सुभाषितरत्नकोशः/७ सूर्यव्रज्या

विकिस्रोतः तः
← ६ हरिव्रज्या सुभाषितरत्नकोशः
७ सूर्यव्रज्या
विद्याकरः
८ वसन्तव्रज्या →

ततः सूर्यव्रज्या ७

यस्याधो ऽधस् तथोपर्य् उपरि निरवधि भ्राम्यतो विश्वम् अश्वैर् आवृत्तालातलीलां रचयति रयतो मण्डलं तिग्मधाम्नः /
सो ऽव्याद् उत्तप्तकार्तस्वरसरलशरस्पर्धिभिर् धामदण्डैर् उद्दण्डैः प्रापयन् वः प्रचुरतमतमःस्तोमम् अस्तं समस्तम् ७.१ (१४८)
राजशेखरस्य

शुकतुण्डच्छवि सवितुश् चण्डरुचः पुण्डरीकवनबन्धोः /
मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः ७.२ (१४९)
विद्यायाः

तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय /
संसारसागरसमुत्क्रमयोगिसार्थ- प्रस्थानपूर्णकलशाय नमः सवित्रे ७.३ (१५०)
वराहमिहिरस्य

संसक्तं सिक्तमूलाद् अभिनवभुवनोद्यानकौतूहलिन्या यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन /
अर्कालोकः क्रियाद् वो मुदम् उदयशिरश्चक्रवालालवालाद् उद्यन् बालप्रवालप्रतिमरुचिर् अहःपादपप्राक्प्रवालः ७.४ (१५१)
मयूरस्य

इति सूर्यव्रज्या|| ७