सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/मधुश्चुन्निधनम्

विकिस्रोतः तः
मधुश्चुन्निधनम्
मधुश्चुन्निधनम्

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ।। ११०१ ।। ऋग्वेदः ९.१०१.१०
ते पूतासो विपश्चितः सोमासो दध्याशिरः ।
सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते ।। ११०२ ।।
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
इषमस्मभ्यमभितः समस्वरन्वसुविदः ।। ११०३ ।।



१५. मधुश्चुन्निधनम् ।। प्रजापतिः । अनुष्टुप्। पवमानस्सोमः ।।

सोमाᳲपवन्तइन्दवाऽ३ए ।। अस्मभ्यङ्गाऽ३तूवित्तमाऽ३ः । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ । मित्रास्वानाऽ३आरेपसाऽ३ः । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ ।। सूवाधियाऽ३ः । हाऽ३हाइ। औऽ३होऽ३वा । आहहीऽ२ ।। सुवः । वाऽ२इदाऽ२३४औहोवा ।। श्रीः ।। तेपूतासोविपश्चिताऽ३ए ।। सोमासोदऽ३धाआशिराऽ३ः । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ । सूरासोनऽ३दार्शतासाऽ३ः । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ ।। जाइगत्नवाऽ३ः । ।।हाऽ३हाइ । औऽ३होऽ३वा ।। आइहीऽ२ ।। ध्रुवाः । घाऽ२र्ताऽ२३४औहोवा ।।श्रीः।। सुष्वाणासोवियद्रिभाऽ३इरे ।। चितानागोऽ३राधित्वचाऽ३ । होऽ३हा । औऽ३होऽ३वा । आइहीऽ२ । इषमस्मऽ३भ्यामभिताऽ३ः । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ ।। सामस्वराऽ३न् । हाऽ३हाइ । औऽ३होऽ३वा । आइहीऽ२ ।। वसु । वाऽ२इदाऽ२३४औहोवा । मधुश्चुताऽ२३४५ः ।।

दी. ३३. उत् ४. मा. ३५. ढु. ।।११५।।

[सम्पाद्यताम्]

टिप्पणी

घृतश्चुन्निधनम् साम

मधुश्चुन्निधनम् (पुरोजितीवो, ८.२.१५) ८. मधुश्चुन्निधनम्(अयंपूषा, २०.२.१८)

मधुश्चिन्निधनोपरि टिप्पणी

मधुच्छन्दा उपरि टिप्पणी

षष्ठमहः -- प्रजापतेर्वा एतौ स्तनौ यद् घृतश्चुन्निधनं च मधुश्चुन्निधनं च यज्ञो वै प्रजापतिस्तमेताभ्यां दुग्धे यं कामं कामयते , तं दुग्धे – तां १३.११.१८

मधु उपरि संदर्भाः