सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/अष्टेडपदस्तोभः

विकिस्रोतः तः
अष्टेडपदस्तोभः
अष्टेडपदस्तोभः

पवस्व वाजसातये पवित्रे धारया सुतः।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः॥ १०१६
त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः।
वत्सं जातं न मातरः पवमान विधर्मणि॥ १०१७
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे।
प्रति द्रापिममुञ्चथाः पवमान महित्वना॥ १०१८



६. अष्टेडपदस्तोभः ।। प्रजापतिः । अनुष्टुप् । पवमानस्सोमः ।।
ईडा ।। पवस्ववाजसातये । ईडा (द्विः) ।। पवित्रेधारयासुतः । ईडा (द्विः) ।। इन्द्रायसोमविष्णवे । ईडा (द्विः) ।। देवभ्योमधुमत्तराऽ२३४५ः । ईडा ।।श्रीः।। ईडा । त्वाꣲरिहन्तिधीतयः । ।ईडा (द्विः)।। हरिंपवित्रेअद्रुहः । ईडा (द्विः) ।। वत्संजातन्नमातरः । ईडा (द्विः) ।। पवमानविधर्मणीऽ२३४५ । ईडा ।।श्रीः।। ईडा । त्वन्द्याञ्चमहिव्रत । ईडा (द्विः) ।। पृथिवीञ्चातिजभ्रिषे । ईडा (द्विः)।। प्रतिद्रापिममुञ्चथाः । ईडा(द्विः)।। पवमानमहित्वनाऽ२३४५ । पवमानमहित्वनाऽ१ । ईडा ।।

दी. ७४. उत्. ४. मा. ७. धे. ।१६।