ताप्रवालैर्मणिखण्डचित्रै३२ रालम्बितैश्चित्रतडित्प्रकाशैः ।
ध्वजैर्विचित्रैः पवनावधूतैश्चलत्पताकाभिरतीव रेजे । । २१ । ।
प्रासादपंक्तिस्थितरत्नखण्डै३३ र्महामणीन्दुद्युतिसन्निकाशैः३४ ।
सतोरणाभ्युच्छ्रितहर्म्यपृष्ठैरलकृतं तत् त्रिपुरं रराज । । २२ । ।
सर्वर्तुपुष्पैः फलितैर्मनोज्ञैर्वृतं समन्तात्तरुभिर्महोच्चैः ।
रम्यस्तथोद्यानशतैरुपेतं प्रभ्रान्तषट्पादमयूरहंसैः । । २३ । ।
वापीभिराक्रान्तविहङ्गमाभिः प्रफुल्लनीलोत्पलसंवृताभिः३५ ।
दैत्यालयं तच्छुशुभे तथैव प्रनृत्तकेकाविहगैस्सरोभिः३६ ।। २४। ।
तथा नखोद्भिन्नपयोधराभिराकर्णरक्तान्तविलोचनाभिः ।
सव्रीडमीषच्चपलेक्षिताभिर्योषिद्भिराकीर्णमतीव रेजे ।। २५। ।
लौहं पुरं यत्तदधश्चकार तत्तारकाक्षाय मयः प्रदत्वा३७ ।
पुर द्वितीयं रजतामयं यद्विद्युत्प्रभायासुरराजभर्त्रे । ।२६। ।
हैमं तृतीयं स्वयमेव दिव्यं जग्राह राजा मय आत्मनोर्थे ।
अधिष्ठितं तत्त्रिपुरं तदाभूत्समं त्रिभिस्तैर्दनुराजसिंहैः ।।२७।।
ते सर्वतः स्वः३८ प्रभवान्३९ विजित्य४० प्रियासहायाः सहमित्रभृत्यैः ।
सुखानि तस्मिन् विविधान्यवापु४१ स्त्रैलोक्यचिन्तामविचिन्तयन्तः४२ । । २८। ।
ते दर्पमोहप्रतिबद्धरागा न्यूनानमन्यन्त बलेन देवान् ।
मत्वा च तेषां प्रसभं निपत्य४३ नानाविधाश्चक्रुरतीव पीडाः ।।२९। ।
वनानि वैभ्राजपुरस्सराणि संछिन्नवीरुत्कुसुमानि चक्रुः ।
वापीः प्रचक्रुः कमलैर्विहीना जह्रुश्च रम्भादिपुरस्सरास्ताः ।।8.168.३ ० । ।
सन्त्रस्तगात्रीः४४ सुरयोषितस्तैरन्याश्च४५ चक्रुर्महतीः प्रपीडाः ।
तेषामतीतः सुमहानथैवं प्रकुर्वतां देवविनाशनानि४६ । ।३ १ ।।
- - - -- - - - - - - - -
३० र्वीथ्यगंनैर्हेममयैः - ख. । ३१.. प्रदेशैः - ख । ३२ दण्डचित्रै - ख । ३३ स्थिररत्नखण्डै - ख. । ३४ मणीन्द्रद्युतिसन्निकाशैः (?) । ३५ प्रस्फुल्लनीलोत्पलसंवृताभिः - क । ३६ विहगाप्सरोभिः - ख.। ३७ प्रदाय(?) । । ३८ सर्वसम्पत् - ख. । ३९ स्वप्रभवान् - क. । ४० वा विजित्य - क., वाभिलभ्या - ख. । ४१ ...न्यथाभू - ख. । ४२ सौख्यामाविचिन्तयतः - ख. । ४३ त्वा - ख, । ४४... गात्र्यः - क. । ४६ स्ता अन्याश्च (?) । ४६ विनाशकानि - क. ।
- - - -- - - - - - - - -

900
कालो४७ मयं प्रत्यथ जातकोपाः४८ संगत्य सर्वे त्रिदिवौकसेशाः ।
वृत्तं यथा सर्वमशेषतस्तन्न्यवेदयन्नाशु पितामहाय ।।३ २। ।
तानाह देवः कमलासनस्थः सर्वान्सुरेशान्परिसान्त्वयित्वा ।
महाबलास्ते त्रिपुरासुरेन्द्रा हन्तुं न४९ शक्या हि५० बलाद्भवद्भिः । ।३ ३ । ।
तस्मादयं विष्णुरहञ्च युष्मान् प्रगृह्य शम्भुं शरणं प्रयाम ।
गतिः सदा नः शशिभृत् सुरेशाः स तान्५१ बलाद्धंस्यति शूलपाणिः । ।३४।।
तथेति तेपि प्रणिपत्य देवा ब्रह्मार्कशक्रानिलपावकाद्याः ।
कैलासमागम्य सुरेश्वरेशं दृष्टवा हरं तुष्टुवुरादृतार्थाः । ।३५। ।
नमस्त्रिलोकेश्वरवन्दिताय प्रियाधरायामितविक्रमाय ।
नमोस्तु चन्द्रार्धजटाकलापकान्ति५२ प्रभोद्योतितशेखराय ।।३६। ।
त्रैलोक्यदेवाय नमोस्तु नित्यं पिनाकचापाय नमस्तथैव ।
नमः प्रदीप्तासिपरश्वधाय त्रिशूलहस्ताय नमोस्तु नित्यम् ।।३७।।
नमो नमो नन्दिवरप्रदाय जगच्छरण्याय सुरेश्वराय ।
नमः सदा भक्तवरप्रदाय नमोस्तु यक्षेशवरप्रदाय । ।३८ ।।
स्थिताय नित्यं हिमवद्गिरीन्द्रे कैलासवासाय नमस्सदैव ।
नमो विमुक्ते शनिकेतनाय स्थिताय सर्वत्र च ते नमोस्तु । । ३९। ।
भस्माङ्गलिप्ताय कपर्दिने च नमोस्तु नित्यं वृषभस्थिताय ।
दिग्वाससे श्वेतवरप्रदाय सर्वर्द्धियुक्ताय जगद्विधात्रे ।।8.168.४० । ।
हर्यर्कशक्राग्निपितामहानां स्रष्ट्रे नमो देव - - -राय ।
सूक्ष्माय नित्यं परमेश्वराय नित्यं नमः सर्वगताय धात्रे ।।४१ । ।
नमः परायातिपरे पुमांसे५३ पुराय षड्विंशकसंज्ञिताय ।
नमोस्तु शर्वाय धनुर्धराय सर्वाय५४ सर्वप्रभवाय नित्यम् ।।४२। ।
सोमानिलार्कज्वलनाम्बु५५भूमिव्योमात्मकायादिसृजे नमोस्तु ।
पूष्णो५६ नमो दन्तविनाशनाय५७ कामाङ्गनाशाय नमोस्तु नित्यम् ।।४३ । ।
- - - -- - - - - - - - -
४७ ततो - क. ख. । ४८ ते प्रति जातकोपाः - ख. । ४९ हि - क. ख. । ५० न - क. ख. । ५१ तं - ख. । ५२ कान्त - ख । ५३ पराय पुंसे (?) । ५४ सर्वस्य - क. ख. । ५५ सोमानलार्कज्व- लनाम्बु - क. ख. । ५६ पूष्णे - क । ५७ दन्तविनाशकाय - क. ।
- - - -- - - - - - - - -

901
नमः प्रधानाय पराय पुंसे योगाधिगम्याय सदा नमोस्तु ।
रौद्राय सौम्याय वपुष्मते च नमो नमः सर्वजगत्सृजे च । ।४४। ।
विद्यासृजे धर्मसृजे नमोस्तु स्रष्ट्रे नमो यज्ञसुरासुराणाम्५८ ।
नमस्तृतीयेक्षणधारिणे च नमो नमो नीलशिखण्डिने च । ।४५। ।
नमोस्तु नित्यं पुरुषोत्तमाय श्मशानवासाय नमः सदैव ।
नमोस्तु दैत्यान्धकनाशनाय नमः सदा मोहविनाशनाय । ।४६ ।।
तमोविनाशाय५९ नमोस्तु नित्यमज्ञाननाशाय नमोस्तु नित्यम६० ।
नमः सदा मोक्षवरप्रदाय नमः सदायामृतसंस्थिताय६१ ।।४७। ।
भर्त्रे नमो भूमिधरेन्द्रपुत्र्याः पित्रे कुमारस्य नमोस्तु नित्यम् ।
नमोस्तु वित्तेशवरप्रदाय नमः सदा शुक्रवरप्रदाय । ।४८। ।
ब्रह्मात्मने ब्रह्मसृजे नमोस्तु नमो नमो देवसृजे६२ विधात्रे ।
नमोस्तु दक्षामरयज्ञहन्त्रे६३ नमोस्तु चण्डेशवरप्रद्राय । ।४९। ।
योगेश्वरायामरसंस्तुताय नमोस्तु रुद्राय पराय धाम्ने ।
हराथ शर्वाय शिवाय गोप्त्रे नमोस्तु भीमाय च शम्भवे च । ।8.168.५ ० ।।
गुणैर्विहीनाय गुणोत्कटाय गुणेष्वतीताय गुणास्थिताय ।
गीताय सांख्ये पुरुषाय नित्यं नमोस्तु योगोपनिषत्स्थिताय । ।५१ । ।
महापुराणाय परात्पराय स्थूलाय सूक्ष्माय नमस्सदैव ।
प्रसाद्यमानः कुरु नः प्रसादं तुष्टः परेशान वरं प्रयच्छ ।
शम्भुस्तथैवं स्तुवतां सुराणां ब्रह्मेन्द्रविष्ण्वर्कपुरःसराणाम् । ।५२।।
प्रीतस्तया६४ स्तोत्रविशेषभक्त्या जगाद वाक्यं परमाद्भुतार्थम ।
तुष्टोस्मि देवा शृणुताद्य शीघ्रं समीहितं वो यदि किञ्चिदस्ति ।
दातास्मि सर्वं तदशेषतोद्य किञ्चिन्न युष्मभ्यमदेयमस्ति ।।५३ । ।
इति स्कन्दपुराणे त्रिपुरवधोपक्रमे६५ देवतावरप्रदानं६६ नाम अष्टषष्ट्युत्तरशततमोध्यायः६७
- - - -- - - - - - - - -
५८ धर्म .. - ख., सर्वसुरासुराणाम् (?) । ५९ मनोनिवासाय - क. ख । ६० च ते नमोस्तु - ख । ६१ सदैवामृतसंस्थिताय (?) । ६२ वेदसृजे (?) । ६३... पात्रे - ख । ६४ प्रीतस्त्वया - क । ६५ त्रिपुरवधे - ख. । ६६ वरप्रदानो - ख. । ६७ २१६ - ख ।
- - - -- - - - - - - - -

902
देवा ऊचुः
ब्रह्मदत्तवरैर्देव मयाद्यैर्दानवैस्त्रिभिः ।
दुर्गं तत्त्रिपुरं कृत्वा बाध्यामो बलदर्पितैः । ।१ । ।
हृता अप्सरसः१ सर्वा ध्वंसितानि वनानि च ।
सर्वान्देवान्निहन्मोद्य श्वो हन्मेति च तेब्रुवन् ।।२।।
न तेषां निग्रहे शक्तो ब्रह्माप्येष पितामहः ।
विष्णुर्वापि महादेव तेन नः सुमहद् भयम् । ।३ ।।
तद् यथा त्रिपुरं नश्येत् ते च स्युर्निहता यथा ।
तथा कुरु सुरश्रेष्ठ वरोयन्नः प्रदीयताम् ।।४।।
इति विज्ञापितः शम्भुस्सर्वैस्तैर्हि सुरोत्तमैः ।
इदमाह महातेजाः सुरानाश्वासयन्निव । । ५। ।
शतमंशं सुरेशा वै गृहीत्वा मम तेजसः ।
रुद्रतेजोमया भूत्वा दानवान् विनिहंस्यश्च । । ६ ।।
ततस्ते पुनरेवेशं प्राहुर्वाक्यमिदं सुराः ।
शक्ताः सहस्रमप्यंशमुद्वोढुं न वयं तव ।।७। ।
का नः३ शक्तिः सुरेशान तेजो माहेश्वरं परम् ।
द्रष्टुं धारयितुं वापि प्रसादं कुरु नः४ प्रभो । ।८। ।
न कथञ्चिद्वयं शक्तास्तान्हन्तुं दानवान् बलात् ।
भगवन् स्वयमेव त्वं त्रिपुरं जहि शङ्कर ।।९ । ।
तेभ्यः किल वरो दत्तो ब्रह्मणानेन५ शूलधृक् ।
दिव्ये वर्षसहस्रे तु समेष्यति पुरत्रयम् । । 8.169.१० । ।
निमेषार्धं क्षणे तस्मिन्नेतद्वस्त्रिपुरं बली ।
सकृदेकमिषुं क्षिप्त्वा यः प्रधक्ष्यति दानवान् । । ११ । ।
भविष्यति स वो मृत्युर्नान्यथा मरणं हि वः ।
तच्च कर्तुं न शक्ताः स्मः प्रसादं तेन नः कुरु । ।१ २ ।।
- - - -- - - - - - - - -
१ ह्रिता अप्सरसः - क. । २ स्तथा - क. । ३ तु - क- ख, ४ कुरुत - क. ख । ५ तेन - क. ।
- - - -- - - - - - - - -

903
ततः स भगवान्देवः प्रणतान् वृषभध्वजः ।
पुनराश्वासयन् प्राह समुद्विग्नान् दिवौकसः । । १३ । ।
यद्येवं सुरशार्दूलास्त्रिपुरं दुर्गमं महत् ।
इषुमेकं सकृत् क्षिप्त्वा प्रधक्ष्ये निमिषे क्षणे । ।१४।।
ब्रह्मविष्णुप्रियार्थं हि शक्रस्यानुग्रहाय च ।
त्रिपुरं रथमास्थाय हंस्यामि स्वयमेव तत् । ।१ ५।।
क्रियतां स रथः सज्जो यमारुह्य६ दिवौकसः ।
धक्ष्यामि त्रिपुरं दुर्गमाक्रान्तं दानवैस्त्रिभिः ।। १ ६। ।
यादृशश्च हि मां वोढुं शक्तः स्यात् सुरपुङ्गवाः ।
बलवान् हिमवत्कल्पः७ कर्तव्यस्तादृशो रथः । । १७।।
ततो देवाः प्रणम्येशं प्रहृष्टमनसोभवन् ।
रथं च सहिताः सर्वे कल्पयामासुरुत्तमम् ।। १८। ।
ततः स भगवान् ब्रह्मा तथा विष्णुहुताशनौ ।
सर्वदेवमयं दिव्यं चक्रुस्तं रथमुत्तमम्८ । । १ ९।।
धातारं भास्करं शक्रं पवनं धनदं यमम् ।
वसून् रूद्राँस्तथादित्यान् गन्धर्वानश्विनावपि । ।8.169.२ ० ।।
गरुडान् पर्वतान्नागान् गुह्यकान्समहोदधीन् ।
ऋषीँतु सिद्धाँस्तथा यक्षान् ग्रहाँ - - - - - ।२१ ।।
 - - - - सितं कालं तथा चैव वनस्पतीन् ।
दिवसानि मुहूर्तानि क्षणान् काष्ठालवाँस्तथा ।।२ २। ।
अयने च ऋतून्मासान् पक्षान् संवत्सराँस्तथा९ ।
स्थावरं जङ्गमं यच्च नक्षत्राणि तथैव च ।।२३ ।।
अष्टौ देवनिकायाँस्तान् रथे तस्मिन्नकल्पयन् ।
काँश्चिच्चक्रद्वये चक्रुः प्रताप - - - - - । ।२४। ।
- - - श्चिद्रथेचान्यान् युयुजुः सुरपुङ्गवान् ।
कृत्वाश्वाँश्चतुरो वेदान् रथे तस्मिन्न्ययोजयन् ।।२५।।
- - - -- - - - - - - - -
६ यत्रारुह्य - क. । ७ हिमवत्तुल्यः - ख. । ८ रथत्तमम् - क. । ९ कालान् - क., संवत्सराणि च - क, ख. ।
- - - -- - - - - - - - -

904
सम्वत्सरमयं चक्रं धनुर्गिरिमयं तथा ।
ज्याञ्चैव१० धनुषश्चक्रुर्देव देवीं जगत्स्थितिम् । । २ ६। ।
ते तमेवंविधं११ देवा रथमग्र्यमचीकरन् ।
सर्वदेवमयं कृत्वा गिरिकल्पं रथोत्तमम् । ।२७। ।
विष्णुः पितामहोग्निश्च प्रणम्य परमेश्वरम् ।
रथः१२ सज्ज इति१३ प्राहुर्विनाशाय सुरद्विषाम् । ।२८ ।
ततः स भगवाञ्छम्भुः स्तूयमानः सुरैस्त्रिभिः ।
अवैक्षत१४ रथं दिव्यं सर्वदेवमयं कृतम् । ।२९ । ।
सुकृतं साध्विति प्रोच्य धनुर्जग्राह तन्महत् ।
तत्प्रगृह्य धनुर्दीप्तं सर्वतेजोमयं परम् । । 8.169.३० ।।
अधश्चोर्ध्वञ्च संप्रेक्ष्य तुतोष भुवनेश्वरः ।
पितामहं ततो वीक्ष्य प्रोवाच वचसां पतिः१५।। ३१ । ।
रथ एष धनुश्चैतत्१६ त्वया ब्रह्मन् सुकल्पितम्१७ ।
दग्धव्यं त्रिपुरं येन तमिषुं शीघ्रमानय । । ३२ । ।
ततः प्रोवाच तं ब्रह्मा प्रणम्य वृषभध्वजम् ।
रथ एष कृतो देव धनुरेतच्च ते मया । ।३ ३ । ।
तमिषुं भगवानेव तद्योग्यं कर्तुमर्हति ।
ततः पार्श्वस्थितौ दृष्ट्वा शम्भुविष्णुहुताशनौ । । ३४। ।
दृष्टिपातेन तौ देवौ समाह्वयदरिन्दमः ।
तौ द्वावञ्जलिमाधाय१८ सुरेशानमुपस्थितौ । ।३ ५। ।
स्वयमेव ततश्चक्रे शम्भुर्विष्णुं शरोत्तमम् ।
ओषधीनां पतिं सोमं पुंखे तस्य न्ययोजयत् । । ३ ६। ।
शल्यं च पावकं चक्रे ब्रह्माणं स१९ ततोब्रवीत् ।
सारथिः को रथे ब्रह्मँस्त्वयेह परिकल्पितः ।। ३७। ।
तमुवाच ततो ब्रह्मा प्राञ्जलिर्जगतः पतिम् ।
मह्यं ददासि यद्याज्ञा२०महमेव हि सारथिः ।। ३८।।
- - - -- - - - - - - - -
१० ज्याश्चैव - क. । ११ विधा - क । १२ रथ - क. । १३ सज्जमिति - क । १४ अवेक्षत - ख १५ पतिम् - क. ख. । १६ धनुश्चैव - ख । १3 सुकल्पितौ - ख. । १८ द्वौ तावञ्जलिमाधाय - क. ख. । १९ च - क. ख. । २० यद्याज्ञां स्वय - क. ।
- - - -- - - - - - - - -

905
प्राप्स्ये२१ किमपरं देव सारथ्यादधिकं तव ।
सर्व शोभनमित्युक्त्वा ततो देवः पिनाकधृक् ।।३९।।
हस्ते प्रगृह्य देवेशमारुरोह रथोत्तमम् ।
रुद्रपारिषदा२२ ये च नन्दीश्वरपुरोगमाः ।।8.169.४० ।।
शंकुकर्णपुरोगाश्च ये च चण्डेश्वरादयः ।
गणेश्वरा महायोगास्त्र्यक्षाः पट्टिशपाणयः । ।४१ । ।
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः२३ ।
नानाभरणवस्त्राश्च२४ नानाविद्याविशारदाः । ।४२। ।
वादयन्तः समं वाद्यान्२५ भेरीशंखस्वनान्२६ बहून् ।
आजग्मुर्गणमुख्यास्ते सहस्राणि चतुर्द्दश । ।४३ । ।
नानाविधानां पुष्पाणामुपरिष्टात् सहस्रशः ।
निपेतुर्वृष्टयो मूर्ध्नि रथस्थस्य पिनाकिनः । ।४४। ।
स्वयमेव च वाद्यानि विनेदुः सर्वतोदिशम् ।
रथे युक्ताश्च२७ ते सर्वे२८ देवदेवस्य शूलिनः ।।४५।।
अशक्ता भारमुद्वोढुं मुमुहुर्देवता२९ भृशम् ।
ततस्तान्देवदेवेशो ज्ञात्वा मूढान् दिवौकसः । ।४६।।
सहनीयं३० वपुश्चक्रे सुरास्ते३१ मुमुहुस्ततः ।
अथास्मिन्नन्तरे व्यास नारदो भगवान्मुनिः ।।४७।।
जगाम त्रिपुरं शीघ्रं विश्वकर्मदिदृक्षया ।
अथागतमृषिं दृष्ट्वा विश्वकर्मा मयस्तदा ।।४८।।
संपूज्य परया भक्त्या ननाम मुनिसत्तमम् ।
स दत्त्वा ह्याशिषस्तस्मै वेत्रासन उपाविशत्३२ । ।४९। ।
उपविश्यासने तस्मिन्मयमाह महामुनिः ।
प्रसाद्य दैवतैस्सर्वेरेष३३ देवो वृषध्वजः ।।8.169.५ ० ।।
- - - -- - - - - - - - -
२१ प्राप्ये - क. । २२ रुद्राःपारिषदा - ख । २३ नानायुधविशारदाः - क. । २४ चरणवक्त्राश्च - क. । २५ वाद्यं - क. । २८५ शंखभेरीस्वनान् - ख । २७ रथयुक्ताश्च - क., रथं युक्तं च - ख । २८ सर्वे ते - क. । २९. र्देवता - क. ख. ' ३० वहनीयं (?) । ३१ सुराश्च - क. ख. । ३२ मुपाविशत् - क. । ३३ देवतैस्सर्वैरेष - क. ख ।
- - - -- - - - - - - - -

906
आनीतस्त्रिपुरं हन्तुमत्र यत्साधु तत्कुरु ।
रथं३४ देवमयं३५ दिव्यं३६ समारुह्य जगत्पतिः ।।५१ ।।
ब्रह्माणं सारथिं कृत्वा स्वयमायाति शङ्करः ।
नारदस्य वचः श्रुत्वा स तदा दानवाधिपः ।।५२।।
तारकाक्षं समाहूय विद्युन्मालिनमेव च ।
तथान्यानसुरान् भ्रातॄन् बाणनेमिपुरस्सरान् ।।५३। ।
नारदेन यदाख्यातं३७ सर्वमश्रावयत्तदा ।
तच्छ्रुत्वा दैत्यराजस्तु तारकाक्षोब्रवीदिदम् । ।५४ ।।
न तवास्ति समः कश्चित् त्रैलोक्ये सुरपुङ्गव३८ ।
योधयेन्निर्भयो यस्त्वां चिन्तां त्वं मय मा कृथाः ।।५५। ।
किमत्र चिन्त्यते राजन् सर्वेवध्या३९ यदा वयम् ।
कस्य तत्त्रिपुरं हन्तुं शक्तिर्विद्येत दानव ।। ५६।।
संगत्य दैवतास्सर्वे यदि योद्धुमिहागताः ।
पश्य तान्निहतानद्य४० मयैवैकेन दैत्यप । ।५७। ।
दुर्बलः कुरुते भेदं दानं सान्त्वमथापि वा ।
प्रणामं ज्यायसः शत्रोर्वयन्तु बलिनः सदा ।।५८। ।
दुर्बलस्य रिपोर्दण्डो बलिना विजिगीषता ।
कर्तव्यो विक्रमैणेति प्राह शुक्रस्तदा गुरुः । ।५९। ।
तद्वयं बलिनो दैत्या हीनाश्च४१ त्रिदिवौकसः ।
हत्वा दण्डेन तान् सर्वान् स्थास्यामो निर्वृताः सुखम् ।।8.169.६० ।।
तारकाक्षवचः श्रुत्वा विद्युन्माली वचोब्रवीत् ।
ममाप्येतदतीवेष्टं४३ राज्ञोस्य वचनं शुभम् । ।६ १ । ।
न शक्ता योद्धुमस्माभिर्देवता बलवर्जिताः ।
ते चेद्योत्स्यन्ति संमूढाः प्रयास्यन्ति ततः क्षयम् । ।६२।।
- - - -- - - - - - - - -
३४ रथे - क ख. । ३५ देवमये - क. ख. । ३६ दिव्ये - क. ख । ३७ यथाख्यातं - क. । ३८.. पुङ्गवः - क. । ३९ सर्वावध्या - क. ख. । ४० पश्ये(श्यै)तान्निहतानद्य - क. ख. । ४१ -..स्ते - ख. । ४२ तत् - क. । ४३ प्येतदतीवेष्टं - क., वमतीष्टं - ख. ।
- - - -- - - - - - - - -

907
अन्योन्यन्तु वयं युद्धादुपायं तेषु युञ्ज्महे ।
युद्धे नैव सदा दैत्याः प्राप्नुवन्ति४४ जयं परम् । ।६३ ।।
अद्य हत्वा सुरान्सर्वान् कुरु राज्यं त्रिविष्टपे ।
त्रैलोक्यं निर्वृतो भुंक्ष्व त्वमिन्द्रो भव विश्वकृत् । ।६४। ।
सप्तलोकेश्वरं त्वद्य पश्यामस्त्वां४५ पुरन्दरम् ।
हिरण्यकशिपुं स्मृत्वा हिरण्याक्षं च दैत्यप४६ । ।६५। ।
भोक्तारौ जगतो राज्यं त्वं प्रयाहि तयोर्गतिम् ।
ततः श्रुत्वा मयो व्यास विद्युन्मालिविभाषितम् । ।६६।।
नैतदेवमिति प्राह कम्पयन्नसकृच्छिरः४७ ।
यस्तुल्यः स्वबले शत्रुर्हीनो वा दैत्यपुङ्गवाः ।।६७।।
बले वा यो भवेज्ज्यायानेकजातिवपुर्धराः४८ ।
बुधास्तस्मिन् प्रयुञ्जन्ति तदुपायचतुष्टयम् । ।६८ ।।
समा दिवौकसोस्माकं बलेनासुरपुङ्गवाः ।
तैर्देवैः सार्धमस्माकं युक्तं सामादियोजनम् ।। ६९।।
य४९ एष भगवानीशः सर्वभूतेश्वरेश्वरः ।
अस्माकं देवतानाञ्च स्रष्टा हर्ता च स प्रभुः ।।8.169.७० । ।
स हन्तुं स्वयमायाति उपायस्तस्य कीदृशः५० ।
प्रणामः संश्रयश्चैव गुणोपायौ५१ कपर्दिनः ।।७१ । ।
द्वाविमौ५२ साधने तस्य प्रयोज्याविति५३ मे मतिः ।
यदि कार्कश्यमास्थाय योधयामः पिनाकिनम् । ।७२। ।
तस्य जिह्मेक्षितेनैव निहताः स्म ततोसुराः५४ ।
ब्रह्माद्याः शरणं शम्भुमर्दिता५५ यान्ति शान्तये ।।७३ । ।
योभियुक्तः स्वयं तेन शरणं तस्य को भवेत् ।
यस्य सर्वमिदं दैत्या ब्रह्मादि प्रथितं जगत् । ।७४। ।
- - - -- - - - - - - - -
४४ प्राप्नुवन्तो - क. ख. । ४५ पश्यामस्त्वा - ख. । ४६ दैत्यपम् - क. । ४७ च्छिरम् - क. । ४८ नैकजातिवपुर्धराः - क । ४९ स - ख. । ५० स्वयमायात - क., -. मायातुमुपायस्तस्य - ख. । ५१ द्वावुपायौ (?) । ५२ द्वे इमे (?) । ५३ प्रयोज्ये इति (?), प्रयोज्यमिति - क, । ५४ तयासुराः - क । ५५ ... मार्दिता - क. ख ।
- - - -- - - - - - - - -

908
अभिध्यानात् क्षणेनैव प्रणश्येत भवेदपि ।
यो हेतुरपवर्गस्य कारणं जगतश्च यः ।।७५। ।
कीदृशं तेन युद्धं नो देवदेवेन शम्भुना ।
किन्न वेत्थ शिशुप्रज्ञा५६ लोष्टुगिर्यो५७र्यदन्तरम् । ।७६ । ।
भवन्तो लोष्टवो भूत्वा गिरिकल्पमुमापतिम् ।
ईप्सध्वे५८ मोहिता युद्धे कालपाशेन यन्त्रिताः । ।७७। ।
अहं भक्तो महादेवं जाने५९ तस्य बलान्तरम् ।
स प्रणाममुपस्थास्ये न योत्स्ये शम्भुना सह । ।७८ ।।
यदि यूयमपि प्राज्ञा मम शुश्रूषवो यदि ।
मा कृढ्वं६० शम्भुना युद्धं गच्छध्वं शरणं शिवम् । ।७९।।
तमेवं वादिनं श्रुत्वा विश्वकर्माणमूर्जितम् ।
नारदो भगवान् प्राह दानवान्तकरं वचः । ।8.169.८० ।।
विश्वकर्मन् यत्त्वयेद६१ मुक्त विस्तरशोर्थवत् ।
सर्वं युक्तमिदं किन्तु कालोयं नास्य वर्तते६२ । ।८ १ । ।
भवतां तत्तपः क्षीणमैश्वर्यं भुक्तमेव च ।
क्लीबतामपि६३ कुर्वन्तो यूयं नक्ष्यथ६४ दानवाः ।।८२।।
वृतः सर्वामरैः शम्भुर्वधार्थं६५ भवतामिह ।
प्रणतानप्यसौ युष्माँस्तत्प्रियार्थं निहंस्यति । ।८३ ।।
कथं दनुसुता भूत्वा राजानो बलदर्पिताः ।
भीता मृत्युं जिगीषध्वं कृपणा इव दानवाः । ।८४। ।
प्राप्स्यथाधिकमैश्वर्यं त्यक्ष्यथासून्६६ रणे यदि ।
विना युद्धं विपन्नानामशुभा वो गतिर्भवेत् । ।८५। ।
अपि चेद्यदि हन्येध्वं६७ देवदेवेन शूलिना ।
प्रमथेन्द्रास्ततो६८ यूयं भविष्यथ६९ न संशयः । ।८६। ।
- - - -- - - - - - - - -
५६ प्राज्ञा - क ख । ५७ लेष्टुगिर्यो - ख. । ५८ ईप्सध्व - क. ख. । ५९ जानन् - ख. ६० कृथा ( ध्वं) - ख । ६१ यत्त्वया विश्वकर्मेदं - क ख । ६२ सांप्रतम् (?) - ख. ६३ क्लीबोनामपि - क., क्लीबाना .. - ख. । ६४ नशत् - क ख । ६५ व्यास वधार्थ - क. । ६६ त्यक्षयासून् - क. ख. । ६७ हन्यध्वं - क. ख. । ६८ मृतो (ता) - ख. । ६९ भवितासे - क. ख. ।
- - - -- - - - - - - - -

909
गुणं सन्धिगतं नास्ति युष्माकं देवतैस्सह७० ।
विग्रहे वो मतिर्युक्ता सा च व्यक्ता वयं च वः (?) । ।८७। ।
शौर्येण भवतां प्रीतः कदाचिद् वृषभध्वजः ।
भवेद्वरप्रदो दैत्याः श्रेयान्७१ वस्तेन विक्रमः । ।८८ ।।
करिष्यामि च वो रक्षां शस्त्राघातनिषेधनीम् ।
उत्तिष्ठत दनोः पुत्रा विजयाय युयुत्सया । ।८९। ।
नारदस्य वचः श्रुत्वा तारकाक्षो महाबलः ।
विद्युन्माली च दैत्येन्द्रा बाणाद्याश्च महासुराः । ।8.169.९० ।।
कालपाशार्दिता मूढाः क्षीणपुण्या गतायुषः७२ ।
साध्वेतच्छोभनं प्रोक्तं नारदेनेति तेब्रुवन् । ।९१ । ।
मयोपि तद्वचो बुदध्वा७६ ज्ञात्वा नाशमुपस्थितम् ।
शोभनं नारदेनोक्तमिति वाक्यमुवाच ह । ।९२।।
नारदोपि ततो हृष्टो रक्षां७४ बद्ध्वा तु मायया ।
युयुत्सूनसुरान् कृत्वा ययौ शर्वरथं प्रति । ।९३ । ।
ततस्ते दानवाः सर्वे युद्धाय कृतनिश्चयाः ।
नानाप्रहरणोपेता बभूवुर्युद्धलिप्सवः । । ९४। ।
तरकाक्षो बलो बाणो विद्युन्माली च दानवः ।
सन्नह्य सहिताः सर्वे राजानस्तस्थुरग्रतः । ।९५। ।
अवाद्यन्त ततः शंखास्तूर्याणि च सहस्रशः ।
दानवानां बले घोरे कातराणां भयप्रदे७५ । ।९ ६ ।।
सरथोयमिहायाति असावन्यः प्रदृश्यते ।
कथमागत इत्येवं वचांस्यूचुः परस्परम् । ।९७। ।
- - - -- - - - - - - - -
७० देवतै सह क- ख ७१ श्रेयो - क ख. । ७२ गतयुषा - क । ७३ बुद्ध्या - ख ७४ -. द्दुष्टां - ख.।
- - - -- - - - - - - - -

910
विगतभयविषादास्त्रैपुरा दैत्यसंघाः
प्रकुपितवदनास्ते युद्धसज्जा बभूवुः ।
प्रहरणवरहस्तास्तं रथं वीक्षमाणाः७६
पशव इव मखाग्नेरन्वगच्छन् समीपम् । ।९८ ।।
इति स्कन्दपुराणे त्रिपुरवधेसुरवर्णने ऊनसप्तत्युत्तरशततमोध्यायः७७ ।

सनत्कुमार उवाच
अथाभ्यगात् पश्चिमसागरस्य मूर्ध्नि स्थितन्तत्त्रिपुरं१ रथोसौ ।
नानापताकोज्ज्वलचित्रमौलिर्हैमोपलो२ मेरुरिवाद्रिराजः । ।१ ।।
ते वीक्ष्य दुर्गं त्रिपुरं गणेशा नन्दीशचण्डीशमुखाः३ सुयत्ताः ।
नादं प्रचक्रुः सहिताः प्रवीरा युयुत्सवो दानवराजसिंहैः ।। २ ।।
चण्डेश्वरश्चण्डवपुर्महात्मा ज्वलत्प्रदीप्तोग्रकुठारपाणिः ।
व्यादाय वक्त्रं पुरतः स्थितोभूद् देवस्य शम्भोः प्रमथेन्द्रवीरः ।।३ । ।
दीप्तं त्रिशूलं परिगृह्य नन्दी त्र्यक्षः प्रतस्थे४ हरतुल्यवर्ष्मा५ ।
पार्श्वे स्थितोभूत् स च शंकुकर्णः प्रगृह्य दीप्तं मुशलं गजेन्द्रः । ।४।।
भृङ्गिर्हरात्मा स च वीरभद्रस्तथा गणेन्द्राः शतशः प्रवीराः ।
वज्रत्रिशूलासिभुशुण्डिहस्ता युयुत्सवस्तस्थुरुपेतहर्षाः । ।५। ।
समागतं तं रथमीक्ष्य६ दैत्या युद्धाय निर्जग्मुरुपेतमोहाः ।
ते तारकाक्षप्रमुखाः सुवीरा सन्नह्य नानायुधदीप्तहस्ताः । ।६। ।
सार्धं गणेन्द्रैः समरं प्रचक्रुर्दनोः सुताः कोपवशं प्रयाताः ।
देवोपि चन्द्रार्धनिकेतमौलिः७ शरं न चिक्षेप पुरं प्रदग्धुम् ।।७।।
तस्थौ तथैवा८सकृदात्मना च पश्यन् रणं तद्गणदैत्यपानाम् ।
ततः स नन्दी गणपैः प्रवीरैरचीकरद्युद्धमदीनसत्वैः । ।८। ।
- - - -- - - - - - - - -
७६ वीक्ष्यमाणाः - क. ख. । ७७ २१७ - ख ।
१ स्थितो (त) स्तत्रिपुरं - क. । २ मौली हेमोपलो - ख. । ३ नन्दीगिरिशप्रमुखा. - ख । ४ प्रतस्थौ - ख. । ५ वर्मा (धर्मा?) - क. । ६ वीक्ष्य रथं - क. । ७ .. मौली - क. । ८ तस्थोजसा वै - क. । ९ -..कृत - क. ।
- - - -- - - - - - - - -

911
विव्याध भृङ्गिं दशभिः पृषत्कैर्विद्युत्प्रभः कोपविरक्तनेत्रः ।
भृङ्गिं समासाद्य शिलीमुखास्ते नाशक्नुवँस्तस्य रुजं प्रकर्तुम् ।। ९। ।
विद्युत्प्रभं भृङ्गिरिटिस्ततोसौ शूलेन दीप्तेन जघान पृष्ठे ।
स तेन शूलेन हतो जुघूर्ण त्यक्त्वा च भृङ्गिं प्रयययौ भयार्त्तः ।। 8.170.१० ।।
भग्नस्तथासौ दितिजाधिपेशो भृङ्गिं समुत्सृज्य गणेन्द्रमुख्यम्१० ।
विव्याध तीक्ष्णैर्निशितैः पृषत्कैर्विनायकं११ सप्तभिरंसदेशे ।। ११ । ।
पुनस्त्रिषष्ट्या दशभिश्च भूयो विद्युत्प्रभस्तं गजराजवक्त्रम् ।
जघान मर्मस्वभिलब्धलक्ष्य१२ स्ततश्चुकोपास्य विनायकेन्द्रः ।। १२ ।।
स पुष्कराग्रेण गजेन्द्रसिंहो ग्रीवां तदा दैत्यपतेर्विवेष्ट्य ।
उत्पाटयामास शिरः शरीरात पद्मं ह्रदान्नाग इव प्रमत्तः । ।१ ३ ।।
दैत्यस्य कृत्तं शुशुभे शिरस्तद्विन्ध्याचलेन्द्रप्रतिमाच्छरीरात् ।
सहंसचक्राह्वरुतोपगीताद् ह्रदान्नवोत्खातमिवाशु पद्मम् । । १४।।
ततोपरौ दैत्यपती सुयत्तौ नेमिर्बलश्चान्धकतुल्यकल्पौ१३ ।
क्रुद्धावुपागम्य हि शंकुकर्णं शिलीमुखैर्विव्यधतुर्गणेन्द्रम् ।।१५। ।
तौ शंकुकर्णः प्रसभं निपत्य छिन्नध्वजाश्वौ विरथौ चकार ।
अन्यौ समारुह्य रथौ पुनुस्तौ भूयस्समागम्य गणप्रवीरम् । । १६ ।।
तं जघ्नतुर्नैकविधः पृषत्कैर्वज्राभिघातप्रतिमैस्सुतीक्ष्णैः ।
क्रुद्धस्तदा स प्रसभं गणेन्द्रस्तौ१४ दैत्यराजौ सुचिरं निरीक्ष्य ।।१७।।
दीप्तेन हत्वा मुशलेन वीरौ संप्रेषयामास पुरं यमस्य ।
अन्ये च दैत्यास्त्रिपुराधिवासाः क्रुद्धा विनिष्क्रम्य गणेन्द्रसिंहैः ।। १८।।
नाराचचक्रासिकुठारहस्ता घोरं महद्युद्धमतीव चक्रुः ।
दैत्याधिपास्ते हरतुल्यकल्पैर्गणेश्वरैः प्राप्तशिवप्रसादैः । । १९। ।
हता बभूवुर्हि गतासवस्तु१५ मृगा यथा केसरिभिर्वनान्ते ।
प्रभ्रष्टनानायुधवस्त्र१६हाराश्छिन्नैर्भुजैश्शोणितमुद्वहन्तः१७ ।।8.170.२ ० । ।
वज्राहता १८ - - - - - - - पेतुः समुद्रे गिरिशृङ्गकल्पाः ।
श्रुत्वाथदैत्यौ बलनेमिसंज्ञौ तौ शकुकर्णेन हतौ प्रसह्य । ।२१ ।।
- - - -- - - - - - - - -
१० गजेन्द्रमुख्यम् - क. । ११ विनायकैः - क. । १२. लक्ष - क. ख. । १३ .. वीर्यौ - ख. । १४ निपत्य तौ (?) - क. । १५ गताशयोस्तु - क., गतासवांस्तु - ख. । १६ चक्र - क. । १७ .. मुद्वमत्तः - ख. । १८ वृष्ट्याहता - ख. ।
- - - -- - - - - - - - -

912
पुराद्विनिष्क्रम्य स तारकाक्षः क्रुद्धो गणेन्द्रं स्वयमभ्यधावत् ।
तं शंकुकर्णो दितिजाधिपेशं१९ मुञ्चन्तमुग्रं शरवर्षमाशु । ।२२ । ।
भल्लेन दैत्यं गिरिसन्निकाशं२० जघान मूर्ध्नि प्रसभं गणेशः ।
निपत्य किञ्चिन्निहतः स तेन भल्लेन दैत्याधिपतिर्मुमोह । ।२३ । ।
प्रोत्थाय तूर्णं स हि तारकाक्षश्चिक्षेप तस्मै गणपाय चक्रम् ।
क्रुद्धस्ततोसावभवद् गणेन्द्रस्तं तारकाक्षं स हि शंकुकर्णः । ।२४।।
निपात्य२१ मुष्ट्या प्रजघान मूर्ध्नि समाहतः सोपि जगाम कृच्छ्रम् ।
जुघूर्ण बभ्राम मुमोह तस्थौ पपात तत्याज वरायुधञ्च । ।२५। ।
मुमोच२२ रोषं विरराव तीव्रं ममार पश्चादसुविप्रमुक्तः२३ ।
दृष्टवा विपन्नं दितिजाधिपेन्द्रं प्रगृह्य दैत्या भवनं मयस्य ।।२६। ।
गत्वा निवेद्यासुरराजभर्त्रे नादान् प्रचक्रुर्विविधैर्विलापैः ।
ततो मयस्तान्२४ रुदतो२५ सुरेशानाश्वासयन्२६ प्राह वचोसुरेशः२७ । ।२७।।
सृष्टं मया वोमृतमेतदास्ते तेनैनमुत्थापयताशु दैत्याः ।
ततो गृहीत्वामृतमुत्तमं तद् दैत्याधिपं दैत्यवृषाः प्रहृष्टाः । ।२८। ।
चक्रुः सजीवं हि यथा पुराणं मयं प्रणेमुश्च मुहुः शिरोभिः ।
स तारकाक्षस्तत आशु भूयो युयुत्सया युद्धपथं जगाम ।।२९। ।
आयान्तमालक्ष्य पितामहस्तं२८ पूर्वं मृतं जीवितमाशु भूयः ।
प्रोवाच वाक्यं स सुरासुरेशं निवेदयन् वामकरेण दैत्यम् । ।8.170.३ ० । ।
हतोप्ययं शङ्कर तारकाक्षः कृतो मयेनाशु सजीव एव ।
तस्यास्ति२९ देवामृतमुत्तमं हि तेनासुरान् जीवयतेसुरेन्द्रः ।।३ १ ।।
दोषो महानेष सुरेन्द्रहेतो३०र्मतान्मृतान् जीवयते यदाजौ३१ ।
ततोमृतं तन्मयसंस्थमाशु प्रध्यानमात्रेण३३ जहार शम्भुः । ।३ २ । ।
पितामहस्तं पुनरेव हृष्टः पिनाकिनं प्राह वचः प्रणम्य ।
दृष्टं मया युद्धमिदं गणानां दैत्याधिपैः सार्धमहीनसत्वैः३३ । ।३ ३ ।।
- - - -- - - - - - - - -
१९ दितिजाधिपेशो - क, श - ख । २० सन्निकाश - -न-. । २१ निपत्य - ख. । २२ मुभोह - क. । २३ विप्रमुक्तं - क. ख., विप्रयुक्तः (?) । २८ स सुप्तान - ख. । २५ प्रयतः - ख. । २६ नाम्ना मयं - ख. । २७ -..न्द्र. - ख. । २८ पितामहन्तं - क. । २०, तत्रास्ति - ख. । ३० वृषेन्द्रकेतो (?) । ३१ सदासौ - क., यदासौ - ख. । ३२ संकल्पमात्रेण (?) । ३३. मदीनसत्वैः - ख. ।
- - - -- - - - - - - - -

913
दिव्यं सहस्रं विगतं समानां क्षयं न चैतत् त्रिपुरं जगाम ।
क्षिपस्व दीप्तं तमिषुं सुरेश प्रयान्तु नाशं सुरविद्विषस्ते । । ३४। ।
पूर्णे सहस्रे त्रिपुरं समेत्य पुनर्विपर्यस्तमभूत् सुरेश ।
क्षिप्तस्त्वयेषुर्न च देवदेव योगेन किं वा तव देवनाथ । । ३ ५। ।
संकल्पमात्रादिदमेति नाशं दैत्याधिवासं त्रिपुरं तवेश ।
यदि त्वहं मानयितव्य ईश३४ विमुञ्च शीघ्रं३५ त्रिपुरे३६ शरं तम् । ।३ ६।।
विज्ञप्त३७ एवं चतुराननेन प्रतीपमालीढमनङ्गहन्ता ।
कृत्वा धनुस्तद्बलवद्विकृष्य युयोज दीप्तं तमिषुं पिनाके३८ ।।३७। ।
संकल्पमात्रेण तदा स तानि पुराणि देवस्सहितानि त्रीणि ।
चक्रे जगत्सृष्टिविनाशकर्ता जगच्च निष्पन्दमभूत्तदाशु । । ३८ । ।
विष्ण्वात्मकं पावकसोमपुंखं त्रैलोक्यसंहार इव प्रदीप्तम् ।
चिक्षेप देवस्तमिषुं तदोग्रं क्षिप्त्वा च कष्टं धिगितीति चाह । ।३ ९। ।
नन्दी समागम्य ततो महेशं प्रोवाच वाक्यं किमिति प्रणम्य ।
नन्दीश्वरं तं भगवानुवाच मयस्य भक्तस्य शुभं चिकीर्षुः । ।8.170.४० । ।
नन्दीश भक्तो मम विश्वकर्मा दहेत् पुरं तस्य यथा न वह्निः ।
तथानलं सोमहरी च देवौ ममाज्ञया गच्छ निवारयस्व ।।४१ । ।
नन्दी प्रगृह्याथ सुरेश्वराज्ञां तूर्णं ययौ विश्वकृतः पुरं तत् ।
- - - - - - तुल्यवेगो ज्योतिष्मतः पूर्वतरं जगाम । ।४२ । ।
दृष्ट्वा मयं तत्र स दानवेशं३९ मूर्ध्ना नताङ्गं वृषभध्वजस्य ।
मृत्योर्भयार्त्तं शरणार्थिनं च नन्दी समाश्वासयदीशभक्तम् ।।४३ ।।
भयं कृथा मा मय रक्षितस्त्वं भक्त्या भवेनेति वचोभ्युवाच ।
नन्दीश्वरं दानवराट् स दृष्ट्वा श्रुत्वा प्रियं तच्छिवसंप्रसादम् । ।४४।।
यथैव रुद्राय ननाम मूर्ध्ना चक्रे प्रणामं स तथैव तस्य ।
अथाग्निरागात्४० त्रिपुरं दिधक्षन् प्रदीपयित्वा सकलं समन्तात् । ।४५। ।
- - - -- - - - - - - - -
३४ मानयितव्यमीश - ख. । ३५ .मस्त्रं - क, मात्रं - ख । ३६ त्रिपुरं - क ख. । ३७ विज्ञाप्त - क. । ३८ पिनाकि ( की) - ख. । ३९ दानवेश - क दानवेन्द्र - ख. । ४० यथाग्निरागात - ख. ।
- - - -- - - - - - - - -

914
संवर्त्तवह्निप्रतिमो युगान्ते जगत् प्रसंहर्त्तुमिव प्रदीप्तः४१ ।
तमागतं विश्वकृतो निवासं विष्ण्विन्दुयुक्तं ज्वलनं स नन्दी ।
दग्धव्यमेतन्न हुताशनेति वचोभ्युवाचाशु विभोर्नियोगात् । ।४६ । ।
ततः स४२ वह्निस्तमुवाच देवं कस्मान्न दग्धव्यमिदं४३ मयेति ।
नन्दी हुताशं स ततोभ्युवाच मयोत्र तिष्ठत्यमरेशभक्तः । ।४७।।
तं वह्निराहासुरराजमाशु तूर्णं विनिर्गच्छ४४ मयेति वाक्यम् ।
हैमं गृहीत्वा स महेशलिङ्गं पुराद्विनिष्क्रम्य मयोसुरेन्द्रः । ।४८। ।
पातालमाशु प्रविवेश हृष्टः कुर्वन्नमस्कारमुमाप्रियस्य ।
नन्दीश्वरः सोपि सुरेशपार्श्वमागम्य चाख्याय४५ च संस्थितोभूत् ।। ४९।।
ततः प्रदीप्तं त्रिपुरं बभूव विश्लिष्टयन्त्रार्गलनष्टवेश्म ।
नैकासुरामुक्तमहोग्रनादं४६ वित्रस्तदैत्येन्द्रवधूजनाढ्यम् । ।8.170.५० ।।
वातायने हर्म्यविमानसंस्थाश्चन्द्राननाः पीनपयोधराढ्याः ।
पर्यङ्कसुप्ता मदविह्वलाक्ष्यो मार्गं प्रियाणां मुहुरीक्षमाणाः४७ । ।५१ । ।
विलोचनैस्ताम्रनिभाङ्गरागैः४८ श्यामावदाता जघनैर्विशालैः ।
दैत्याङ्गनाः स्वं४९ ददृशुः प्रदीप्तमालिङ्ग्यमानाः शरपावकेन । ।५२। ।
प्रासादसंस्थाः प्रययुर्भयार्त्तास्त्रासेन किन्नर्य इवाचलस्थाः ।
प्रियानथोद्वीक्ष्य५० समागताँस्तान् मोहं समालिङ्ग्य भृशं विजग्मुः ।।५३ ।।
प्रिया गृहीत्वा दितिजास्ततस्ते प्रनष्टकामास्तरसा५१भिजग्मुः ।
निष्क्रान्तमात्राश्शिवशक्तिमूढाः५२ पेतुः समुद्रे बलविप्रयुक्ताः ।।५४।।
दैत्यान् समुद्रे पतिताँस्ततस्तान् मत्स्या महान्तो गिरिसन्निकाशाः ।
तीव्राश्च नक्रा मकराश्च घोराः संजग्रसुर्नष्टबलान् विमूढान् । ।५५। ।
जलेचरेन्द्रास्त्वपरे महान्तस्संछिन्नहाराः पतिताः स्त्रियस्ताः ।
हीनाः प्रियैर्भक्षयितुं प्रवृत्ताः करालदंष्ट्रा विवृताननाश्च । । ५ ६।।
ता भक्ष्यमाणाः पतितास्तरुण्य प्रियान्सरोषं बहुशो निरीक्ष्य ।
रुजा महत्या परिखिद्यमानाः संचुक्रुशुर्दीनतरं युवत्यः । ।५७। ।
- - - -- - - - - - - - -
४१ प्रदीप्तं - क । ४२ ततस्तु - ख । ४३ हन्तव्यमिदं - क. ख. । ४४ विनिर्गम्य - ख. । ४५ संरव्याय - ख. । ४६ नैतासुरोन्मुक्तमहोग्रनाद ख । ४७ मुहुरीक्ष्यमाणाः- क. ख. । ४८ .. निताङ्गरागैः - क.,.. .निभान्तरागैः - ख.। ४९ सं - क. ख । ५० प्रियानथावीक्ष्य - ख. । ५१ प्रनष्टकोपास्तरसा - क. । ५२ च्छिवशक्तिमूढाः - क.।
- - - -- - - - - - - - -

915
तासां तदा दैत्यविलासिनीनां रेजे भृशं क्रोधनिरीक्षितं तत् ।
रतावसाने परिखेदितानां प्रियैरिवान्यामभिगन्तुकामैः । ।५८।।
सर्वे ततो दैत्यवृषाः५३ सभार्याः प्रदह्यमानास्त्रिपुरानलेन ।
मग्नाः५४ समुद्रे मकरैर्विभिन्ना गतासवो मृत्युवशं प्रजग्मुः । ।५ ९ ।।
शरश्च सोग्नीन्दुजनार्दनात्मा५५ प्रदह्य कृत्स्नं त्रिपुरं पुरं तत् ।
क्षिप्त्वा समुद्रे स्म शमं५६ प्रयातं५७ शशाम शम्भोश्च करं जगाम ।।8.170.६० । ।
दैत्यैर्हतैस्तैस्त्रिपुरे च दग्धे५८ देवान् रथस्थान् पुनरेव देवः ।
पूर्वं यथा दिव्यशरीरयुक्तान्५९ चकार सृष्टिप्रलयादिहेतुः ।।६१ । ।
ब्रह्मादयस्ते त्रिदिवौकसेशा नेमुर्वचश्चेदमथोचुरीशम् ।
कृतं त्वयेदं भगवन्नशक्यं शुभं महद्रौद्रतरं च कर्म । ।६२। ।
दैत्या हतास्तत्त्रिपुरं प्रदग्धं शान्तिः कृता नः स्म६० सुरासुरेश ।
नमोस्तु सर्वत्र सदा स्थिताय स्रष्ट्रे सुराणां परमेश६१ तुभ्यम् ।
नित्यं नविज्ञातगमक्रियाय नमो नमः सर्वगताय तुभ्यम् ।।६३ । ।
तानाह देवः स६२ तदा सुरेन्द्रान् ब्रह्मार्कविष्ण्विन्द्रधनेश्वराद्यान् ।
सदैव यूयं प्रतिपालनीया रक्ष्याश्च देवाः सुतवन्मयैव । ।६४।।
पूर्णाभिलाषा हतविद्विषश्च प्रयात हृष्टाः स्वनिवेशनानि ।
देवास्ततो देववरं प्रणम्य जग्मुः स्वकीयानि निवेशनानि । । ६५ । ।
देवोपि सिद्धैरभिवन्द्यमानः कैलासशृङ्गं सहितो गणेन्द्रैः ।
चण्डेशनन्दीश्वरवीरभद्रैर्जगाम कर्ता जगतस्त्रिनेत्रः । । ६ ६। ।
इति कथितमसह्यं देवदेवस्य कर्म
त्रिपुरदहनसंज्ञं व्यास तुभ्यं मयैतत् ।
मनुज इदमधीते यः शुचिः शर्वभक्तः
स भवति गतपापः स्वर्गभाग् देवजन्मा ।। ६७। ।
इति स्कन्दपुराणे त्रिपुरवधे सप्तत्यधिकशततमोध्यायः६३
- - - -- - - - - - - - -
५३ दैत्यवराः - ख । ५४ ... भग्ना - क. । ५५ सोग्नीन्द्रजनार्दनात्मा - क. । ५६ शमं (?) । ५७ प्रयातः (?) । ५२ प्रदग्धे - क. । ५९ शरीरधारीन् - क. । ६० ..स्स - क. । ६१ प्रमथेश - ख. । ६२ स्म - क. । ६३ समाप्तं त्रिपुरवधमिति - ख. ।
- - - -- - - - - - - - -