सारसमुच्चयः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

यज्ञे बहुज्ञानं परमाभ्युदयं
यं द्वीपमध्ये सुतात्माभवत।
पराशरात्सत्यवती महर्षिस्
तस्मै मनोऽज्ञानतमोनुदाय ॥१॥

यथा समुद्रोऽतिमहान् यथा च हिमवान्गिरिः ।
उभौ रत्ननिधी ख्यातौ तथा भारतमुच्यते ॥२॥ [१.५६.२७, १८.५.५२]


इदं कविवरैर्नित्यमाख्यानमुपजीव्यते ।
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥३॥

इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः ।
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥४॥

अनाश्रित्यैतदाख्यानं कथं भुवनं विद्यते ।
आहारमनुपाश्रित्य शरीरस्येव धारणम् ॥५॥

श्रुत्वा त्विदमुपाख्यानं श्रव्यमन्यन्न रोचते ।
पुंस्कोकिलरुतं श्रुत्वा रक्षध्वांक्षस्य वागिव ॥६॥

जीवनस्योद्देश्यः[सम्पाद्यताम्]


धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित॥१॥
मानुषः सर्वभूतेषु वर्तते वै शुभाशुभे ।
अशुभेषु समाविष्टं शुभेष्वेव च कारयेत॥२॥
उपभोगं परित्यक्तं नात्मानमवसादयेत।
चण्डालत्वेऽपि मानुष्यं सर्वथा ततो दुर्लभम् ॥३॥
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते ।
आत्मानं शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥४॥
इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
गत्वा निरौषधस्थानं सरुजः किं करिष्यति ॥५॥ [म.सु. ६२२५]

सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ।
तथात्मानं समादध्याद्ध्वंसेत न पुनर्यथा ॥६॥ [१२.३०९.७९]

कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ।
इह यत्कुरुते कर्म तत्परत्रोपभुज्यते ॥७॥ [३.२४५.१९]
मानुष्यं दुर्लभं प्राप्य विद्युल्लसितचञ्चलम् ।
भवक्षये मतिः कार्या भावोपकरणेषु च ॥८॥
यो दुर्लभतरं प्राप्य मानुष्यं लोभतो नरः ।
धर्मावमन्ता कामात्मा भवेत्सकलवञ्चितः ॥९॥ [१२.२८६.३४]

मानुष्यं महादुष्प्राप्यं तडिद्विलसितोपमम् ।
तल्लब्ध्वा यदि संसारान्नापक्रमति वञ्चितः ॥१०॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥११॥
कर्मार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत।
न हि धर्मादपैत्यर्थः कामो वापि कदाचन ॥१२॥ [५.१२२.३५]

धार्मिकं पूजयन्ति च न धनाढ्यं न कामिनम् ।
धने सुखकला काचिद्धर्मे तु परमं सुखम् ॥१३॥
धर्म एव प्लवो नान्यः स्वर्गं समभिवाञ्छताम् ।
स च नौर्पस्यनिजस्ततं जलधेः पारमिच्छतः ॥१४॥
यत्नः कामार्थमोक्षाणां कृतोऽपि हि विपद्यते ।
धर्माय पुनरारम्भः सङ्कल्पोऽपि न निष्फलः ॥१५॥
यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति ।
एवं कल्याणमातिष्ठन्सर्वपापं व्यपोहति ॥१६॥ [३.१९८.५३]

यथा यथा हि पुरुषः कल्याणे रमते मनः ।
तथा तथास्य सिद्ध्यन्ति सर्वार्था नात्र संशयः ॥१७॥ [५.३५.३४]

धर्मः सदा हितः पुंसां धर्मश्चैवाश्रयः सताम् ।
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥१८॥ [१२.२९७.६]

यस्य नोत्क्रामति मतिर्धर्म मार्गानुसारिणी ।
तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः ॥१९॥ [१२.३०९.८०]

यथेक्षुहेतोरिह सेचितं पयः
तृणानि वल्लिमपि सम्प्रसिञ्चति ।
तथा नरो धर्मपतेन सञ्चरन्
वाचांसि कामानि वसूनि चाश्नुते ॥२०॥
सुरूपतामात्मगुणं च विस्तरं
कुलान्वयं द्रव्यसमृद्धिसंचयम् ।
नरो हि सर्वो लभते यथाकृतं
सदा शुभेनात्म कृतेन कर्मणा ॥२१॥ [१२.२८७.४४]

कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे ।
उद्यतेषु च शस्त्रेषु नास्ति धर्मवतां भयम् ॥२२॥ [५.३९.५३]

मनोऽनुकूलाः प्रमदा रूपवत्यः स्वलङ्कृताः ।
वासः प्रसदपृष्टे च भवन्ति शुभकर्मणाम् ॥२३॥
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः ।
शुभकर्मणामायान्ति सहायाश्च धनानि च ॥२४॥
अर्जयेज्ज्ञानमर्थं च विद्वानमरवत्स्थितः ।
केशेष्विव गृहीतः सन्मृत्युना धर्ममाचरेत॥२५॥
मस्तकस्थायिनं मृत्युं यदि पश्येदयं जनः ।
आहारोऽपि न रुच्येत किमुत कृत्यकारिता ॥२६॥
युवैव धर्ममन्विच्छेद्युवा वित्तं युवा श्रुतम् ।
तिर्यग्भवति वै धर्भा उत्पतन्न च विद्यति ॥२७॥
पूर्वे वयसि यश्शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न विद्यते ॥२८॥
युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा ।
मृत्योरुत्सङ्गमारुह्य स्थैर किमपेक्षते ॥२९॥
पुरा शरीरमन्तको भिनक्ति रोगासारथिः ।
प्रसह्य जिवितक्षये शुभं महत्समाहरेत॥३०॥
युवा इव धर्मशीलः स्यादनित्यं खलु जिवितम् ।
को हि जानाति कद्याद्य मृत्युसेन पतिष्यति ॥३१॥
आ दूमाग्रान्निवर्तन्ते ज्ञातयः सह बान्धवैः ।
येन तैः सह गेन्व्यं तत्कर्म सुकृतं कुरु ॥३२॥
मृतं शरीरमुत्सृज्य काष्टलोष्टसमं जनः ।
मुहूर्तमुपरूढ्याथ ततो यान्ति पराङ्मुखाः ॥३३॥
एको धर्मः परं श्रेयः क्षमैका शान्तिरुच्यते ।
विद्यैका परमा तुष्टिर् अहिंसैका सुखावहा ॥३४॥ [५.३३.४८]

एकं यदि भवेच्छास्त्रं श्रेयो निःसंशयं भवेत।
बहुत्वादिह शास्त्राणां गुहं श्रेयः प्रवेशितम् ॥३५॥
मा तात वृद्धां परिभूः शिक्षस्वागमयस्व च ।
अहेरिव हि धर्मस्य सूक्ष्मा दुरानुगा गतिः ॥३६॥

धर्मः[सम्पाद्यताम्]


श्रुतिर्वेदः समाख्यातो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वाथेस्वं मिमांस्ये ताभ्यां धर्मो विनिर्भृतः ॥३७॥
चातुर्वर्ण्यं तथा लोकाश्चत्वारश्चाश्रमाः पृथक।
भूतं भव्यं भविष्यच्च सर्वं वेदात्प्रसिद्ध्यति ॥३८॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रचरिष्यति ॥३९॥
श्रुत्युक्तः परमो धर्मस्तथा स्मृतिगतोऽपरः ।
शिष्टाचारः परः प्रोक्तस्त्रयो धर्माः सनातनाः ॥४०॥

धर्मः[सम्पाद्यताम्]


न तात परस्य सन्दध्यात्प्रतिकूलं यदात्मनः ।
एष सङ्क्षेपतो धर्मो कामादन्यत्प्रवर्तते ॥४१॥
ये तु शिष्टा सुनियताः सत्यार्जवपरायणाः ।
धर्म्यं पन्थानमारूढास्तेषां वृत्तं समाचर ॥४२॥
सर्वतो भ्राम्यमानस्य धर्मस्य रथचक्रवत।
वेश्यासुतस्येव पितुर्निश्चयो नोपलभ्यते ॥४३॥
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवोपधार्यताम् ।
आत्मनः प्रतिकूलानि न परेषां समाचर ॥४४॥
पुलका इव धान्येषु पुत्तिका इव पक्षिषु ।
तादृशास्ते मनुष्येषु येषां धर्मो न कारणम् ॥४५॥
म्रियन्ते जन्मनोऽर्थाय जाÝ मरणाय च ।
न धर्मार्थं न कर्मार्थं तृणानिव पृथग्जनाः ॥४६॥
ये तु धर्ममसूÝ बुद्धिमोहान्विता जनाः ।
अपथा गच्छतां तेषामनुयातापि पीड्यते ॥४७॥
अधर्मरुचयो मन्दास् तिर्यग्गतिपरायणाः ।
कृच्छ्रां योनिमनुप्राप्य न विन्दन्ते सुखं जनाः ॥४८॥ [३.२४५.१८]

धनस्य यस्य राजतो भयं न चास्ति चौरतः ।
मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम् ॥४९॥ [१२.३०९.४५]

धर्मश्चेन्नावसीदेत कपालेनापि जीवतः ।
आढ्योऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥५०॥
धर्ममाचरतो वृत्तिर्यदि नोपगमिष्यति ।
न नाम किं शीलोञ्छाम्बुशाकाद्यपि विपत्स्यते ॥५१॥
सन्त शाकान्यरण्येषु नद्यश्च विमलोदकाः ।
चन्द्रः सामान्यदीपोऽयं विभवैः किं प्रयोजन्म् ॥५२॥
व्यापृतेनापि हि स्वार्थः क्रियते चान्तरेऽन्तरे ।
मढ्री पृष्टेऽपि हि भ्राम्यन्ग्रासं ग्रासं करोति गौः ॥५३॥
बुद्धेन शातदान्तेन नित्यमभ्युत्थितात्मन।
धर्मस्य गतिरन्वेष्या मत्स्यस्य गतिरप्स्विव ॥५४॥

चातुर्वर्ण्यम्[सम्पाद्यताम्]


ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातीयः शूद्रो नास्तीह पञ्चमः ॥५५॥
अधीयीत ब्राह्मणो वै यजेत
दद्यादियत्तीर्थमुख्यानि चैव ।
अध्यापयेद्याजयेच्चापि याज्यान्
प्रतिग्रहं वा विहितान्प्रतीच्छेत॥५६॥ [५.२९.२१]

धर्मश्च सत्यं च तपो दमश्च
विमत्सरित्वं ह्रीस्तितिक्षानसूया ।
यज्ञाश्च दानं च धृतिः क्षमा च
महाव्रतानि द्वादश वै ब्राह्मणस्य ॥५७॥ [५.४३.१२]
अधीत्य वेदान्परिसंस्तीर्य चाग्नीन्
इष्ट्वा यज्ञैः पालयित्वा प्रजश्च ।
भृत्यं भृत्वा ज्ञातिसम्बन्धिनश्च
दानं दत्त्वा क्षत्रियः स्वर्गमेति ॥५८॥ [५.४०.२४]
वैश्यो ऽधीत्य ब्राह्मणान्क्षत्रियांश्च
धनैः काले संविभज्याश्रितांश्च ।
त्रेता पूर्वं धूममाघ्राय पुण्यं
प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते ॥५९॥ [५.४०.२५]

ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः
क्रमेणैतान्न्यायतः पूजयानः ।
तुष्टेष्वेतेष्वव्यथो दग्धपापस्
त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥६०॥ [५.४०.२६]

भीरू राजन्यो ब्राह्मणः सर्वभक्षो
वैश्योऽनीहावान्हीनवर्णोऽलसश्च ।
विद्वांश्चाशीलो वृत्तहीनः कुलीनः
सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा ॥६१॥ [१२.२७९.२४]

रागी मुक्तः पचमानोऽऽत्महेतोर्
मूर्खो वक्ता नृप हीनं च रास्त्रम् ।
एते सर्वे शोच्यतां यान्ति राजन्
यश्चायुक्तः स्नेहहीनः प्रजासु ॥६२॥ [१२.२७९.२५]

आर्जवं चानृशंस्यं च दमश्चेन्द्रियनिग्रहः ।
एष साधारणो धर्मश्चातुर्वर्ण्येऽब्रवीन्मनुः ॥६३॥
अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् ।
क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत॥६४॥ [१२.२०८.६]

सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् ।
एतावाञ् ज्ञानविषयः किं प्रलापः करिष्यति ॥६५॥ [१२.८०.२०]

आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् ॥ [३.२०३.४१]
कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः ।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥६७॥ [१२.१५८.२]

दानाद्दमो विशिष्टो हि दानमुन्नतिकारणम् ।
दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ॥६८॥ [१३.७४.१४]

नोदकक्लिन्नगात्रो हि स्नात इत्यभिधीयते ।
स स्नातो यो दमस्नातः स बाह्याभ्यन्तरशुचिः ॥६९॥
न हृष्यति महत्यर्थे व्यसने न च शोचति ।
यो वा परिमितप्रज्ञः स दान्त इति कीर्त्यते ॥७०॥
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ ।
निगृहीतानि सृष्टानि स्वर्गाय नरकाय च ॥७१॥ [म.सु. ६०५९]

जिवितं साधुवृत्तं योगक्षेमं बलं यचः ।
धर्ममर्थं च पुष्णाति न्èणामिन्द्रियनिग्रहः ॥७२॥

त्रिकाय[सम्पाद्यताम्]


मनसा त्रिविधं चैव वाचा चैव चतुर्विधम् ।
कायेन त्रिविधं चापि दशकर्मपथं चरेत॥७३॥ [१३.१३.२]
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् ।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत॥७४॥ [भा.पु. १३.१३.५]

असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा । ।
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत॥७५॥ [म.सु. ३६७८]

प्राणातिपातं स्तैन्यं च परदारानथापि च ।
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत॥७६॥ [१३.१३.३]

कायेन मनसा वाचा यदभीक्ष्णं निसेवते ।
तदेवापहरत्येनं तस्मात्कल्याणमाचरेत॥७७॥ [५.३९.४२]

वाचा कर्मणि चित्ते च दुर्लभः सगुणे जनः ।
यस्य त्वेवंविधं कार्यं स जनः सर्वदुर्लभः ॥७८॥

मनः[सम्पाद्यताम्]


मनसा निश्चयं कृत्वा ततो वाचा विधीयते ।
क्रियते कर्मणा पश्चात्प्रधानं वै मनस्ततः ॥७९॥
मनो हि मूलं सर्वेषामिन्द्रियाणां प्रवर्तते ।
शुभाशुभास्ववस्थासु कार्यं तत्सुव्यवस्थितम् ॥८०॥
दूरगं बहुधागामि प्रार्थासंशयात्मकम् ।
मनः सुनियतं यस्य स सुखी प्रेत्य चेह च ॥८१॥ [१२.१८७.३६]

सर्वं पश्यति चक्षुष्मान्मनोयुक्तेन चक्षुषा ।
मनसि व्याकुले जाते पश्यन्नपि न पश्यति ॥८२॥
स्त्रैणस्यावाच्यदेशस्य क्लिन्ननादं व्रणस्य च ।
अभेदेऽपि मनोभेदाज्जनः प्रायेण वञ्च्यते ॥८३॥
लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा ।
प्रवञ्च्यते जनेनात्मसंज्ञाशब्दैः स्वयंकृतैः ॥८४॥
अभिन्नेष्वपि कार्येषु भिद्यते मनसः क्रिया ।
अन्यथैव स्तनं पुत्रश्चिन्तयत्यन्यथा पतिः ॥८५॥
परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ।
कुणपः कमिनी भक्ष्यमिति तिस्रो विकल्पनः ॥८६॥
भावशुद्धिर्मनुष्यस्य विज्ञेया सर्वकर्मसु ।
अन्यथा चुम्ब्यते कान्ता भावेन दुहितान्यथा ॥८७॥

ईर्ष्या[सम्पाद्यताम्]


अभिध्यालुः परस्वेषु नेह नामुत्र नन्दति ।
तस्मादभिध्या सन्त्यज्य सर्वदाभीप्सता सुखम् ॥८८॥
सदा समाहितं चित्तं नरो भूतेषु धारयेत।
नाभिध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत॥८९॥
नियच्छायच्छ संयच्छ चेन्द्रियाणि मनस्तथा ।
प्रतिषेध्यस्ववाद्येषु दुर्लभेष्वहितेषु च ॥९०॥
यस्येर्ष्या परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखबुद्धयतिअसत्कार्ये तस्य व्याधिरनन्तगः ॥९१॥ [५.३४.४०]


क्षमा[सम्पाद्यताम्]


क्षमावतामयं लोकः परलोकः क्षमावताम् ।
इह संमानं ऋच्छन्ति परत्र च शुभां गतिम् ॥९२॥ [३.३०.४२]

नातः श्रीमत्तरं किञ्चिदन्यत्पथ्यतमं तथा ।
प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥९३॥ [५.३९.४५]

यदि न स्युर्मनुष्येषु क्षामिणः पृथिवीसमाः ।
न स्यात्सख्यं मनुष्याणां क्रोधमूलो हि विग्रहः ॥९४॥ [३.३०.२५]

यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥९५॥

क्रोधः[सम्पाद्यताम्]


न शत्रवः क्षयं यान्ति यावज्जिवमपि घ्नतः ।
क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥९६॥
अव्याधिजं कटुकं शीर्षरोगं
यशोमुषं पापफलोदयं च ।
सतां पेयं यन्न पिबन्त्यसन्तो
मन्युं महाराज पिब प्रशाम्य ॥९७॥ [म.सु. ३४४८]

आत्मोपमस्तु भूतेषु यो भवेदिह पूरुषः ।
त्यक्त दण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥९८॥ [१२.६६.३०,१३.११४.६]

जातवैरस्तु पुरुषो दुःखं स्वपिति सर्वदा ।
अनिर्वृतेन मनसा स सर्प इव वेश्मनि ॥९९॥
आतुरस्य कुतो निद्रा त्रस्तस्यामर्षितस्य च ।
अर्थं चिन्तयतो वापि कामयानस्य वा पुनः ॥१००॥ [१०.४.२१]

अक्रोधनः क्रोधनेभ्यो विशिष्टस्
तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना
विद्वांस्तथैवाविदुषः प्रधानः ॥१०१॥ [म.सु. १२२]

यत्क्रोधनो यजते यद्ददाति
यद्वा तपस्तप्यति यज्जुहोति ।
वैवस्वतस्तद्धरतेऽस्य सर्वं
वृथा श्रमो भवति क्रोधनस्य ॥१०२॥ [१२.२८८.२७]

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥१०३॥ [३.२०३.४०, १२.१८२.१०]

क्रोधो वैवस्वतो मृत्युस्तृष्णा वैतरणी नदी ।
विद्या कामदुघा धेनुः सन्तोषो नन्दनं वनम् ॥१०४॥
क्रुद्धः पापानि कुरुते क्रुद्धो हन्याद्गुरूनपि ।
क्रुद्धः परुषया वाचा नरः साधूनपि क्षिपेत् ॥१०५॥ [३.३०.४]

वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित॥१०६॥
क्रोधः शत्रुः शरीरस्थो मनुष्याणां नरोत्तम ।
यः क्रोधलोभौ त्यजति स लोके पूज्यतामियात॥१०७॥
देवतासु विशेषेण राजसु ब्राह्मणेषु च ।
नियन्तव्यो भवेत्क्रोधो बालवृद्धातुरेषु च ॥१०८॥
धर्मार्थहेतोः क्षमतस्तितिक्षोः शान्तिरुत्तमा ।
लोकसङ्ग्रहणार्थं वै स तु धैर्येण लभ्यते ॥१०९॥

नास्तिक्यं[सम्पाद्यताम्]


नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत॥११०॥
सन्दिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः ।
यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ॥१११॥
न दृष्टपूर्वा प्रत्यक्षं परलोकं विदुबुधाः ।
आगामांस्त्वनन्तिक्रम्य श्रद्धातव्यं विजानता ॥११२॥
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।
सर्वत्र चानवस्थानमेतन्नाशनमात्मनः ॥११३॥
नास्तिकं भिन्नमर्यादं कूले वातमिव स्थितम् ।
वामतः कुरु विश्रब्धं नरं रेणुमिवोद्धतम् ॥११४॥
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ।
विहिंसका दुराचारास्ते भवन्ति गतायुषः ॥११५॥
ऐहलौकिकमीहन्ते मांसशोनितवर्धनाः ।
पारलौकिककृत्येषु प्रसुप्ता भृशनास्तिकाः ॥११६॥
द्वे कर्मणी नरः कुर्वन्निह लोके महीयते ।
अब्रुवन्परुषं किञ्चिदसतो नार्थयंस्तथा ॥११७॥
संयगल्पं च वक्तव्यमविक्षिप्तेन चेतसि ।
वाक्प्रबन्धो हि संरागाद्विरागाद्वा भवेदसन॥११८॥
अभ्यावहति कल्याणं विविधं वाक्सुभाषिता ।
सैव दुर्भाषिता पुंसामनर्थायोपपद्यते ॥११९॥
वाक्सायका वदनान्निष्पतन्ति
यैराहतः शोचति रत्र्याहनि ।
स्पृश्य वा मर्मसु ते पतन्ति
तस्माद्धीरो नावसृजेत्परेषु ॥१२०॥
मर्मान्यस्थीनि हृदयं तथासून्
घोरा वाचो निर्दहन्तीह पुंसाम् ।
तस्माद्वाचं रुचतीन्तीक्ष्णरूपं
धर्मारामो अन्त्यशो वर्जयेत्ताम् ॥१२१॥
संरोहति शनैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति तत्क्षतम् ॥१२२॥
हीनाङ्गनतिरिक्ताङ्गान्विद्याहीनान्विगर्हितान।
रूपद्रविणहीनांश्च सत्त्वह्नंश्च नाक्षिपेत॥१२३॥
नाक्रोशमिच्छेन्न मृषा वदेच्च
न पैशुन्यं जनवादं न कुर्यात।
सत्यव्रतो मितभाषो प्रमत्तस्त्य्
अवाग्द्वारमुपैति गुप्तिम् ॥१२४॥
प्रत्यक्षं गुणवादी यः परोक्षे तु विनिन्दकः ।
स मानवः श्ववल्लोके नष्टलोकपरायणः ॥१२५॥
न वाच्यः परिवादो वै न श्रोतव्यः कदाचन ।
कर्णौ वापि पिधातव्यौ गन्तव्यं व ततोऽन्यतः ॥१२६॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविसादिव ।
नास्तिकोअःप्युद्विजेतेह जनः किं पुनरास्तिकः ॥१२७॥

सत्यम्[सम्पाद्यताम्]


अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥१२८॥ [१२.१६९.२८]

न यज्ञाः फलदानानि नियमास्तार्यन्तिइ हि ।
यथा सत्यं परं लोके पुरुषं पुरुषर्षभ ॥१२९॥
ब्राह्मणो वा मनुष्याणामादित्यो वापि तेजसाम् ।
शिरो वा सर्वगात्राणां धर्माणां सत्यमुत्तमम् ॥१३०॥
यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः ।
आत्मार्थं किं न कुर्यात्स पापनरकानिभार्यः ॥१३१॥
सत्यां वाचमहिंसां च वदेदपरिवादिनीम् ।
कल्योपेतामपरुषामनृशंसामपैशुनाम् ॥१३२॥
दृष्टानुभूतमर्थं यः पृष्टो न विनिगूहते ।
यथाभूतं प्रवादित्वातीत्येतत्सत्यलक्षणम् ॥१३३॥
न तथ्यवचनं सत्यं नातथ्यवचनं मृषा ।
यद्भूतहितमत्यर्थं तत्सत्यमितरं मृषा ॥१३४॥
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तान्निघ्नता किं न हतं रक्षा भूतहितार्था च ॥१३५॥

अहिंसा[सम्पाद्यताम्]


जिवितं यः स्वयं हीच्छेत्कथं सोऽन्यं प्रघातयेत।
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत॥१३६॥ [१२.२५१.२१]

यस्यान्ते श्वापि चरणौ कुरुते मूर्धन्य शङ्कितः ।
स कायः परपीडनैर्धार्यत इति को नरः ॥१३७॥
कृमयो भस्मविष्टा वा निष्ठा यस्येदृशी भवेत।
कायोऽयं पालयं पीड्य यत्क्? परिपाल्यते ॥१३८॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि न ।
फलं भूतहितार्थाय तत्पशोरिव चेष्टितम् ॥१३९॥
एकं सूते मृगारिणी बहून्सूते वृकी सुतान।
उत्तारः प्रलयं यान्ति नाद्यमानाः कथञ्चन ॥१४०॥ [म.सु. ७४१२]

वधबन्धपरिक्लेशान्प्राणिनो न करोति यः ।
स सर्वस्य हितं प्रेप्सुः सुखमत्यन्तमश्नुते ॥१४१॥
यच्चिन्तयति यद्याति रतिं बध्नाति यत्र च ।
तथा चाप्नोत्ययत्नेन प्राणिनो न हिनस्ति यः ॥१४२॥
रूपमव्यङ्गतामायुः पूर्णं प्रज्ञं चौर्यं स्मृतिम् ।
प्राप्तुकामैर्नरैर्हिंसा वर्जनीया कृतात्मभिः ॥१४३॥
अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
अभयं तस्य भूतानि ददतीह न संशयः ॥१४४॥
सर्वसत्त्वेषु यद्धानमेकसत्त्वे च या दया ।
सर्वसत्त्वप्रदानाद्धि दयैका च विशिष्यते ॥१४५॥
न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते ।
तस्माद्दया नरः कुर्याद्यथात्मनि तथा परे ॥१४६॥
अक्रोधनः सत्यवादी भूतानामविहिंसकः ।
अनसूयः सदाचारो दीर्घमायुरवाप्नुयात॥१४७॥ [म.सु. १२३]

दौष्कुला व्याधिबहुला दुराचाराः प्रहारिणः ।
भवन्त्यल्पायुषः पापा रोदुका कश्मलोदयात॥१४८॥

अस्तेन्यम्[सम्पाद्यताम्]


ये धनान्य् अपकर्षन्ति नराः स्वबलमाश्रिताः ।
न हरेद्धर्मकामं च प्रमुषन्ति न संशयः ॥१४९॥ [५.७.२४]

आहरन्कस्यचिद्द्रव्यं यो नरः सुखमावसेत।
सर्वतः शङ्कितः स्तेनो मृगो ग्राममिवागतः ॥१५०॥
त्रीण्येव च धनान्याहुः पुरुषस्योत्तमव्रताः ।
न द्रुह्याच्चैव दयाच्च सत्यं चैव सदा वदेत॥१५१॥
दुःखिने बन्धुवर्गाय सुहृदे संश्रिताय च ।
या नाभिद्रुह्यत वृत्तिः सा कृपातिगरीयसी ॥१५२॥

परदार[सम्पाद्यताम्]


परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित।
न हीदृशमनायुष्मं यथान्यस्त्रीनिषेवनम् ॥१५३॥
तत्प्राज्ञे विनीतेन ज्ञानविज्ञानवेदिना ।
नायुष्कामेन सेव्याः स्युर्मनसापि परस्त्रियः ॥१५४॥
तदेव संस्पर्शसुखं सैव चान्ते विडम्बना ।
स्वासु चान्यासु च स्त्रीषु परस्त्रीष्वथ को गुणः ॥१५५॥

सुशील[सम्पाद्यताम्]


तस्माद्वाक्कायचित्तैस्तु नाचरेदशुभं नरः ।
शुभाशुभं ह्याचरति तस्याश्नुते फलम् ॥१५६॥
अद्रोहः SअB्तेषु कायेन मनसा गिरा ।
अनुग्रहाच्च दानं च शिलामेतद्विदुबुधाः ॥१५७॥
धः सत्यं तथा वृत्तं बलं ज़्श्चैव ५मः ।
निश्चयेन महाराज सदा नास्त्यत्र संशयः ॥१५८॥
शीलेन हि त्रयोलोकः शक्या जेतुं न संशयः ।
न हिकिञ्चिदसाध्यं वै लोके शीलेन निश्चितः ॥१५९॥
शीलं प्रधानं Pऊए तद्यस्येह प्रणश्यति ।
न त्w Jइतेनार्थो दुःशीलं किं प्रयोजनम् ॥१६०॥
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत।
अपि शूद्रं तु धर्मज्ञं सवृत्तं चापि पूजयेत॥१६१॥
वृत्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं शीलेन रक्ष्यते ॥१६२॥
आत्मानमाख्याति कुलीनो यो नरः
स्वशीलचारित्रकृतैः शुभोदयैः ।
प्रनष्टमप्यात्मकुलं तथा नरः
पुनः प्रकाशं कुरुते स्वशीलतः ॥१६३॥ [१३.४८.४८]

सर्वे च वेदाः सह षड्भिरङ्गैः
सांख्यं पुराणं च कुले च जन्म ।
सर्वाणि नैतानि गतिर्भवन्ति
शीलव्यपेतस्य नरस्य राजन॥१६४॥ [१३.२३.१२]

न बान्धवा न च वित्तं न विद्या
न च श्रुतं न च मन्त्रा न वीर्यम् ।
दुःखात्त्रातुं सर्व एवोत्सहन्ते
परत्र शीले न तु तत्र लोके ॥१६५॥ [१२.२७५.१५]

यो लोकम् अनुगृह्णाति दरिद्रं दीनमानसम् ।
स पुत्रपशुभिर्वृद्धिं यशश्चाक्षयम् अश्नुते ॥१६६॥ [५.३९.१५]
अमित्रमपि यो दीनं शरणैषिणमागतम् ।
व्यसनेष्वनुगृह्णाति स वै पुरुष उच्यते ॥१६७॥ [१३.५८.१०]


दानम्[सम्पाद्यताम्]


सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥१६८॥ [३.२९७.४५]
न माता न पिता किञ्चित्कस्यचित्प्रतिपद्यते ।
दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते ॥१६९॥ [१२.२८७.३७]

अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम् ।
अवस्थितेन नित्यं हि त्यागेत्यासाद्यते शुभम् ॥१७०॥ [१२.१५६.१३]

दानेन भोगी भवति मेधावी वृद्धसेवया ।
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥१७१॥ [१३.१४९.११]

न दानाद् दुष्करतरं त्रिषु लोकेषु विद्यते ।
अर्थे हि महती तृष्णा स च कृच्छ्रेण लभ्यते ॥१७२॥ [३.२४५.२७]

दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये ।
वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः ॥१७३॥ [१२.१०५.९]

अर्थवानर्थमर्थिभ्यो न ददात्यत्र को गुणः ।
एकैव गतिरर्थस्य दान्यमन्यविपत्तयः ॥१७४॥
धनानि जिवितं चैव परार्थे प्राज्ञा उत्सृजेत।
सन्निमित्तं वरं त्यागो विनाशे नीयते सती ॥१७५॥
दाडध्वं भूञ्जता भृशं मा भूत कृपणा जनाः ।
कर्मक्षयेण क्षीयन्ते नोपभोगेन सञ्चयाः ॥१७६॥
अग्निहोत्राफला वेदा दत्तभुक्तफलं धनम् ।
रतिपुत्रफला नारी शीलवृत्तफलं श्रुतम् ॥१७७॥
धनेन किं येन ददाति नाश्नुते
बलेन किं येन रिपून्न बाधते ।
श्रुतेन किं येन न धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो वशी ॥१७८॥
यस्य प्रदानवन्ध्यानि धनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रेव श्वसन्नपि न जिवति ॥१७९॥ [पञ्च. ३.९७, ना.पु. १.४.१८]

दानं हि भूताभयदक्षिणायाः
सर्वाणि दानान्यधितिष्ठतीह ।
तीक्ष्णं तनुं यः प्रथमं जहाति
सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥१८०॥ [१२.२३७.२६]

देशकालागमक्षेत्रद्रव्यदातृमनोगुणाः ।
सुकृतस्यापि दानस्य फलातिशयहेतवः ॥१८१॥
द्वाविमौ पुरुषव्याघ्र स्वर्गस्योपरि तिष्ठतः ।
दुर्भिक्षे चान्नदाता च सुभिक्षे च हिरण्यदः ॥१८२॥
अन्येषु च यद्दत्तं षडशीतिमुखेषु च ।
चन्द्रसूर्योपरागे च विष्णवे च तदक्षयम् ॥१८३॥
प्राणसन्तापनिर्विष्टाः काकिन्योऽपि महाFअः ।
अन्यायोपार्जितदत्ता न परार्थे सहस्रशः ॥१८४॥
अर्थं न दद्यान्न चासत्सु ङान्ब्रूयान्न चानः ।
आदद्याच्च न साधुभ्यो नासत्Pऊअं संश्रयेत॥१८५॥
ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः ।
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ॥१८६॥ [१३.१२२.१०]

चरित्रनियता राजन्ये कृशाः कृशवृत्तयः ।
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाFफ़् ॥१८७॥
न दद्याद्याचसे दानं न भयान्नोपकारिणे ।
न नृत्यगीतशीलेभ्यो हासकेभ्यो न धर्मिकः ॥१८८॥
माता पिता वा प्राणानां भवतामर्थिनौ यदि ।
ताभ्यां सम्प्रतिदातव्यस्ते हि ताभ्यामुपार्जिताः ॥१८९॥
यन्मातापितरौ क्लेशं सहेते गर्भधारणे ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥१९०॥
दरिद्रान्भज कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥१९१॥ [हि. १.१५]

अयाचतः सीदतश्च सर्वोपायैर्नियन्तव्यः ।
आनृशंस्यं परो धर्मोऽयाचते यत्प्रदीयते ॥१९२॥
नावमन्येताभिगती न प्रणुद्यात्कथञ्चन ।
अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥१९३॥
अहन्यहनि याचन्तं कोऽवमन्येद्गुरुं यथा ।
मार्जनं दर्पणस्येव यः करोति दिने दिने ॥१९४॥ [म.सु. ४०५०]

नातः परं च लोकेषु किञ्चित्पापिष्टमस्ति वै ।
यथात्मनाशनं लोके नास्ति देहीति वा पुनः ॥१९५॥
शिक्ष्यन्तिइ न यच्छन्ते देहीति कृपणा नराः ।
अवस्थेयमदानस्य मा भूदेवं भवानिति ॥१९६॥
प्रदद्याद्देयमित्येव यजेद्यष्टव्यमित्यपि ।
अस्तु वास्त्रफलं मा च कर्तव्यं पुरुषेण हि ॥१९७॥
हिरण्यदानं गोदानं पृथिवीदानमित्यपि ।
एतानि वै पवित्राणि तार्यन्तिइ परत्र च ॥१९८॥ [१३.५८.५]

सुवर्णं रजतं वस्त्री मणिमुक्तावसूनि च ।
सर्वमेतन्महाराज ददासि वसुवान्धनम् ॥१९९॥
दद्याच्छुभं यः कपिलां सचेलां
कांस्योपदोहां कनकाग्रशृङ्गीम् ।
तैस्तैर्गुणैः कामदुघा हि भूत्वा
नरं प्रदातारमुपैति सा गौः ॥२००॥ [१३.५७.२८]

सुगन्धधूपान्य् अनुलेपनानि
स्नानानि माल्यानि च मानवो यः ।
दद्याद्द्विजेभ्यः स भवेदरोगी
तथा सुरूपश्च स देवलोके ॥२०१॥ [१३.५७.३८]

तिलान्ददत पानीयं दीपान्ददत मा प्रथा ।
ज्ञातीभिः सह मोदध्वमेतत्प्रेत्य सुदुर्लभम् ॥२०२॥ [१३.९९.२०]

दुर्लभं सलिलं तात विशेषेण परत्र च ।
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती ॥२०३॥ [१३.९९.१९]

अलोकदाता चक्षुष्मान्प्रभायुक्तो भवेन्नरः ।
प्रदीपदः स्वर्गलोके दीपमालेव राजते ॥२०४॥
छेत्रं हि भारतश्रेष्ठ यो ददाति द्विजातये ।
स चक्रलोके वसति पूज्यमानोऽप्सरोगणैः ॥२०५॥
उपनाहौ तु यो दद्याच्छ्लक्ष्णस्नेहसमन्वितौ ।
सोऽपि लोकानवाप्नोति दैवतैरभिपूजितः ॥२०६॥
सर्वस्वमपि यो दद्यात्कलुषेणान्तरात्मन।
न तेन स्वर्गमाप्नोति चित्तमेवात्र कारणम् ॥२०७॥
यद्यदिष्टतमं लोके यच्च स्याद् दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥२०८॥ [१३.५८.७]

सत्कृत्य तु द्विजातिभ्यो यद्दीयेत तदुत्तमम् ।
याचितेन हि यद्दत्तं तदाहुर्मध्यमं बुधाः ॥२०९॥ [१२.२८२.१८]

अवज्ञया दीयते यद्यदेवाश्रद्धयापि च ।
तदाहुरधमं दानं मुनयः सत्यवादिनः ॥२१०॥ [१२.२८२.१९]

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥२११॥ [गीता १७.२८]
देयानि घानपिन्याकशाकान्यपि हि याचतः ।
तदभ्यसोचितत्यागो मांसाद्यपि हि दास्यते ॥२१२॥
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।
आशास्तस्य हताः सर्वाः क्लीबस्येव हताः क्रियाः ॥२१३॥
करिष्य इति संश्रुत्य कर्तव्यं तदकुर्वतः ।
मिथ्यावचनदग्धस्य इष्टं पूर्तं विहन्यते ॥२१४॥
एकाग्निकर्म हवनं त्रोटायां यश्च हूयते ।
अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते ॥२१५॥
वापीकूपतडागानि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥२१६॥
प्रायेणाKअKय्Wआमृत्युरुद्विजते नरः ।
KअKयः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ॥२१७॥
क्? ते त्यक्तसद्मृत्तः सुखं रात्रिषु शेरते ।
मरणान्तरिता य्Q नरकेषूपपत्तयः ॥२१८॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।
श्रान्तायादृष्टPआय त्w पुण्यFफ़् महत॥२१९॥
कृशाय ह्रीमते तात प्रिक्ष्तीनाय सीदते ।
अपहन्यात्क्षुधां यस्तु न तेन Pऊअः समः ॥२२०॥
प्रत्यक्षं प्रीतिजनानां भोक्तृदात्रोर्महाFफ़् ।
Sआन्यन्यानि दानानि परोक्षFअवन्त्युत ॥२२१॥
देयमार्त्w शरणं तश्रान्त्w चासनम् ।
तृषित्w च पाणीयं क्षुधित्w च भोजनम् ॥२२२॥
चक्षुर्दद्याद्यान्मनो दद्याद्वाचं दद्यात्सुभाषितम् ।
प्रत्युत्थानाभिगमनं कुयान्न्यायेन चारणम् ॥२२३॥
तृणानि भूमिरुदकं वाक्४मं च सूनृता ।
सतामेतानि गेहेषु नोच्चिद्यन्ते कथञ्चन ॥२२४॥
य्Q नाग्रभुजो देवा न वृद्धातिथिबालकाः ।
राक्षासानेव तान्विद्धि निर्प्wअसत्कारमङ्गलान॥२२५॥
एकः स्वादु न भुञ्जीत एकः स्व्@आन्न चिन्तयेत।
एको न गच्छेदध्वानं नैकः सुप्तेषु जाग्र्यात॥२२६॥

गुरु[सम्पाद्यताम्]


येषां न पचते माता येषां न पचते पिता ।
उच्छिष्टं येऽभिकाङ्क्षन्ति तेषामेतान्महासुखम् ॥२२७॥
दुर्बलार्थं बलं तस्य त्यागार्थं च परिग्रहः ।
पाकश्चैवापचितार्थं पितरस्तेन पुत्रिणः ॥२२८॥
अनु तं तात जीवन्ति ज्ञातयः सह बान्धवाः ।
पर्जन्यमिव भूतानि द्रुमं स्वादुमिवाण्डजाः ॥२२९॥ [१२.७६.३६]
श्रीमन्तं ज्ञातिमासाद्य यज्ज्ञातिरवसीदति ।
दग्धवृक्षं मृग इव सादनं तस्य निन्दति ॥२३०॥ [५.३९.२५]

चत्वारस्ते तात गृहे वसन्तु
श्रियाभिजुष्टस्य गृहस्थधर्मे ।
दीनो ज्ञातिश्चावसन्नः कुलीनः
सखा दरिद्रो भगिनी चानपत्या ॥२३१॥ [५.३३.५९]
अकर्मशीलं च महाशनं च
लोकद्विष्टं बहुमायं नृशंसम् ।
अदेशकालज्ञमनिष्टवेषं
एतान्गृहे न प्रतिवासयीत ॥२३२॥ [५.३७.३१]

ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः ।
सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥२३३॥ [१३.३७.६]

उपाध्यायं पितरं मातरं च
येऽभिद्रुह्यन्ति मनसा कर्मणा वा ।
तेषां पापं भ्रूणहत्याविशिष्टं
नान्यस्तस्मात् पापकृच्चास्ति लोके ॥२३४॥ [१२.१०९.२६]

शरीरमेतौ कुरुतः पिता माता च भारत ।
आचार्यशास्ता या जातिः सा दिव्या साजरामरा ॥२३५॥ [५.४४.५]

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च ।
यस्माच्चाधीयते नरस् तं पूर्वमभिवादयेत॥२३६॥ [मनु २.११७, प.पु. ३.५१.२७]

गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन ।
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो विजानता ॥२३७॥ [१३.१०७.४६]

सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह ।
गुरुनिन्दा निहत्य् आयुर्मनुष्याणां न संशयः ॥२३८॥ [१३.१०७.४७]

तपःशौचवता नित्यं धर्मसत्यरतेन च ।
मातापित्रोरहरहः पूजनं कार्यमञ्जसा ॥२३९॥ [१२.१२७.९]

माता गुरुतरा भूमेः पिता उच्चरतश्च खात।
मनो शीघ्रतरं वायोश्चिन्ता बहुतरी तृणात् ॥२४०॥ [३.२९७.४१]
पिता माता च राजेन्द्र तुष्यतो य्w देहिनः ।
इह प्रेत्य च तस्याथ कीर्तिर्Bःइ शाश्वती ॥२४१॥
ZअK प्राणदाता य्w चान्नानि भुञ्जते ।
क्रमेणैते त्रयोऽप्युक्ताः पितरो धसाधने ॥२४२॥
प्रीतिंफ़् पितुः पुत्रः Sफ़् पुत्र्w वै पिता ।
Zअदानि देयानि पिता त्वेकः प्रयच्छति ॥२४३॥
समर्थमसमर्थं वा कृशं चाप्यकृशं तथा ।
रक्षत्येव सुरं माता नान्यः पोष्टा त्८विधः ॥२४४॥
स च शोचति नाप्येनं स्ववीर्यमककर्षति ।
श्रिया हीनोऽपि यो गेहे तवेति प्रतिपद्यते ॥२४५॥
पुत्रपौत्रोपप नोऽपि जननीं यः समाश्रितः ।
अपि वर्षचतस्यन्ते विहायस्येष वर्तते ॥२४६॥
तदा समृद्धो Bःइ तदा Bःइ द्Sइतः ।
तदा शून्यं जगत्Sफ़् यदा ंआ वियुज्यते ॥२४७॥
अभिवादयेत वेद्धमसनं चास्य दर्शयेत।
Kअज्ञालिरुपासीत गच्छन्तं पृष्टतोन्वियत॥२४८॥
ऊर्ध्वं प्राणा उत्क्रामन्ति यूनः स्थाविर आयति ।
प्रत्युत्थानाभि वादाभ्यां पुनस्तान्प्रतिपद्यते ॥२४९॥
अभिवादनशीलस्य णीफ़् वृद्धोपसेविनः ।
चत्वारि त्w वर्धन्ते कीर्तिरायुर्यशो बलम् ॥२५०॥
वयसः Kंअणोऽथास्य xअस्याभिजन्w च ।
वेषवाग्बुद्धिसारूयमनुन्मत्त्w ळम् ॥२५१॥
विषण्णं दीनमाविग्नं क्षुधार्तं व्याधिपीडितम् ।
हृतस्वं व्यसनार्तं च णीअमाश्वासयेन्नरः ॥२५२॥
xइXयुदितं सम्यङ्निबद्धं स्वेषु Kंअसु ।
धंळं निषेवेत सदाचारमतन्द्रितः ॥२५३॥
आचाराद्विच्युतो जन्तुर्न धFअमश्नुते ।
आचारा हि संयुक्तः सम्PनFअभाग्भवेत॥२५४॥
अमावास्यं चतुर्दश्यां Pनमस्यष्टमीषु च ।
ब्रह्मचारी भवेन्णीअममृतस्नातको द्विजः ॥२५५॥

यमनियमव्रत[सम्पाद्यताम्]


नादत्तमिच्छेन्न पिबेच्च मद्यं
प्राणान्न हिंसेन्न वदेच्च मिथ्याम् ।
परस्य दारान्मनसापि नेच्छेद्
यः स्वर्गमिच्छेद्गृहवत्प्रवेष्टुम् ॥२५६॥
नृत्यं गीतं वादित्रं गन्धमाल्यं
यानं दर्पं शायनं चासवं च ।
संवर्जयन्पर्वकाले मिताशी
मरुतां लोकानक्षयानभ्युपैति ॥२५७॥
यमान्सेवेत सततं न नित्यं नियमान्बुधः ।
यमान्पतत्यसेवन्हि नियमान्केवलं भजन॥२५८॥
आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।
प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥२५९॥ [म.सु. ४८६९]
दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहः ।
व्रतोपवासमौनं च आननं च नियमा दश ॥२६०॥

अर्थः[सम्पाद्यताम्]

धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् ।
कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ॥२६१॥
एकेनांशेन धर्मार्थः कर्तव्यो भूमिमिच्छतः ।
एकेनांशेन कामार्थ एकमंशं विवर्धयेत॥२६२॥
येऽर्था धर्मेण ते लभ्या ये धर्मेण धिगस्तु तान।
धर्मान्वै शाश्वतं लोके न जह्यादर्थकाङ्क्षया ॥२६३॥
धर्मार्थं यस्य वित्तेहा तस्यानीह गरीयसी ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥२६४॥
सवेसामेव शौचानामर्थशौचं विशिष्यते ।
योऽर्थे शुचिर्हि सा शुचिर्न मृद्वारिशुचिः शुचिः ॥२६५॥
येऽर्थाः क्लेशेन महता धर्मस्यातिक्रमेण वा ।
अरेर्वा प्रणिपातेन मा स्म तेषु कृथा मनः ॥२६६॥
जातस्य हि कुले मुख्ये परवित्तेषु गृध्यतः ।
लोभश्च प्रज्ञामाहन्ति प्रज्ञा हन्ति हता श्रियम् ॥२६७॥
धर्मश्चार्थश्च कामश्च त्रितयं जिविते फलम् ।
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥२६८॥
अवन्ध्यं दिवसं कुर्याद्धर्मतः कामतोऽर्थतः ।
गते हि दिवसे तस्मिंस्तदूनं तस्य जिवितम् ॥२६९॥
यन्न धर्माय नार्थाय न कामाय न शान्तये ।
व्यर्थं तज्जन्मिनां जन्म मरणायैव केवलम् ॥२७०॥
अर्थांस्त्यजत पात्रेषु भजध्वं कामजान्गुणान।
प्रियं प्रियेभ्यः कुरुत मृत्युर्हि त्वरते जयी ॥२७१॥

सुखम्[सम्पाद्यताम्]


इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह ॥२७२॥ [३.१८१.३४]

धनानि येषां विपुलानि सन्ति
नित्यं रमन्ते सुविभूषिताश्च ।
तेषामयं शत्रुवरघ्नलोको
नासौ सदा देहसुखे रतानाम् ॥२७३॥ [३.१८१.३५]

ये युक्तयोगास् तपसि प्रसक्ताः
स्वाध्यायशीला जरयन्ति देहान।
जितेन्द्रिया भूतहिते निविष्टास्
तेषामसौ नायमरिघ्न लोकः ॥२७४॥ [३.१८१.३६]

ये धर्ममेव प्रथमं चरन्ति
धर्मेण लब्ध्वा च धनानि काले ।
दारानवाप्य क्रतुभिर्यजन्ते
तेषामयं चैव परश्च लोकः ॥२७५॥ [३.१८१.३७]

ये नैव विद्यां न तपो न दानं
दानं न चापि पूजां क्रतुभिर्यजन्ते ।
न चाधिगच्छन्ति सुखान्यभाग्यास्
तेषामयं चैव परश्च लोकः ॥२७६॥ [३.१८१.३८]


तीर्थयात्रा[सम्पाद्यताम्]


अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥२७७॥ [म.सु. १२४]

अनुपोष्य त्रिरात्राणि तिर्थान्यनभिगम्य च ।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥२७८॥ [ना.पु. २.६२.६, प.पु. ३.११.१८]

सदा दरिद्रैरपि हि शक्यं प्राप्तुं नराधिप ।
तीर्थाभिगमनं पुण्यं यज्ञेरपि विशिष्यते ॥२७९॥

दरिद्रः[सम्पाद्यताम्]


मृतो दरिद्रः पुरुषो मृतं राज्यमरक्षकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥२८०॥ [पञ्. २.१००]

दुर्भिक्षादेव दुर्भिक्षं भयादतिभयं तथा ।
मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः ॥२८१॥ [१२.१७४.३]

दरिद्रस्य मनुष्यस्य दुष्प्रज्ञस्याधनस्य च ।
कालेऽप्युक्तं हितं वाक्यं न कश्चित्प्रतिपद्यते ॥२८२॥
सतोऽपि न विराजन्ते लुप्तार्थस्येतरे गुणाः ।
आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिकाः ॥२८३॥
चण्डलश्च दरिद्रश्च द्वावेतौ सदृशौ मतौ ।
चण्डलस्य न गृह्णन्ति दरिद्रस्य न प्रयच्छति ॥२८४॥
अहिरण्यमदासं तदल्पान्नाद्यगोरसम् ।
गृहं कृपणार्तीनां नरकस्य परो निधिः ॥२८५॥
यश्च कृशः कृशधनः कृशभृत्यः कृशातिथिः ।
स वै राजन्कृशनामा न शरीरकृशः कृशः ॥२८६॥
सुहृदां हि धनं भुङ्क्ते कृत्वा प्रणयमीप्सितम् ।
प्रतिकर्तुमशक्तस्य जिविनांतान्मरणं वरम् ॥२८७॥
न तथा खिद्यते राजन्प्रकृत्या निर्धनो जनः ।
यथा भद्राणि सम्प्राप्य तैर्विहीनः सुखैधितः ॥२८८॥
प्रायेण श्रीमतां गेहे भोक्तुं शक्तिर्न विद्यते ।
दरिद्राणां तु राजेन्द्र सशाकमपि जीर्यति ॥२८९॥
संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।
क्षुत्स्वादुतां जनयति सा चाढ्येषु न विद्यते ॥२९०॥ [५.३४.४८]

क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च ।
अर्थानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥२९१॥ [३.२४६.२४]

विषमां हि दशां प्राप्य देवान्गर्हयतेऽबुधः ।
आत्मनः कर्म दोषाणि न विजानात्यपण्डितः ॥२९२॥ [३.२००.६]

ईहमानः समारम्भान्यदि नासादयेद्धनम् ।
तपो महत्समातिष्ठेन् न ह्यनुप्तं पररोहति ॥२९३॥ [१३.१४९.१०]

अत्यन्तविमुखे दैवे व्यर्थयत्ने च पौरुषे ।
तेजस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥२९४॥ [म.सु. ६६१]
प्रत्यादिष्टस्य वित्तेन विषमार्पितचेतसः ।
तुल्ये सति परिक्लेशे कः प्रद्वेषस्तपोवने ॥२९५॥
कुब्जस्य कीटखातस्य दावनिष्णुसितत्वचः ।
तरोरप्यूषरस्थस्य भद्रं जन्म न चार्थिनः ॥२९६॥
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥२९७॥ [काप्राणायाम. ३३९]

अहन्यहनि भूतानि सृजत्येव प्रजापतिः ।
अद्यापि न सृजत्येकं योऽर्थिनं नावमन्यते ॥२९८॥
कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू ।
म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ॥२९९॥

संसर्गः[सम्पाद्यताम्]

वस्त्रमम्भस् तिलान्भूमिं गन्धो वासयते यथा ।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥३००॥ [३.१.२२]

हीयते हि मतिस्तात हीनैः सह समागमात।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥३०१॥
गुणवत्सु गुणाल्पोऽपि याति विस्तरतां न्èणाम् ।
पतितः स्वादुलिमाले तैलबिन्दुरिवाम्भसि ॥३०२॥
महानप्यल्पतामेति निर्गुणे गुणविस्तरः ।
आधारानुस्वभावत्वाद्गजेन्द्र इव दर्पणे ॥३०३॥
तस्माद्गुणेषु राज्येत मा दोषेषु कदाचन ।
निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽभिरुच्यते ॥३०४॥

साधुः[सम्पाद्यताम्]

सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विविदं मैत्रीं नासद्भिः किञ्चिदाचरेत॥३०५॥
न प्रहृष्यति सम्माने निन्दितो नानुतप्यते ।
न क्रुद्धः परुषाण्याह तमाहुः साधुलक्षणम् ॥३०६॥
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च ।
असम्भिन्नार्यमर्यादाः साधवः पुरुषोत्तमाः ॥३०७॥
यथा यथा प्रकृष्टानां क्षेत्राणां शस्यसम्पदः ।
शाखा च फलभारेण नम्रः साधुस्तथा तथा ॥३०८॥
पृष्ठतो न विजल्पन्ति दीनमभ्युद्धरन्ति च ।
संवासन्नावमन्यन्ते सेव्या राजेन्द्र साधवः ॥३०९॥
अर्थं महान्तमासाद्य विद्यामाचार्ययतिअमेव च ।
विचरेदसमुन्नद्धं यः स पण्डित उच्यते ॥३१०॥
अनुगन्तुं सतां वर्त्म यदि कृत्स्नं न शक्यते ।
स्वल्पमप्यनुगन्तव्यं मार्गस्थोऽपि न सीदति ॥३११॥ [म.सु. १४३७]

न केवलं जनस्यास्य साधुर्भवति सम्मतः ।
पुरुषं वृतसम्पन्नमात्मापि बहु मन्यते ॥३१२॥
आर्यवृत्तमिदं वृत्तमिति विज्ञाय शाश्वतम् ।
सन्तः परार्थं कुर्वाना नावेक्षन्ते प्रतिक्रियाम् ॥३१३॥
वृत्तं यत्नेन संरक्ष्यमुत्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥३१४॥
प्रत्यहं प्रत्यवेक्षेत ह्यात्मनो वृत्तमात्मन।
किं नु मे पशुभिस्तुल्यं किमु सत्पुरुषैः समम् ॥३१५॥
कर्ता कारयिता चैव यश्चैवमनुमन्यते ।
शुभं वा यदि वा पापं तेषामपि समं फलम् ॥३१६॥
न पापे प्रतिपापः स्यात्साधुरेव सदा भवेत।
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥३१७॥
आरोप्यते शिला शैले क्लेशेन महता यथा ।
पत्यते च सुखेनाधस्तथात्मा पुण्यपापयोः ॥३१८॥
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥३१९॥
कीर्तिर्हि पुरुषान्लोके सञ्जिवयति मातृवत।
अकीर्तिर्जिवितं हन्ति जिवतोऽपि शरीरिणः ॥३२०॥
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित।
यस्य चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥३२१॥ [३.१५४.१३]

असाधुः[सम्पाद्यताम्]

ब्रह्मघ्ना च सरापे च चौरे भग्नव्रते च ते ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥३२२॥
नरकाध्युषितः पन्था गन्तव्यस्तेन दारुणः ।
अपापे पापहृदये यः पापमनुतिष्ठति ॥३२३॥
यः करोति नरः पापं तस्यात्मा ध्रुवं प्रियः ।
आत्मनैव कृतं पापमात्मा नैवापि भुज्यते ॥३२४॥
संक्लिष्टकर्माणमतिप्रमादं
नित्यानृतं चादृढभक्तिकं च ।
विकृष्टरागं बहुमानिनं चाप्य्
एतान्न सेवेत नराधमान्षट॥३२५॥ [५.३७.३३]

असन्त्यागात्पापकृतामपापांस्
तुल्यो दोषः स्पृशते मिश्रभावात।
शुष्केणार्द्रं दह्यते मिश्रभावात्
तस्मात्पापैः सह सन्धिं न कुर्यात॥३२६॥ [५.३४.६७]

वर्जनीयश्चातिमता दुर्जनः सन्धि वैरयोः स्व ।
भवत्युपघाताय लालन्नपि दशन्नपि ॥३२७॥
कण्टकानां खलानां च द्विविधैव प्रतिक्रिया ।
उपानन्मुखभङ्गो वा दूरतो वा विवर्जनम् ॥३२८॥
मा गाः खलेषु विश्रम्भं ममेति चिरसंस्तुतः ।
दीर्घकालोपनीतोऽपि दशत्येव भुजङ्गमः ॥३२९॥
विनयावनतां सन्तं नीचः समधिरोहति ।
स्वगात्रकृतसोपानं निषण्णं वनकुञ्जरम् ॥३३०॥
सन्तो मा गात विश्रम्भं नमतीति खले जने ।
तुलावनमः को नाम यो न कूपाम्बुतस्करः ॥३३१॥
अपकारमसम्प्राप्य तुष्येत्साधुरसाधुतः ।
नैषोऽलाभो भुजङ्गेन वेष्टितो यो न दश्यते ॥३३२॥
दुर्जनेनोच्यमानानि वचांसि मधुराण्यपि ।
अकालकुसुमानीव त्रासं सञ्जनयन्ति मे ॥३३३॥
मधुरे सत्यमन्वेष्यं तच्च नास्त्यमृतं च तत।
धर्मोऽन्वेष्यश्च परुषे स च नास्ति विषं च तत॥३३४॥
वृश्चनिम्बं परशुना अञ्जैनं मधुसर्पिषा ।
अर्चनं गन्धमाल्याभ्यां सर्वथा तिक्त एव सः ॥३३५॥
मदोपशमनं शास्त्रं खलानां कुरुते मदम् ।
चक्षुःसंस्कारकं तेज उलूकानामिवान्धता ॥३३६॥
विद्यामदो धनमदस्तृतीयोऽभिज्ञैर्मदमदः ।
ह्येते वलिप्तानामेत एव सतां दमः ॥३३७॥
नम्यते याति सन्धानं द्रवीभवति तप्यते ।
मृदु दुर्जनचित्तेन किं लोहमुपमीयते ॥३३८॥
अहो प्रच्छादिताकार्यं नैपुण्यं परमं खले ।
यत्तुषाग्निरिवानर्चिर्दहन्नपि न लक्ष्यते ॥३३९॥
अहो बत महत्कष्टं विपरीतमिदं जगत।
येनापत्रपते साधुरसाधुस्तेन नन्दति ॥३४०॥
खलः सषपमात्राणि परछिद्राणि पश्यति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥३४१॥
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् ।
तथा सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥३४२॥
अप्रदाता समृद्धोऽसौ दरिद्रश्च महामनाः ।
अश्रुतश्च समुन्नद्धस्तमाहुर्मुदचेतसाम् ॥३४३॥
परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
यच्च कुप्यत्यनीशः सन्सत्तु मूढतरो नरः ॥३४४॥
मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् ।
जितमर्थं विजानीयादुपलमर्दवे सति ॥३४५॥
असन्तोऽभ्यर्थिताः सद्भिः किञ्चित्कार्यं कदाचन ।
मन्यन्ते सन्तमात्मानमसन्तमिति विश्रुतम् ॥३४६॥
प्राज्ञोऽपि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि ॥३४७॥
चोद्यमानोऽपि पापाय शुभात्मा नाभिपद्यते ।
वार्यमानोऽपि पापात्मा पापेभ्यः पापमिच्छति ॥३४८॥
व्यथां श्रुतामशीलस्य धनं कृपणजिविनः ।
उत्साहो मन्दभाग्यस्य बलं कापुरुषस्य च ॥३४९॥
कपाले यद्वदापः स्युः श्वद्रृतौ वायथा पयः ।
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥३५०॥
नाच्छादयति कौपीनं न दंशमशकापहम् ।
शुनः पुच्छमिवानार्थं ज्ञानमन्यायवर्तितः ॥३५१॥ [पञ्च. ३.९८]

पूर्वकर्म[सम्पाद्यताम्]

Kंअदायादको लोकः Kंअसम्बन्धिळः ।
Kंआणि चोदयन्तीह Sए Kंअवशा वयम् ॥३५२॥
य्८ धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
त्८ शुभाशुभं Kंअ कर्तारमनुगच्छति ॥३५३॥
अचोद्यमानानि य्८ पुष्पाणि च Fआनि च ।
स्वं कलं नातिवर्तन्ते त्८ Kंअ पुरा Kअम् ॥३५४॥
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् ।
तस्यां तस्यामवस्थ्E भुङ्क्ते जन्मनि जन्मनि ॥३५५॥
.Bिमन्तो महोत्साहाः प्राज्ञाः चुरजित्Eणः ।
पाणिपादैरुपेताश्च द्ý प्रेष्यतां गताः ॥३५६॥
महच्च Fअवैषम्यं द्ý Fअबन्धिषु ।
वहन्ति शिविकामन्ये यान्त्यन्ये शिविकां गताः ॥३५७॥
उपर्युपरि लोक्w Sओ भवितुमिच्छति ।
यतते च य्८ज़्कि न चासौ वर्तते तथा ॥३५८॥
सम्मानश्चावमानश्च लाभालाभौ क्षयाक्षयौ ।
प्रवृत्ता वा निवर्तन्ते विधानन्ते पदे पदे ॥३५९॥
मुष्णन्दरिद्रात्यभिहन्ý घ्नन्
पूयानसम्पूज्य Bःयपूज्यः ।
यत्Kंअवियं वपते मनुष्यः
तस्यानुऱाणि Fआनि भुङ्क्ते ॥३६०॥
अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते ।
उप्यते भुवि यद्वीज तत्तदेव परोहति ॥३६१॥
णीअमेव सुखं स्वर्गे सुखं द्Sअमिहोभयम् ।
नरके द्Sअमेवैतन्मोक्षे तु Pआअं सुखम् ॥३६२॥
स्वर्गलोकं नयन्त्येनं पञ्चैव सुKआः Kआः ।
कूपारामसभावप्रा Bंअ वसथा नृप ॥३६३॥
श्वः Kय़मद्य कुर्वीत Pआह्ने चापराह्निकम् ।
न हि प्रतीक्षते मृत्युः Kअं वाप्यKअं तथा ॥३६४॥

मृत्युः[सम्पाद्यताम्]

य्w स्यान्मृत्युना सख्यं यो वै स्यादजरामरः ।
त्w तद्युज्ý वक्तुमिदं मे श्वो भविष्यति ॥३६५॥
अपर्यन्त्w काल्w कियानंशः शरच्छतम् ।
तनंअPआआयुर्यः स क्८ स्वप्तुमर्हति ॥३६६॥
B्तJइतमत्यल्पं रात्रिस्तत्र र्द्धहारिणी ।
तदर्धमपि निर्ह्रास्यं व्याधिशोकजरामरैः ॥३६७॥
सन्निमज्जज्जगदिदं गम्भीरे कालसागरे ।
जरामृत्य्महाग्राहे न कश्चिदवबुध्यते ॥३६८॥
नौषधानि न Sःआणि न होमान पुनर्जपः ।
त्रायन्ते मृत्युनोपतें जरया वापि मानवम् ॥३६९॥
यस्तु दृष्ट्वा Pआ जीर्णं व्याधितं मृतमेव च ।
स्वस्थो Bःइ नोद्विग्न्यो यथा चोतास्तथैव सः ॥३७०॥
अपि सागरपर्यन्तां विजित्येह वसुन्धराम् ।
न कच्चिज्जात्वपक्रमेज्जरं मृत्युं च मानवः ॥३७१॥
अहो रात्रमयो लोके जरा ऱा सञ्चरन।
मृत्युर्ग्रसति B्तानि पन्नगः पवनं यथा ॥३७२॥
नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरी ।
अस्थि निर्दशनः श्वेव जिह्वाय लेदि केवलम् ॥३७३॥
आसन्नतरतां याति मृत्युर्याति दिने ।
आघातं नीयमान्w वध्यस्येव पदे पदे ॥३७४॥
इदमेतत्करिष्यामि तत एतद्भविष्यति ।
सङ्कल्पः Kॠ योऽयं न तं मृत्युः प्रतीक्षते ॥३७५॥
य्८ Fण् पक्व्ण् नान्य्९ पतनाद्भयम् ।
त्८ नर्ण् जात्ण् नान्य्९ मरणाद्भयम् ॥३७६॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न Jअति ॥३७७॥
मृत्युर्जरा च रोगश्च द्Sफ़् चानेकKआफ़् ।
अनुषक्ता यदा देबे किं स्वस्थ इव तिष्ठति ॥३७८॥
तिष्ठतां च शयानं च मृत्युरन्वेति वै यदा ।
किं पल्वले मत्स्य इव सुखं स्वपिषि पुत्रक ॥३७९॥
अविश्राममपाथेयमनालम्भमदेशकम् ।
तमःकान्तारमध्वानं कथमेको गमिष्यसि ॥३८०॥
यदा विषमज्ञः स्थिरश्चलेक्षणः
प्रसक्तह्हिक्कः श्वसनन्तविस्तितः ।
तमो महश्च्वभ्रमिवाभिनीयसे
तदा क्व भवान्क्व बन्धवाः ॥३८१॥
पुरा जरा कलेवरं विजजरीकरोति ते ।
बलाङरूपहरिणि विधत्स्व सौKअं निधिम् ॥३८२॥
हिरण्यरत्नसञ्चयः शुभा शुभेन सञ्चिताः ।
न त्w देहसङ्क्षये B्२इ Kय़साधकाः ॥३८३॥
अणीफ़् यौवनं ऱ्फ़् Jइतं द्रव्यसञ्चयः ।
आरोग्यं प्रियसंवासो गृद्ध्येद्यो न स पण्डितः ॥३८४॥
न विश्वस्यादल्पतयं वह्नि व्याधिविसद्वसाम् ।
तथैव च महत्तायमारोग्यविभवायुषाम् ॥३८५॥
स्त्रीषु राजासु सर्पेषु स्वाध्याये शत्रुसेविनि ।
भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥३८६॥ [५.३७.५३]

B्तानि जात्या मरणान्वितानि
जराविकारैश्च समन्वितानि ।
निरीक्ष्य द्Sऐः परिपीडितानि
मोक्षं प्रशंसन्ति बुधाः स्ववेद्यम् ॥३८७॥ [१२.१६१.४३]

पितृयानदेवयान[सम्पाद्यताम्]

बोधः[सम्पाद्यताम्]

एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर्
अज्ञानतुल्यः पुरुषस्य राजन।
येनावृतः कुरुते सम्प्रवृत्तः
पापानि कर्माणि सुदारुणानि ॥३९९॥ [१२.२८६.२८]

अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते ।
लोभादेव तदज्ञानमज्ञानं लोभ एव च ॥४००॥ [म.सु. ४३६]

तस्मात्सम्यक्परीक्षेत दोषानज्ञानसम्भवान।
अज्ञानप्रभवान्नित्यमहङ्कारं च वर्जयेत् ॥४०१॥ [१२.२०५.१८]
प्रज्ञाया या निर्मितैर्धीरास्तारयन्त्यबुधान्फलैः ।
नाबुधास्तरयन्त्यन्या नात्मानं वा कदाचन ॥४०२॥
नेत्रहीनो य्८ ह्येकः कृच्छ्राणि लभतेऽध्वनि ।
ज्ञानहीनस्तव लोके तस्माज्ज्ञानविदोऽधिकः ॥४०३॥
अनिष्टसम्प्रयोगाच्च विप्र योगात्प्रियस्या च ।
मनुष्या मानसैर्द्Sऐर्युज्Ý येऽल्प.Bयः ॥४०४॥
यथा हिरण्यकर्ता वै ऱ्यमग्नौ विशोधयेत।
बहुशो ह्यप्रयत्नेन यत्नेन न चिरेण हि ॥४०५॥
तद्वज्जातिशतैर्Jअः शुद्ध्ýऽल्पेन Kंअणा ।
यत्नेन महता चापि ह्येकजातौ विशुद्ध्ý ॥४०६॥
.ळयाल्पं य्८ गात्रात्प्रमृज्यदानो रजः ।
बहु यत्नेन महता दोषैर्हरणं तथा ॥४०७॥
क्षमया क्रोधमुच्छिन्द्यात्कामं सङ्कल्पवर्जनात।
लोभं मोहं च सन्तोषाद्Vईआंस्तत्त्व.दात॥४०८॥
आयत्या वर्जयेदाशामर्थं Sङविवर्जनात।
अणीW३ च स्नेहं द्Sफ़् योगेन पण्डितः ॥४०९॥
.Kय़ेनानो मोहं तृष्णां च परितोषतः ।
उत्थानेन जयेत्तन्द्रीन्तितर्कं निश्चयज्जयेत॥४१०॥
मानं हित्वा प्रियो णीफ़् कामं हित्वा सुखं भवेत।
क्रोधं हित्वा निराबाधस्तृष्णां जित्वा न तप्यते ॥४११॥
अवश्यमीणैस्तात वर्तितव्यं स्वगोचरे ।
चन्दरागस्तु यस्त्९ तं बुधः परिवर्जयेत॥४१२॥
अप्रार्थनमसंस्पर्शमसन्दर्शनमेव च ।
पुरुषस्येह नियमो भवेद्रागप्रहाणये ॥४१३॥ ॥ [म.सु. २१८७]

सङ्कल्पाज्जायते रागः सेव्यमानो विवर्धते ।
अवाद्य.दाद्व्येति तत्त्वज्ञानाच्च धीमताम् ॥४१४॥
S९ सम्पदस्त्w सन्तुष्टं य्w मानसम् ।
उपानद्गूदपदस्य मनुचर्मस्तृतेव भुः ॥४१५॥
PVयां यद्बृहीयवान्पशवः स्त्रियः ।
नालमेक्w तव्वित्तमिति मत्वा शमं व्रजेत॥४१६॥
द्रव्येषु समतीतेषु ये ङास्तान्न चिन्तयेत।
तानऽद्रियमान्w स्नेहस्त्य प्रणश्यति ॥४१७॥
प्रीतेः शोकः प्रBःइ वियोगर्त्w देहिनः ।
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति ॥४१८॥
निद्रा सवा३ त्याज्या स्वप्न दोषनवेक्ष्य वै ।
स्वप्ने हि रजसा देहि तमसा वाभिभूयते ॥४१९॥
नक्तांचर्यां दिवस्वप्नमालस्यं मैथुनं मदम् ।
दैन्यं Vईअयोगं तु श्रेयोऽर्थी परिवर्जयेत॥४२०॥
Vईण् च दौरात्म्यादीण्ण् च चापलात।
मनसश्चानवस्थानात्Sअकृच्छ्रेषु तिष्ठति ॥४२१॥
Vईआन्प्रत्यवसितुं न जातु लभते धृतिम् ।
श्येनच्छायामनुपतन्कपिञ्जल इवातपे ॥४२२॥
न जातु कामः काम्ण् उपभोगेन शम्यति ।
हविषा कृष्णवर्त्मेव भूय एव विवर्धते ॥४२३॥

स्त्री[सम्पाद्यताम्]

न स्त्रीभिः किञ्चिदन्यद्वै पापीयो भुवि विद्यते ।
स्त्रियो मूलमनर्थानां मनसापि च चिन्तिताः ॥४२४॥
स्त्रीकृतो ग्रामनिगमः स्त्रीकृतः क्रयविक्रयः ।
स्त्रियो मूलमनर्थानां तस्मान्नैताः परिष्वजेत॥४२५॥
अन्तकः पवनो मृत्युः पातालं वडवामुखम् ।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥४२६॥
आनायमिव मत्स्यानां पञ्जरं शकुनेरिव ।
समस्तपाशं मूढस्य बन्धनाद्वामलोचना ॥४२७॥
नासां कश्चिदगम्योऽस्ति नासां वयसि निश्चयः ।
विरूपं वा सुरूपं वा पुमानित्येव भुञ्जते ॥४२८॥
अनर्थितवान्मनुष्याणां भयात्परिभवात्तथा ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥४२९॥
उशना वेद यच्छास्त्रं यश्च वेद बृहस्पतिः ।
उभे ते न विशिष्येत स्त्रीबुद्धिस्तु विशिष्यते ॥४३०॥
नाग्निस्तृप्यति काष्टानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥४३१॥
यस्य जिह्वासहस्रं स्याज्जिवेच्च शारदाशतम् ।
अनन्यकर्मा स्त्रीदोषान्नैवोक्त्वा निधनं व्रजेत॥४३२॥
अङ्गारसदृशी नारी घृतकुम्भसमः पुमान।
ये प्रसक्ता विलीनास्ते ये स्थितास्ते पदे स्थिताः ॥४३३॥
स्त्री नाम माया निकृतिः क्रोधमात्सर्यविग्रहा ।
दूरं त्यजेदनार्यां तां ज्वलितामेध्यवद्बुधः ॥४३४॥
स्वभावश्चैव नारीणां नराणामिह दूषणम् ।
इत्थं वै न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥४३५॥
येषु येषु प्रदेशेषु कायोऽत्यन्तजुगुप्सिताः ।
तेषु तेषु जनः सक्तो वैराग्यं केन यास्यति ॥४३६॥
को हि नाम मनुष्येषु जानन्नपि विचक्षणः ।
हरिणीपदमात्रेण चर्मणा न खलीकृतः ॥४३७॥
प्रस्वेदमलदिग्धेन वहत मूत्रशोणितम् ।
व्रणेन विवृतेनैव सर्वमन्धीकृतं जगत॥४३८॥
कूलानि नास्य पात्यन्ते न कथमपि खन्यते ।
खनकैव क्षयं याति बलेन च धनेन च ॥४३९॥
यान्येव मलवाहीनि पूतिच्छिद्राणि योषिताम् ।
तान्येव खलु काम्यानि अहो पुंसां विडम्बना ॥४४०॥
योषितां न कथा श्रव्या न निरीक्ष्या निरम्बराः ।
कदाचिद्दर्शनात्तासां दुर्बलानाविशेद्रजः ॥४४१॥
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥४४२॥

रागद्वेष[सम्पाद्यताम्]

कोटराग्नि यथाशेषं समूलं पादपं दहेत।
धर्मार्थं च तथा लोके रागद्वेषो विनाशयेत॥४४३॥
कामो बन्धनमेवैकं नान्यदस्तीह बन्धनम् ।
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥४४४॥
यः सन्धारयते मन्युं योऽतिवादंस्तितिक्षति ।
यश्च तप्तो न तपति स भृशं शमभाजनम् ॥४४५॥
अतथ्येनोच्यमानस्य कः कोपो यन्न तत्तथा ।
तथ्येनापि हि कः कोपो यदनुक्तेऽपि तत् तथा ॥४४६॥ [म.सु. ५१३]

रागाभिभूतः पुरुषः कामेन परिगम्यते ।
इच्छा सञ्जायते चाद्या ततस्तृष्णा प्रवर्तते ॥४४७॥

तृष्णा[सम्पाद्यताम्]

तृष्णा हि सर्वपापिष्ठा नित्योद्वेग करी नृणाम् ।
अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥४४८॥ [३.२.३४]

आसन्नान्पुरतो भोगान्दर्श्á पुनः पुनः ।
छागो हरितमुष्ट्यैव दूरं नीतोऽस्मि तृष्णया ॥४४९॥
यौवनं जरया ग्रस्तमारोग्यं व्याधिभिर्हृतम् ।
जिवितं मृत्युरभ्येति तृष्णैका निरुपद्रवा ॥४५०॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यति ॥४५१॥ [ह.वं. २.१२.४५]
न तल्लोके द्रव्यमस्ति यत्तृष्णामभिपूरयेत।
समुद्रकल्पः पुरुषो न कथञ्चन पूर्यते ॥४५२॥
यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते ।
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते ॥४५३॥ [१२.२६८.७]

अकर्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् ।
तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥४५४॥ [म.सु. २५, सु.र.भा. ७६.२१]

तृष्णा लोकत्रयस्यास्य निर्वैरपरिमन्थिनी ।
यैस्तु निर्मोकवत्त्यक्ता को दरिद्रः क ईश्वरः ॥४५५॥
या दुस्त्यज दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥४५६॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥४५७॥ [ह.वं. १.१२.४६]

एको लोभो महाग्राहो लोभ पापं प्रवर्तते ।
ततः पापादधर्माप्तिस्ततो दुःखं प्रवर्तते ॥४५८॥
पापानां विद्धयाधिष्ठानं लोभ एव नरोत्तम ।
लुब्धाः पापं प्रकुर्वन्ति सुविद्वांसोऽपि मानवाः ॥४५९॥
असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ।
ततोऽस्य नश्यति प्रज्ञां विद्येवाभ्यासवर्जितः ॥४६०॥
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
नाशे दुःखं क्षये दुःखं धिगर्थान्दुःखवर्धनम् ॥४६१॥
विमोह्यन्तिइ सम्पत्सु ताप्यन्तिइ विपत्सु च ।
खेद्यन्तियर्जनकाले कदा भोगाः सुखावहाः ॥४६२॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥४६३॥
यथा ह्यामिषमाकाशे पक्षिभिः श्वपदैर्भुवि ।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान॥४६४॥
सञ्चये च विनाशान्ते मरणान्ते च जिविता ।
संयोगे विप्रयोगान्ते को वित्ते प्रणयेन्मनः ॥४६५॥ [१२.१०५.४४]

परित्यज्य प्रियान्प्राणान्प्रविशन्ति रणाजिरे ।
पुरुषाः प्रेष्यतामन्ये निर्गच्छन्ति धनार्थिनः ॥४६६॥
दोषाश्रयमपायान्तमाचार्ययतिअं कामयेत कः ।
यत्सम्पत्तौ विपत्तौ वा जनयत्येव विक्रियाम् ॥४६७॥
त्रयो मदा महाराज मोह्यन्तियविचक्षणम् ।
स्त्रियोऽन्नपानमाचार्ययतिअं तेषु सक्ता न जाग्रति ॥४६८॥
सम्पदः प्रमदाश्चैव तरङ्गोत्सङ्गभङ्गुराः ।
कस्तास्वहिफनछत्त्रछायास्विव रमेद्बुधः ॥४६९॥
मा तात विस्तरं कार्षीः सम्पद्भिः प्रविमोहितः ।
स्वर्गात्रान्यपि भाराय भवन्ति विधिपर्यये ॥४७०॥
आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् ।
नित्योद्विग्नो हि धनवान्सर्वं त्यक्त्वा सुखी भवेत॥४७१॥
न हि संशयवान्कच्चिद्दृश्यते निरुपद्रवः ।
त्यजते सञ्चयास्तस्मात्परज्ञः क्लेशं सहैव च ॥४७२॥
प्रत्यूहपटहो राज्ञः सामान्यपुरवासिभिः ।
मा मैवमिति यो भावः स तस्य प्रीतिकारकः ॥४७३॥
अर्थांश्च दुर्लभान्लोके क्लेशांश्च सुलभांस्तथा ।
दुःखं चैव कुटुम्बार्थं यः पश्यति स मुच्यते ॥४७४॥
अलं परिग्रहेणैव दोषवान्सपरिग्रहः ।
कृमिर्हि कोषकारो हि बध्यते स्वपरिग्रहात॥४७५॥
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान।
तावन्तोऽस्य विधीयन्ते हृदये शोकशङ्कवः ॥४७६॥ [वि.पु.]
मानसं दुःखमूलं तु स्नेह इत्यभिधीयते ।
स्नेहाच्च सज्जते जन्तुर्दुःखयोगमुपत्ति च ॥४७७॥
पुत्रदारकुटुम्बेषु नक्ताः सीदन्ति जन्तवः ।
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥४७८॥ [१२.३१६.३०]

एतत्तद्दुर्जयं लोके पुत्रदारमयं विषम् ।
जायन्ते च म्रियन्ते च यत्पीत्वा मोहिताः प्रजाः ॥४७९॥
स्वदेहजानस्वसंज्ञान्यद्वदङ्गात्कृमींस्त्यजेत।
स्वसंज्ञानस्वजांस्तद्वत्सुतसंज्ञान्कृमींस्त्यजेत॥४८०॥ [१२.२०६.१०]

यत्र स्नेहो भयं तत्र स्नेहो दुःखस्य भाजनम् ।
स्नेहमूलानि दुःखानि तस्मिंस्त्यक्ते महत्सुखम् ॥४८१॥
स्वजने न च ते चिन्ता कार्या मोक्षबुद्धिना ।
इमे मया विना तात भविष्यन्ति कथा न्विति ॥४८२॥ [१२.२७७.१५]

स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते ।
सुखदुःखं तथा मृत्युं स्वयमेवाधिगच्छति ॥४८३॥ [१२.२७७.१६]

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यतीयातां तद्वद्भूतसमागमः ॥४८४॥ [१२.२८.३६]

एवं पुत्राश्च ज्ञातयः सुहृदस्तथा ।
अतिस्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः ॥४८५॥ [१२.१६८.१६]

मोक्षः[सम्पाद्यताम्]

मातृपितृसहस्राणि पुत्रदारशतानि च ।
युगे युगे व्यतीतानि कस्य ते कस्य वा वयम् ॥४८६॥
नायमत्यन्तसंवासो लभ्यते जातु केनचित।
अपि स्वेन शरीरेण किमुतान्येन केनचित॥४८७॥ [१२.२८.५१]

अदर्शनादापतिताः पुनश्चादर्शनं गताः ।
न ते तव न तेषां त्वं तत्र का परिदेवना ॥४८८॥ [११.२.८]
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
अहो कष्टमिति ध्यायञ् शोकस्यापचितिं चरेत॥४८९॥ [१२.२६.१७]

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥४९०॥ [१२.३१७.९]

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत।
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्तते ॥४९१॥ [१२.३१७.१२]

धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम् ।
अवश्यं प्रजहात्येतत्तद्विद्वान्मानुसंशयेत् ॥४९२॥ [१२१०५०४५]

पुरस्तादेव ते बुद्धिरियं कार्या विजानतः ।
अनित्यं सर्वमेवेदमहं च मम चास्ति यत॥४९३॥ [१२१०५०१२]

अनित्यत्वे कृतमतिर्म्लानमाल्येन शोचति ।
नित्यत्वे कृतबुद्धिस्तु भिन्नभाण्डेऽनुशोचति ॥४९४॥ [म.सु. १३७७]

स्वयमुत्पद्यते वह्निः परितस्तेन वह्निना ।
दह्यमानं परीतापं भजते न स पण्डितः ॥४९५॥
सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमिह स्पृशन्ति
तस्माद्धीरो नैव तप्येन्न हृष्येत् ॥४९६॥ [५.३६.४५, १२.२६.३१]

सुखमापतितं सेवन्दुःखमापतितं भज ।
कालप्राप्तमुपासीत सस्यानामिव कर्षकः ॥४९७॥ [३.२४५.१५]

सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् ।
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते ॥४९८॥ [१२.२८.१६]

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
पर्यायेणोपवर्तन्ते नरं नेमिमरा इव ॥४९९॥ [३.२४७.४५]
ज्ञानवानेव पुरुषः संयुक्तः परया धिया ।
उदयास्तमयज्ञो हि न शोचति न हृष्यति ॥५००॥ [३.२४५.१४]

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्धि ज्ञानसामर्थ्यं न बालैः समतामियात॥५०१॥ [११.२.२१]
मानसेन हि दुःखेन शरीरमुपतप्यते ।
अयःपिण्डेन तप्तेन कुम्भसंस्थामिवोदकम् ॥५०२॥ [३.२.२४]

मानसं शमयेत्तस्माज्ज्ञानेनागिमिवाम्बुना ।
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति ॥५०३॥ [३.२.२५]

संविद्रते न वलयः पलितानि न जानते ।
प्रज्ञावबोधिततत्त्वानामव्यपरोऽत्र जन्मनः ॥५०४॥
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥५०५॥ [गीता २.५६]

शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥५०६॥ [हितोपदेश ०.३]

बुद्धिलभाद्धि पुरुषः सर्वं तरति किल्बिषम् ।
विपापो लभते सत्त्वं सत्त्वस्थः सम्प्रसीदति ॥५०७॥
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान।
संवसत्येव दुर्बुद्धिरवसन् विषयेष्वपि ॥५०८॥ [१२.२८७.६]

लोहयुक्तं यथा हेम विपक्वं न विराजते ।
तथापक्वकषायस्य विज्ञानं न प्रकाशते ॥५०९॥ [१२.२०५.६]

बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा केशैर्नात्मा सम्बध्यते पुनः ॥५१०॥ [१२.२०४.१६]

शकुनानां यथाकाशे मत्स्यानामिव चोदके ।
पदं यथा हि दृश्येत तथा ज्ञानविदां गतिः ॥५११॥

इति सारसमुच्चयः समाप्तः
"https://sa.wikisource.org/w/index.php?title=सारसमुच्चयः&oldid=41039" इत्यस्माद् प्रतिप्राप्तम्