सर्वसिद्धान्तसङ्ग्रहः/प्रकरणम् २ ( लोकायतिकपक्षप्रकरणम्)

विकिस्रोतः तः
← प्रकरणम् १ (उपोद्घातप्रकरणम्) सर्वसिद्धान्तसङ्ग्रहः
प्रकरणम् २ ( लोकायतिकपक्षप्रकरणम्)
[[लेखकः :|]]
प्रकरणम् ३ (आर्हतपक्षप्रकरणम्) →

(२)
अथ लोकायतिकपक्षप्रकरणं

लोकायतिकपक्षे तु तत्त्वं भूतचतुष्टयम् ।
पृथिव्यापस्तथा तेजो वायुरित्येव नापरम् ॥१॥
प्रत्यक्षगम्यमेवास्ति नास्त्यदृष्टमदृष्टतः ।
अदृष्टवादिभिश्चापि नादृष्टं दृष्टमुच्यते ॥२॥
क्वापि दृष्टमदृष्टं चेददृष्टं ब्रुवते कथम् ।
नित्यादृष्टं क्? मत्स्यात्शशशृङ्गादिभिः समम् ॥३॥
न कल्प्यो सुखदुःखाभ्यां धर्माधर्मौ परैरिह ।
स्वभावेन सुखी दुःखी जनोऽन्यत्रैव कारणम् ॥४॥
शिखिनश्चित्रयेत्को वा कोकिलान्कः प्रकूजयेत।
स्वभावव्यतिरेकेण विद्यते नात्र कारणम् ॥५॥
स्थूलोऽहं तरुणो वृद्धो युवेत्यादिविशेषणैः ।
विशिष्टो देह एवात्मा न ततोऽन्यो विलक्षणः ॥६॥
जडभूतविकारेषु चैतन्यं यत्तु दृश्यते ।
ताम्बूलपूगचूर्णानां योगाद्राग इवोत्थितम् ॥७॥
इहलोकात्परो नान्यः स्वर्गोऽस्ति नरको न वा ।
शिवलोकादयो मूढैः कल्प्यन्तेऽन्यैः प्रतारकैः ॥८॥
स्वर्गानुभूतिर्मृष्टाष्टिर्द्व्यष्टवर्षवधूगमः ।
सूक्ष्मवस्त्रसुगन्धस्रक्चन्दनादिनिषेवणम् ॥९॥
नरकानुभवो वैरिशस्त्रव्याध्याद्युपद्रवः ।
मोक्षस्तु मरणं तच्च प्राणवायुनिवर्तनम् ॥१०॥
अतस्तदर्थं नायासं कर्तुमर्हति पण्डितः ।
तपोभिरुपवासाद्यैर्मूढ एव प्रशुष्यति ॥११॥
पातिव्रत्यादिसङ्केतो बुद्धिमद्दुर्बलैः कृतः ।
सुवर्णभूमिदानादि मृष्टामन्त्रणभोजनम् ।
क्षुत्क्षामकुक्षिभिर्लोकैर्दरिद्रैरुपकल्पितम् ॥१२॥
देवालयप्रयासत्रकूपारामादिकर्मणाम् ।
प्रशंसा कुर्वते नित्यं पान्था एव न चापरे ॥१३॥
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥१४॥
कृषिगोरक्षवाणिज्यदण्डनीत्यादिभिर्बुधः ।
दृष्टैरेव सदोपायैर्भोगाननुभवेद्भुवि ॥१५॥