सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/औशनम्

विकिस्रोतः तः
Jump to navigation Jump to search
औशनम्
औशनम्

प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियं ।
अग्ने रथं न वेद्यं ॥ १२४४ ॥ ऋ. ८.८४.१
कविमिव प्रशंस्यं यं देवास इति द्विता ।
नि मर्त्येष्वादधुः ॥ १२४५ ॥
त्वं यविष्ठ दाशुषो नॄँ: पाहि शृणुही गिरः ।
रक्षा तोकमुत त्मना ॥ १२४६ ॥

[सम्पाद्यताम्]

टिप्पणी

प्रेष्ठं वो अतिथिम् इत्यातिथ्यस्यैव तद्रूपं क्रियते ..... औशनं भवति। उशना वै काव्योऽकामयत यावानितरेषां काव्यानां लोकस्तावन्तं स्पृणुयामिति स तपोऽतप्यत स एतदौशनमपश्यत् तेन तावन्तं लोकमस्पृणोद्यावानितरेषां काव्यानामासीत् तद्वाव स तर्ह्यकामयत कामसनि सामौशनं काममेवैतेनावरुन्धे। - तांब्रा १४.१२.४

अथौशनम्। उशना वै काव्यो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत। स एतत् सामापश्यत् । तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुतैतं रोमण्वन्तम्। ते हैते काव्याः। रोमण्वत्य् अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एतेन तुष्टुवानः। अग्निर् वै देवेष्व् अवसत्। तं देवा नाप्रीणन्। सो ऽप्रीयमाण उशनसं काव्यम् आगच्छत्। तम् अब्रवीद् ऋषे प्रीणीहि मा, ऽप्रीतो वा अस्मीति। तम् अकामयत - प्रीणीयाम् एनम् इति। स एतत् सामापश्यत्। तेनैनम् अप्रीणात्। प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम्। अग्ने रथं न वेद्यम्॥ इत्य् एवैनं प्रियतमम् अतिथिम् अकुरुत। अप्रीत इव ह वा एष एतर्हि भवति यज्ञम् ऊहिवान्। तम् एतद् अत्र प्रीणन्ति। स प्रीतो यद् अत्र यज्ञस्य परिशिष्टम् भवति तद् वहति। यद् ऊशना काव्यो ऽपश्यत् तस्माद् औशनम् इत्य् आख्यायते। - जैब्रा ३.२३२


अथातिथ्यायां प्रधानयागकाले प्रेष्ठं वः ( सा० १२४४-४६) इत्यौशनं तृचे प्रस्तोता गायेत् । आर्षेयकल्पः उपोद्घातः पृ. ७