सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/ऐडꣳसौपर्णम्

विकिस्रोतः तः
ऐडं सौपर्णम्
ऐडं-सौपर्णम्.

वृषा पवस्व धारया मरुत्वते च मत्सरः ।
विश्वा दधान ओजसा ।। ८०३ ।। ऋ. ९.६५.१०
तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशम् ।
हिन्वे वाजेषु वाजिनं ।। ८०४ ।।
अया चित्तो विपानया हरिः पवस्व धारया ।
युजं वाजेषु चोदय ।। ८०५ ।।

[सम्पाद्यताम्]

टिप्पणी

अथ सौपर्णम् उक्तब्राह्मणम्। अतिक्रान्तो वा एतर्हि यज्ञो भवति सप्तमे ऽहन्। तद् यद् अत्र सौपर्णं भवति यज्ञस्यैवारम्भाय। तद् ऐळं भवति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै॥जैब्रा ३.१८२