सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/रोहितकूलीयम्

विकिस्रोतः तः
रोहितकूलीयम्
रोहितकूलीयम्.

वृषा पवस्व धारया मरुत्वते च मत्सरः ।
विश्वा दधान ओजसा ।। ८०३ ।। ऋ. ९.६५.१०
तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशम् ।
हिन्वे वाजेषु वाजिनं ।। ८०४ ।।
अया चित्तो विपानया हरिः पवस्व धारया ।
युजं वाजेषु चोदय ।। ८०५ ।।

[सम्पाद्यताम्]

टिप्पणी

अथ रोहितकूलीयम्। विश्वामित्रो वै भरतानाम् अनस्वत्या महावृषान् अयात्। तद् ध गंगायै वा यमुनायै वा बृहत् प्रतिकूलम् आस। ते होचुर् महावृषाः - कौ स्वित् ताव् एतर्ह्य् अनड्वाहौ, याव् इदम् इयद् बृहत् प्रतिकूलम् उद्वहेताम् इति। स होवाच विश्वामित्रस् - तौ त्वे मम रोहिताव् इति। रोहितौ हास्यानड्वाहाव् आसतुः। ते होचुर् महावृषास् - ते वा अंशम् अवहरावहै - यदि तवैतद् अनड्वाहाव् उद्वहातो, वस्न्य एव त्वम् अनांसि पूरयासै। यद्य् उ नोद्वहातो, वस्न्या उ वयं त्वां जयेमेति। तथेति। ते हांशम् अवजह्रिरे। तौ ह यवाचितस्य वा व्रीह्याचितस्य वा धुरि युयुजुः। सो ऽकामयत विश्वामित्र - उद् इमम् आजिं जयेयम् इति। स एते सामनी अपश्यत्। ताभ्याम् एनाव् अनुपरिक्रामम् अभ्यसेधत्। ताव् उदपारयेताम्। ताव् उदजयेताम्। ततो वै स तम् आजिम् उदजयत्। प्रतिकूलम् इवैते यन्ति ये षष्ठाद् अह्नश् छन्दोमान् अभ्युत्क्रामन्ति। तद् यद् अत्र रोहितकूलीयं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। यद् उ कूले रोहिताभ्याम् उदजयत्, तस्माद् रोहितकूलीये इत्य् आख्यायेते। - जैब्रा. ३.१८३

रोहितकूलीयं भवत्याजिजित्यायै। एतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूलआजिमजयत्। विश्वामित्रो भरतानां मनस्वत्यायात् सोऽदन्तिभिर्नाम जनतयांशं प्रास्यतेमाम्मां यूयं वस्निकां जयायेमानि मह्यं यूयं पूरयाथ यदीमाविदं रोहितावश्माचितं कूलमुद्वहात इति स एते सामनी अपश्यत् ताभ्यां युक्त्वा प्रासेधत् स उद्जयत्। आजिर्वा एष प्रततो यद्द्वादशाहस्तस्यैते उज्जित्यै - तांब्रा १४.३