सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १/रौद्रः(पुरोजिती)

विकिस्रोतः तः
Jump to navigation Jump to search
रौद्रः.
रौद्रः

पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥ ५४५ ॥ ऋ. ९.१०१.१
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे |
उग्रं शर्म महि श्रवः || ४६७ || ऋ. ९.६१.१०


( २९।१) ।। अतीषंगानि त्रीणि , इन्द्रस्य त्रयोऽतीषंगाः, अथापरं रौद्रः, रुद्र इन्द्रोनुष्टुप् गायत्री सोमः ।।

एपुरोजिती ।। वोअन्धसस्सुतायमादयाऽ२इत्नवाइ । इडा ।। ऊच्चा ।। तेजातमाऽ२न्धसाः । अथा ।। दाइवी ।। सद्भूमियाऽ२ददाइ । अथा ।। ऊग्रम् ।। शर्ममहाऽ२इश्रवाः । अथा । अपश्वानꣳश्नथाऽइष्टाऽ३ना ।। सखायोदीर्घजाऽ२३होइ ।। ह्वायमाऽ३१उवाऽ२३ ।। इट्स्थिइडाऽ२३४५ ।।

(दी०१२ । प० १६ । मा० १३)२२ (चि । ४९)



[सम्पाद्यताम्]

टिप्पणी

रैवतो वैराजः शाकरः इतीन्द्रस्य त्रयोऽतीषङ्गाः ॥४॥ अथापरम् । रौद्रो वासवः पार्जन्यो वा वैश्वदेवो वा ॥आर्षेयब्राह्मणम् ६.१.४.५

यथा सायणभाष्ये कथितमस्ति, त्रयाः सामाः सामद्वयोः मेलनेन निर्मिताः सन्ति। अपि च, पर्जन्यस्य अस्तित्वं एकलं नास्ति। यत्र क्वापि रौद्रता अस्ति, तस्याः निवारणार्थं पर्जन्यः अपेक्षितमस्ति। मध्यमस्य साम्नः किं प्रयोजनमस्ति, न ज्ञातम्।