सुब्रह्मण्य

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

मम नाम सुब्रह्मन्यः। अहम् बेङलुरु निवासी। मम जन्मस्तलः दावनगेरेग्रामः।अहम् भरते दश वर्षेषु निवसिन्।भारतस्य राजधानी दिल्ली अस्ति । अन्यमुख्य नगराणि मुम्बई कलकाता बेंगलोर् चेन्नै च सन्ति । भारते सप्तविंशति राज‍्यानि सन्ति। भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः। भारतवर्षस्‍य उत्तरदिशि पर्वतराज: हिमालय: अस्‍ति, दक्षिणे सिन्धु महासागर: अस्‍ति। भारतस्य उत्तरे नेपाल तिब्बत चीन च देशा: सन्ति। पश्चिमे पाकिस्तान अफगानिस्तान च देशा: सन्ति। पूर्वेबर्मा एवं दक्षिणे श्रीलंका मालदीव च देशा: सन्ति। कुष्ण-द्वीप निकोबार च निकट: इंडोनेशिया थाईलैंड च देशा: सन्ति। अहम् क्रिस्त विष्वविद्यालये वाणिज्यशास्त्रं पठामि। मम प्रियतमभषा संस्क्रुतम्। संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति। महर्षिपाणिनिरचिता "अष्‍टाध्‍यायी" जगतः सर्वासां भाषानां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं वर्तते। भारतीयभाषासु बहुलत्वेन संस्कृतशब्दाः उपयुज्यन्ते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषाः उद्भूताः। तद्वदेव भारत्-युरोपीयः भाषावर्गीयाः नैकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं वा प्रदर्शयन्ति। अहम् पञ्चवर्षेण रिग्वेदाध्ययनं कुर्वन् असमिन्ऋग्वेदः सनातनधर्मस्य मूलग्रन्थः। चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् । ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् । वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते । ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति।

भारतवर्षस्य अमूल्यनिधिः योगविद्या । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् ।योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि – इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः  । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति ।
"https://sa.wikisource.org/w/index.php?title=सुब्रह्मण्य&oldid=201114" इत्यस्माद् प्रतिप्राप्तम्