सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/अरिष्टम्

विकिस्रोतः तः
अरिष्टम्.
अरिष्टम्

१६
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥ ८७५ ॥ ऋ. ९.८३.१
तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् ।
अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा ॥ ८७६ ॥
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः ।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥ ८७७ ॥



८. अरिष्टम् ।। प्रजापतिः । जगती। पवमानस्सोमः।।
हाह । होइया । पावी । त्रन्ताइ । वितताऽ३म्ब्र । ह्मणस्पाऽ२३४ताइ ।। प्राभूः । गात्रा । णीऽवेपरियाइ । षिवाइश्वाऽ२३ताः ।।
आता । प्तता । नूऽ३र्नतदा । मोअश्नूऽ२३४ताइ ।। शार्ता । सआइत् । वहन्तः । सम् । तदाशाऽ२३४ता ।। श्रीः ।। तापोः । पवाइ।। । त्राऽ३म्वि- ततम् । दिवस्पाऽ२३४दाइ ।। आर्चा । तोआ । स्याऽ३तन्तवः । वियस्थाऽ२३४इरान् ।। आवा । तिया । स्याऽ३पविता । रमाशाऽ२३४वाः ।। दाइवाः । पृष्ठाम् । अधिरो । ह । तितेजाऽ२३४सा ।। श्रीः ।। आरू । रुचात् । उषसᳲपृ । श्निरग्राऽ२३४याः ।। ऊक्षा। मिमाइ । तीऽ३भुवने । षुवाजाऽ२३४यूः ।। माया । विनो । ममिरेअ । स्यमायाऽ२३४या ।। नार्चा । क्षसाः । पितरः । ग । भमादाऽ२३४धूः । होऽ२३४५इ ।।डा।। दी. १७.उ.३. मा.३५.जु. ।।८।।


[सम्पाद्यताम्]

टिप्पणी

दशापवित्रमवधूय पवित्रं त (सा० ८७५-७) इति तृचेन उदग्दशमवाङ्नाभिः वितनुयुः । - आर्षेयकल्पः उपोद्घातः पृ. २४

द्वादशाहस्य तृतीयमहः -- पवित्रं त इत्यरिष्टमित्यार्भवः - आर्षेयकल्पः उपोद्घातः पृ.७०

गवामयनस्य पृष्ठषडहस्य तृतीयमहः - पवित्रं त इत्यरिष्टमन्त्यम् - आर्षेयकल्पः अध्यायः १, पृ. ११२

अरिष्टं भवति। देवाश्च वा असुराश्चास्पर्धन्त यं देवानामघ्नन्न स समभवद्यमसुराणां सं सोऽभवत् ते देवास्तपोऽतप्यन्त त एतदरिष्टमपश्यंस्ततोऽयं देवानामघ्नत् सं सोऽभवद्यमसुराणां न स समभवदनेनारिषामेति तदरिष्टस्यारिष्टत्वमरिष्टया एवारिष्टमन्ततः क्रियते - पञ्चविंशब्रा. १२.५.२२