सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/ऐध्मवाहम्

विकिस्रोतः तः
ऐध्मवाहम्.
ऐध्मवाहम्

आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ।। १३३८ ।। ऋ. ८.४५.१
बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः ।
येषामिन्द्रो युवा सखा ।। १३३९ ।।
अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
येषामिन्द्रो युवा सखा ।। १३४० ।।

[सम्पाद्यताम्]

टिप्पणी

ऐध्मवाहानि त्रीणि (ग्रामगेयः)

ऐध्मवाहं भवति। आग्नेय्यैन्द्रीषु स्तुवन्ति ब्रह्म चैव तत् क्षत्रं च सयुजीकरोति ब्रह्मैव क्षत्रस्य पुरस्तान्निदधाति ब्राह्मणे क्षत्रं च विशं चानुगे करोति - पञ्च.ब्रा १५.६.२

अथेध्मवाहम्। ऋषयो वै स्वर्गं लोकं यन्त इध्मवाहं समिद्धारं परेतम् अरण्य एकम् अजहुः। सो ऽकामयतानूत्पतेयं स्वर्गं लोकं प्रतिसत्रिभिस् संगच्छेयेति। स ऐक्षत - हन्त प्रति सत्रिण एव स्तवानि। त एव मा स्तुतास् तथा करिष्यन्ति यथैषाम् उपश्रोष्यामीति। स एतं तृचम् अपश्यत्। तेनैनान् अस्तौद् - आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक्। येषाम् इन्द्रो युवा सखा॥ बृहन्न् इद् इध्म एषां भूरि शस्तं पृथु स्वरुः। येषाम् इन्द्रो युवा सखा॥ अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः। येषाम् इन्द्रो युवा सखा॥ इति। ते ऽस्मै स्तुतास् तथाकुर्वन् यथैषाम् उपाश्रोषत्। तेषां ह कशानां वदन्तीनाम् उपशुश्राव। स एतत् सामापश्यत्। तेनास्तुत॥जैब्रा ३.२७६

इहैवा शृण्व एषां कशा हस्तेषु याद् वादान्। नि यामैश् चित्राम् ऋञ्जताइ॥ नि यामैश् चित्रम् आर्ञ्जातायि एहि या औहो तम् एहि यौ हो एहि यौ हो वा एहीत्य् एव स्वर्गे लोके उपाह्वयन्त। ततो वै स प्रतिसत्रिभिस् समगच्छत। स एतेनैव साम्ना स्तुत्वा स्वर्गं लोकम् आरोहत्। आ घा ये अग्निम् इन्धातायि स्तृणन्ति बर्हिर् आनुषक्। येषाम् इन्द्रो युवा इहा मवावुवो वा साखो हा॥ इत्य् एव स्वर्गं लोकम् अन्वारोहत्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् व् इध्मवाहो ऽपश्यत् तस्माद् ऐध्मवाहम् इत्य् आख्यायते। जैब्रा ३.२७७