सारमञ्जरी
| सारमञ्जरी [[लेखकः :|]] |
तर्कालङ्कारोपाधिकेन पण्डितजयकृष्णशर्म्मणा कृता
सारमञ्जरी
हेरम्बचरणद्वन्द्वं विघ्ननाशकरं परम्।
प्रणम्य जयकृष्णेन क्रियते सारमञ्जरी॥
तत्र प्रथमत: कालत्रयनिरूपणम्।
वर्त्तमानध्वंसप्रतियोगित्वमतीतत्वम्। वर्त्तमानप्रागभावप्रतियोगित्वं भविष्यत्त्वम्। स्वावच्छिन्नकालवृत्तित्वं वर्त्तमानत्वम्।
अथ लकारादे: शक्तिनिरूपणम्।
तत्र लटो वर्त्तमानत्वम्। विधिलिङो भविष्यत्त्वं, विधि:, सम्भावना च। विधि: - कर्त्तव्यतोपदेश:।
सम्भावना कल्पनम्। लोटो भविष्यत्त्वम् आशीः, प्रेरणा च। आशीः – शुभचिन्तनम्, प्रेरणं – प्रवर्तनम्। आशीर्लिङो भविष्यत्त्वम् अशीश्च। लुट् लृटोर्भविष्यत्त्वम्। तव्यानीययोर्भविष्यत्त्वम्, विधिश्च। लङ्लुङोरतीतत्वम्। लिटो वक्तृपरोक्षत्वम्, अतीतत्वञ्च। लृङोऽतीतत्वम्, क्रियातिक्रमश्च। कुतश्चिद्वैगुण्यात् क्रियाया अनिष्पत्ति: क्रियातिक्रम:।
यङ क्रियासमभिहार: अतिशयित्वञ्च। सनो धात्वर्थविषयेच्छासमानकर्त्तृकत्वेऽभिधानम्।
णिच: कर्त्तृत्त्वप्रयोजकव्यापारो हेतुमानर्थ:।
तृचो वर्त्तमानत्वम्। शतृशानचोर्वर्त्तमानत्वमेककालीनत्वं च। क्तक्तवत् प्रत्यययोरतीतत्वम्। तुम्वुणो:1 क्रियार्था क्रिया, एककर्त्तृकत्वं च। उद्देश्यतासम्बन्धेन क्रियानिमित्तीभूतक्रिया क्रियार्था।
क्तिन्-घञ्-ल्युटां कालसामान्यो भावश्च। भावो धात्वर्थ:। क्त्वाच्ल्यपोर्भाव: आनन्तर्य्यम्, क्रियासमानकर्त्तृकत्वमपीति सङ्क्षेप: ।
अथ लकारस्थानीयतिङामाख्यातपदवाच्यत्वम्। स चाख्यातस्त्रिविध: - कर्तृविहितः, कर्मविहितः, भावविहितश्चेति।
तत्र कर्त्तृविहिताख्यातस्य कृतावेव शक्ति:, कृतित्वरूपशक्यतावच्छेदकलाघवात् न कर्त्तरि शक्यतावच्छेदककृतेरननुगमात्।
न चाख्यातेन कर्त्तुरनभिधानेन चैत्र: पचतीत्यत्र चैत्रपदानन्तरं तृतीयापत्ति: लकारेणानभिहितत्वादिति वाच्यम्, कर्त्तृगतसङ्ख्याभिधानानभिधानाभ्यां तृतीयादेर्व्यवस्थापितत्वात्। एवं व्यापारेऽपि न शक्ति: कृत्यादि साधारणयावद्व्यापारानुगतैकधर्माभावात्।
अथात्र कर्त्तृविहिताख्यातस्य कृतौ वर्त्तमानत्वादौ एकत्वादौ च शक्ति: सिद्धा। तत्र शाब्दबोधे कृतावेव वर्त्तमानत्वादिकम्, एकत्वादिकं च कर्त्तर्य्येव प्रतीयते। एकपदोपात्तपदार्थयोर्न विशेषणविशेष्यभावेनान्वयबोध इति व्युत्पत्तेः अस्वीकारादननुभवाच्च।
अथ कर्म्मविहिताख्यातस्य फले शक्तिर्न कर्म्मणि। फलन्तु धात्वर्थतावच्छेदकम्। अत एव धातो: फलावच्छिन्नव्यापारबोधकत्वेनैव सकर्म्मकत्वम्। तदबोधकत्वे चाकर्म्मकत्वमिति बोध्यम्। कर्म्माख्यातस्य फले वर्त्तमानत्वात् एकत्वादिकं च फलाश्रये कर्म्मण्येव प्रतीयते। तेन तण्डुल: पच्यत इत्यत्र तण्डुलपदोत्तरं न द्वितीया, कर्म्मगतसङ्ख्याभिधानेन द्वितीयाया बाधितत्वात्।
अथ भावविहिताख्यातस्य धात्वर्थ एव शक्ति:। अत्र सङ्ख्यानन्वितैव, तत्र प्रथमान्तपदाभावात्। आख्यातेन यत्र सङ्ख्योक्ता, तत्र प्रथमान्तपदोपस्थाप्यपदार्थान्वितत्वेन क्लृप्तत्वात्। एकवचनन्तु प्रयोग साधुत्वार्थमेवेति भाव:।
अथाख्यातस्य विशेषार्थकथनम् - सविषयकपदार्थाभिधायिधातूत्तरकर्त्तृविहिताख्यातस्याश्रयत्वे लक्षणा। यथा - करोति, द्वेष्टि, यतते, जानाति, इच्छतीत्यादय:। एवमचेतने रथो गच्छतीत्यत्र व्यापाराश्रयत्वे लक्षणा। नश्यतीत्यत्र प्रतियोगित्वे लक्षणा। अत एव नश्यति, नङ्क्ष्यति, नष्ट इत्यादौ वर्त्तमानत्वादिकं प्रतियोगित्व एवान्वेति।
अथ शाब्दबोधप्रकार: कथ्यते
यथा चैत्रस्तण्डुलं पचतीत्यत्र तण्डुलपदेन तण्डुलपदार्थोपस्थिति:, द्वितीयया कर्म्मतारूपफलोपस्थिति:, वृत्तित्वं संसर्ग:, तेन तण्डुलवृत्तिकर्म्मत्वमित्यवान्तरबोध:। पच् धातुना पाकोपस्थिति:, तत्रानुकूलतासंसर्गेण तादृशकर्म्मत्वान्वय:, तेन तण्डुलवृत्तिकर्म्मतानुकूलपाक इति बोध:। तत्र आख्यातेन कृत्युपस्थिति:, तत्रानुकूलतासंसर्गेण तादृशपाकान्वय:। तेन तण्डुलवृत्तिकर्म्मतानुकूलपाकानुकूलकृतिरिति बोधः। ततश्चैत्रपदेन चैत्रोपस्थिति:, तत्र आश्रयत्वसंसर्गेण तादृशकृतेरन्वय:। तेन तण्डुलवृत्तिकर्म्मतानुकूलपाकानुकूलकृत्याश्रयश्चैत्र इति महावाक्यार्थबोध:।
वाक्यार्थ एव तात्पर्य्यार्थ:। वक्त्रा शाब्दीयतात्पर्यार्थरूपवाक्यार्थमवगत्य पश्चात् शब्द: प्रयुज्यते। सर्वत्र प्रथमान्तपदोपस्थाप्यपदार्थस्यैव शाब्दबोधे मुख्यविशेष्यत्वम्। प्रथमाविभक्तिस्तु साधुत्वार्था। एवं चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रपदेन चैत्रोपस्थिति:, तृतीयया कृत्युपस्थिति:, वृत्तित्वं संसर्ग:, तेन चैत्रवृत्तिकृतिरिति बोध:। तत: पच्धातुना पाकोपस्थिति:, जन्यता संसर्ग:, तेन चैत्रवृत्तिकृतिजन्य: पाक इति बोध:। तत: कर्म्माख्यातेन फलोपस्थिति:, जन्यत्वं संसर्ग: तेन तादृशपाकजन्यफलमिति बोध:। तण्डुलपदेन तण्डुलपदार्थोपस्थिति:, तत्राश्रयत्वसंसर्गेण तादृशफलान्वय:, तेन चैत्रवृत्तिकृतिजन्यपाकजन्यफलशाली तण्डुल इति वाक्यार्थबोध:। चैत्रनिष्ठकृतेस्तृतीयोपस्थाप्यत्वादिति।
‘घटमानयती’त्यत्र घटपदेन घटोपस्थिति: द्वितीयया कर्म्मत्वोपस्थिति:, वृत्तित्वं संसर्ग:, तेन घटवृत्तिकर्म्मत्वमिति बोध:। तत आङ्पूर्वनीञ्धातुना अभिमतदेशवृत्तिसंयोगानुकूलव्यापारजनकव्यापाररूपानयनोपस्थितिः, घटवृत्तिकर्म्मतानुकूलमानयनमिति बोध:। तत आख्यातेन कृत्युपस्थिति:, अनुकूलतासंसर्गेण तादृशानयनस्य कृतावन्वयस्तेन तादृशानयनानुकूलकृतिरिति बोध:। ततश्चैत्रपदेन चैत्रोपस्थिति:, तत्राश्रयत्वसंसर्गेण कृत्युपस्थिति:, तत्र अनुकूलतासंसर्गेण तादृशकृतेरन्वय:, तेन घटवृत्तिकर्म्मतानुकूलानयनानु-कूलकृतिमांश्चैत्र इति महावाक्यार्थबोध:।
एवं करोतीत्यत्र कृधातुना कृत्युपस्थिति:, आख्यातेन लक्षणया चाश्रयत्वोपस्थिति:, तत्राश्रयत्वसंसर्गेण कृत्याश्रयत्वाश्रय इति शाब्दबोध:। एवं द्वेष्टि, यतते, जानाति, इच्छतीत्यादौ बोध्यम्। एवं रथो गच्छतीत्यत्र गमधातुना उत्तरदेशसंयोगानुकूलव्यापारोपस्थिति:, आख्यातेन लक्षणया आश्रयत्वोपस्थिति:, तदुपरि आश्रयत्वं संसर्ग:, तेन उत्तरदेशसंयोगानुकूलव्यापाराश्रयत्वाश्रयो रथ इति बोध:। त्यजतीत्यत्र त्यज्धातुना पूर्व्वदेशविभागानुकूलक्रियोपस्थिति:, आख्यातेन शक्त्या कृत्युपस्थिति:, तत्रानुकूलतासंसर्गेण तादृशक्रियान्वय:, तत आश्रयत्वं संसर्गस्तेन पूर्वदेशविभागानुकूलक्रियानुकूलकृत्याश्रय इति बोध:।
एवं पततीत्यत्र पत्धातुनाऽध: संयोगानुकूलक्रियोपस्थिति:, आख्यातेन कृत्युपस्थिति: आश्रयत्वं संसर्गस्तेनाध:संयोगानुकूलक्रियानुकूलकृत्याश्रय इति। एवं नश्यतीत्यत्र नश् धातुना नाशोपस्थिति:, आख्यातेन लक्षणया प्रतियोगित्वोपस्थिति:, आश्रयत्वं संसर्गस्तेन नाशप्रतियोगिताश्रयो घट इति बोध:। एवं विद्यते इत्यत्र विद्धातुना सत्तोपस्थिति:, आख्यातेन लक्षणया च आश्रयत्वोपस्थिति:, आश्रयत्वं संसर्ग:, तेन सत्ताश्रयत्वाश्रय इति बोध:। एवं निद्रातीत्यादौ निद्राधातुना मेध्यामन:संयोगोपस्थिति:, आख्यातेन कृत्युपस्थिति:, आश्रयत्वं संसर्ग:, तेन मेध्यामन:संयोगानुकूलकृत्याश्रय इति धी:।
एवं चैत्रो मैत्रं तण्डुलं पाचयतीत्यादौ मैत्रपदोत्तरद्वितीयया वृत्तित्वं, तण्डुलपदोत्तरद्वितीयया फलम्, णिजन्तपच्धातुना पाकानुकूलव्यापारोऽर्थ:, आख्यातेन तदनुकूलव्यापारो बोध्य:, तदुपरि आश्रयत्वं संसर्ग:, तेन तण्डुलवृत्तिकर्म्मत्वानुकूलपाकानुकूलचेत्रवृत्तिव्यापारानुकूलव्यापारवांश्चैत्र इति बोध:। एवं यदा चेत्रो मैत्रेण तण्डुलं पाचयतीति प्रयोग:, तत्रापि पूर्ववदन्वयबोध:। मैत्रस्य स्वव्यापारापेक्षया कर्त्तृत्वं चैत्रव्यापारापेक्षया कर्म्मत्वं च, अतो द्वितीयातृतीययोर्वैकल्पिकत्वमिति बोध्यम्। एवं चैत्रेण मैत्र: तण्डुलं पाच्यत इत्यत्र चैत्रवृत्तिर्योव्यापारस्तज्जन्यो यस्तण्डुलवृत्तिकर्म्मतानुकूलपाकानुकूलव्यापार: तदाश्रयो मैत्र इति बोध:। वृत्तित्वं संसर्ग:, तृतीयया व्यापारो बोध्यते। पाचिधातुना पाकानुकूलव्यापारो बोध्यते, कर्म्माख्यातेनाश्रयत्वं, द्वितीयया कर्म्मत्वं च बोध्यते।
एवं पिपठिषतीत्यत्र पठ्धातुना पाठोपस्थिति:, सन्प्रत्ययेनेच्छोपस्थिति:, विषयता संसर्ग:, आख्यातेन लक्षणया आश्रयत्वोपस्थिति:, तदुपरि पुनराश्रयत्वं संसर्ग:, तेन पाठविषयकेच्छाश्रयत्वाश्रय इति धी:। एवं देवदत्तेन शास्त्रं पिपठिष्यत इत्यत्र देवदत्तवृत्तीच्छाविषयपाठजन्यफलशालि शास्त्रमिति बोध:। कृत्प्रत्ययस्य कृत्याश्रये शक्ति:, तेन अन्नस्य पक्तेत्यत्र षष्ठ्याः कर्म्मत्वं द्वितीयाप्रतिरूपत्वात्, पच्धातुना पाक:, तृचा च कृत्याश्रयो बोध्यते, अभेद: संसर्ग:, तेन अन्नकर्म्मकपाकानुकूलकृत्याश्रयाभिन्नश्चैत्र इति शाब्दधी:। एवम् अन्नस्य पाचक इत्यत्रापि वुण्प्रत्ययेन कृत्याश्रयो बोध्यते।
अथ भावकर्म्मविहितकृत्प्रत्ययस्य भावकर्म्मणी शक्ये, तेन ‘चैत्रेण पक्वमन्नमि’त्यत्र चैत्रपदोत्तरतृतीयया कृत्युपस्थिति: वृत्तित्वं संसर्ग:, पच् धातुना पाकोपस्थिति:, जन्यत्वं संसर्ग:, निष्ठया फलशालित्वोपस्थिति:, अभेद: संसर्ग:, तेन चेत्रवृत्तिकृतिजन्यपाकजन्यफलशाल्यभिन्नमन्नमित्यर्थ:। भावस्थले तु ‘चैत्रेण पक्वमि’त्यत्र चैत्रवृत्तिकृतिजन्य: पाक इति धी:। भावकृद्घञादीनां प्रयोगे साधुतामात्रं, द्विवचनादिकन्तु “कृद्विहितो भावो द्रव्यवत् प्रकाशते” 1 इति न्यायादिति। ‘एधानाहर्त्तुं व्रजती’त्यत्र एधपदेन काष्ठोपस्थिति:, द्वितीयया कर्मत्वोपस्थिति:, आङ्पूर्वहृधातुना आहरणोपस्थिति:, तुम् प्रत्ययेन उद्देश्यत्वोपस्थिति:, (व्रजधातुना गमनोपस्थिति:) आख्यातेन कृत्युपस्थिति:, आश्रयत्वं संसर्गस्तेन एधवृत्तिकर्म्मतानुकूलाहरणोद्देश्यकव्रजनानुकूलकृत्याश्रय इति शाब्दधी:।
अथ द्विकर्म्मकविचार:।
‘अजां ग्रामं नयती’त्यत्र अजावृत्तिकर्म्मतानुकूला या ग्रामविषयिणी प्राप्तिस्तदनुकूलकृत्याश्रय इति बोध:। एवं ‘नीयते ग्राममजा पथिकेन’ इत्यत्र पथिकनिष्ठकृतिजन्या या ग्रामविषयिणी प्राप्तिस्तज्जन्यफलशालिन्यजेति शाब्दधीः। एवं ‘गां दोग्धि पयो गोपालक’ इत्यत्र गोसम्बन्धिपयोवृत्तिकर्म्मतानुकूलदोहनानुकूलकृतिमानित्यन्वयधी:। एवं ‘दुह्यते गौ: क्षीरं गोपालकेन’ इत्यत्र गोपालकनिष्ठकृतिजन्यक्षीरविषयकदोहननिमित्तं गौरित्यन्वय:। एवं प्रकृतकर्म्माख्यातेनाप्रधानकर्म्मणो गवादेर्बोधजननादित्यकथितं कर्म्मेत्युक्तम्, कर्म्मत्वातिदेशस्तु द्वितीयालाभार्थ:, न तु साक्षात् कर्म्मत्वम्। एवं ‘चैत्रस्य पाक:, अद्भुत: समुद्रस्य बन्धो वानरै’रित्यादौ, चैत्रनिष्ठकृतिजन्य: पाक: एवं वानरीयकृतिजन्यसमुद्रविषयकबन्धनमद्भुतमिति बोध:। क्वचित् षष्ठ्यास्तृतीयाप्रतिनिधित्वात् कृतिरर्थ:, क्वचित् द्वितीयाप्रतिनिधत्वात् कर्म्मत्वमर्थ:। एवम् ‘अधीती व्याकरणे, पठिती तन्त्रे’ इत्यादौ व्याकरणमधीतवान्, तन्त्रं पठितवान् इत्याद्यन्वयधी: “क्तस्येन्विषयस्य कर्म्मणी”1त्यनेन सप्तम्या द्वितीयाप्रतिनिधित्वात्।
एवं “चर्मणि द्वीपिनं हन्ति, दन्तयोर्हस्ति कुञ्जरम्। केशेषु चमरीं हन्ति, सीम्नि पुष्यलको हत:”। इत्यादौ “निमित्तात् कर्म्मसंयोगे”1 इति निमित्तसप्तमी, निमित्तादुद्देश्यात्तत् वाचकपदादित्यर्थ:। तथा च निमित्तकर्म्मणोरवयवावयवित्वसम्बन्धश्चेत्तदा निमित्तवाचकपदात् सप्तमी, तेन चर्मोद्देश्यकं यत् द्वीपिकर्म्मकहननं तदनुकूलकृतिमानित्यन्वय:, एवमन्यत्रापि बोध्यम्। पुष्यलको गन्धमृग:, सीम्नि अण्डकोषे।
सतिसप्तम्या: सामानाधिकरण्यमर्थ:। क्वचित् कालिकं, क्वचिद्देशिकं च। यथा ‘गोषु दुह्यमानास्वागत:, दुग्धास्वागत’ इत्यादौ समानकालीनत्वं भासते। तेन गोविषयकवर्त्तमानदोहनसमानकालीनवर्त्तमानगमनानुकूलकृतिमान्, एवं गोविषयकातीतदोहनसमानकालीनातीतगमनानुकूलकृतिमानित्यन्वय:।
दैशिकं यथा ‘द्रव्यं गुणकर्म्मान्यत्वे सति सत्त्वादि’त्यादौ, सत्त्वनिष्ठं गुणकर्म्मणोर्भेदसमानदेशत्वं भासते, तेन गुणकर्म्मप्रतियोगिको यो भेदस्तस्य समानदेशा सत्तेति बोध:। द्रव्ये भेदसत्त्वयोर्द्दैशिकसामानाधिकरण्यादिति।
‘पितृव्यघाती पुत्रो जनिता’ एवं ‘गतो वनं श्वो भवितेति राम:’ इत्यादौ पितृव्यं हतवानित्यर्थे पितृव्यघाती, जनिष्यतीत्यर्थे जनितेति। कथं भविष्यदुत्पत्तिकपुत्रे पितृव्यकर्म्मकातीतहननकर्त्तृत्वसम्बन्धोऽसम्भवात्। एवमन्यत्राप्यसम्भव इति “धातुसम्बन्धे प्रत्यया:”1 सूत्रकरणम्। तस्यायमर्थ: - धात्वर्थस्यावश्यकसम्बन्धे तद्धात्वर्थसमभिव्याहृतक्रियान्तरभिन्नकालीनप्रत्यया: साधव: स्यु:। बोधे तु यथोचितकालमादायैव विषयीभवति, तेन भविष्यदुत्पत्तिकपुत्रे यद्यवश्यं पितृव्यकर्म्मकहननं भासते, तदैवायं प्रयोग: साधु:। तेनातीतकालविहितप्रत्ययेनावश्यकत्वं भासते। तेन भविष्यदुत्पत्तिकपुत्रोऽवश्यं पितृव्यं हनिष्यतीति बोध:। एवं परदिनोत्पत्तिप्रतियोगी रामोऽवश्यं वनं गमिष्यतीति बोध:॥
अथ कारकविचारः
अथ कारकनिरूपणम्। तत्र क्रियानिमित्तत्वं कारकत्वमिति वैयाकरणा:।
तन्न। ‘मैत्रस्य तण्डुलं पचती’त्यादौ सम्बन्धिनि मैत्रे कारकत्वापत्ति:, सम्प्रदानादेरनुमतिप्रकाशनद्वारेव तण्डुलसम्पादनद्वारापि पाकनिमित्तत्वात्।
विभक्त्यर्थद्वारकक्रियान्वयित्वं कारकत्वमिति नैयायिका:। अत एव नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्याव्युत्पन्नत्वात् तद्द्वारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वं कल्प्यम्। विभक्तिस्तु क्वचित् सुबात्मिका क्वचित् तिङात्मिका च इति शेष:। ‘स्तोकं पचती’त्यादौ क्रियाविशेषणेऽतिप्रसङ्गवारणाय विभक्त्यर्थद्वारेति। तत्र हि द्वितीया साधुत्वार्था। सम्बन्धिन: क्रियानिमित्तत्वेऽपि न क्रियान्वयित्वम्, अतो नातिव्याप्ति:। ‘गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजै’ रित्यादौ तु नामाध्याहार: कर्त्तव्योऽतो नातिव्याप्ति:॥
अथ कर्त्तृलक्षणम्
क्रियानुकूलकृतिमत्त्वं कर्त्तृत्वम्, कर्त्तृपदस्य यत्नार्थकतृजन्तकृधातुव्युत्पन्नत्वात्। अतोऽन्यत्र अचेतनादौ कर्त्तृत्वं भाक्तमिति॥
अथ क्रियालक्षणम्।
धातोरर्थ: क्रिया, सा च द्विधा, क्वचित् कर्त्तृस्था, क्वचित् कर्म्मस्था च।
तत्र गमिपतिप्रभृतीनां कर्त्तृस्थैव क्रिया, तस्या: पञ्चविधकर्म्मान्यतमरूपत्वात्। पचिभिदिप्रभृतीनां कर्मस्थैव क्रिया, क्वचिदध:सन्तापनादिरूपत्वात्, क्वचिदवयवविभागरूपत्वादिति सङ्क्षेप:।
अथ कर्म्मलक्षणम्
परसमवेतक्रियाजन्यफलशालित्वं कर्म्मत्वम्।
परसमवेतो यो धात्वर्थस्तज्जन्यं यत् फलं, तद्वत्त्वमित्यर्थ:। परसमवेतेति विशेषणात् ‘ग्रामं गच्छति’ इत्यादौ संयोगरूपफलशालित्वेऽपि कर्त्तरि नातिव्याप्ति:। अत एव फलावच्छिन्नव्यापारबोधकत्वाद्धातो: सकर्म्मकत्वव्यवहार:, गच्छतीत्यादौ तु उत्तरदेशसंयोगफलिका क्रिया गमनं धात्वर्थ:। ‘गां ददाति’ इत्यत्र स्वस्वत्वध्वंसपूर्व्वकपरस्वत्वोत्पत्त्यवच्छिन्नत्यागो दानं धात्वर्थ:। तज्जन्यं फलं स्वस्वत्वध्वंसपूर्वकपरकीयस्वत्वं, तच्छालित्वात् गो: कर्मत्वम्।
तण्डुलं पचतीत्यादावध:सन्तापनजन्यविक्लित्ति: फलं तच्छालित्वात् तण्डुलादे: कर्म्मत्वम्। अत एव यत्र क्रिया कर्त्तृगता, तत्र लक्षणं मुख्यं, यत्र कर्म्मगतक्रिया, तत्र गौणम्। एवम् ओदनं पचतीत्यादावोदनपदेन तण्डुले लक्षणा विक्लित्तिफलयोगात्। तच्च कर्म्म त्रिविधम्। प्राप्यं, निर्वत्त्यर्थं, विकार्य्यं चेति।
यत्र कर्म्मणो धात्वर्थजन्यफलवत्त्वं तत् प्राप्यम्। यथा गच्छति पश्यति हन्तीत्यादय:।
यत्र तु साध्यत्वेन विषयत्वरूपकर्म्मत्वं तन्निर्वर्त्यम्। यथा- ‘घटङ्करोति’ इत्यादय:। एवं ‘घटङ्करोति’ इत्यादौ सर्वत्र घटादिपदे मृत्पिण्डादौ लक्षणा, साक्षात् कृत्यादिविषयत्वानुरोधात्। एवम् इच्छति (सिञ्चति) द्वेष्टि यजति इत्यादीनाम्। यत्र तु प्रकृत्युच्छेदजनितरूपान्तरवत्त्वं तत् विकार्य्यम्।
यथा- ‘काष्ठं भस्म करोति’, ‘दुग्धं दधि करोति’ ‘तण्डुलानोदनं पचति’, ‘सुवर्णं कुण्डलं करोति’। अत्र भस्मादे: कर्म्मत्वं न काष्ठादे:, भस्मादिषु काष्ठादिसम्बन्ध्यभिन्नत्वबोधनाय भस्मादिपदसमनियतविभक्तिमत्त्वं काष्ठादे:। तथा च काष्ठसम्बन्ध्यभिन्नभस्मविषयककृत्याश्रय इति शाब्दधी:। एवमन्यत्रापि बोध्यम्।
किन्तु ‘अजां ग्रामं नयति’ इत्यादिवन्न द्विकर्म्मकत्वम्, अत्राभिन्नबोधात्। यथा अजावृत्तिकर्म्मतानुकूला या ग्रामविषयिणी प्राप्तिस्तदनुकूलकृतिमान् इत्यन्वयधी:। एवं ‘गां दोग्धि पयो गोप:’ इत्यादिबोधे गोसम्बन्धित्वं पयोनिष्ठं ज्ञेयम्। ‘अजा ग्रामं नीयते पान्थेन’ इत्यादौ पान्थवृत्तिकृतिजन्या या ग्रामविषयिणी प्राप्ति: तज्जन्यफलशालिन्यजेत्यन्वयबुद्धि:। एवं ‘दुह्यते गौ: पयो गोपालकेन’ इत्यादौ गोपालकवृत्तिकृतिजन्यदोहनजनितफलशालिपयोनिमित्ता गौरिति शाब्दधी:। एवं त्रिविधकर्म्मकारकमध्ये प्राप्यं कर्म्म मुख्यं, निर्वर्त्यं विकार्य्यञ्च गौणमिति सङ्क्षेप:।
अथ करणलक्षणम्
तत्र “साधकतमं करणम्”1 इति सूत्रम्। साधकतमञ्च कारकान्तरासहकृतत्वे सति फलहेतुत्वम्।
कारकान्तरव्यापारमनुत्पाद्य फलहेतुत्वमित्यर्थ:। फलं धात्वर्थतावच्छेदकम्। ‘परशुना छिनत्ति वृक्षम्’ तृतीयाया: करणत्वमर्थ:। एवं ‘मनसा पाटलिपुत्रनगरं गच्छति’ इति। अथ ‘धनेन कुलं’, ‘विद्यया यश:’, इत्यादौ तृतीयाया हेतुत्वमर्थ:, क्रियान्वयित्वाभावात्। एवं 1‘धूमेन वह्नि:’, ‘कृतकत्वेनानित्यः’ इत्यादौ तृतीयार्थो हेतुता, धूमपदे धूमज्ञाने वह्निपदे च वह्निज्ञाने लक्षणा।
अथ सम्प्रदानलक्षणम्
“कर्म्मणा यमभिप्रैति तत् सम्प्रदानम्” 1 इति सूत्रम्। अस्यार्थ:- करणीभूतकर्म्मजन्यफलभागित्वेनोद्देश्यत्वं सम्प्रदानत्वमित्यर्थ:।
दाधातो: स्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्नत्याग:, अथवा उद्देश्यगतस्वामित्वसम्पादकत्यागोऽर्थ:। तेन ‘विप्राय गां ददाति’ इत्यत्र विप्रोद्देश्यकं यत् गोवृत्तिस्वत्वं गोनिरूपितस्वामित्वं वा तज्जनको यस्त्यागः तदनुकूलकृतिमानित्यन्वयधी:।
‘नारदाय रोचते कलह:’ इत्यत्र चतुर्थ्या: सम्बन्धित्वमर्थ:। तत्र सूत्रं “रुच्यर्थानां प्रीयमाण:”1 इति। तथा च नारदसम्बन्धिनी या रुचिस्तद्विषय: कलह इति शाब्दधी:। ‘नृपाय श्लाघते वन्दी’ इत्यत्र चतुर्थ्या विषयत्वमर्थ:। तत्र सूत्रम् – “श्लाघहुङ्स्थाशपां ज्ञीप्स्यमान:”2। ज्ञीप्स्यमान: आत्मज्ञापनेच्छाविषयीभूत:। तथा च ‘नृपाय श्लाघते वन्दी’ इत्यत्र नृपविषयकात्मज्ञापनेच्छावद्वन्दी कथनाश्रय इति धी:। एवं ‘विप्राय शतं धारयते शूद्र:’ इत्यत्र चतुर्थ्यर्थ: सम्बन्धित्वम्। “धारेरुत्तमर्ण:”3 इति सूत्रम्। तथा च विप्रसम्बन्धि-शतसङ्ख्याविशिष्टद्रव्यकर्म्मक-ऋणग्रहणाश्रय: शूद्र इति बोध:। ‘देवदत्ताय क्रुध्यति’ इत्यत्र चतुर्थ्या: कर्म्मत्वमर्थ:। तत्र “क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोप:” इति सूत्रम्। तथा च देवदत्तकर्मकक्रोधाश्रय इति बोध:। क्रोधश्च परविषयकासूयाजनकव्यापार:। असूया द्वेष:। ‘पुत्राय स्पृहयती’त्यत्र चतुर्थ्या ईप्सितकर्म्मत्वमर्थ:। तत्र “स्पृहेरीप्सितः”5 इति सूत्रम्। तथा च पुत्रविषयकस्पृहाश्रय इति बोध:॥
अथापादानलक्षणम्
“ध्रुवमपायेऽपादानम्”1 इति सूत्रम्। अपाये विभागविषये यत् ध्रुवं विभागजनकक्रियाशून्यं तदपादानकारकं भवतीत्यर्थकम्।
परकीयक्रियाजन्यविभागाश्रयत्वम् अपादानत्वमिति नैयायिकलक्षणम्। तदपादानं द्विविधं, चलमचलञ्चेति।
यथा ‘वृक्षात् पत्रं पतती’त्यत्र वृक्षरूपमपादानमचलम्। ‘धावतोऽश्वात् पतितोऽश्ववार:’ इत्यत्राश्वरूपापादानं चलम्। अत्र पञ्चम्या अपादानत्वमर्थ: अपादानत्वमवधित्वम्। तेन वृक्षावधिकाध:संयोगानुकूला या क्रिया तद्वत् पत्रमिति शाब्दधी:। एवम् अश्वावधिकाध:संयोगानुकूला या क्रिया तद्वानश्ववार इति। नन्वत्र कथमश्वस्यापादानत्वम्। पुरुषाश्वयोर्विभागं प्रति अश्वक्रियाया हेतुत्वादिति चेन्न, अश्वक्रिया नोभयोर्विभागहेतु:, किन्तु विभागजनकीभूतपुरुषक्रियां प्रति अश्वक्रियाया हेतुत्वात्।
‘हिमवतो गङ्गा प्रभवती’त्यादौ ‘वल्मीकाग्रात् प्रभवति धनु:खण्डमाखण्डलस्य’ इत्यादौ च पञ्चम्या अवच्छेकत्वमर्थ:। तत्र “भुव: प्रभव:” 1 इति सूत्रम्। प्रभव आद्यप्रकाश:। तेन हिमवदवच्छिन्नाद्यप्रकाशोत्पत्तिमती गङ्गा। एवमन्यत्रापि बोध्यम्। ‘सामग्रीत: फलं जायत’ इत्यादौ पञ्चम्यर्थो हेतुता, तत्र “जनिकर्त्तु: प्रकृति” 2 रिति सूत्रम्। प्रकृतिःफलोन्मुखीभूत: कारणकलाप इति यावत्, तेन सामग्रीहेतुका या उत्पत्तिस्तत्प्रतियोगि फलमिति शाब्दधी:।
‘अध्ययनात् परायजते छात्र’ इत्यादौ पञ्चम्यर्थो विषयता, तत्र “पराजेरसोढ़:”1 इति सूत्रम्। परापूर्वकजिधातुयोगे असोढ़: अपादानम्। असोढ़त्वमसाध्यत्वं, पराजयो निवृत्ति:। तेनाध्ययनविषयकनिवृत्तिमांश्चैत्र इति शाब्दधी:। ‘शत्रून् पराजयत’ इत्यत्र, पराजय: परिभव:। शक्रस्तु पराभवविषय एवातो न पञ्चमी ‘कूपादन्धं वारयती’त्यत्र पञ्चम्यर्थ: केवलमवधित्वम्।
तत्र “वारणार्थानामीप्सितः”1 इति सूत्रम्। कूपोऽपि पुरोगम्यदेशत्वेनेप्सितो भवत्येवं तेन कूपावधिकं यन्निवारणं तदनुकूलकृतिमानित्यन्वयधी:। अत्र कूपस्य न ध्रुवत्वं, अन्धकूपयो: संयोगविरहात्। अन्धत्वं, (गोलकाभाववत्त्वे सति) (गोलकवत्त्वे सति) चक्षु:शून्योभयगोलकतत्त्सामान्याभावान्यतरवत्त्वम्। कारणत्वं, चक्षुर्युक्तैकगोलकमात्रवत्त्वम्। ‘चौराद्बिभेति, व्याघ्राद्बिभेति दस्युभ्यो रक्षित’ इत्यादौ पञ्चम्यर्थो हेतुता। तत्र “भीत्रार्थानां भयहेतु:” 1 इति सूत्रम्। भयार्थकत्राणार्थकधातुयोगे यो हेतुस्तदपादानं भवतीत्यर्थ:। अत्र हेतोर्यदपादानत्वं विहितं तत्तृतीयानिवारणार्थमेव। ‘उपाध्यायादन्तर्धत्ते छात्र’ इत्यत्रापि पञ्चम्या हेतुत्वं तृतीयावारणार्थमेव।तत्र सूत्रम्-“अन्तर्द्धौ येनादर्शनमिच्छति”2 इति। अन्तर्द्धिरात्मसङ्गोपनम्। तथा च उपाध्यायहेतुकं यदात्मसङ्गोपनं तद्विषयिणी येच्छा तदाश्रयश्चैत्र इति बोध:। ‘उपाध्यायादधीत’ इत्यत्र पञ्चम्यर्थो हेतुता। तत्र सूत्रं - “आख्यातोपयोगे” 3 नियमाद्वाक्यग्रहणे आख्यातोऽपादानं भवतीति। अत्रापादानत्वविधानं तृतीयावारणार्थम्। आख्याता वक्ता। तथा च उपाध्यायहेतुकं यन्नियमपूर्व्वकवाक्यग्रहणं तदनुकूलकृतिमानित्यन्वयधी:।
अथाधिकरणलक्षणम्
तत्र पाणिनिसूत्रं “आधारोऽधिकरणम्”1। आधारोऽत्राश्रय: कर्त्तृ-कर्म्मान्यतरद्वारा क्रियाश्रयत्वे सति तत्क्रियोपकारकत्वम् अधिकरणत्वमिति नैयायिका:।
अत्रोपकारकत्वं निष्पादकत्वं तेन ‘पीठे स्थित्वा गृहे स्थल्यामोदनं पचति’ इत्यत्र, सप्तम्यर्थोऽधिकरणत्वम्। अत्र कर्त्तृप्रभृतीनामतिव्याप्तिवारणाय सत्यन्तम्। गेहस्य तु पाकक्रियाश्रयत्वं तदुपकारकत्वञ्च कर्त्तृद्वारा, स्थाल्याञ्च ओदनरूपकर्म्मद्वारा क्रियाश्रयत्वं तदुपकारकत्वञ्चेति बोध्यम्। पीठस्य तु स्थितिक्रियापेक्षया एवेति निष्कर्ष:॥
अथ समासवाद:
तत्र समासत्वमखण्डोपाधिकविशेष:।
न तु कर्म्मधारयादिषडन्यतमत्वम् आत्माश्रयत्वात्। नैयायिकमते तु ‘समासे न शक्तिर्न वा लक्षणा, वाक्यत्वात्’।
शक्तिलक्षणान्यतरसम्बन्धस्तु पदनिष्ठ एव, तदर्थावगतिस्तु क्वचित् पूर्वपदे क्वचिदुत्तरपदे क्वचिदुभयपदे वा लक्षणयेति। समासकरणञ्च पद-संस्कारार्थमेवेति ज्ञेयम्। किन्तु व्यासकालीनतत्तद्वाक्यार्थबोधानुकूलतत्तत्पदार्थोपस्थिति:, क्लृप्तशक्तिकतत्तत्पदसमूहस्यैव शक्तिलक्षणान्यतरसम्बन्धेन समासकालेऽपि तत् जातीयशक्यार्थबोधानुकूलपदार्थोपस्थितिहेतुत्वं कल्प्यते लाघवात्। न तु वाक्यस्य पदत्वं, तत्पदस्यातिरिक्तापि शक्ति: कल्प्या गौरवात्। ननु नित्यसमासस्थले पङ्कजादिपदे का गति:? तत्र समासाभावेन क्लृप्तशक्तिकपदाभावादिति चेन्न, तत्रागत्योभयो: समाधानसाम्यात्। तथा हि समुदाये शक्त्यनुरोधात् समुदायस्य पदत्वम्, अस्यावयवशक्त्यनुरोधेन पदैकदेशस्यापि पदत्वं भवद्भिः कल्पनीयम्। समानयो: “यत्रोभयो: समो दोष: परिहारोऽपि तत्सम” इति प्रवादोऽपि साधुरिति॥
अथ कर्म्मधारयलक्षणम्
द्विगुभिन्नत्वे सति समानविभक्तिमत्पदप्रकृतिकत्वे सत्यभेदबोधकत्वं कर्म्मधारयत्वम्। तेन नीलोत्पलमित्यत्र नीलपदेन नीलगुणविशिष्टं वस्तु, उत्पलपदेन उत्पलसामान्यमुपस्थाप्यते अभेदाख्यसंसर्गद्वारा नीलाभिन्नमुत्पलम् इति शाब्दधी:। नामार्थयोरभेदान्वयबोधं प्रति विरुद्धविभक्तिराहित्यस्य कारणत्वम्। एवं कर्म्मधारये न वा शक्तिर्न वा लक्षणेति प्रसिद्धि:। अत एव ‘निषादस्थपतिं याजयेत्’ इत्यत्र न षष्ठीतत्पुरुष:, न वा बहुव्रीहि:, पूर्वपदे परपदे वा लक्षणापत्ते:। तथाचात्र कर्म्मधारयसमासान्निषादाभिन्नस्थपतियाजनम् इति बोध:। न च निषादस्य सङ्करजातिविशेषत्वात् वेदानधिकारात् याजना-सम्भव इति वाच्यम्, अपूर्वविद्याप्रयुक्तेस्तत्र कल्प्यत्वात्। विद्याप्रयुक्तिस्तु निषिद्धकर्म्मकमन्त्रपाठ इति।
अथ तत्पुरुषलक्षणम्
असमानविभक्तिमत्प्रतिपदप्रकृतिकत्वे सत्यभेदबोधकपदत्वं तत्पुरुषत्वम्। राजपुरुष इत्यत्र पूर्वपदे लक्षणया राजसम्बन्धित्वमवगम्यते, तेन राज-सम्बन्ध्यभिन्न: पुरुष इत्यर्थ:। नामार्थद्वयाभेदबोधं प्रति, विरुद्धविभक्तेरभावस्य तन्त्रत्वात्। अन्यथा पुरुषपदार्थे राजपदार्थस्य साक्षादन्वयो न स्यात्, निपातातिरिक्तनामार्थयोर्भेदेन साक्षादन्वयस्याव्युत्पन्नत्वात्। तथा च तादृशबोधं प्रति द्वारीभूतविभक्तिरपेक्षणीयेति बोध्यम्। न च राजपुरुष इत्यत्र पुरुषपदे राजसम्बन्धिनि लक्षणा, राजपदन्तु तात्पर्य्यग्राहकमिति वाच्यम्, उत्तरपदार्थप्रधानस्तत्पुरुष इति व्युत्पत्तेर्विरोधात्, पूर्वपदस्य च निरर्थकत्वात्।
अत एव ‘चन्द्र इव मुखम्’ इत्यत्र इवार्थान्वयबोधे चन्द्रपदोत्तरषष्ठी नापेक्ष्यते, प्रथमा च साधुत्वार्था। न च ‘दधि पश्यति’ इतिवल्लुप्तविभक्तेरनुसन्धानेन तादृशबोध: सुलभ इति वाच्यम्। तदनभिज्ञस्य तादृशबोधानुदयापत्ते:। ‘राज्ञ: पुरुष’ इत्यत्र राजपदोत्तरषष्ठ्या राजसम्बन्धस्य पुरुषपदेन च पुरुषस्याश्रयत्वसंसर्गेणोपस्थिति:। राजसम्बन्धाश्रय: पुरुष इति शाब्दधी:।
अथ द्विगुलक्षणम्
समानविभक्तिमत्पदप्रकृतिकत्वे सत्यभेदबोधकसङ्ख्यापूर्वपदत्वं द्विगुत्वम्। यथा पञ्चपुलीत्यादि। पञ्चानां पुलानां समाहार इति व्युत्पत्ते:, पुलपञ्चकस्य समाहार इति बोध:। समाहारोऽपेक्षाबुद्धिविषयत्वं तेन पुलपदेन लक्षणया पञ्चपुलसमाहारो बोध्यते। पञ्चपदञ्च तात्पर्य्यग्राहकमिति बोध:।
अथ बहुव्रीहिलक्षणम्
नञ्तत्पुरुषभिन्नत्वे सति लाक्षणिकोत्तरपदत्वं बहुव्रीहित्वम्।
चित्रगुः इत्यत्र गोपदं गोस्वामिनि लाक्षणिकं, चित्रपदञ्च चित्ररूपविशिष्टगवि लाक्षणिकम्। तत्र चित्रपदार्थस्यापरपदार्थैकदेशे गवि अभेदान्वयस्तेन चित्राभिन्नगोस्वामीति वाक्यार्थबोध:। अथवा गोपदं गोस्वामिनि लाक्षणिकं, चित्रपदञ्च तात्पर्य्यग्राहकमिति बोध:।
तेन “पदार्थ: पदार्थेनान्वेति, न तु पदार्थैकदेशेन” इति व्युत्पत्तेर्न भङ्ग:। ननु चित्रगुरित्यादौ विनिगमनाविरहात्1 उभयपदे च लक्षणा कथं नोच्यते इति चेन्न, शक्तपदसमभिव्याहारं विना लाक्षणिकपदस्यानुभविकत्वाभावात्। न च पूर्वपद एव लक्षणेति वाच्यम्, उत्तरपदार्थस्य लाक्षणिकेऽर्थे साक्षादन्वयाभावात्। न च समासोत्तरपदं तात्पर्यग्राहकमिति वाच्यं, पूर्वपदस्य गवोप-स्थापकत्वाभावात्। नञ्तत्पुरुषस्थले तु ‘अब्राह्मण’ इत्यादौ ब्राह्मणपदस्य तत् सदृशे लक्षणा, नञ् पदन्तु तात्पर्य्यग्राहकमित्यत उक्तं नञ्तत्पुरुषभिन्नत्वे सति इति विशेषणमिति।
अथ द्वन्द्वलक्षणम्
पदजन्यप्रतिपत्तिविषयभेदबोधकत्वे सति समानविभक्तिमत्पदप्रकृतिकत्वं द्वन्द्वत्वम्। स च द्वन्द्वश्चार्थे, चकारार्थो भेद: तत्र किं पदार्थभेदे किं वा पदार्थतावच्छेदकभेदे शक्ति:? तत्र नाद्य:, “प्रमाणप्रमेय” इत्यादि गौतमकृतन्यायाद्यसूत्रे, अप्येकदन्तहेरम्ब इत्यादिपर्य्याये, नीलघटयोरभेद इत्यत्र च पदार्थभेदसत्त्वेऽपि द्वन्द्वस्य दर्शनात्। नान्त्य:, घटा इति स्वरूपैकशेषे द्वन्द्वापवादके व्यभिचारात् कथमस्य द्वन्द्वापवादकत्वम्? तस्योत्सर्गापवादभावयो: समानविषयकत्वेन नियन्त्रितत्वात्। न च घटा इत्यत्र स्वरूपैकदेशे किं मानम् इति वाच्यम्, “सकृदुच्चरित: शब्द: सकृदर्थं गमयती”त्यादिव्युत्पत्या त्रिचतुरादिघटोपस्थापकत्वाभावात्।
न च घटपदात् घटत्वसामान्यलक्षणाप्रत्यासत्त्या घटमात्रोपस्थितौ तात्पर्य्यवशात् त्रिचतुरादिघटोपस्थिति: किन्तेनेति वाच्यम्, हरय इत्यत्र तस्यावश्यककल्पनात्। न ह्यत्र हरित्वमनेकम् अस्ति, घटा इति सर्ववादिसिद्धैकशेषलोपप्रसङ्गाच्च।
अत एवात्र वदन्ति- क्वचित् पदार्थभेदे, क्वचित् पदार्थावच्छेदकभेदे च द्वन्द्वस्य दर्शनादुभयभेदेऽपि शक्ति:। न चाननुगमो जात:, पदजन्यप्रतिपत्तिविषयत्वेनैवोभयानुगमात्। तथा चात्र यद्भेदेनैव द्वन्द्वस्तत्रैव द्वित्वबहुत्वान्वय:, अनयोर्भेदसापेक्षत्वात्। न चैकपदे द्वन्द्वापत्तिरिति वाच्यम्, “सुप्सुपा”1 इति समासाधिकारसामान्याभावात्। स च द्विविध:, - इतरेतर:, समाहारश्च। इतरेतरस्थले साहित्यं विशेष्यत्वेन भासते। समाहारे तु विशेषणत्वेन एव इति विशेष:। साहित्यं चैकक्रियान्वयित्वम्।
तद्यथा ‘धवखदिरपलाशाञ्छिनत्ती’त्यत्र धवखदिरपलाशप्रतियोगिकं यत् साहित्यं, तन्निरूपितं यदवयवविभागरूपफलं तज्जनिका या च्छिदा क्रिया, तदनुकूलकृतिमांश्चैत्र इति बोध:। निरूपितत्वमत्र सामानाधिकरण्यम्। ‘धवखदिरपलाशंच्छिन्धी’त्यत्र साहित्याश्रयीभूतं यद्धवादि, तद्वृत्ति यत् फलं, तज्जनिका या च्छिदाक्रिया, तदनुकूलकृतिमान् त्वम् इति बोध:। अथवा इतरेतरस्थले द्वित्वबहुत्वपदार्थानुगतमेकत्वं (द्वित्वबहुत्वप्रकारकपदार्थोपस्थितिमात्रम्) भासते, समाहारे तु प्रत्येकपदार्थानुगतमेकत्वं भासते, न तूभयसाहित्यमेकक्रियान्ययित्वरूपं भासते। न च साहित्यं सहभावविवक्षायां वृत्तिर्द्वन्द्वैकशेषयोरिति व्युत्पत्ते: का गति: इति वाच्यम्, तत्रापेक्षाबुद्धिविशेषविषयत्वरूपसाहित्यावगतित्वादिति।
अथाव्ययीभावलक्षणम्
समासग्रस्तत्वे सति नानाविभक्तिभिरेकरूपतावत्पदत्वमव्ययीभावत्वम्।
अत्र पूर्वपदार्थस्यैव प्राधान्यं भासते। ‘उपकुम्भ’मित्यत्र कुम्भावधिकाल्पदेशसंयोगीति सङ्क्षेप इति।
अथ निर्द्धारणम्
जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य तादृशविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्वविशिष्टविधेयवत्तया प्रतिपादनं निर्द्धारणम्।
तत्र जातिगुणक्रियाणामन्यतमेन समुदायादेकदेशस्य पृथक्करणं निर्द्धारणम्। विलक्षणधर्म्मवत्त्वेन निरूपणं पृथक्करणम्। एवञ्च यत्पदसमभिव्याहृता षष्ठी तदुपस्थाप्यतदन्यपदार्थसमुदाये तद्धर्म्मवत्त्वाभावः षष्ठ्या उपस्थाप्यत इति बोध्यम्। क्रमेणोदाहरणम् - ‘नराणां क्षत्रिय: शूरतम’ इति क्षत्रियान्यनरनिष्ठान्योन्याभावप्रतियोगिशूरतमाभिन्नः क्षत्रिय: नर इति अन्वयबोध:। एवं सर्व्वत्र क्रियागुणस्थले बोध्यम्। ‘नराणां क्षत्रियः शूरतम’ इति नरसामान्यमध्ये क्षत्रियत्वजात्यवच्छिन्ननरे शोर्य्यं, तदन्यनरे तदभाव इति भावाभावान्वय-बोध:। एवं ‘गवां मध्ये कृष्णा गौ: सम्पन्नक्षीरतमा’ इति गोसामान्यमध्ये कृष्णरूपवत्यां गवि सम्पन्नक्षीरतमत्वं, तदन्यगवि तदभाव इति। एवम् ‘अध्वगानां रथिन: शीघ्रगतय:’ इति अध्वगसामान्यमध्ये रथारूढ़ा अध्वगा: शीघ्रगामिन: तदन्ये अध्वगा नेति भावाभावान्वयधी:।
अथ एवकारविचार:
तस्य व्यवच्छेदत्वमेव शक्त्यतावच्छेदकं, व्यवच्छेद: शक्य:, व्यवच्छेदो विरह:, विशेषस्त्वेतावान्, क्रियासमभिव्याहृतस्यैवकारस्यात्यन्तायोगव्यवच्छेदे विशेषणसङ्गतैवकारस्यायोगव्यवच्छेदे विशेष्यसङ्गतैवकारस्यान्य-योगव्यवच्छेदे शक्तिर्बोध्या। तत्र क्रमेणोदाहरणम् - ‘नीलं सरोजं भवत्येव’ इत्यत्र प्रकृतेरन्वयितावच्छेदकसरोजत्वसामानाधिकरण्येन नीलत्वान्वय: तथा च सरोजं क्वचिन्नीलं क्वचिदनीलमपि भवतीत्यन्वयबोध:। ‘शङ्ख: पाण्डर एव’ एत्यत्र शङ्खे पाण्डरत्वं तदयोगव्यवच्छेदश्च इति। तथा च अन्वयितावच्छेदक-शङ्खत्वावच्छेदेन पाण्डरत्वायोगव्यवच्छेद इत्यन्वयबोध:। ‘पार्थ एव धनुर्धर:’ इत्यत्र धनुर्धरपदं प्रकष्टधनुर्धरलक्षकम्। तेन पार्थे प्रकृष्टधनुर्धरत्वं, तदन्यस्मिंस्तदभावबोध इति। तथा च पार्थ: प्रकृष्टधनुर्धरस्तदन्यो नेत्यर्थ:। अथवा धनुर्धरे पार्थतादात्म्ययोग:। तदन्यस्मिन् तादात्म्ययोगव्यवच्छेदश्चेति।
अथ सर्वनामपदशक्तिविचार:
तस्य शक्यं घटादिकं शक्यतावच्छेदकञ्च घटत्वादिकम्। तमानयेत्यादौ शक्तिग्रहपदार्थोपस्थितिशाब्दबोधानां घटत्वादिप्रकारकत्वात् तेषां समान-प्रकारकत्वेनैव कार्य्यकारणभावात् बुद्धिविषयत्वेनैव तेषामनुगम:।
बुद्धिविषयवृत्तित्वेन शक्यतावच्छेदकानां चानुगम इति विशेष:। तथा च हरिपदादिवन्नानार्थमेव, तात्पर्य्यग्रहस्तु प्रकरणादिवत् पूर्वसङ्केतोपस्थितिरिति नवीनतार्किका:। केचित्तु सर्वनामपदस्य क्वचित् प्रक्रान्ते, क्वचित् प्रक्रम्यमाणे च शक्ति:, उभयोरनुगमकं बुद्धिविषयत्वं, तदेव शक्यतावच्छेदकमित्याहु:।
अथ इवशब्दविचार:
‘चन्द्र इव मुखम्’ इत्यत्र चन्द्रपदं चन्द्रपरम्, इवपदं सादृश्यपरं, मुखपदं मुखपरम्, प्रतियोगित्वं संसर्ग:, तत्र चन्द्रपदस्य प्रतियोगितया सादृश्ये, सादृश्यस्याश्रयतया मुखे अन्वय:। तथा च चन्द्रप्रतियोगिकसादृश्याश्रय: मुखमित्यन्वयधी: इति तन्न। चन्द्रमिव मुखं पश्यामीत्यत्र चन्द्रपदोत्तरद्वितीयानुपपत्ते: चन्द्रमुखयोरभेदाभावात्। अत एव चन्द्रपदं चन्द्रसदृशे लाक्षणिकम्, इवपदं तात्पर्य्यग्राहकं, चन्द्रपदोत्तरं द्वितीयाविभक्तिसत्त्वेनाभेदबोधकत्वात्। चन्द्रसदृशाभिन्नमुखमहं पश्यामीति भाव:। निपातातिरिक्तनामार्थयोर्भेदेनान्वयबोधं प्रति प्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात्। तेन इवार्थान्वयबोधेन षष्ठ्यपेक्षया प्रथमा साधुत्वार्था इति निष्कर्ष:।
अथ उद्देश्यविधेयभाव:
तत्र उद्देश्यतावच्छेदकविधेयतावच्छेदकयो: सामानाधिकरण्यं भासते। तेन ‘घटो नीलरूपवान्’ इत्यत्र घटत्वनीलरूपयो: सामानाधिकरण्यमवगाहते। एवमुद्देश्यवाचकपदप्रयोग: प्रागेव कर्त्तव्य:। अन्यथा ‘नीलरूपवान् घट’ इत्यत्र घटोद्देश्यकनीलरूपविषयकबोध: स्यात्। किन्तु नीलरूपवदुद्देश्यकघटत्वविषयकबोध एव भवतीति।
प्रकृतिविकृतिभावेऽप्ययं नियमो बोध्य:। यथा ‘एको वृक्ष: पञ्च नौका भवति’ इत्यत्र वृक्षपदं वृक्षारम्भकद्रव्यपरं, नौकापदञ्च नौकारम्भकद्रव्यपरम्। तेन वृक्षारम्भकद्रव्यं पञ्चनौकारम्भकं भवतीति बोध:। एवं ‘एकं सुवर्णं दशकुण्डलानि भवति’ इत्यत्रापि बोध्यम्।
अथ ‘यूपाय दारु’ इत्यत्र दारुपदं दार्व्वारम्भकद्रव्यपरं, चतुर्थ्या उद्देश्यत्वं जनकत्वञ्च। तत्रोद्देश्यत्वस्य यूपे, जनकत्वस्य दारुणि अन्वय:। तेनोद्देश्यीभूतयूपजनकदार्व्ववयवद्रव्यमिति अन्वयधी:। प्रकृतिविकारभावे ‘रन्धनाय स्थाली’ इत्यादौ चतुर्थ्यर्थ: केवलमुद्देश्यत्वम्। तेन रन्धनोद्देश्यकस्थालीयमिति बोध:। इयमेव तादर्थ्ये चतुर्थी।
अथ उपसर्गविचार:
तत्र उपसर्गस्य वाचकत्वं नास्ति, किन्तु द्योतकत्वमेव, क्लृप्तशक्तिकधातोरेवार्थविशेषे तात्पर्य्यग्रहात्। प्रजयतीत्यादौ जिधातोरेव जये शक्ति: प्रकृष्टजये लक्षणा, तत्र प्रकृष्टजयबोधे प्रोपसर्गस्य तात्पर्य्यग्राहकत्वमात्रम्। अथवा जिधातोरेव प्रकृष्टजये शक्ति:। सा च प्रोपसर्गोपसन्धानेनैव बुध्यते। तथा चेयमौपसन्धानिकी शक्ति:। न च प्रतिष्ठतीत्यादौ प्रकृष्टस्थितिविषयकबोध: कथं न जायते इति वाच्यं, तत्र स्थितिविपरीतार्थगमनस्योपस्थितत्वात् धातूनां प्रोपसन्धानेनैव तदर्थो लक्षणया शक्त्या वा बोध्यते। अपि च प्रजयतीत्यत्र यदि प्रकृष्टजये धातोर्न शक्ति:, तदा प्रकृष्टजयाश्रयत्वेन बोधो न स्यात्। प्रकृत्यर्थान्वितस्वार्थबोधकत्वं प्रत्ययानाम् इति व्युत्पत्ते: श्रवणादिति।
अथ क्त्वाप्रत्ययविचार:
तस्यानन्तर्य्य एव शक्ति:। ‘भुक्त्वा व्रजति’ इत्यादौ भोजनान्तरं व्रजनानुभवस्य सिद्धत्वात्। भोजनव्रजनयो: समानकर्तृकत्वं, व्रजनपूर्व्वकाले भोजनं वावगाहते। किन्तु समानकर्त्तृत्वमाक्षेपलभ्यम्। ‘झनत्कृत्य पतति’ ‘मुखं सम्मील्य हसति’ ‘मुखं व्यादाय स्वपिति’ इत्यादौ पतनहसनस्वपनादीनां कथमानन्तर्य्यम्। पतनाद्यनन्तरमेव झनत्काराद्युपलब्धेरिति वाच्यम्। झनत्काराद्यनन्तरमपि पतनादिसत्त्वान्न दोष इति निष्कर्ष:।
अथ नञर्थकथनम्
तत्र नञ: संसर्गाभावोऽन्योन्याभावो वार्थ:। तत्रायं नियम:। यत्र विशेष्यविशेषणयोर्भावान्वयेऽभेदान्वयबोधस्तत्रैवान्योन्याभावो नञा बोध्यते। यथा ‘अयं घटो नील:’ इत्यत्र भावान्वये नीलघटयोरभेदो भासते। ‘नायं नीलो घट:’ इत्यत्र चाभावान्वये घटे नीलभेदो भासते। अत एव ‘यजतिषु येयजामहं करोति नानुयाजेषु’ इत्यत्रानुयाजभिन्नेषु यजतिष्वेव येयजामहस्य कर्त्तव्यता भासते। यत्र तु प्रतियोग्यनुयोगिनोर्भावान्वये भेदो भासते, तत्र संसर्गाभावो नञा बोध्यते। यथा ‘भूतले घट:, न भूतले घटः’, ‘पचति चैत्रो, न पचति चैत्र:’, ‘चैत्रस्यौदनं, न चैत्रस्यौदनमि’त्यादौ भूतलादावनुयोगिनि घटकृतिस्वत्त्वानां भावान्वये भेदो भासते। अभावान्वये तेषां संसर्गाभावो बोध्यते। तेन भूतल-वृत्तित्वाभाववान् घट:, पाकानुकूलकृत्यभाववांश्चैत्र:, चैत्रसम्बन्धित्वाभाववदोदनमित्यन्वयबोध:। अत्रापि विशेष:। यत्रानुयोगिनि नामार्थप्रतियोगिकसंसर्गाभावबोध: तत्रावश्यमनुयोगिपदे सप्तम्यपेक्षा कार्य्या। अत्र चाभावान्वये अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं व्युत्पत्त्या भासते। नीलघटवति ‘भूतले न घट:’ एवं ‘नीलो घटो न घट:’ इत्यप्रतीते:। एवं ‘पीतघटवति न नीलघट:, पीतघटो न नीलघट’ इत्यादिप्रतीतेश्च।
यत्र तु सामान्ये विधिर्निषेधो वा विशेषे निषेधो विधिश्च, तत्र सामान्यस्य ‘विशेषेतरपरत्वं’ कल्प्यते। पदार्थान्तरसाकाङ्क्षं विशेषमपहाय, तदितरमेव सामान्यमन्वेति इति व्युत्पत्ते:। यथा ‘ब्राह्मणेभ्यो दधि दातव्यम्, कौण्डिन्याय न दातव्यम्’ इत्यत्र ब्राह्मणसामान्यस्य कौण्डिन्येतरपरत्वं भासते। प्रकृते तु ब्राह्मणसामान्यं दधिदाने साकाङ्क्षं कौण्डिन्यस्तु तदभावसाकाङ्क्षम् इति सामान्ये तदितरपरत्वं कल्प्यते, एवं ‘ब्राह्मणेभ्यो दधि दीयतां, तक्रं कौण्डिन्याय’ इत्यत्र दध्यपेक्षया पदार्थान्तरं तक्रमित्यतो ब्राह्मणसामान्यस्य तदितरपरत्वं भासते। तेन कौण्डिन्यस्य ब्राह्मणत्वपुरस्कारेण दधिदानं न प्रसज्येत। अत एवात्र इयं व्युत्पत्तिर्विशेषविधिनिषेधयो: सामान्यनिषेधविध्योरुत्सर्गत्वे अनुज्ञाफलकत्वम् इति। एवं ‘मा हिंस्यात् सर्वा भूतानि’ ‘आग्नेय्यां श्वेतच्छागम् आलभेत’ इत्यत्रापि हिंसासामान्यं निषेधसाकाङ्क्षम्। हिंसाविशेषस्तु विधौ साकाङ्क्ष:। अतो हि सामान्यस्य वैधेतरपरत्वेन वैधेतरहिंसैवानर्थहेतुरिति निष्कर्ष:।
एवं नञ: कुत्रचित् प्रसज्यप्रतिषेधे शक्ति:, क्वचित् लक्षणया पर्य्युदासबोधकत्वञ्च। यथा- ‘एकादश्यां न भुञ्जीत’ इत्यत्र भोजनस्य रागत एव एकादश्यामपि प्रसक्तौ तत्प्रतिषेधो बोध्यते। नत्वेकादशीभिन्नतिथौ भुञ्जीतेति पर्य्युदासविधि:। भोजनस्य केवलरागप्राप्तत्वात् कथं पर्य्युदास:? द्वितीयं यथा- ‘अथ श्राद्धममावस्यायां पितृभ्यो दद्यात्’ इत्यादि सामान्यशास्त्रं, तदनु ‘रात्रौ श्राद्धं न कुर्वीत सन्ध्ययेरुभयोरपि’ इति विशेषनिषेधस्तु पर्य्युदासविधि: कल्प्यते। तेन ‘रात्रिसन्ध्येतरायाममावस्यायां पितृभ्यो दद्यादि’ति पर्य्युदासाल्लभ्यते। न तु निषेधविधिना रात्रिसन्ध्याधिकरणकश्राद्धे निषेधोऽवगम्यते, सामान्यश्राध्दस्य रात्रिसन्ध्यांशे कर्त्तव्यतापत्ते:। एवं ‘न सगोत्रां न समानार्षेयीं भार्य्यां विन्देत’ इत्यादौ यदा च परिवेदनस्य शास्त्रत: प्राप्तिस्तदा पर्य्युदास:, यदा तु रागत: प्राप्तिस्तदा प्रसज्यप्रतिषेध एवावगम्यते। केचित्तु ‘अतिरात्रे षोड़शिनं गृह्नीयान्नातिरात्रे षोड़शिनम्’ इतिवत् अत्रापि इच्छाविकल्प इति वदन्ति, तत्र तत्र नञ: तुल्यत्वात्। अत्र तु सामान्यविशेषभावेनातुल्यबलवत्त्वादिति निष्कर्ष:।
अथ वैधहिंसाविचार:
“मा हिंस्यात् सर्वा भूतानि” इति सामान्यशास्त्रम्। ‘वायव्यां श्वेतच्छागमालभेत’ इति विशेषशास्त्रम्। अत्र हिंसायां विधिनिषेधयोरवस्थानेन विरोधात् सामान्यशास्त्रं विशेषशास्त्रेण बाध्यते। विरोधे हि बलीयसा दुर्बलं बाध्यते। विशेषशास्त्रन्तु बलीयो निरवकाशत्वात्, सामान्यशास्त्रं दुर्बलं सावकाशत्वात्। तेन सामान्यशास्त्रस्य वैधेतरपरत्वम्। न खलु सर्वभूतहिंसा-भावविषयकं कार्य्यम् इति निषेध:, विध्यर्थस्य बाधकं विना अग्निसोमीयपश्वालम्भनविषयकं कार्य्यं विध्यर्थ उपपद्यते इति मीमांसका:।
नन्वेवं ‘श्येनेनाभिचरन् यजेत’ इत्यत्र श्येनस्य शत्रुवधरूपेष्टसाधनत्वम्। “अभिचारमूलं कर्म्म च” इति मनुनोपपातकगणमध्ये पाठादनिष्टसाधनत्वञ्चावगम्यते, तदेतत् कथमुपपद्यते इति चेन्न। ‘आततायिनमायान्तं हन्यादेवाविचारयन्’ इत्येकवाक्यतया आततायिस्थले इष्टसाधनत्वम्, अनाततायिस्थले तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध: कल्प्यते, “पदार्थान्तरसाकाङ्क्षं विशेषम्” इति न्यायात्। तथा च वैधेतरहिंसाया एव नरकजनकत्वमिति कल्प्यते। टीकाकृद्वाचस्पतिमिश्रमते तु सामान्यविशेषशास्त्रयोर्न विरोधो भिन्नविषयत्वात्। तथाहि ‘मा हिंस्यात्’ इति हिंसाया अनर्थहेतुता ज्ञाप्यते। ‘वायव्यं श्वेतच्छागमालभेत’ इति विशेषशास्त्रेण तु हिंसाया: क्रतूपकारकत्वं बोध्यते। अत एव वैधहिंसाया अपि नरकजनकत्वं क्रतूपकारकत्वञ्च कल्प्यम्, न तु स्वर्गजनकत्वं किन्तु क्रतोरेव स्वर्गजनकत्वं तत्तद्विशेषविध्यभिधानात्॥
अथ पदशक्तिनिरूपणम्
“तत्तत्पदबोद्धव्यत्वप्रकारकभगवदिच्छाविषयत्वं वाच्यत्वम्” इति न्यायलक्षणम्। “अर्थप्रतीत्यनुकूलपदपदार्थसम्बन्धव्यापार: शक्ति:” इति काव्यप्रकाशे। “अर्थप्रतिपादनानुकूलसम्बन्धविशेष: शक्ति:” व्याप्रियते अभिधीयते शाब्दैरर्थोऽनेनेति।1
सा च अस्माच्छब्दादयमर्थो बोद्धव्य इति ईश्वरेच्छाविषयत्वम्। आधुनिकसङ्केते तु आधुनिकसङ्केत एव शक्ति:, अथवा तत्रापीश्वरेच्छा वर्त्तते सर्वत्रैव ईश्वरेच्छाविशेष एव शक्तिरिति निष्कर्ष:।
सा च जातिविशिष्टे एव, जातौ, व्यक्तौ, वैशिष्ट्ये च शक्ति: कल्प्यते, विशिष्टस्यैवान्वयबोधात्। तत्र जाते: प्रकारतया, व्यक्तेर्विशेष्यतया, वैशिष्ट्यस्य संसर्गतया, पदेनोपस्थाप्यते इति नैयायिका:। नैयायिकमतेऽपि घटत्वविशिष्टे शक्तावपि घटत्वमपि तदर्थ:, तेन स्वार्थादन्यरूपेण ज्ञाते लक्षणा भवति। केषाञ्चिन्मते तु व्यक्तावेव शक्तिर्जातिरवच्छेदिका व्यक्तेरनुगतत्वात्, जात्यवच्छेदेन व्यक्तौ शक्तिग्रहपदार्थोपस्थितित: शाब्दबोधादिति। मीमांसकास्तु जातावेव शक्तिर्लाघवात् व्यक्तेरन्वयबोधस्तु जातौ शक्त्यनुभवादेव इति वदन्ति।
अथ अकारादिपञ्चाशद्वर्णानां प्रत्येकं कुत्र शक्तिर्नतावत्तेष्वेव अभेदेनैव वाच्यवाचकभावाभावात्। किन्तु एकाक्षरकोशोक्तवासुदेवादिष्वेव शक्तिरिति निष्कर्ष:। यदा तु पदशक्ति: पदार्थे गृह्यते, तदैव पदशक्ते: पदार्थानामनुभव:, तदनन्तरशाब्दबोधकाले पदश्रवणं तत: शक्तिस्मरणं, ततञ्च पदार्थस्मरणं, तत: शाब्दबोध इति।
अथ शक्तिगाहकनिरूपणम्
“शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद्व्यवहारतश्च। वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यत: सिद्धपदस्य वृद्धा:॥” तत्रोदाहरणं, व्याकरणेन धातुप्रकृतिप्रत्ययानां शक्तिग्रहो जायते, यथा - ‘पाचक’ इत्यादि। उपमा यथा, - ‘गौरिव गवय:’ इत्यादौ। उपमानेन गवयपदस्य गोसादृश्यविशिष्टे शक्तिग्रह:। कोषेण पर्य्यायपदनानार्थपदानां तत्तदर्थेषु शक्तिग्रहो भवति। आप्तवाक्येन यथा - ‘पिक: कोकिलपदवाच्य’ इत्यादिना कोकिलपदस्य पिके शक्तिग्रह:। आप्तश्च प्रकृतवाक्यार्थगोचरयथार्थज्ञानवान्। व्यवहारेण यथा - प्रयोजकवृद्धेन ‘घटमानये’त्युक्तम्। तत् श्रुत्वा प्रयोज्यवृद्धेन ‘घट आनीत:’ तदवधार्य्य पार्श्वस्थबालो घटानयनरूपकार्य्यं घटमानयेति शब्दप्रयोज्यमित्यवधारयति। तदनन्तरं पटमानयेति वाक्यात् पटानयनरूपं कार्य्यम्, पटमानयेति शब्दप्रयोज्यमित्यवधारयति। तदनन्तरं घटपदं घटे शक्तं, पटपदं पटे शक्तं, घटे द्वितीया विभक्ति: कर्म्मतायाम्, आङ्पूर्वनीपदमानयने, हि पदं कृतौ शक्यम् इति विच्छिन्नशक्तिग्रहो व्यवहारेण जायते। वाक्यशेषाद्यथा- ‘यवमयश्चरुर्भवती’ति श्रुतौ यवपदस्य दीर्घशूकविषये शिष्टानां कङ्गौ च म्लेच्छानां प्रयोगदर्शनात्, यवपदार्थसन्देहे - ‘वसन्ते सर्वशस्यानां जायते पत्रशातनम्। मोदमानाश्च तिष्ठन्ति यवा: कणिशशालिन:।’ इत्यादिवाक्यशेषाद्दीर्घशूक एव शक्तिग्रह:। विवरणादपि यथा विवरणं शब्दान्तरेण तदर्थकथनं, घटो नास्तीत्यस्य कलसो नास्तीत्यनेन घटपदस्य कलसे शक्तिग्रह:। एवं सान्निध्यादपि यथा, - ‘इह सहाकारतरौ मधुरं रौति पिक:’ इत्यत्र प्रसिद्धसहकारसान्निध्यात् पिकपदस्य कोकिले शक्तिग्रहो जायते।
अथ शब्दविचार:
स च द्विविध: - वर्णात्मको ध्वन्यात्मकश्चेति। तत्र वर्णात्मक एव साधुशब्द:।
सोऽपि द्विविध: - वाचको लाक्षणिकश्चेति। वाचकोऽपि चतुर्विध: - यौगिक:, रूढ:, योगरूढः, यौगिकरूढश्चेति भेदात्। यत्र समुदायशक्तिनैरपेक्ष्येणावयवशक्त्यैव पदार्थोपस्थिति:, स एव यौगिक:। यथा पाचकादि:, पापकर्त्तृत्वादिपुरस्कारेण उपस्थिति:। यत्रावयवशक्तिनैरपेक्ष्येण समुदायशक्त्यैव पदार्थोपस्थिति:, स एव रूढ:। यथा- ‘गोमण्डपा’दि:, मण्डपानकर्त्तरि तु मण्डपपदं लाक्षणिकं, देवगृहे तु रूढम्। यत्र तु अवयवशक्तिसापेक्ष्येण समुदायशक्त्या पदार्थोपस्थिति: स एव योगरूढ:। यथा पङ्कजादि:, पङ्कजनिकर्त्तृपद्मत्वमेव शक्यतावच्छेदकम्। यत्र तु केवलावयवशक्त्या कुमुदोपस्थिति: पद्मोपस्थितिर्वा तत्र पङ्कजपदं लाक्षणिकमेव। यत्र तु यौगिकार्थरूढ्यर्थयोर्युगपत् स्वातन्त्र्येणोपस्थिति: स यौगिकरूढ़:। यथा - उद्भिदादि:, तेन युगपदेव उभयशक्त्या उभयोपस्थापकत्वम्। ऊर्ध्दभेदनकर्तृत्वरूपेणावयवशक्त्या तरुगुल्मादि:, समुदायशक्त्या योगविशेषश्च बुध्यते। स वाचक: पुनश्चतुर्विधो भवति द्रव्यगुणक्रियाजातिभेदात्। यथा ‘डित्थ: काष्ठमयो हस्ती डवित्थस्तन्मयो मृग:’ इत्यादौ डित्थडवित्थादिपदं केवलं द्रव्यवाचि, नीलपीतादिपदं गुणवाचि, अध्वगपाचकादिपदं क्रियावाचि, घटपटादिपदं जातिवाचीति॥
अथ चतुर्विधवाचकलक्षणम्
समुदायशक्तिनिरपेक्षावयवशक्तिमत्पदत्वं यौगिकत्वम्, यथा ‘पाचका’दि:। अवयवशक्तिनिरपेक्षसमुदायशक्तिमत्पदत्वं रूढ़त्वम्, यथा ‘गोमण्डपा’दि:। अवयवशक्तिसापेक्षसमुदायशक्तिमत्पदत्वं योगरूढ़त्वम्, यथा ‘पङ्कजा’दि:। स्वतन्त्रोभयशक्तिमत्पदत्वं यौगिकरूढ़त्वम्। यथा - ‘उद्भिदा’दि:। ऊर्द्धभेदनकर्त्तृत्वं योगविशेषवत्त्वञ्च बोध्यते॥
अथ वाचकलक्षणम्
“साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वाचक:।” अस्यार्थ: - सङ्केतितमर्थं य: साक्षादभिधत्ते अव्यवधानेनोपस्थापयति स एव वाचक:। अस्माच्छब्दाद-यमर्थो बोद्धव्य इत्युद्देशनं सङ्केत:। तेन ईश्वरसङ्केताधुनिकसङ्केतयो: सङ्ग्रह:। ईश्वरसङ्केतितो घटादि:, आधुनिकसङ्केतितो मैत्रादि:।
लक्षणया तु योऽर्थ: समुपस्थाप्यते स लाक्षणिक:। तेन साक्षात्तस्योपस्थिति:, मुख्यार्थबाधादिसहकृतत्वात्। वृत्तिर्द्विविधा, शक्तिर्लक्षणा चेति। शक्तिर्निरुपिता, इदानीं लक्षणोच्यते। तथा च “लक्षणात्मकवृत्तिमत्पदत्वं लाक्षणिकत्वम्” सा च लक्षणा यथा -
“मुख्यार्थबाधे तद्योगे, रूढि़तोऽथ प्रयोजनात्।
अन्योऽर्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया॥”
अस्यार्थ:- मुख्यार्थबाधतदयोगयो: सत्त्वात् रूढि़निमित्तं प्रयोजननिमित्तं वा यत् यया वृत्त्याऽन्योऽर्थो लक्ष्यते उपस्थाप्यते, सैव वृत्तिर्लक्षणा। सैव च लक्षणा मुख्यार्थसम्बन्ध एव। स च सम्बन्धो यदा पदस्यान्यपदार्थे गृहीतस्तदैव पदसम्बन्धपदार्थानामनुभवस्तदनन्तरं शाब्दबोधकाले पदश्रवणं वृत्तिस्मरणं, तया च पदार्थस्मरणम्, तत: शाब्दबोध:। सा च क्वचित् रूढि़-हेतुका क्वचित् प्रयोजनहेतुका च। आरोपिता क्रिया आरोपितशब्दव्यापार:। अत्र रूढि़हेतुका यथा - ‘कर्म्मणि कुशल:’ इत्यत्र मुख्यार्थस्य दर्भग्रहणादेव योगे विवेचकत्वादौ च तत्सम्बन्धत्त्वे कार्य्यनिपुणे लक्षणा, रूढि़त: प्रसिद्धत्वात्। यत्र तु पदान्तरसमभिव्याहारं विना केवलकुशलपदं प्रयुज्यते, तत्रावयवशक्त्या कुशग्रहणकर्त्तरि शक्तिरिति बोध्यम्। एवं देवपदसमभिव्याहारं विना यत्र मण्डपपदं प्रयुज्यते, तत्र अवयवशक्त्या च मण्डपानकर्त्तरि शक्तिरिति बोध्यम्। प्रयोजनहेतुका यथा- ‘गङ्गायां घोष: प्रतिवसति’ इत्यत्र मुख्यार्थस्य निवासस्यायोगे सामीप्यात्मकतत्सम्बन्धे सति तीरे लक्षणा शैत्यपावनत्वादिप्रयोजनात् कल्प्यते। ‘गङ्गातटे घोष: प्रतिवसति’ इत्यादौ तु तादृशप्रयोजनानवगतेर्न लक्षणादर: क्रियते। यत्र तु रूढिं प्रयोजनञ्च विना लक्षणा क्रियते, तत्र गौणी लक्षणा। यथा, - ‘अग्निर्म्माणवक:, गौर्वाहीक’ इत्यादौ सादृश्ये लक्षणा। लक्षणाबीजन्तु क्वचिदन्वयानुपपत्ति:, क्वचित्तात्पर्य्यानुपपत्तिश्चेति। यथा - ‘मञ्चा: क्रोशन्ति’ इत्यादौ अचेतनस्य मञ्चस्य क्रोशान्वयानुपपत्या मञ्चपदेन मञ्चस्थपुरुषे लक्षणा।
एवं ‘कुन्ता: प्रविशन्ति’ इत्यत्रान्वयसत्त्वेऽपि तात्पर्य्यानुपपत्त्या कुन्तपदेन कुन्तधरे लक्षणा, इति प्राचीना:। नव्यास्तु सर्वत्र तात्पर्य्यानुपपत्तिरेव लक्षणाया बीजमिति। सा च पुनर्लक्षणा द्विविधा - अजहत्स्वार्था, जहत्स्वार्था च। ‘काकेभ्यो दधि रक्ष्यताम्’ इत्यादावजहत्स्वार्था, तेन काकपदं दध्युपघातकपरं लक्ष्यतावच्छेदकदध्युपघातकत्वेन काककुक्कुरादिसर्वमुपस्थाप्यते काकपदेन। एवं ‘गङ्गायां घोष’ इत्यादौ जहत्स्वार्था एव, तेन गङ्गापदेन तीरमेवोपस्थाप्यते।
अथ वीप्साविचार:
तत्र वीप्सा व्यापकता तदभिधाने द्विर्वचनं साधु। तत्र यत्पदस्य द्विरुक्तिस्तदर्थतावच्छेदकतानिरूपितसमभिव्याहृतपदोपस्थाप्यपदार्थव्यापकता बोध्यते। यथा - ‘गृहे गृहेऽश्वा:’ इत्यादौ गृहपदं गृहैकदेशपरं, तेन गृहत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमश्वेषु बोध्यते। एवं ‘अश्वयुक् कृष्णपक्षे तु श्राद्धं कुर्य्याद्दिने दिने।’ इत्यत्र दिनपदं तिथिपरम्, तेनाश्वयुक् कृष्णापक्षीयतिथित्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं श्राद्धे भासते। एवं ‘अहरह: सन्ध्यामुपासीत’ इत्यत्राह: पदं सन्ध्यावन्दनयोग्यकालत्रयपरं, तथा च तत्तत्कालोपाधिमन्निष्ठाभावाप्रतियोगित्वं सन्ध्यावन्दने भासते॥
अथ शाब्दबोधान्तरम्
‘आत्मन: पुत्रमिच्छति’ इत्याद्यर्थे “सुप आत्मन: क्यच्”1 इत्यादिना क्यच् प्रत्यय: तेन पुत्रीयति इत्यादि सिद्धम्। तथा च पुत्रपदोत्तरक्यच्प्रत्ययस्य आत्मसम्बन्धिपुत्रविषयिणीच्छार्थ:। आख्यातस्याश्रयत्वं, तदुपरि आश्रयत्वं संसर्ग:, तेनात्मसम्बन्धिपुत्रविषयकेच्छाश्रयत्वाश्रय इति शाब्दधी:। एवं ‘भार्य्यीयति, पयस्यति, राजीयति’ इत्यादीनामपि अत्रैवार्थे काम्यच्प्रत्ययोऽपि साधु:। तेन पुत्रकाम्यतीत्यादिप्रयोग:। आत्मसम्बन्धिपुत्रविषयकेच्छाश्रयत्वाश्रय इति धी:। ‘पुत्रमिवाचरति भृत्यम्’ इत्यर्थे “उपमानादाचारे” 2 इत्यादिना क्यच् प्रत्यय:। पुत्रीयति भृत्यमिति सिद्धम्। आचार आचरणं, व्यवहार इति यावत्। तेन भृत्यविषयकपुत्रतुल्यव्यवहारानुकूलकृत्याश्रय इति शाब्दधी:। एवं ‘खर आत्मानं अश्वम् इवाचरति’ इत्यर्थे “सर्वप्रातिपदिकेभ्य: क्यङो लुक्” इत्यनेन क्यङ् प्रत्ययलोप:। तेनाश्वति खर इति प्रयोग: अश्वतुल्यव्यवहारानुकूलकृत्याश्रय खर इति शाब्दधी:। एवं ‘प्रभवति भृत्य:’ ‘रिपवति मित्रम्’ इत्यादि सिद्धम्। अधिकरणवृत्त्यात्रापि आचारे क्यच् प्रत्यय:। प्रासादीयति कुट्यां, पर्य्यङ्कीयति मञ्चके, तेन कुटीरविषयकप्रासादाधिकरणक-व्यवहारानुकूलकृत्याश्रय इति शाब्दधी:। ‘वृद्ध: शिशुमिवाचरति’ इत्यर्थे “कर्त्तु: क्यङ् सलोपश्च” 1 इति क्यङ् प्रत्यय:। तेन शिशूयते वृद्ध:, शिशुतुल्यव्यवहारानुकूलकृत्याश्रय इति बोध:। एवं ‘एरण्डोऽपि द्रुमायते’ ‘काकोऽपि मयूरायते’ इत्यादि सिद्धम्॥
अथ एकादिसङ्ख्याशब्दविचार:
‘एकं दशं शतञ्चैव सहस्रमयुतन्तथा।
लक्षञ्च नियुतञ्चैव कोटिरर्बुदमेव च॥
बृन्दं खर्वी निखर्वश्च शङ्खपद्मौ च सागर:।
अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथोत्तरम्॥’
तत्र एकाद्यष्टादशान्ता: सङ्ख्याशब्दा: सङ्ख्याविशिष्टे एव शक्ता:, केवलसङ्ख्योपस्थिति: लक्षणयैवेति बोध्या। ऊनविंशत्यादेस्तूभयत्रैव। तत्र विशेष: - यत्र सामानाधिकरण्येनान्वयस्तत्र सङ्ख्याविशिष्टे, यत्र तु वैयधिकरण्येन तत्र सङ्ख्यायामेव। ऊनविंशतिर्ब्राह्मणा:, ब्राह्मणानाम् ऊनविंशतिरिति बोध्यम्। तत्रापि विशेष: - एषां विंशत्यादिशब्दानाम् एकवचनान्ततैव।
यत्र तु एकादादीनां द्वित्वं बहुत्वं तात्पर्य्यविषयं, तत्र द्विवचनादिकमपि प्रयोज्यम्। एवम् एकादिचतुरन्ता वाच्यलिङ्गतया त्रिषु वर्त्तन्ते। पञ्चादयस्तु सर्वदा अजहल्लिङ्गा:। एवं ‘एको ब्राह्मण:’ इत्यत्र जातिपुरस्कारेण ब्राह्मणमात्रोपस्थितमेकपदं सार्थकम्। ‘द्वौ ब्राह्मणौ’ इत्यत्र द्विपदं द्रुतबोधाय सार्थकम्। ‘त्रयो ब्राह्मणा:’ ‘चत्वारो ब्राह्मणा’ ‘पञ्च षड्वा’ इत्यादौ तु बहुवचनेन बहुत्वावच्छिन्नब्राह्मणोपस्थितौ, त्रिचतुरादीनां तु तद्व्यावर्त्तकतया सार्थकत्वमेवेति निष्कर्ष:॥
आलोक्य विविधग्रन्थं विचार्य्य च पुन: पुन:।
कृतेयं जयकृष्णेन शब्दार्थसारमञ्जरी॥
इति शाब्दिकजयकृष्णविरचिता शब्दार्थसारमञ्जरी समाप्ता॥ ऊँ तत्सत्।