सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/गतनिधनबाभ्रवम्

विकिस्रोतः तः
गतनिधनबाभ्रवम्.
गतनिधनबाभ्रवम्.

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।


१८. गतनिधनबाभ्रवम् ।। बभ्रुःकौम्भ्यः । गायत्री। पवमानस्सोमः॥
पवमाना ॥ स्यजिघ्नाऽ२३ताः । हरेश्चन्द्राः। असृक्षाऽ२३ता ॥ जाइराऽ३हाइ । आजाऽ३इहाइ ॥ रशोऽ३होइ । चाऽ२इषाऽ२३४औहोवा ।। श्रीः॥ पवमानाः ॥ रथीताऽ२३माः । शुभ्रेभिश्शु। भ्रशस्ताऽ२३माः ॥ हाराऽ३इहाइ । चान्द्रोऽ३हाइ ॥ मरूऽ३द्धोइ । गाऽ२णाऽ२३४औहोवा ॥ श्रीः ॥ पवमाना ॥ वियश्नूऽ२३हाइ । रश्मिभिर्वा । जसाताऽ२३माः ॥ दाधाऽ३द्धाइ । स्तोत्रेऽ३हाइ ॥ सुवाऽ३ होइ । राऽ२याऽ२३४औहोवा ॥ ग्वाऽ२३४भीः ॥
.
दी. १५. उत् . ६. मा. २४. पी. ॥१७८।।

९.६६.२५ पवमानस्य जङ्घ्नतो इति

अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः १.९.२०


[सम्पाद्यताम्]

टिप्पणी

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। .....गतनिधनं वाभ्रवं भवति गत्यै। बभ्रुर्वा एतेन कौम्भ्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः। - तांब्रा. १५.३.१३

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. ३.२४५

अथ बाभ्रवं ग्वाभिर्निधनं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। बभ्रुर् वै कुम्भ्यो ऽकामयत पशुभिस् सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। स ग्वाभिर् इत्य् एव निधनम् उपैत्। ततो वै स पशुभिर् असूयत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। यद् उ बभ्रुः कुम्भ्यो ऽपश्यत् तस्माद् बाभ्रवम् इत्य् आख्यायते। - जै.ब्रा. ३.२५०