रामायणम्/सुन्दरकाण्डम्/सर्गः १३
< रामायणम् | सुन्दरकाण्डम्(सुन्दरकाण्डे त्रयोदशः सर्गः ॥५-१३॥ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation
Jump to search
← सर्गः १२ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः १४ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रयोदशः सर्गः ॥५-१३॥
विमानात् तु सुसम्क्रम्य प्राकारम् हरि यूथपः । हनूमान् वेगवान् आसीद् यथा विद्युद् घन अन्तरे ॥५-१३-१॥ सम्परिक्रम्य हनुमान् रावणस्य निवेशनान् । अदृष्ट्वा जानकीम् सीताम् अब्रवीद् वचनम् कपिः ॥५-१३-२॥ भूयिष्ठम् लोडिता लन्का रामस्य चरता प्रियम् । न हि पश्यामि वैदेहीम् सीताम् सर्व अन्ग शोभनाम् ॥५-१३-३॥ पल्वलानि तटाकानि सराम्सि सरितः तथा । नद्यो अनूपवन अन्ताः च दुर्गाः च धरणी धराः ॥५-१३-४॥ लोडिता वसुधा सर्वा न च पश्यामि जानकीम् । इह सम्पातिना सीता रावणस्य निवेशने ॥५-१३-५॥ आख्याता गृध्र राजेन न च पश्यामि ताम् अहम् । किम् नु सीता अथ वैदेही मैथिली जनक आत्मजा ॥५-१३-६॥ उपतिष्ठेत विवशा रावणम् दुष्ट चारिणम् । क्षिप्रम् उत्पततो मन्ये सीताम् आदाय रक्षसः ॥५-१३-७॥ बिभ्यतो राम बाणानाम् अन्तरा पतिता भवेत् । अथवा ह्रियमाणायाः पथि सिद्ध निषेविते ॥५-१३-८॥ मन्ये पतितम् आर्याया हृदयम् प्रेक्ष्य सागरम् । रावणस्य ऊरु वेगेन भुजाभ्याम् पीडितेन च ॥५-१३-९॥ तया मन्ये विशाल अक्ष्या त्यक्तम् जीवितम् आर्यया । उपरि उपरि वा नूनम् सागरम् क्रमतः तदा ॥५-१३-१०॥ विवेष्टमाना पतिता समुद्रे जनक आत्मजा । आहो क्षुद्रेण च अनेन रक्षन्ती शीलम् आत्मनः ॥५-१३-११॥ अबन्धुर् भक्षिता सीता रावणेन तपस्विनी । अथवा राक्षस इन्द्रस्य पत्नीभिर् असित ईक्षणा ॥५-१३-१२॥ अदुष्टा दुष्ट भावाभिर् भक्षिता सा भविष्यति । सम्पूर्ण चन्द्र प्रतिमम् पद्म पत्र निभ ईक्षणम् ॥५-१३-१३॥ रामस्य ध्यायती वक्त्रम् पन्चत्वम् कृपणा गता । हा राम लक्ष्मण इति एव हा अयोध्येति च मैथिली ॥५-१३-१४॥ विलप्य बहु वैदेही न्यस्त देहा भविष्यति । अथवा निहिता मन्ये रावणस्य निवेशने ॥५-१३-१५॥ नूनम् लालप्यते मन्दम् पन्जरस्था इव शारिका । जनकस्य कुले जाता राम पत्नी सुमध्यमा ॥५-१३-१६॥ कथम् उत्पल पत्र अक्षी रावणस्य वशम् व्रजेत् । विनष्टा वा प्रनष्टा वा मृता वा जनक आत्मजा ॥५-१३-१७॥ रामस्य प्रिय भार्यस्य न निवेदयितुम् क्षमम् । निवेद्यमाने दोषः स्याद् दोषः स्याद् अनिवेदने ॥५-१३-१८॥ कथम् नु खलु कर्तव्यम् विषमम् प्रतिभाति मे । अस्मिन्न् एवम् गते कर्ये प्राप्त कालम् क्षमम् च किम् ॥५-१३-१९॥ भवेद् इति मतिम् भूयो हनुमान् प्रविचारयन् । यदि सीताम् अदृष्ट्वा अहम् वानर इन्द्र पुरीम् इतः ॥५-१३-२०॥ गमिष्यामि ततः को मे पुरुष अर्थो भविष्यति । मम इदम् लन्घनम् व्यर्थम् सागरस्य भविष्यति ॥५-१३-२१॥ प्रवेशः चिव लन्काया राक्षसानाम् च दर्शनम् । किम् वा वक्ष्यति सुग्रीवो हरयो व समागताः ॥५-१३-२२॥ किष्किन्धाम् समनुप्राप्तौ तौ वा दशरथ आत्मजौ । गत्वा तु यदि काकुत्स्थम् वक्ष्यामि परम् अप्रियम् ॥५-१३-२३॥ न दृष्टा इति मया सीता ततः त्यक्ष्यन्ति जीवितम् । परुषम् दारुणम् क्रूरम् तीक्ष्णम् इन्द्रिय तापनम् ॥५-१३-२४॥ सीता निमित्तम् दुर्वाक्यम् श्रुत्वा स न भविष्यति । तम् तु कृच्च्र गतम् दृष्ट्वा पन्चत्व गत मानसम् ॥५-१३-२५॥ भृश अनुरक्तो मेधावी न भविष्यति लक्ष्मणः । विनष्टौ भ्रातरौ श्रुत्वा भरतो अपि मरिष्यति ॥५-१३-२६॥ भरतम् च मृतम् दृष्ट्वा शत्रुघ्नो न भविष्यति । पुत्रान् मृतान् समीक्ष्य अथ न भविष्यन्ति मातरः ॥५-१३-२७॥ कौसल्या च सुमित्रा च कैकेयी च न सम्शयः । कृतज्ञः सत्य सम्धः च सुग्रीवः प्लवग अधिपः ॥५-१३-२८॥ रामम् तथा गतम् दृष्ट्वा ततः त्यक्ष्यन्ति जीवितम् । दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥५-१३-२९॥ पीडिता भर्तृ शोकेन रुमा त्यक्ष्यति जीवितम् । वालिजेन तु दुह्खेन पीडिता शोक कर्शिता ॥५-१३-३०॥ पन्चत्व गमने राज्ञः तारा अपि न भविष्यति । माता पित्रोर् विनाशेन सुग्रीव व्यसनेन च ॥५-१३-३१॥ कुमारो अपि अन्गदः कस्माद् धारयिष्यति जीवितम् । भर्तृजेन तु शोकेन अभिभूता वन ओकसः ॥५-१३-३२॥ शिराम्सि अभिहनिष्यन्ति तलैर् मुष्टिभिर् एव च । सान्त्वेन अनुप्रदानेन मानेन च यशस्विना ॥५-१३-३३॥ लालिताः कपि राजेन प्राणामः त्यक्ष्यन्ति वानराः । न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥५-१३-३४॥ क्रीडाम् अनुभविष्यन्ति समेत्य कपि कुन्जराः । सपुत्र दाराः सामात्या भर्तृ व्यसन पीडिताः ॥५-१३-३५॥ शैल अग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च । विषम् उद्बन्धनम् वा अपि प्रवेशम् ज्वलनस्य वा ॥५-१३-३६॥ उपवासम् अथो शस्त्रम् प्रचरिष्यन्ति वानराः । घोरम् आरोदनम् मन्ये गते मयि भविष्यति ॥५-१३-३७॥ इक्ष्वाकु कुल नाशः च नाशः चैव वन ओकसाम् । सो अहम् न एव गमिष्यामि किष्किन्धाम् नगरीम् इतः ॥५-१३-३८॥ न हि शक्ष्यामि अहम् द्रष्टुम् सुग्रीवम् मैथिलीम् विना । मयि अगच्चति च इहस्थे धर्म आत्मानौ महा रथौ ॥५-१३-३९॥ आशया तौ धरिष्येते वनराः च मनस्विनः । हस्त आदानो मुख आदानो नियतो वृक्ष मूलिकः ॥५-१३-४०॥ वानप्रस्थो भविष्यामि अदृष्ट्वा जनक आत्मजाम् । सागर अनूपजे देशे बहु मूल फल उदके ॥५-१३-४१॥ चिताम् कृत्वा प्रवेक्ष्यामि समिद्धम् अरणी सुतम् । उपविष्टस्य वा सम्यग् लिन्गिनम् साधयिष्यतः ॥५-१३-४२॥ शरीरम् भक्षयिष्यन्ति वायसाः श्वापदानि च । इदम् अपि ऋषिभिर् दृष्टम् निर्याणम् इति मे मतिः ॥५-१३-४३॥ सम्यग् आपः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम् । सुजात मूला सुभगा कीर्ति माला यशस्विनी ॥५-१३-४४॥ प्रभग्ना चिर रात्री इयम् मम सीताम् अपश्यतः । तापसो वा भविष्यामि नियतो वृक्ष मूलिकः ॥५-१३-४५॥ न इतः प्रतिगमिष्यामि ताम् अदृष्ट्वा असित ईक्षणाम् । यदि इतः प्रतिगच्चामि सीताम् अनधिगम्य ताम् ॥५-१३-४६॥ अन्गदः सहितैः सर्वैर् वानरैर् न भविष्यति । विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् ॥५-१३-४७॥ तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति सम्गमः । एवम् बहु विधम् दुह्खम् मनसा धारयन् मुहुः ॥५-१३-४८॥ न अध्यगच्चत् तदा पारम् शोकस्य कपि कुन्जरः । रावणम् वा वधिष्यामि दशग्रीवम् महा बलम् ॥५-१३-४९॥ कामम् अस्तु हृता सीता प्रत्याचीर्णम् भविष्यति । अथवा एनम् समुत्क्षिप्य उपरि उपरि सागरम् ॥५-१३-५०॥ रामाय उपहरिष्यामि पशुम् पशु पतेर् इव । इति चिन्ता समापन्नः सीताम् अनधिगम्य ताम् ॥५-१३-५१॥ ध्यान शोका परीत आत्मा चिन्तयाम् आस वानरः । यावत् सीताम् न पश्यामि राम पत्नीम् यशस्विनीम् ॥५-१३-५२॥ तावद् एताम् पुरीम् लन्काम् विचिनोमि पुनः पुनः । सम्पाति वचनाच् च अपि रामम् यदि आनयामि अहम् ॥५-१३-५३॥ अपश्यन् राघवो भार्याम् निर्दहेत् सर्व वानरान् । इह एव नियत आहारो वत्स्यामि नियत इन्द्रियः ॥५-१३-५४॥ न मत् कृते विनश्येयुः सर्वे ते नर वानराः । अशोक वनिका च अपि महती इयम् महा द्रुमा ॥५-१३-५५॥ इमाम् अभिगमिष्यामि न हि इयम् विचिता मया । वसून् रुद्रामः तथा आदित्यान् अश्विनौ मरुतो अपि च ॥५-१३-५६॥ नमः कृत्वा गमिष्यामि रक्षसाम् शोक वर्धनः । जित्वा तु राक्षसान् देवीम् इक्ष्वाकु कुल नन्दिनीम् ॥५-१३-५७॥ सम्प्रदास्यामि रामाया यथा सिद्धिम् तपस्विने । स मुहूर्तम् इव ध्यात्वा चिन्ता विग्रथित इन्द्रियः ॥५-१३-५८॥ उदतिष्ठन् महा बाहुर् हनूमान् मारुत आत्मजः । नमो अस्तु रामाय सलक्ष्मणाय । देव्यै च तस्यै जनक आत्मजायै । नमो अस्तु रुद्र इन्द्र यम अनिलेभ्यो । नमो अस्तु चन्द्र अर्क मरुद् गणेभ्यः ॥५-१३-५९॥ स तेभ्यः तु नमः कृत्वा सुग्रीवाय च मारुतिः । दिशः सर्वाः समालोक्य अशोक वनिकाम् प्रति ॥५-१३-६०॥ स गत्वा मनसा पूर्वम् अशोक वनिकाम् शुभाम् । उत्तरम् चिन्तयाम् आस वानरो मारुत आत्मजः ॥५-१३-६१॥ ध्रुवम् तु रक्षो बहुला भविष्यति वन आकुला । अशोक वनिका चिन्त्या सर्व सम्स्कार सम्स्कृता ॥५-१३-६२॥ रक्षिणः च अत्र विहिता नूनम् रक्षन्ति पादपान् । भगवान् अपि सर्व आत्मा न अतिक्षोभम् प्रवायति ॥५-१३-६३॥ सम्क्षिप्तो अयम् मया आत्मा च राम अर्थे रावणस्य च । सिद्धिम् मे सम्विधास्यन्ति देवाः सर्षि गणाः त्व् इह ॥५-१३-६४॥ ब्रह्मा स्वयम्भूर् भगवान् देवाः चैव दिशन्तु मे । सिद्धिम् अग्निः च वायुः च पुरु हूतः च वज्रधृत् ॥५-१३-६५॥ वरुणः पाश हस्तः च सोम आदित्यै तथैव च । अश्विनौ च महात्मानौ मरुतः सर्व एव च ॥५-१३-६६॥ सिद्धिम् सर्वाणि भूतानि भूतानाम् चैव यः प्रभुः । दास्यन्ति मम ये च अन्ये अदृष्टाः पथि गोचराः ॥५-१३-६७॥ तद् उन्नसम् पाण्डुर दन्तम् अव्रणम् । शुचि स्मितम् पद्म पलाश लोचनम् । द्रक्ष्ये तद् आर्या वदनम् कदा न्व् अहम् । प्रसन्न तारा अधिप तुल्य दर्शनम् ॥५-१३-६८॥ क्षुद्रेण पापेन नृशम्स कर्मणा । सुदारुण अलाम्कृत वेष धारिणा। बल अभिभूता अबला तपस्विनी । कथम् नु मे दृष्ट पथे अद्य सा भवेत् ॥५-१३-६९॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे त्रयोदशः सर्गः ॥५-१३॥