सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/पृष्ठम्

विकिस्रोतः तः
पृष्ठम्.
पृष्ठम्.

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।

[सम्पाद्यताम्]

टिप्पणी

परीतो षिञ्चता सुतम्"इति परिवत्यो भवन्त्यन्तो वै नवममहस्तस्यैताः पर्याप्त्यै.......पृष्ठं भवति। पृष्ठं वा एतदह्नां यन्नवमं पृष्ठ एव तत् पृष्ठेन स्तुवते प्रतिष्ठायै - पञ्च.ब्रा १५.३.१८

परीतो षिंचता सुतम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्त्यो ह्य् एतद् अहः। सोमो य उत्तमं हविर् इत्य् उत्तमं ह्य् एतद् धविः क्रियते यच् छन्दोमाः। दधन्वां यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः॥ नूनं पुनानो ऽविभिः परि स्रवादब्धस् सुरभिन्तरः। सुते चित् त्वाप्सु मदामो अन्धसा। इत्य् अन्ध्स्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। श्रीणन्तो गोभिर् उत्तरम् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। परि स्वानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षण इति चतुर्ऋचं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। तासु पृष्ठम्। पृष्ठेन वै देवाः पृष्ठं अभवन्। पृष्ठम् असामेति सत्रम् आसते। पृष्ठम् एव भवन्ति। देवा वा अकामयन्त पृष्ठं स्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते पृष्ठम् अभवन्। तत् पृष्ठम् वा अयम् अग्निर् अस्य लोकस्य, पृष्ठम् अयं वायुर् अन्तरिक्षस्य, पृष्ठम् असाव् आदित्यो दिवः। तत् पृष्ठम् इति वै प्रशंसन्त्य् अत्र प्रतिष्ठापयन्ति। तच् छ्रीर् वै पृष्ठं, वर्ष्म वै पृष्ठम्। अश्नुते श्रियं, वर्ष्म भवति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूप समृद्धम्॥जैब्रा ३.२५२