सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः १/वारवन्तीयम्

विकिस्रोतः तः
वारवन्तीयम्

१४
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये।
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं॥६८७
न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः।
य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यं॥६८८॥








१५. वारवन्तीयम् ।। इन्द्रः । बृहती । इन्द्रः ।।

तरोभिर्वाऔहोहाइ ।। वाइदद्वाऽ२३४सूम् । इन्द्रꣲसबाधऊतायोऽ२३४हाइ । बृहद्गायन्तस्सुतसोमेअध्वाऽ३४ । औहोवा । इहाऽ२३४हाइ । उहुवाऽ२३४राइ । हुवेभ । रान्नकाराऽ३४ । औहोवा ।। इहाऽ२३४हाइ । औहोऽ३१२३४ । णाम् । एहियाऽ६हा ।। श्रीः ।। हुवेभराऔहोहाइ ।। नाकाराऽ२३४इणाम् । हुवेभरन्नकाराइणोऽ२३४हाइ । नयन्दुध्रावरन्तेनस्थिरामूऽ३४ । औहावा । इहाऽ२३४हाइ । उहुवाऽ२३४राः ।। मदेषु । शाइप्रमन्धाऽ३४ । औहोवा ।। इहाऽ२३४हाइ । औहोऽ३१२३४ । साः । एहियाऽ६हा ।।श्रीः।। मदेषुशाऔहोहाइ ।। प्रामन्धाऽ२३४साः ।। मदेषुशिप्रमन्धासोऽ२३४हाइ । यआदृत्याशशमानायसुन्वाऽ३४ । औहोवा । इहाऽ२३४हाइ । उहुवाऽ२३४ताइ ।। दाताज । राइत्रउक्थाऽ३४ । औहावा ।। इहाऽ२३४हाइ । औहोऽ३१२३४ । याम् । एहियाऽ६हा ।। होऽ५इ ।।डा।।

दी. ४७. उत्. ९ मा. ३४ झी. ।।३८९।।

[सम्पाद्यताम्]

टिप्पणी

अप्तोर्यामे चतुर्थं पृष्ठस्तोत्रम् - रथन्तरपृष्ठं चेत् कालेयस्य ऋक्षु वारवन्तीयम् गेयम् (श्रौतकोशः, द्वितीयो ग्रन्थः, पृ. २६५) (अप्तोर्यामो द्विविधः सर्वपृष्ठाप्तोर्यामो ज्योतिरप्तोर्यामश्च। सर्वपृष्ठाप्तोर्यामः पुनर्द्विविधो बृहत्पृष्ठो रथन्तरपृष्ठश्च।(यजमानः ब्राह्मणं चेत्, ज्योतिरप्तोर्यामस्य अनुष्ठानं भविष्यति) )

अप्तोर्यामविधिः - प्रजापतिः पशूनसृजत । तेऽस्मात्सृष्टाः पराञ्च आयन् । तानग्निष्टोमेन नाप्नोत् । तानुक्थ्येन नाप्नोत् । तान्षोडशिना नाप्नोत् । तान्रात्रिया नाप्नोत् । तान्त्संधिना नाप्नोत् । सोऽग्निमब्रवीत् । इमान्म ईप्सेति । तानग्निस्त्रिवृता स्तोमेन नाप्नोत् १। स इन्द्रमब्रवीत् । इमान्म ईप्सेति । तानिन्द्रः पञ्चदशेन स्तोमेन नाप्नोत् । स विश्वान्देवानब्रवीत् । इमान्म ईप्सतेति । तान्विश्वे देवाः सप्तदशेन स्तोमेन नाप्नुवन् । स विष्णुमब्रवीत् । इमान्म ईप्सेति । तान्विष्णुरेकविꣳशेन स्तोमेनाप्नोत् । वारवन्तीयेनावारयत - तैब्रा २.७.१४.१